श्रीहनूमत्पञ्चाशत्
(स्रग्धरा छन्द)
श्रीमान् धीमान् हनूमानसमसमधिकः कीर्तिमान् भक्तिमान् श्री-
रामे श्रीराम रामेत्यनवरतरतो नामसङ्कीर्तने यः ।
सीमातीतोऽभिरामो विलसति महिमा यस्य रोमाञ्चकारी
क्षेमस्तोमं स कामं गमयतु नमतः श्री समीरात्मजो नः ॥ १॥
ओमित्युक्त्वा नमोऽतस्तदनु भगवतेऽप्याञ्जनेयाय चाथ
शब्दं चान्ते चतुर्थ्यां ``स महदिति बलं यस्य'' जातं समस्य ।
इत्थं सृष्टं तमष्टादशपरिगणितैरक्षरैरक्षहन्तुः
मन्त्रं सर्वेष्टसिद्ध्यै हुतवहदयिताचूडमाम्रेडयामः ॥ २॥
वीरो यः केसरीति त्रिभुवनविदितस्तस्य राज्ञोऽञ्जनायां
पत्न्यां श्रीरामहेतोस्समजनि तनयो मारुतस्यौरसो यः ।
स्वादीयस्सद्यदीयैः प्रभुचरितमहो भाति कृत्यैर्विचित्रैः
सद्यो नुद्यादवद्यं कलिबलकलितं केसरिक्षेत्रजो नः ॥ ३॥
अत्रस्तो जातमात्रः फलमिति कलयन् मित्रमाहर्तुकामः
पुत्रो वायोः पुराऽयं वियति कृतरयः पुप्लुवे यः प्लवङ्गः ।
स त्रायात् वृत्रजेत्रा तदनुकृतहनुर्वज्रपातेन डिम्भः
पित्रा संस्तभ्य लोकान् वरममरगणाल्लम्भितो जृम्भितेन ॥ ४॥
एकस्सन्नद्वितीयः श्रुतिषु तिसृषु यः पण्डितश्चातुरास्य-
प्रीत्या पञ्चत्वहीनस्स पवनतनयः षड्गुणस्सप्तसप्तेः ।
शिष्योऽष्टाङ्गी नवव्याकरणचणमती रामभक्तः परं नः
दिश्यादायुस्सुदीर्घं दशलपनरिपुर्भाग्यमारोग्यभोग्यम् ॥ ५॥
सुग्रीवेणालोक्याग्रजभयचकितेनात्मना पञ्चमेन
तूणीबाणासनेद्धौ विपिनमुपगतौ रामरामानुजौ तौ ।
शङ्कातङ्काकुलेन प्रणिधिरिव तयोरन्तिकं प्रेषितो यः
शङ्कातङ्कापनोदं कलयतु कुशलो भिक्षुवेषो हनूमान् ॥ ६॥
गत्वा सौमित्रिरामावथ विपिनपथं तौ कथं वा किमर्थं
आयातावित्यनेकेरयममरगिरा मध्यमेन स्वरेण ।
सम्यक् शब्दप्रयोगोच्चरणविधियुतेनाद्रुतं चाविलम्बं
प्रश्नैः पृष्टैः प्रतुष्टं रघुपतिमतनोद्वाग्मितां यस्स दत्ताम् ॥ ७॥
कञ्जाक्षौ रञ्जयन्तौ वनभुवमभितो मञ्जुतां व्यञ्जयन्तौ
सञ्जानन् देवतुल्यौ रघुकुलतिलकौ प्राञ्जलिः प्राञ्जलोक्तिः ।
युञ्जानस्तेन मैत्री व्यधित रविसुतेनाञ्जसा सञ्जयाय
युञ्जन् सञ्जायतां नस्सहृदयसुहृदो रञ्जनायाञ्जनेयः ॥ ८॥
वाली कालस्य यातो वशमिति महतो नैव शोकस्य कालः
पुत्रो राज्येऽभिषेच्यस्तव झटिति ततो मा चिरं राज्ञि रोदीः ।
