श्रीहनूमत्पञ्चाशत्

श्रीहनूमत्पञ्चाशत्

(स्रग्धरा छन्द) श्रीमान् धीमान् हनूमानसमसमधिकः कीर्तिमान् भक्तिमान् श्री- रामे श्रीराम रामेत्यनवरतरतो नामसङ्कीर्तने यः । सीमातीतोऽभिरामो विलसति महिमा यस्य रोमाञ्चकारी क्षेमस्तोमं स कामं गमयतु नमतः श्री समीरात्मजो नः ॥ १॥ ओमित्युक्त्वा नमोऽतस्तदनु भगवतेऽप्याञ्जनेयाय चाथ शब्दं चान्ते चतुर्थ्यां ``स महदिति बलं यस्य'' जातं समस्य । इत्थं सृष्टं तमष्टादशपरिगणितैरक्षरैरक्षहन्तुः मन्त्रं सर्वेष्टसिद्ध्यै हुतवहदयिताचूडमाम्रेडयामः ॥ २॥ वीरो यः केसरीति त्रिभुवनविदितस्तस्य राज्ञोऽञ्जनायां पत्न्यां श्रीरामहेतोस्समजनि तनयो मारुतस्यौरसो यः । स्वादीयस्सद्यदीयैः प्रभुचरितमहो भाति कृत्यैर्विचित्रैः सद्यो नुद्यादवद्यं कलिबलकलितं केसरिक्षेत्रजो नः ॥ ३॥ अत्रस्तो जातमात्रः फलमिति कलयन् मित्रमाहर्तुकामः पुत्रो वायोः पुराऽयं वियति कृतरयः पुप्लुवे यः प्लवङ्गः । स त्रायात् वृत्रजेत्रा तदनुकृतहनुर्वज्रपातेन डिम्भः पित्रा संस्तभ्य लोकान् वरममरगणाल्लम्भितो जृम्भितेन ॥ ४॥ एकस्सन्नद्वितीयः श्रुतिषु तिसृषु यः पण्डितश्चातुरास्य- प्रीत्या पञ्चत्वहीनस्स पवनतनयः षड्गुणस्सप्तसप्तेः । शिष्योऽष्टाङ्गी नवव्याकरणचणमती रामभक्तः परं नः दिश्यादायुस्सुदीर्घं दशलपनरिपुर्भाग्यमारोग्यभोग्यम् ॥ ५॥ सुग्रीवेणालोक्याग्रजभयचकितेनात्मना पञ्चमेन तूणीबाणासनेद्धौ विपिनमुपगतौ रामरामानुजौ तौ । शङ्कातङ्काकुलेन प्रणिधिरिव तयोरन्तिकं प्रेषितो यः शङ्कातङ्कापनोदं कलयतु कुशलो भिक्षुवेषो हनूमान् ॥ ६॥ गत्वा सौमित्रिरामावथ विपिनपथं तौ कथं वा किमर्थं आयातावित्यनेकेरयममरगिरा मध्यमेन स्वरेण । सम्यक् शब्दप्रयोगोच्चरणविधियुतेनाद्रुतं चाविलम्बं प्रश्नैः पृष्टैः प्रतुष्टं रघुपतिमतनोद्वाग्मितां यस्स दत्ताम् ॥ ७॥ कञ्जाक्षौ रञ्जयन्तौ वनभुवमभितो मञ्जुतां व्यञ्जयन्तौ सञ्जानन् देवतुल्यौ रघुकुलतिलकौ प्राञ्जलिः प्राञ्जलोक्तिः । युञ्जानस्तेन मैत्री व्यधित रविसुतेनाञ्जसा सञ्जयाय युञ्जन् सञ्जायतां नस्सहृदयसुहृदो रञ्जनायाञ्जनेयः ॥ ८॥ वाली कालस्य यातो वशमिति महतो नैव शोकस्य कालः पुत्रो राज्येऽभिषेच्यस्तव झटिति ततो मा चिरं राज्ञि रोदीः । ताराम्मेवं वचोभिर्मृदुमधुरपदैस्सान्त्वयामास योऽसौ कर्तव्यं दुःखमध्ये कपिरिह कृपया तारयेत् कारयन्नः ॥ ९॥ वर्षान्ते वानराणां दिशि दिशि पृतनां मैथिलीमार्गणार्थं मर्षी स्याः प्रेषयेयेत्यथ समयमिमं रामचन्द्रेण कृत्वा । हर्षी विस्मृत्य भोगे लगति रविज इत्यस्य बुद्धिं स्खलन्तीं कर्षन् साचिव्यकारी कलयतु हनुमान् नस्स मोहव्यपोहम् ॥ १०॥ विश्वेषां शेवधिस्सन् दशवदनवधं कर्तुमत्रावतीर्णः विश्वासं वायुपुत्रे नयविनयवति प्राप्य रामोऽङ्गुलीयम् । विश्वासाय प्रियायाः रविसुतवचसा सोऽर्पयामास यस्मिन् निश्वासे निर्गमिष्यत्यपि भवतु स नः कश्चनाश्वासहेतुः ॥ ११॥ सीतान्वेषाय विष्टान् बिलमथ तिमिरेणावृतं विन्ध्यशैले भीतान्निष्क्रान्त्यशक्तान् सदयमनुचरांस्तारयिष्यन् गुहायाः । सूनुर्वायोर्वचोभिर्मयदुहितृसखीं सूनृतैर्योऽन्वनैषीत् जातेभ्यस्सङ्कटेभ्यो भवतु स भगवान् याचितो मोचनाय ॥ १२॥ सुग्रीवाज्ञा विरोधं कलयतियुवराज्यङ्गदे वालिपुत्रे तेनानीके कवीनां सपदि विचलिते यस्स्वयं वायुपुत्रः । साम्ना भेदेन रामानुजविशिखभिया भेदयित्वाथ धर्म्ये कर्तव्येऽचूचुदत्तन् दिशतु स हनुमान् नैपुणं राजतन्त्रे ॥ १३॥ तुङ्गं माहेन्द्रश‍ृङ्गं घनवनशिशिरं धातुभिर्नैकरङ्गं त्वङ्गत्पादाभिघातैः श्वसितमिव दधन्निष्पतद्भिर्भुजङ्गैः । भङ्गाद् ग्राव्णां क्षरद्भिर्वमदिव रुधिरं धातुरागैर्विधाय पिङ्गाक्षो जृम्भमाणो जलनिधितरणे तारणं नस्तनोतु ॥ १४॥ ध्यात्वा श्रीरामपादौ क्षणमचलवदास्थाय माहेन्द्रमौलौ बद्ध्वा रामाङ्गुलीयं दृढमथ वसने प्रस्थितो वायुसूनुः । पारावारस्य पारं परमुरुतरसा यातुकामस्सकामं पारावारस्य पारं गमयतु नमतो घोरसंसारनाम्नः ॥ १५॥ आद्रेस्तद्रूपधारी गगनमुपगतोऽह्नाय तीर्त्वा समुद्रं क्षुद्राकारः प्रविष्टो दशमुखनगरीं रौद्ररक्षःप्रतिष्ठम् । निद्राहीनां निरन्नां पतिविरहकृशां रामभद्रस्य पत्नीं मुद्रादानप्रतीतामतनुत हनुमान् यस्स भद्राणि दिश्यात् ॥ १६॥ गत्योत्पत्यातिवर्त्य स्वपितरमपि चरद् व्योम्नि वायोरपत्यं प्रीत्या दृष्टं प्लवङ्गैर्जलनिधितरणे चारणैश्च प्रणत्या । भीत्या दैत्यैर्विनीत्या सुरवरनिवहैर्योगिभिश्च प्रसत्त्या स्तुत्या तन्नः प्रसन्नं कुभिषगविषयं शातयेद्वातरोगम् ॥ १७॥ तातस्याथाधमर्णं गिरिवरमुरसाऽऽहत्य मैनाकमब्धौ छायाग्राहेण विघ्नं पथि स विदधतीं सिंहिकां सूदयित्वा । नागानां प्रीणयित्वा सविनति सुरसां मातरं वातजातः पारं वातोऽन्तरायान् पथि स निपतितानन्तरा हन्तु नन्तुः ॥ १८॥ पुत्रो वायोरमित्रो मम तनयमयं पीडयामास राहुं तत्राकाशे जिघृक्षुः फलमिति तरणिं जातमात्रः प्लवङ्गः । सत्रासो येन पुत्रो मम कृत इति तां सिंहिकां स्वं जिघांसुं चित्रेणैव क्रमेणाक्षपयत स तथाऽस्मद्विपक्षं क्षिणोतु ॥ १९॥ लङ्कासंरक्षिणी सा रजनिचरपतेः राजधान्येव मूर्ता- मूर्च्छाकारिप्रहारं कमपि वितरता निर्जिता येन सद्यः । लङ्कामासन्ननाशां फलितमभिहितं ब्रह्मणा प्राह यस्मै भञ्जात् प्राभञ्जनिर्नः सकलमविकलं विद्विषां दुर्गवर्गम् ॥ २०॥ रामां रामस्य चिन्वन्निशिचरनगरेसद्मनस्सद्म गत्वा वामास्ता रावणेन प्रसभमपहृताः स्थापितश्चावरोधे । श्यामायामे तृतीये विगलितवसनाः कामिनीरप्यवेक्ष्य कामं कामस्य नायाद्वशमनिलसुतो नस्स पायादपायात् ॥ २१॥ युद्धे क्रुद्धेन जित्वा बलजितमथ तं रावणेनापहृत्य बद्धानीतावरुद्धास्सुरपुरवनिता वीक्ष्य शुद्धान्तरङ्गे । अद्धा शुद्धान्तरङ्गः क इह स भवितान्यत्र गाङ्गेयभीष्मात् बुद्धिश्रेष्ठाञ्जनेयादुत कथित इति त्रायतां वायुपुत्रः ॥ २२॥ हीना रामेण सीतामुपवसनकृशां शिंशपावृक्षमूले दीनां वीक्ष्यैकवेणीं मलिनपटधरां तर्जितां राक्षसीभिः । लीनः पर्णेषु रामं प्रभुमथ मनसा तं प्रशंसन् जगाम यो नः श्रीतत्त्ववेत्ता प्रदिशतु परमं तस्य तत्त्वस्य बोधम् ॥ २३॥ मासौ द्वावेव कृत्वा समयमपगते रावणे तर्जयित्वा त्रासं याऽऽसाद्य वेण्युद्ग्रथनकरणतो मैथिली मर्तुकामा । प्राणे प्रत्यायिताऽभूत् प्रभुचरितमथोद्गीय वायोस्सुतेन प्रीतिस्फीतः कपिस्स प्रणिपतनपरात् प्रीणयन् प्राणयेन्नः ॥ २४॥ राक्षस्या स्वप्नदृष्टं रघुपतिविजयं वर्णयन्त्या प्रसन्ना ताभिर्नोक्ताऽपि सीता भव शरणमिहेत्यास तासां तथा सा । अव्याजेनानुकम्पामपचरणपरेऽप्यादधानामतोऽम्बां व्याजापेक्षं स जानन् प्रभुमतिशयितां पातु नः पावमानिः ॥ २५॥ रामस्सौमित्रिणा ये परमथ विरहात् क्व क्व यातश्च किं किं चक्रे सुग्रीवसख्यं कथमगमदिति ब्रूहि सर्वं कपे त्वम् । एवं भूयश्च भूयो जनकतनयया चोद्यमानेन येन संश्राव्याऽऽश्वासिताऽभूदनयमपनयत्वाञ्जनेयस्स्वयं नः ॥ २६॥ मत्तुल्या मद्विशिष्टा अपि बहुकपयः सन्ति सैन्ये कपीनां मत्तो न्यूनो न कश्चित्तव पतिरिह तै रावणं जेष्यतीति । प्रोच्य प्रत्याययिष्यन्निव च रिपुबलं तत्समक्षं हनिष्यन् रक्षोऽशीतिं तमक्षं सचिवसुतगणं योऽवधीत् सोऽवतान्नः ॥ २७॥ अक्षं रुक्षं समक्षं क्षतिकरविशिखान् लक्षयित्वा क्षिपन्तं वक्षस्यक्ष्णोः क्षणाय क्षयमयमनयन् सक्षमस्स क्षमोऽपि । रक्षो दक्षं विपक्षक्षपण इदमुपेक्ष्यं न हीत्यक्षिणोद्यः क्षिप्रं क्षिप्त्वान्तरिक्षात् क्षितिमधि हनुमान् विक्षताद्रक्षतान्तः ॥ २८॥ इच्छन् ब्रह्मास्स्त्रबन्धं त्रुटयितुमधुना रावणेः पारयामि गच्छन्नेवागतोऽहं किमपि तव हितं रावणं व्याजिहीर्षुः । स्वच्छन्दं स्वच्छमेवं तमयमभिदधत् पुच्छपीठाधिरूढः पुच्छेनेच्छाविहारः प्रहरतु हनुमान् क्षात्रवान् शात्रवात्रः ॥ २९॥ वाले तैलेन सिक्ते पिचुतटवलिते दीपिते यातुधाने ज्वालामालाकुलोऽग्निर्न जनकसुतया शापितो यं तताप । लङ्कायां राक्षसेन्द्रानुजगृहरहितं येन दग्धं समस्तं दिग्धां स्निग्धो विदग्धः पवनज इह नो ज्ञानदुग्धेन मुग्धान् ॥ ३०॥ लङ्कां लाङ्गूलदग्धां निशिचररुदितैराकुलामाकलय्य प्रत्यावृत्याम्बुराशेस्ततमधि हनुमान् वानराणामनीकम् । निष्पन्दं जातकौतूहलमवहितधि श्रावयामास सर्वा आमूलात् स्वां कथां यः प्रदिशतु स कथाकारपारीणतां नः ॥ ३१॥ दृष्टा सीतेति सा त्वामिदमवददिति श्रोत्रपीयूषमुक्त्वा रामात् सर्वस्वभूतं रघुकुलतिलकाद्यः परिष्वङ्गमाप । विक्रान्तं यं समर्थं कपिमतिमुदिता मैथिली प्राज्ञमूचे श‍ृण्वन् रामायणं यो विचरति भुवनेऽद्यापि स त्रायतां नः ॥ ३२॥ यः शत्रोः रावणस्य स्वयमयमनुजोऽदेशकालागतोऽत्र निग्राह्यो ग्राह्यतां न व्रजति कथमपीतीतरेषूचिवत्सु । धर्मात्मा देशकालागत इति वचनैर्हेतुमद्भिर्य ऊचे चित्तं रामस्य जानन्नवतु स हनुमान् धर्मवित् कर्मभिर्नः ॥ ३३॥ कैलासं कम्पयित्वा वरमथ तपसा शम्भुमाराध्य लब्ध्वा बम्भोलिं जम्भशत्रोः शलभमिव न यो लक्षते वक्षसि स्म । मुष्टिं तस्य प्रपात्योरसि दशशिरसस्तेन सद्योऽपनुद्यात् साधु त्वं श्लाघनीयो रिपुरिति कथितो मारुतिर्भीरुतां नः ॥ ३४॥ सानीकं जानकीशं रणभुवि पतितं मेघनादास्त्रविद्धं ग्लानिं भूयो भजन्तं पतितमवरजं वीक्ष्य सञ्जीवयिष्यन् । योनिं दिव्यौषधीनां हिमगिरिशिखरं यस्स आनीतवान्नो हानिं दात्रीं निहन्यात् तनुरुजमगदङ्कारभूतो हनूमान् ॥ ३५॥ वैकुण्ठे शेषनामा भुजगपरिवृढः श्रीपतेर्धूर्वहो यो जातो रामावतारे दशरथतनयः प्राप्य रामानुजत्वम् । धृत्वा शक्त्याऽऽहतं तं युधि दशशिरसा दुर्वहं धूर्वहत्वं व्यानग्यो वायुसूनुर्लघुमिह वहताल्लीलयाऽस्मद्धुरं सः ॥ ३६॥ जम्भारातेर्विजेतुः बलमथ विदलन् रक्षसां दम्भभेत्ता डिम्भो वायोर्युधायां विधृतरघुवरो यो निकुम्भस्य हन्ता । अम्भोधिं लङ्घयित्वौषधिमुपनमयन् जृम्भयां स्वान् बभूव शम्भोरेवावतारोऽयमिति निगदितस्स्तम्बयेत् सम्भ्रमं नः ॥ ३७॥ मायासीतां समक्षं मघवजिदसिना दारितां मारिताञ्च पुत्रो निध्याय वायोरथ रघुपतये दुःखमाख्यातुकामः । यो गच्छन् राक्षसेन्द्रावरजवचनतो वञ्चितं स्वं व्यजानात् मायाव्यालीं स धुन्वन् स्वयमपनयताज्जायमानं भयं नः ॥ ३८॥ मैथिल्याः विप्रलम्भे रविसुतवचसा प्रेषयामास रामो दूतं वातस्य जातं स जनकतनयां ज्ञातुमम्भोधिपारम् । व्यापाद्यायोधने तं दशवदनमथ प्रेषयन्नाशु वार्तां देव्यै दूतं दधे यं वितरतु नमतामार्तिहन्त्रीं स वार्ताम् ॥ ३९॥ संसेव्याशोकवन्यां रघुपतिदयितां क्रूरवाग्राक्षसीनां संहारं यश्चिकीर्षुस्सदयमभिहितस्सेविकास्स्वाम्यधीनाः । संरक्षन्त्यस्तदाज्ञामदधत यदि तत् कोऽपराधोऽत्र तासां संहार्या नेति देव्या कलयतु स दयां नन्तृषु क्षान्तमन्तुः ॥ ४०॥ आदिष्टो राघवेण प्रभुमपि जटिलं स्थण्डिले संविशन्तं नन्दिग्रामे निविष्टं भरतमभिगतो ज्येष्ठभक्तौ सुनिष्ठम् । दृष्ट्वा शत्रुघ्नजुष्टं रघुपतिपदवीदत्तदृष्टिं स भक्त- श्रेष्ठं मेने मनीषी जनयतु विनयं मारुतिर्मानसे नः ॥ ४१॥ नाथस्याथाभिषेके नयनसरसिजस्यादितानन्दवाष्पं जानाना जानकी यं पतिमतिमतनोद्धारदानेन धन्यम् । नित्यं सौमित्रिसीतासहितरघुवरं वन्दमानो हनूमान् वश्यो दिश्यादवश्यं दिशमथ विदिशं व्यश्नुवानं यशो नः ॥ ४२॥ मोक्षं नाथप्रसादात् करगतमति यो व्याक्षिपंस्तस्य गाथां गायन् श‍ृण्वंस्तदीयं चरितमयमवन्नापदस्तस्य भक्तान् । तत्त्वं सत्त्वे स्थितेभ्यः परममुपदिशन् सञ्चरन् सम्प्रसद्य सद्यश्शोकं स नुद्यात् सदयमनिलभूरद्य लोकस्य सर्वम् ॥ ४३॥ येन स्पर्धां दधानस्स्वयमनिलभुवा नारदो भक्तिगाने गानैर्यस्य स्वकीयां द्रवदुपलपुटे मज्जितां वीक्ष्य वीणाम् । गाने नूनं हनूमान् प्रथम इति वदन् लज्जितस्तज्जितोऽभूत् मानातीतं नतेभ्यो न इह स तनुतां गानविज्ञानदानम् ॥ ४४॥ रामं स्कन्धाधिरूढं समरभुविचचारोद्वहन् वर्ष्मणा यो रामं सङ्कीर्तयन् यो विहरति सततं तं वहन्नेव वाचा । रामं ध्यायन् हनूमान् विचरति परितस्तं वहन् मानसेन यातः पायादपायाद्रघुपतिमयतां कायवाङ्मानसैर्नः ॥ ४५॥ कृष्णं विष्णुं स जानन्नपि परपुरुषं राघवान्यावतारं रामाकारे दिदृक्षुः पुनरपि पुरतो मारुतिस्तेन युद्धान् । विभ्राणे राघवस्याकृतिमथ पतितः पादयोस्तस्य दास्यं स्पष्टं व्याचष्ट यस्स्वं प्रदिशतु भगवान् भक्तियोगं परं नः ॥ ४६॥ पुष्पं सौगन्धिकाख्यं हिमगिरिविपिने कृष्णया प्रार्थितं यत् भ्रात्रे भीमाय तस्मै तदवचयकृतेः काम्यया भ्राम्यते प्राक् । सन्दर्श्यानुग्रहं यो व्यतरदपहरन् स्कन्धयोरस्य गन्धं गन्धं संसारबन्धप्रदमपहरताद् गन्धवाहात्मजो नः ॥ ४७॥ पार्थादन्यत्र दिव्यां दृशमधिगमितात् सञ्जयाद्वा प्रबुद्धात् पार्थस्य स्यन्दनाग्रे कपिकुलतिलकान्मारुतेर्वा ध्वजस्थात् । सार्थां श्रोतुं हि गीतां परमपुरुषतो निःसृतां कः समर्थः सोऽर्थं गीतोपदिष्टं कपिरुपदिशतादस्मदुज्जीवनार्थम् ॥ ४८॥ मध्ये सिन्धोर्भवाब्धेरिव पुरुषतनावत्र लङ्काख्यपुर्यां सीतेवाप्य द्विपञ्चेन्द्रिययुतमनसाऽत्मा दशास्येन बन्धम् । आचार्यादेव नन्दत्यनिलभुव इवाकर्ण्य नाथस्य वार्तां इत्यध्यात्मीयरामायणमधि महितो मारुतिस्ताद् गुरुर्नः ॥ ४९॥ लोकेऽद्यालोकहीने सपदि कलियुगे संस्कृते लुप्यमाने लोको रामायणं तत् पठतु कथमिति प्राप्य चिन्तां परां ताम् । हिन्दीरामायणं यः कविवरतुलसीदासतो भक्तिभावैः पूर्णं तूर्णं प्रणाय्य व्यवृणुत सनृणां मारुतिश्चारुशीलः ॥ ५०॥ क्रव्यादानां विभाव्यं पुरवरमखिलं हव्यवाहेन दग्ध्वा देव्यास्संसेव्य नव्याम्बुजसदृशपदं सेव्यमाश्राव्य भूयः । अभ्यर्णे वर्णयिष्यंस्तदथ रघुपतेः तीर्णवन्नर्णवं भोः तूर्णं कर्णावतीर्णं कुरु सुत मरुतस्तोत्रमुद्गीर्णमेतत् ॥ ५१॥ उग्रं वा शान्तमूर्तिं दशमुखनगरे विष्टमङ्गुष्ठमात्रं अग्रे सौमित्रिसीतासहितरघुपतेः तूर्णकर्णावतीर्णम् । (प्रश्रयेणोपविष्टम् ।) व्यग्रा निध्याय सद्यो निजहृदि बहुधा सिद्धिमासेदिवांसः सुग्राह्यां पावमानेरिति हि नुतिमिमादरेणाददीरन् ॥ ५२॥ एतां पञ्चाशतं यः पठति हनुमतः प्रश्रितो या श‍ृणोति भक्त्या तात्पर्यमस्य प्रवचनविधिना श्रावयत्यन्यभक्तान् । तद्दृष्ट्या कुष्ठयक्ष्मोदरहृदयशिरःकर्कटादीन् स रोगान् उल्लङ्घ्योल्लाघभूतस्सुखमनुभविता शश्वदुल्लासशीलः ॥ ५३॥ प्रत्नं रत्नाकरस्य प्रथितमपि यशो दुस्तरत्वे निरस्य यत्नैर्येन प्रणीतैरभवदवसितो रामसीतावियोगः । रत्नं रामायणाख्यस्रज इति कविभिर्मारुतेः कीर्तितस्य यत्नस्तस्यार्चने नः क्षणमपि विहितो नित्यकल्याणहेतुः ॥ ५४॥ श्रीरामो विश्वसर्गस्थितिविलयकरो यः परब्रह्मभूतः भूलोकेऽन्नावतीर्णो दशलपनविलोपाय मायामनुष्यः । चक्रे सन्दर्शया नः शुभचरितमिषेणैकमादर्शमार्गं स्तोत्रं दासस्य तस्योदितमनिलभुवस्तन्मुदे तत्सवेदम् ॥ ५५॥ सुन्दरराजग्रथितं सुन्दरकाण्डाधिनायकस्तोत्रम् । सुन्दरमेतत् पठिता नन्दति मुक्तः पुमान् रोगात् ॥ ५६॥ इति श्रीसुन्दरराजकृता श्रीहनूमत्पञ्चाशत् समाप्ता ॥ (रोगदुःखनाशक श्रीहनूमत्पञ्चाशत्) कवि- श्री सुन्दरराजः । माता- श्रीमती वञ्जुवल्ली । पिता आशुकविसार्वभौम विल्लूर श्रीनिवासराघवाचार्य स्वामी जन्म तिथि-१३-९-१९३६, जन्मस्थान-तञ्जावूर जनपदान्तर्गत देवनाथविलास ग्राम शिक्षा-एम.ए. (रसायन शास्त्र), आइ.ए.एस (ओडिशां प्राप्तावकाशः) (स्रग्धरा छन्द) स्रग्धरा म्रौ भ्नौ यौ य् त्रिःसप्तकाः (पिङ्गल छन्द शास्त्र, ७/२५) यस्य पादे मगण-रगण-मगण-नगणास्त्रयश्च यगणाः (ऽऽऽ, ऽ॥अ, ऽ॥, ॥।, ॥अऽ, ॥अऽ, ॥अऽ)। सप्तसु, सप्तसु, सप्तसु च यतिः । (ऽ - गुरु, । - लघु) मगण रगण भगण नगण यगण यगण यगण (ऽऽऽ) (ऽ॥अ) (ऽ॥) (॥।) (॥अऽ) (॥अऽ) (॥अऽ) (स्रग्धरा छन्द लक्षणश्लोकः) रेखा-भ्रूः शूभ्रद-न्त(७)द्युति-हसित-शर(७)श्चन्द्रिकाचा-रुमूर्ति(७)- र्माद्यन्मा-तङ्गली-ला(७)गति-रतिवि-पुला(७)भो-गतुङ्ग-स्तनी या(७) । रम्भास्त-म्भोपमो-रू(७)रलि-मलिन-धन(७)स्नि-ग्धधम्मि-ल्लहस्ता(७) बिम्बोष्ठी रक्तक-ण्ठी(७)दिश-तु रति-सुखं(७)स्र-ग्धरा सु-न्दरीयम्(७) ॥
% Text title            : Hanumat Panchashat
% File name             : hanUmatpanchAshat.itx
% itxtitle              : hanUmatpanchAshat
% engtitle              : hanUmatpanchAshat
% Category              : hanumaana, panchAshata
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Hindi)
% Latest update         : September 3, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org