श्रीउच्छिष्टगणपतिसहस्रनामस्तोत्रम्
श्रीगणेशाय नमः ।
श्रीभैरव उवाच ।
शृणु देवि रहस्यं मे यत्पुरा सूचितं मया ।
तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ १॥
श्रीदेव्युवाच ।
ॐ भगवन्गणनाथस्य उच्छिष्टस्य महात्मनः ।
श्रोतुं नाम सहस्रं मे हृदयं प्रोत्सुकायते ॥ २॥
श्रीभैरव उवाच ।
प्राङ्मुखे त्रिपुरानाथे जाता विघ्नकुलाः शिवे ।
मोहने मुच्यते चेतस्तैः सर्वैर्बलदर्पितैः ॥ ३॥
तदा प्रभुं गणाध्यक्षं स्तुत्वा नामसहस्रकैः ।
विघ्ना दूरात्पलायन्ते कालरुद्रादिव प्रजाः ॥ ४॥
तस्यानुग्रहतो देवि जातोऽहं त्रिपुरान्तकः ।
तमद्यापि गणेशानं स्तौमि नामसहस्रकैः ॥ ५॥
तदद्य तव भक्त्याहं साधकानां हिताय च ।
महागणपतेर्वक्ष्ये दिव्यं नामसहस्रकम् ॥ ६॥
ॐ अस्य श्रीउच्छिष्टगणेशसहस्रनामस्तोत्रमन्त्रस्य श्रीभैरव ऋषिः ।
गायत्री छन्दः । श्रीमहागणपतिर्देवता ।
गं बीजम् । ह्रीं शक्तिः । कुरुकुरु कीलकम् ।
मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥
ॐ ह्रीं श्रीं क्लीं गणाध्यक्षो ग्लौं गँ गणपतिर्गुणी ।
गुणाढ्यो निर्गुणो गोप्ता गजवक्त्रो विभावसुः ॥ ७॥
विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी ।
सदाशान्तो जगत्त्राता विश्वावर्तो विभाकरः ॥ ८॥
विश्रम्भी विजयो वैद्यो वारान्निधिरनुत्तमः ।
अणिमाविभवः श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः ॥ ९॥
सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधिः ।
पतिः पीतविभूषाङ्को रक्ताक्षो लोहिताम्बरः ॥ १०॥
विरूपाक्षो विमानस्थो विनीतः सदस्यः सुखी । (विनयः सात्वतः)
सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः ॥ ११॥
नन्दीश्वरो जयानन्दी वन्द्यः स्तुत्यो विचक्षणः ।
दैत्यमर्द्दी सदाक्षीबो मदिरारुणलोचनः ॥ १२॥
सारात्मा विश्वसारश्च विश्वसारो विलेपनः ।
परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो विकत्थनः ॥ १३॥
विश्वेश्वरो वीरहर्ता सौभाग्यो भाग्यवर्द्धनः ।
भृङ्गिरिटी भृङ्गमाली भृङ्गकूजितनादितः ॥ १४॥
विनर्तको विनीतोऽपि विनतानन्दनार्चितः ।
वैनतेयो विनम्राङ्गो विश्वनायकनायकः ॥ १५॥
विराटको विराटश्च विदग्धो विधुरात्मभूः ।
पुष्पदन्तः पुष्पहारी पुष्पमालाविभूषणः ॥ १६॥
पुष्पेषुमथनः पुष्टो विवर्तः कर्तरीकरः ।
अन्त्योऽन्तकश्चित्तगणाश्चित्तचिन्तापहारकः ॥ १७॥
अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः ।
लोहितो लिपितो लुप्तो लोहिताक्षो विलोभकः ॥ १८॥
लब्धाशयो लोभरतो लोभदोऽलङ्घ्यगर्धकः ।
सुन्दरः सुन्दरीपुत्रः समस्तासुरघातकः ॥ १९॥
नूपुराढ्यो विभवेन्द्रो नरनारायणो रविः ।
विचारो वान्तदो वाग्मी वितर्की विजयीश्वरः ॥ २०॥