ताराम्मेवं वचोभिर्मृदुमधुरपदैस्सान्त्वयामास योऽसौ
कर्तव्यं दुःखमध्ये कपिरिह कृपया तारयेत् कारयन्नः ॥ ९॥
वर्षान्ते वानराणां दिशि दिशि पृतनां मैथिलीमार्गणार्थं
मर्षी स्याः प्रेषयेयेत्यथ समयमिमं रामचन्द्रेण कृत्वा ।
हर्षी विस्मृत्य भोगे लगति रविज इत्यस्य बुद्धिं स्खलन्तीं
कर्षन् साचिव्यकारी कलयतु हनुमान् नस्स मोहव्यपोहम् ॥ १०॥
विश्वेषां शेवधिस्सन् दशवदनवधं कर्तुमत्रावतीर्णः
विश्वासं वायुपुत्रे नयविनयवति प्राप्य रामोऽङ्गुलीयम् ।
विश्वासाय प्रियायाः रविसुतवचसा सोऽर्पयामास यस्मिन्
निश्वासे निर्गमिष्यत्यपि भवतु स नः कश्चनाश्वासहेतुः ॥ ११॥
सीतान्वेषाय विष्टान् बिलमथ तिमिरेणावृतं विन्ध्यशैले
भीतान्निष्क्रान्त्यशक्तान् सदयमनुचरांस्तारयिष्यन् गुहायाः ।
सूनुर्वायोर्वचोभिर्मयदुहितृसखीं सूनृतैर्योऽन्वनैषीत्
जातेभ्यस्सङ्कटेभ्यो भवतु स भगवान् याचितो मोचनाय ॥ १२॥
सुग्रीवाज्ञा विरोधं कलयतियुवराज्यङ्गदे वालिपुत्रे
तेनानीके कवीनां सपदि विचलिते यस्स्वयं वायुपुत्रः ।
साम्ना भेदेन रामानुजविशिखभिया भेदयित्वाथ धर्म्ये
कर्तव्येऽचूचुदत्तन् दिशतु स हनुमान् नैपुणं राजतन्त्रे ॥ १३॥
तुङ्गं माहेन्द्रशृङ्गं घनवनशिशिरं धातुभिर्नैकरङ्गं
त्वङ्गत्पादाभिघातैः श्वसितमिव दधन्निष्पतद्भिर्भुजङ्गैः ।
भङ्गाद् ग्राव्णां क्षरद्भिर्वमदिव रुधिरं धातुरागैर्विधाय
पिङ्गाक्षो जृम्भमाणो जलनिधितरणे तारणं नस्तनोतु ॥ १४॥
ध्यात्वा श्रीरामपादौ क्षणमचलवदास्थाय माहेन्द्रमौलौ
बद्ध्वा रामाङ्गुलीयं दृढमथ वसने प्रस्थितो वायुसूनुः ।
पारावारस्य पारं परमुरुतरसा यातुकामस्सकामं
पारावारस्य पारं गमयतु नमतो घोरसंसारनाम्नः ॥ १५॥
आद्रेस्तद्रूपधारी गगनमुपगतोऽह्नाय तीर्त्वा समुद्रं
क्षुद्राकारः प्रविष्टो दशमुखनगरीं रौद्ररक्षःप्रतिष्ठम् ।
निद्राहीनां निरन्नां पतिविरहकृशां रामभद्रस्य पत्नीं
मुद्रादानप्रतीतामतनुत हनुमान् यस्स भद्राणि दिश्यात् ॥ १६॥
गत्योत्पत्यातिवर्त्य स्वपितरमपि चरद् व्योम्नि वायोरपत्यं
प्रीत्या दृष्टं प्लवङ्गैर्जलनिधितरणे चारणैश्च प्रणत्या ।
भीत्या दैत्यैर्विनीत्या सुरवरनिवहैर्योगिभिश्च प्रसत्त्या
