कामगीता

कामगीता

Mahabharata - Ashvamedhika Parva 14.13 कामस्य शक्तिकथनेन दुर्जयत्वकथनपूर्वकं तज्जयोपायकथनम् । वासुदेव उवाच । न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत । शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥ १॥ बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृह्यतः । यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तव ॥ २॥ द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् । ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् ॥ ३॥ ब्रह्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ । अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥ ४॥ अविनाशोऽस्य तत्त्वस्य नियतो यदि भारत । भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ॥ ५॥ लब्ध्वा हि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् । ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ॥ ६॥ अथवा वसतः पार्थ वने वन्येन जीवतः । ममता यस्य वित्तेषु मृत्योरांस्ये स वर्तते ॥ ७॥ बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत । यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ॥ ८॥ कामात्मानं न प्रशंसन्ति लोके नेहाकामा काचिदस्ति प्रवृत्तिः । सर्वे कामा मनसोऽङ्गप्रभूता यान्पण्डितः संहरते विचिन्त्य ॥ ९॥ भूयो भूयो जन्मनोऽभ्यासयोगाद्योगी योगं सारमार्गं विचिन्त्य । दानं च वेदाध्ययनं तपश्च काम्यानि कर्माणि च वैदिकानि ॥ १०॥ व्रतं यज्ञान्नियमान्ध्यानयोगान्कामेन यो नारभते विदित्वा । यद्यच्चायं कामयते स धर्मो न यो धर्मो नियमस्तस्य मूलम् ॥ ११॥ यद्यद्ध्ययं अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः । श‍ृणु सङ्कीर्त्यमानास्ता अखिलेन युधिष्ठिर । काम उवाच । नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् ॥ १२॥ यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् । तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ॥ १३॥ यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः । जङ्गमेष्विव धर्मात्मा पुनः प्रादुर्भवाम्यहम् ॥ १४॥ यो मां प्रयतते हन्तुं(नित्यं) वेदैर्वेदान्तसाधनैः । स्थावरेष्विव भूतात्मा तस्य प्रादुर्भवाम्यहम् ॥ १५॥ यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः । भावो भवामि तस्याहं स च मां नावबुध्यते ॥ १६॥ यो मां प्रयतते हन्तुं तपसा संशितव्रतः । ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् ॥ १७॥ यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः । तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च । अवध्यः सर्वभूतानामहमेकः सनातनः ॥ १८॥ तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः । धर्मे कुरु महाराज तत्र ते स भविष्यति ॥ १९॥ (यजस्व वाजिमेधेन विधिवद् दक्षिणावता । अन्यैश्च विविधैर्यज्ञैः समृद्ध्यैराप्तदक्षिणैः ॥) मा ते व्यथाऽस्तु निहतान्बन्धून्वीक्ष्य पुनःपुनः । न शक्यास्ते पुनर्द्रष्ट्रं येऽहतास्मिन्रणाजिरे ॥ २०॥ स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः । कीर्तिं लोके परां प्राप्य गतिमग्र्यां गमिष्यसि ॥ २१॥ इति श्रीमन्महाभारते अश्वमेधपर्वणि कृष्णधर्मराजसंवादे त्रयोदशोऽध्याये कामगीता समाप्ता ॥ १३ ॥ Mahabharata Verses 14.13.1 to 14.13.21
% Text title            : Kama Gita
% File name             : kAmagItA.itx
% itxtitle              : kAmagItA
% engtitle              : kAmagItA
% Category              : giitaa, gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : ahAbhArate ashvamedhaparvaNi kRiShNadharmarAjasaMvAde trayodasho.adhya 14.13.1-14.13.21
% Indexextra            : (Scans Text 1, 2, 4, 3, Hindi)
% Latest update         : August 2, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org