सुप्तो बुद्धः सदारूपः सुखदः सुखसेवितः ।
विकर्तनो वियच्चारी विनटो नटनर्तकः ॥ २१॥
नटो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः ।
गङ्गाजलपानप्रियो गङ्गातीरविहारकृत् ॥ २२॥
गङ्गाप्रियो गङ्गजश्च वाहनादिपुरःसरः ।
गन्धमादनसंवासो गन्धमादनकेलिकृत् ॥ २३॥
गन्धानुलिप्तपूर्वाङ्गः सर्वदेवस्मरः सदा ।
गणगन्धर्वराजेशो गणगन्धर्वसेवितः ॥ २४॥
गन्धर्वपूजितो नित्यं सर्वरोगविनाशकः ।
गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥ २५॥
गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतः ।
गन्धर्वगर्वसंवेगो गन्धर्ववरदायकः ॥ २६॥
गन्धर्वप्रबलार्तिघ्नो गन्धर्वगणसंयुतः ।
गन्धर्वादिगुणानन्दो नन्दोऽनन्तगुणात्मकः ॥ २७॥
विश्वमूर्तिर्विश्वधाता विनतास्यो विनर्तकः ।
करालः कामदः कान्तः कमनीयः कलानिधिः ॥ २८॥
कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः ।
विकरालो रणश्रेष्ठः संहारो हारभूषणः ॥ २९॥
उरुरम्यमुखो रक्तो देवतादयितौरसः ।
महाकालो महादंष्ट्रो महोरगभयानकः ॥ ३०॥
उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः ।
सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान् ॥ ३१॥
असितात्मा भैरवेशो भाग्यवान्भगवान्भवः ।
गर्भात्मजो भगावासो भगदो भगवर्द्धनः ॥ ३२॥
शुभङ्करः शुचिः शान्तः श्रेष्ठः श्रव्यः शचीपतिः ।
वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः ॥ ३३॥
विद्याप्रदो वेदरसो वैदिको वेदपारगः ।
वेदध्वनिरतो वीरो वेदविद्यागमोऽर्थवित् ॥ ३४॥
तत्त्वज्ञः सर्वगः साधुः सदयः सदसन्मयः ।
शिवङ्करः शिवसुतः शिवानन्दविवर्द्धनः ॥ ३५॥
शैत्यः श्वेतः शतमुखी मुग्धो मोदकभूषणः ।
देवो दिनकरो धीरो धृतिमान्द्युतिमान्धवः ॥ ३६॥
शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः ।
शरण्यः शौनकः शूरः शरदम्भोजधारकः ॥ ३७॥
दारकः शिखिवाहेष्टः सितः शङ्करवल्लभः ।
शङ्करो निर्भयो नित्यो लयकृल्लास्यतत्परः ॥ ३८॥
लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः ।
भ्रमणः शशिभृत्सूर्यः शनिर्धरणिनन्दनः ॥ ३९॥
बुधो विबुधसेव्यश्च बुधराजो बलंधरः ।
जीवो जीवप्रदो जेता स्तुत्यो नित्यो रतिप्रियः ॥ ४०॥
जनको जनमार्गज्ञो जनरक्षणतत्परः ।
जनानां प्रदाता च जनकाह्लादकारकः ॥ ४१॥
विबुधो बुधमान्यश्च जैनमार्गनिवर्तकः ।
गच्छो गणपतिर्गच्छनायको गच्छगर्वहा ॥ ४२॥
गच्छराजोथ गच्छेशो गच्छराजनमस्कृतः ।
गच्छप्रियो गच्छगुरुर्गच्छत्राकृद्यमातुरः ॥ ४३॥
गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यमः ।
गच्छगीतगुणो गर्तो मर्यादाप्रतिपालकः ॥ ४४॥
गीर्वाणागमसारस्य गर्भो गीर्वाणदेवता ।
गौरीसुतो गुरुवरो गौराङ्गो गणपूजितः ॥ ४५॥