स्तुत्या तन्नः प्रसन्नं कुभिषगविषयं शातयेद्वातरोगम् ॥ १७॥
तातस्याथाधमर्णं गिरिवरमुरसाऽऽहत्य मैनाकमब्धौ
छायाग्राहेण विघ्नं पथि स विदधतीं सिंहिकां सूदयित्वा ।
नागानां प्रीणयित्वा सविनति सुरसां मातरं वातजातः
पारं वातोऽन्तरायान् पथि स निपतितानन्तरा हन्तु नन्तुः ॥ १८॥
पुत्रो वायोरमित्रो मम तनयमयं पीडयामास राहुं
तत्राकाशे जिघृक्षुः फलमिति तरणिं जातमात्रः प्लवङ्गः ।
सत्रासो येन पुत्रो मम कृत इति तां सिंहिकां स्वं जिघांसुं
चित्रेणैव क्रमेणाक्षपयत स तथाऽस्मद्विपक्षं क्षिणोतु ॥ १९॥
लङ्कासंरक्षिणी सा रजनिचरपतेः राजधान्येव मूर्ता-
मूर्च्छाकारिप्रहारं कमपि वितरता निर्जिता येन सद्यः ।
लङ्कामासन्ननाशां फलितमभिहितं ब्रह्मणा प्राह यस्मै
भञ्जात् प्राभञ्जनिर्नः सकलमविकलं विद्विषां दुर्गवर्गम् ॥ २०॥
रामां रामस्य चिन्वन्निशिचरनगरेसद्मनस्सद्म गत्वा
वामास्ता रावणेन प्रसभमपहृताः स्थापितश्चावरोधे ।
श्यामायामे तृतीये विगलितवसनाः कामिनीरप्यवेक्ष्य
कामं कामस्य नायाद्वशमनिलसुतो नस्स पायादपायात् ॥ २१॥
युद्धे क्रुद्धेन जित्वा बलजितमथ तं रावणेनापहृत्य
बद्धानीतावरुद्धास्सुरपुरवनिता वीक्ष्य शुद्धान्तरङ्गे ।
अद्धा शुद्धान्तरङ्गः क इह स भवितान्यत्र गाङ्गेयभीष्मात्
बुद्धिश्रेष्ठाञ्जनेयादुत कथित इति त्रायतां वायुपुत्रः ॥ २२॥
हीना रामेण सीतामुपवसनकृशां शिंशपावृक्षमूले
दीनां वीक्ष्यैकवेणीं मलिनपटधरां तर्जितां राक्षसीभिः ।
लीनः पर्णेषु रामं प्रभुमथ मनसा तं प्रशंसन् जगाम
यो नः श्रीतत्त्ववेत्ता प्रदिशतु परमं तस्य तत्त्वस्य बोधम् ॥ २३॥
मासौ द्वावेव कृत्वा समयमपगते रावणे तर्जयित्वा
त्रासं याऽऽसाद्य वेण्युद्ग्रथनकरणतो मैथिली मर्तुकामा ।
प्राणे प्रत्यायिताऽभूत् प्रभुचरितमथोद्गीय वायोस्सुतेन
प्रीतिस्फीतः कपिस्स प्रणिपतनपरात् प्रीणयन् प्राणयेन्नः ॥ २४॥
राक्षस्या स्वप्नदृष्टं रघुपतिविजयं वर्णयन्त्या प्रसन्ना
ताभिर्नोक्ताऽपि सीता भव शरणमिहेत्यास तासां तथा सा ।
अव्याजेनानुकम्पामपचरणपरेऽप्यादधानामतोऽम्बां
व्याजापेक्षं स जानन् प्रभुमतिशयितां पातु नः पावमानिः ॥ २५॥
रामस्सौमित्रिणा ये परमथ विरहात् क्व क्व यातश्च किं किं