परम्पदं परन्धाम परमात्मा कविः कुजः ।
राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः ॥ ४६॥
ग्रहेन्द्रो ग्रहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः ।
पर्जन्यः पीवरः पत्री पीनवक्षाः पराक्रमी ॥ ४७॥
वनेचरो वनस्पतिर्वनवासी स्मरोपमः ।
पुण्यः पूतः पवित्रश्च परात्मा पूर्णाविग्रहः ॥ ४८॥
पूर्णेन्दुसुकलाकारो मन्त्रपूर्णमनोरथः ।
युगात्मा युगकृद्यज्वा याज्ञिको यज्ञवत्सलः ॥ ४९॥
यशस्यो यजमानेष्टो वज्रभृद्वज्रपञ्जरः ।
मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः ॥ ५०॥
मीनध्वजो मनोहारी योगिनां योगवर्धनः ।
द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः ॥ ५१॥
तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः ।
सम्पत्तिसदनाकारः सम्पत्तिसुखदायकः ॥ ५२॥
सम्पत्तिसुखकर्ता च सम्पत्तिसुभगाननः ।
सम्पत्तिशुभदो नित्यसम्पत्तिश्च यशोधनः ॥ ५३॥
रुचको मेचकस्तुष्टः प्रभुस्तोमरघातकः ।
दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः ॥ ५४॥
कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः ।
भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः ॥ ५५॥
जालन्धरो जगद्वासी हास्यकृद्गहनो गुहः ।
हविष्मान्हव्यवाहाक्षो हाटको हाटकाङ्गदः ॥ ५६॥
सुमेरुर्हिमवान्होता हरपुत्रो हलङ्कषः ।
हालाप्रियो हृदाशान्तः कान्ताहृदयपोषणः ॥ ५७॥
शोषणः क्लेशहा क्रूरः कठोरः कठिनाकृतिः ।
कुबेरो धीमयो ध्याता ध्येयो धीमान्दयानिधिः ॥ ५८॥
दविष्ठो दमनो हृष्टो दाता त्राता पितासमः ।
निर्गतो नैगमोऽगम्यो निर्जयो जटिलोऽजरः ॥ ५९॥
जनजीवो जितारातिर्जगद्व्यापी जगन्मयः ।
चामीकरनिभो नाभ्यो नलिनायतलोचनः ॥ ६०॥
रोचनो मोचको मन्त्री मन्त्रकोटिसमाश्रितः ।
पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः ॥ ६१॥
पञ्चमः पश्चिमः पूर्वः पूर्णः कीर्णालकः कुणिः ।
कठोरहृदयो ग्रीवालङ्कृतो ललिताशयः ॥ ६२॥
लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् ।
ध्रुवो द्रुतगतिर्बन्धो धर्मी नाकिप्रियोऽनलः ॥ ६३॥
अङ्गुल्यग्रस्थभुवनो भुवनैकमलापहः ।
सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः ॥ ६४॥
सतीपतिः समरसः सनकः सरलः सरः ।
सुरप्रियो वसुमतिर्वासवो वसुपूजितः ॥ ६५॥
वित्तदो वित्तनाथश्च धनिनां धनदायकः ।
राजीवनयनः स्मार्तः स्मृतिदः कृत्तिकाम्बरः ॥ ६६॥
अश्विनोऽश्वमुखः शुभ्रो भरणो भरणीप्रियः ।
कृत्तिकासनकः कोलो रोहिणीरमणोपमः ॥ ६७॥
रौहिणेयप्रेमकरी रोहिणीमोहनो मृगः ।
मृगराजो मृगशिरा माधवो मधुरध्वनिः ॥ ६८॥
आर्द्राननो महाबुद्धिर्महोरगविभूषणः ।
भ्रूक्षेपदत्तविभवो भ्रूकरालः पुनर्मयः ॥ ६९॥