चक्रे सुग्रीवसख्यं कथमगमदिति ब्रूहि सर्वं कपे त्वम् ।
एवं भूयश्च भूयो जनकतनयया चोद्यमानेन येन
संश्राव्याऽऽश्वासिताऽभूदनयमपनयत्वाञ्जनेयस्स्वयं नः ॥ २६॥
मत्तुल्या मद्विशिष्टा अपि बहुकपयः सन्ति सैन्ये कपीनां
मत्तो न्यूनो न कश्चित्तव पतिरिह तै रावणं जेष्यतीति ।
प्रोच्य प्रत्याययिष्यन्निव च रिपुबलं तत्समक्षं हनिष्यन्
रक्षोऽशीतिं तमक्षं सचिवसुतगणं योऽवधीत् सोऽवतान्नः ॥ २७॥
अक्षं रुक्षं समक्षं क्षतिकरविशिखान् लक्षयित्वा क्षिपन्तं
वक्षस्यक्ष्णोः क्षणाय क्षयमयमनयन् सक्षमस्स क्षमोऽपि ।
रक्षो दक्षं विपक्षक्षपण इदमुपेक्ष्यं न हीत्यक्षिणोद्यः
क्षिप्रं क्षिप्त्वान्तरिक्षात् क्षितिमधि हनुमान् विक्षताद्रक्षतान्तः ॥ २८॥
इच्छन् ब्रह्मास्स्त्रबन्धं त्रुटयितुमधुना रावणेः पारयामि
गच्छन्नेवागतोऽहं किमपि तव हितं रावणं व्याजिहीर्षुः ।
स्वच्छन्दं स्वच्छमेवं तमयमभिदधत् पुच्छपीठाधिरूढः
पुच्छेनेच्छाविहारः प्रहरतु हनुमान् क्षात्रवान् शात्रवात्रः ॥ २९॥
वाले तैलेन सिक्ते पिचुतटवलिते दीपिते यातुधाने
ज्वालामालाकुलोऽग्निर्न जनकसुतया शापितो यं तताप ।
लङ्कायां राक्षसेन्द्रानुजगृहरहितं येन दग्धं समस्तं
दिग्धां स्निग्धो विदग्धः पवनज इह नो ज्ञानदुग्धेन मुग्धान् ॥ ३०॥
लङ्कां लाङ्गूलदग्धां निशिचररुदितैराकुलामाकलय्य
प्रत्यावृत्याम्बुराशेस्ततमधि हनुमान् वानराणामनीकम् ।
निष्पन्दं जातकौतूहलमवहितधि श्रावयामास सर्वा
आमूलात् स्वां कथां यः प्रदिशतु स कथाकारपारीणतां नः ॥ ३१॥
दृष्टा सीतेति सा त्वामिदमवददिति श्रोत्रपीयूषमुक्त्वा
रामात् सर्वस्वभूतं रघुकुलतिलकाद्यः परिष्वङ्गमाप ।
विक्रान्तं यं समर्थं कपिमतिमुदिता मैथिली प्राज्ञमूचे
शृण्वन् रामायणं यो विचरति भुवनेऽद्यापि स त्रायतां नः ॥ ३२॥
यः शत्रोः रावणस्य स्वयमयमनुजोऽदेशकालागतोऽत्र
निग्राह्यो ग्राह्यतां न व्रजति कथमपीतीतरेषूचिवत्सु ।
धर्मात्मा देशकालागत इति वचनैर्हेतुमद्भिर्य ऊचे
चित्तं रामस्य जानन्नवतु स हनुमान् धर्मवित् कर्मभिर्नः ॥ ३३॥
कैलासं कम्पयित्वा वरमथ तपसा शम्भुमाराध्य लब्ध्वा
बम्भोलिं जम्भशत्रोः शलभमिव न यो लक्षते वक्षसि स्म ।
मुष्टिं तस्य प्रपात्योरसि दशशिरसस्तेन सद्योऽपनुद्यात्