पुनर्देव: पुनर्जेता पुनर्जीवः पुनर्वसुः ।
तिमिरास्तिमिकेतुश्च तितिषासुरघातनः ॥ ७०॥
तिष्यस्तुलाधरो जृम्भो विश्लेषाश्लेषदानराट् ।
मानदो माधवो माधो वाचालो मघवोपमः ॥ ७१॥
मध्यो मघाप्रियो मेघो महाशुण्डो महाभुजः ।
पूर्वफाल्गुनिकः स्फीत फल्गुरुत्तरफाल्गुनः ॥ ७२॥
फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः ।
घोणाहस्तश्चतुर्हस्तो हस्तिवक्त्रो हलायुधः ॥ ७३॥
चित्राम्बरोऽर्चितपदः स्वस्तिदः स्वस्तिविग्रहः ।
विशाखः शिखिसेव्यश्च शिखिध्वजसहोदरः ॥ ७४॥
अणुरेणूत्करः स्फारो रुरुरेणुसुतो नरः ।
अनुराधाप्रियो राधः श्रीमाञ्छुक्लः शुचिस्मितः ॥ ७५॥
ज्येष्ठः श्रेष्ठार्चितपदो मूलं च त्रिजगद्गुरुः ।
शुचिश्चैव पूर्वाषाढश्चोत्तराषाढ ईश्वरः ॥ ७६॥
श्रव्योऽभिजिदनन्तात्मा श्रवो वेपितदानवः ।
श्रावणः श्रवणः श्रोता धनी धन्यो धनिष्ठकः ॥ ७७॥
शातातपः शातकुम्भः शरज्ज्योतिः शताभिषक् ।
पूर्वाभाद्रपदो भद्रश्चोत्तराभाद्रपादितः ॥ ७८॥
रेणुकातनयो रामो रेवतीरमणो रमी ।
आश्वयुक्कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः ॥ ७९॥
पौषेश्वरः फाल्गुनात्मा वसन्तश्चैत्रको मधुः ।
राज्यदोऽभिजिदात्मीयस्तारेशस्तारकद्युतिः ॥ ८०॥
प्रतीतः प्रोर्जितः प्रीतः परमः परमो हितः ।
परहा पञ्चभूः पञ्चवायुपूज्यः परिग्रहः ॥ ८१॥
पुराणागमविद्योगी महिषो रासभोऽग्रजः ।
ग्रहो मेषो वृषो मन्दो मन्मथो मिथुनाकृतिः ॥ ८२॥
कल्पभृत्कटको दीपो मर्कटः कर्कटो घृणिः ।
कुक्कुटो वनजो हंसः परमहंसः सृगालकः ॥ ८३॥
सिंहः सिंहासनाभूष्यो मद्गुर्मूषकवाहनः ।
पुत्रदो नरकत्राता कन्याप्रीतः कुलोद्वहः ॥ ८४॥
अतुल्यरूपो बलदस्तुल्यभृत्तुल्यसाक्षिकः ।
अलिश्चापधरो धन्वी कच्छपो मकरो मणिः ॥ ८५॥
कुम्भभृत्कलशः कुब्जो मीनमांससुतर्पितः ।
राशिताराग्रहमयस्तिथिरूपो जगद्विभुः ॥ ८६॥
प्रतापी प्रतिपत्प्रेयोऽद्वितीयोऽद्वैतनिश्चितः ।
त्रिरूपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनुः ॥ ८७॥
चतुर्थीवल्लभो देवो परागः पञ्चमीश्वरः ।
षड्रसास्वादविज्ञानः षष्ठी षष्टिकवत्सलः ॥ ८८॥
सप्तार्णवगतिः सारः सप्तमीश्वर रोहितः ।
अष्टमीनन्दनोत्तंसो नवमीभक्तिभावितः ॥ ८९॥
दशदिक्पतिपूज्यश्च दशमीद्रुहिणो द्रुतः ।
एकादशात्मगणपो द्वादशीयुगचर्चितः ॥ ९०॥
त्रयोदशमणिस्तुत्यश्चतुर्दशस्वरप्रियः ।
चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः ॥ ९१॥
दर्शदर्शो दर्शनश्च वानप्रस्थो महेश्वरः ।
मौर्वी मधुरवाङ्मूलमूर्तिमान्मेघवाहनः ॥ ९२॥
महागजो जितक्रोधो जितशत्रुर्जयाश्रयः ।
रौद्रो रुद्रप्रियो रुद्रो रुद्रपुत्रोऽघनाशनः ॥ ९३॥
भवप्रियो भवानीष्टो भारभृद्भूतभावनः ।
गान्धर्वकुशलोऽकुण्ठो वैकुण्ठो विष्टरश्रवाः ॥ ९४॥
वृत्रहा विघ्नहा सीरः समस्तदुःखतापहा ।
मञ्जुरो मार्जरो मत्तो दुर्गापुत्रो दुरालसः ॥ ९५॥
अनन्तचित्सुधाधारो वीरो वीर्यैकसाधकः ।
भास्वन्मुकुटमाणिक्यः कूजत्किङ्किंणिजालकः ॥ ९६॥
शुण्डाधारी तुण्डचलः कुण्डली मुण्डमालकः ।
पद्माक्षः पद्महस्तश्च पद्मनाभसमर्चितः ॥ ९७॥
उद्धृताधरदन्ताढ्यो मालाभूषणभूषितः ।
मारदो वारणो लोलश्रवणः शूर्पकर्णकः ॥ ९८॥
बृहदुल्लासनासाढ्यो व्याप्तत्रैलोक्यमण्डलः ।
रत्नमण्डलमध्यस्थः कृशानुरूपशीलकः ॥ ९९॥
बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तटः ।
बृहदास्यरवाक्रान्तभीतब्रह्माण्डभाण्डकः ॥ १००॥
बृहत्पादसमाक्रान्तसप्तपातालदीपितः ।
बृहद्दन्तकृतात्युग्ररणानन्दरसालसः ॥ १०१॥
बृहद्धस्तधृताशेषायुधनिर्जितदानवः ।
स्फूरत्सिन्दूरवदनः स्फुरत्तेजोऽग्निलोचनः ॥ १०२॥
उद्दीपितमणिस्फूर्जन्नूपुरध्वनिनादितः ।
चलत्तोयप्रवाहाढ्यो नदीजलकणाकरः ॥ १०३॥
भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिसरोरुहः ।
ब्रह्माच्युतमहारुद्रपुरस्सरसुरार्चितः ॥ १०४॥
अशेषशेषप्रभृतिव्यालजालोपसेवितः ।
गर्जत्पञ्चाननारावव्याप्ताकाशधरातलः ॥ १०५॥
हाहाहूहूगतात्युग्रस्वरविभ्रान्तमानसः ।
पञ्चाशद्वर्णबीजाख्यमन्त्रमन्त्रितविग्रहः ॥ १०६॥
वेदान्तशास्त्रपीयूषधाराऽऽप्लावितभूतलः ।
शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलः ॥ १०७॥
चिन्तामणिर्महामल्लो बल्लहस्तो बलिः कविः ।
कृतत्रेतायुगोल्लासभासमानजगत्त्रयः ॥ १०८॥
द्वापरः परलोकैकः कर्मध्वान्तसुधाकरः ।
सुधाऽऽसिक्तवपुर्व्यासो ब्रह्माण्डादिकबाहुकः ॥ १०९॥
अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलः ।
अकाराकारप्रोद्गीतताननादनिनादितः ॥ ११०॥
इकारेकारमत्राढ्यमालाभ्रमणलालसः ।
उकारोकारप्रोद्गारिघोरनागोपवीतकः ॥ १११॥
ऋवर्णाङ्कितॠकारिपद्मद्वयसमुज्ज्वलः ।
लृकारयुतलॄकारशङ्खपूर्णदिगन्तरः ॥ ११२॥
एकारैककारगिरिजास्तनपानविचक्षणः ।
ओकारौकारविश्वादिकृतसृष्टिक्रमालसः ॥ ११३॥
अंअःवर्णावलीव्याप्तपादादिशीर्षमण्डलः ।
कर्णतालकृतात्युच्चैर्वायुवीजितनिर्जरः ॥ ११४॥
खगेशध्वजरत्नाङ्ककिरीटारुणपादकः ।
गर्विताशेषगन्धर्वगीततत्परश्रोत्रकः ॥ ११५॥
घनवाहनवागीशपुरस्सरसुरार्चितः ।
ङवर्णामृतधाराढ्यशोभमानैकदन्तकः ॥ ११६॥
चन्द्रकुङ्कुमजम्बाललिप्तसिन्दूरविग्रहः ।
छत्रचामररत्नाढ्यमुकुटालङ्कृताननः ॥ ११७॥
जटाबद्धमहानर्घमणिपङ्क्तिविराजितः ।
झङ्कारिमधुपव्रातगाननादविनादितः ॥ ११८॥
ञवर्णकृतसंहारदैत्यासृक्पर्णमुद्गरः ।
टकाराख्याफलास्वादवेपिताशेषमूर्धजः ॥ ११९॥
ठकाराद्यडकाराङ्कढकारानन्दतोषितः ।
णवर्णामृतपीयूषधाराधारसुधाकरः ॥ १२०॥
ताम्रसिन्दूरपूजाढ्यललाटफलकच्छविः ।
थकारधनपङ्क्त्यातिसन्तोषिताद्विजव्रजः ॥ १२१॥