साधु त्वं श्लाघनीयो रिपुरिति कथितो मारुतिर्भीरुतां नः ॥ ३४॥
सानीकं जानकीशं रणभुवि पतितं मेघनादास्त्रविद्धं
ग्लानिं भूयो भजन्तं पतितमवरजं वीक्ष्य सञ्जीवयिष्यन् ।
योनिं दिव्यौषधीनां हिमगिरिशिखरं यस्स आनीतवान्नो
हानिं दात्रीं निहन्यात् तनुरुजमगदङ्कारभूतो हनूमान् ॥ ३५॥
वैकुण्ठे शेषनामा भुजगपरिवृढः श्रीपतेर्धूर्वहो यो
जातो रामावतारे दशरथतनयः प्राप्य रामानुजत्वम् ।
धृत्वा शक्त्याऽऽहतं तं युधि दशशिरसा दुर्वहं धूर्वहत्वं
व्यानग्यो वायुसूनुर्लघुमिह वहताल्लीलयाऽस्मद्धुरं सः ॥ ३६॥
जम्भारातेर्विजेतुः बलमथ विदलन् रक्षसां दम्भभेत्ता
डिम्भो वायोर्युधायां विधृतरघुवरो यो निकुम्भस्य हन्ता ।
अम्भोधिं लङ्घयित्वौषधिमुपनमयन् जृम्भयां स्वान् बभूव
शम्भोरेवावतारोऽयमिति निगदितस्स्तम्बयेत् सम्भ्रमं नः ॥ ३७॥
मायासीतां समक्षं मघवजिदसिना दारितां मारिताञ्च
पुत्रो निध्याय वायोरथ रघुपतये दुःखमाख्यातुकामः ।
यो गच्छन् राक्षसेन्द्रावरजवचनतो वञ्चितं स्वं व्यजानात्
मायाव्यालीं स धुन्वन् स्वयमपनयताज्जायमानं भयं नः ॥ ३८॥
मैथिल्याः विप्रलम्भे रविसुतवचसा प्रेषयामास रामो
दूतं वातस्य जातं स जनकतनयां ज्ञातुमम्भोधिपारम् ।
व्यापाद्यायोधने तं दशवदनमथ प्रेषयन्नाशु वार्तां
देव्यै दूतं दधे यं वितरतु नमतामार्तिहन्त्रीं स वार्ताम् ॥ ३९॥
संसेव्याशोकवन्यां रघुपतिदयितां क्रूरवाग्राक्षसीनां
संहारं यश्चिकीर्षुस्सदयमभिहितस्सेविकास्स्वाम्यधीनाः ।
संरक्षन्त्यस्तदाज्ञामदधत यदि तत् कोऽपराधोऽत्र तासां
संहार्या नेति देव्या कलयतु स दयां नन्तृषु क्षान्तमन्तुः ॥ ४०॥
आदिष्टो राघवेण प्रभुमपि जटिलं स्थण्डिले संविशन्तं
नन्दिग्रामे निविष्टं भरतमभिगतो ज्येष्ठभक्तौ सुनिष्ठम् ।
दृष्ट्वा शत्रुघ्नजुष्टं रघुपतिपदवीदत्तदृष्टिं स भक्त-
श्रेष्ठं मेने मनीषी जनयतु विनयं मारुतिर्मानसे नः ॥ ४१॥
नाथस्याथाभिषेके नयनसरसिजस्यादितानन्दवाष्पं
जानाना जानकी यं पतिमतिमतनोद्धारदानेन धन्यम् ।
नित्यं सौमित्रिसीतासहितरघुवरं वन्दमानो हनूमान्
वश्यो दिश्यादवश्यं दिशमथ विदिशं व्यश्नुवानं यशो नः ॥ ४२॥
मोक्षं नाथप्रसादात् करगतमति यो व्याक्षिपंस्तस्य गाथां