दयामृतहृदम्भोजधृतत्रैलोक्यमण्डलः ।
धनदादिमहायक्षसंसेवितपदाम्बुजः ॥ १२२॥
नमिताशेषदेवौघकिरीटमणिरञ्जितः ।
परवर्गापवर्गादिभोगेच्छेदनदक्षकः ॥ १२३॥
फणिचक्रसमाक्रान्तगलमण्डलमण्डितः ।
बद्धभ्रूयुगभीमोग्रसन्तर्जितसुरासुरः ॥ १२४॥
भवानीहृदयानन्दवर्द्धनैकनिशाकरः ।
मदिराकलशस्फीतकरालैककराम्बुजः ॥ १२५॥
यज्ञान्तरायसङ्घातसज्जीकृतवरायुधः ।
रत्नाकरसुताकान्तिक्रान्तिकीर्तिविवर्धनः ॥ १२६॥
लम्बोदरमहाभीमवपुर्दीप्तकृतासुरः ।
वरुणादिदिगीशानस्वर्चितार्चनचर्चितः ॥ १२७॥
शङ्करैकप्रियप्रेमनयनान्दवर्द्धनः ।
षोडशस्वरितालापगीतगानविचक्षणः ॥ १२८॥
समस्तदुर्गतिसरिन्नाथोत्तारणकोडुपः ।
हरादिब्रह्मवैकुण्ठब्रह्मगीतादिपाठकः ॥ १२९॥
क्षमापूरितहृत्पद्मसंरक्षितचराचरः ।
ताराङ्कमन्त्रवर्णैकविग्रहोज्ज्वलविग्रहः ॥ १३०॥
अकारादिक्षकारान्तविद्याभूषितविग्रहः ।
ॐ श्रीविनायको ॐ ह्रीं विघ्नाध्यक्षो गणाधिपः ॥ १३१॥
हेरम्बो मोदकाहारो वक्रतुण्डो विधिः स्मृतः ।
वेदान्तगीतो विद्यार्थिसिद्धमन्त्रः षडक्षरः ॥ १३२॥
गणेशो वरदो देवो द्वादशाक्षरमन्त्रितः ।
सप्तकोटिमहामन्त्रमन्त्रिताशेषविग्रहः ॥ १३३॥
गाङ्गेयो गणसेव्यश्च ॐ श्रीद्वैमातुरः शिवः ।
ॐ ह्रीं श्रीं क्लीं ग्लौं गँ देवो महागणपतिः प्रभुः ॥ १३४॥
इदं नामसहस्रं तु महागणपतेः स्मृतम् ।
गुह्यं गोप्यतमं सिद्धं सर्वतन्त्रेषु गोपितम् ॥ १३५॥
सर्वमन्त्रमयं दिव्यं सर्वविघ्नविनाशनम् ।
ग्रहतारामयं राशिवर्णपङ्क्तिसमन्वितम् ॥ १३६॥
सर्वाविद्यामयं ब्रह्मसाधनं साधकप्रियम् ।
गणेशस्य च सर्वस्वं रहस्यं त्रिदिवौकसाम् ॥ १३७॥
यथेष्टफलदं लोके मनोरथप्रपूरणम् ।
अष्टसिद्धिमयं श्रेष्ठं साधकानां जयप्रदम् ॥ १३८॥
विनार्चनं विना होमं विनान्यासं विना जपम् ।
अणिमाद्यष्टसिद्धीनां साधनं स्मृतिमात्रतः ॥ १३९॥
चतुर्थ्यामर्धरात्रे तु पठेन्मन्त्री चतुष्पथे ।
लिखेद्भूर्जे महादेवि ! पुण्यं नामसहस्रकम् ॥ १४०॥
धारयेत्तं चतुर्दश्यां मध्याह्ने मूर्ध्नि वा भुजे ।
योषिद्वामकरे चैव पुरुषो दक्षिणे भुजे ॥ १४१॥
स्तम्भयेदपि ब्रह्माणं मोहयेदपि शङ्करम् ।
वशयेदपि त्रैलोक्यं मारयेदखिलान् रिपून् ॥ १४२॥
उच्चाटयेच्च गीर्वाणं शमयेच्च धनञ्जयम् ।
वन्ध्या पुत्रं लभेच्छीघ्रं निर्धनो धनमाप्नुयात् ॥ १४३॥
त्रिवारं यः पठेद्रात्रौ गणेशस्य पुरः शिवे ।
नग्नः शक्तियुतो देवि भुक्त्वा भोगान्यथेप्सितान् ॥ १४४॥
प्रत्यक्षवरदं पश्येद्गणेशं साधकोत्तमः ।
य इदं पठते नाम्नां सहस्रं भक्तिपूर्वकम् ॥ १४५॥
तस्य वित्तादिविभवोदारायुः सम्पदः सदा ।
रणे राजमये द्यूते पठेन्नामसहस्रकम् ॥ १४६॥
सर्वत्र जयमाप्नोति गणेशस्य प्रसादतः ॥ १४७॥
इतीदं पुण्यसर्वस्वं मन्त्रनामसहस्रकम् ।
महागणपतेः पुण्यं गोपनीयं स्वयोनिवत् ॥ १४७॥
॥ इति श्रीरुद्रयामलतन्त्रे
श्रीमदुच्छिष्टगणेशसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Notes:
Readers’ discretion is required.
Two versions of UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम् have been found and both seem to be an adaptation from the MahāGaṇapatiSahasranāmastotram (RudrayāmalaTantre DevīRahasye) महागणपतिसहस्रनामस्तोत्रम् (रुद्रयामलतन्त्रे देवीरहस्ये. One of these is found in MantraMahārṇavaḥ मन्त्रमहार्णवः and the other is found as the 4th part of the UcchiṣṭaGaṇapatiPañcāṅgam उच्छिष्टगणपतिपञ्चाङ्गम् a.k.a. the UcchiṣṭaGaṇapatiPañcaratnam उच्छिष्टगणपतिपञ्चरत्नम्.
MahāGaṇapatiSahasranāmastotram (RudrayāmalaTantre DevīRahasye) महागणपतिसहस्रनामस्तोत्रम् (रुद्रयामलतन्त्रे देवीरहस्ये) comprises of 1000 names of MahāGaṇapati महागणपति that include His names pertaining to Graha ग्रह, Tithi तिथि, Nakṣatra नक्षत्र, Akśaramāla अक्षरमाला etc. and a similar pattern is found to be replicated in the two versions of UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम्. Both of these Stotrams are addressed to MahāGaṇapati महागणपति with difference of main name indicated only in the Devyuvāca देव्युवाच and viniyogaḥ विनियोगः.
MahāGaṇapatiSahasranāmastotram महागणपतिसहस्रनामस्तोत्रम् is a longer version compared to either version of the UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम्; and is found in RudrayāmaloktaDeviRahasyam रुद्रयालमोक्तदेवीरहस्यम्. It is also called VaradaGaṇeśaSahasranāmaStotram वरदगणेशसहस्रनामस्तोत्रम् per the viniyogaḥ विनियोगः and can be accessed from the respective link given below.
Core Content of the MahāGaṇapatiSahasranāmastotram महागणपतिसहस्रनामस्तोत्रम् and the two versions of UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम्; both attributed to be from the Rudrayāmalam रुद्रयामलम्, is quite similar wrt many names but the number of shlokas differ amongst the two with either version of the UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम् having substantially fewer number of names (<750) than the expected 1000.
Gaṇapati Bīja गणपति बीज used in this version is Gam̐ गँ, whereas the other version has it as Gaṃ गं.
Proofread by DPD, PSA Easwaran, Ruma Dewan