गायन् शृण्वंस्तदीयं चरितमयमवन्नापदस्तस्य भक्तान् ।
तत्त्वं सत्त्वे स्थितेभ्यः परममुपदिशन् सञ्चरन् सम्प्रसद्य
सद्यश्शोकं स नुद्यात् सदयमनिलभूरद्य लोकस्य सर्वम् ॥ ४३॥
येन स्पर्धां दधानस्स्वयमनिलभुवा नारदो भक्तिगाने
गानैर्यस्य स्वकीयां द्रवदुपलपुटे मज्जितां वीक्ष्य वीणाम् ।
गाने नूनं हनूमान् प्रथम इति वदन् लज्जितस्तज्जितोऽभूत्
मानातीतं नतेभ्यो न इह स तनुतां गानविज्ञानदानम् ॥ ४४॥
रामं स्कन्धाधिरूढं समरभुविचचारोद्वहन् वर्ष्मणा यो
रामं सङ्कीर्तयन् यो विहरति सततं तं वहन्नेव वाचा ।
रामं ध्यायन् हनूमान् विचरति परितस्तं वहन् मानसेन
यातः पायादपायाद्रघुपतिमयतां कायवाङ्मानसैर्नः ॥ ४५॥
कृष्णं विष्णुं स जानन्नपि परपुरुषं राघवान्यावतारं
रामाकारे दिदृक्षुः पुनरपि पुरतो मारुतिस्तेन युद्धान् ।
विभ्राणे राघवस्याकृतिमथ पतितः पादयोस्तस्य दास्यं
स्पष्टं व्याचष्ट यस्स्वं प्रदिशतु भगवान् भक्तियोगं परं नः ॥ ४६॥
पुष्पं सौगन्धिकाख्यं हिमगिरिविपिने कृष्णया प्रार्थितं यत्
भ्रात्रे भीमाय तस्मै तदवचयकृतेः काम्यया भ्राम्यते प्राक् ।
सन्दर्श्यानुग्रहं यो व्यतरदपहरन् स्कन्धयोरस्य गन्धं
गन्धं संसारबन्धप्रदमपहरताद् गन्धवाहात्मजो नः ॥ ४७॥
पार्थादन्यत्र दिव्यां दृशमधिगमितात् सञ्जयाद्वा प्रबुद्धात्
पार्थस्य स्यन्दनाग्रे कपिकुलतिलकान्मारुतेर्वा ध्वजस्थात् ।
सार्थां श्रोतुं हि गीतां परमपुरुषतो निःसृतां कः समर्थः
सोऽर्थं गीतोपदिष्टं कपिरुपदिशतादस्मदुज्जीवनार्थम् ॥ ४८॥
मध्ये सिन्धोर्भवाब्धेरिव पुरुषतनावत्र लङ्काख्यपुर्यां
सीतेवाप्य द्विपञ्चेन्द्रिययुतमनसाऽत्मा दशास्येन बन्धम् ।
आचार्यादेव नन्दत्यनिलभुव इवाकर्ण्य नाथस्य वार्तां
इत्यध्यात्मीयरामायणमधि महितो मारुतिस्ताद् गुरुर्नः ॥ ४९॥
लोकेऽद्यालोकहीने सपदि कलियुगे संस्कृते लुप्यमाने
लोको रामायणं तत् पठतु कथमिति प्राप्य चिन्तां परां ताम् ।
हिन्दीरामायणं यः कविवरतुलसीदासतो भक्तिभावैः
पूर्णं तूर्णं प्रणाय्य व्यवृणुत सनृणां मारुतिश्चारुशीलः ॥ ५०॥
क्रव्यादानां विभाव्यं पुरवरमखिलं हव्यवाहेन दग्ध्वा
देव्यास्संसेव्य नव्याम्बुजसदृशपदं सेव्यमाश्राव्य भूयः ।
अभ्यर्णे वर्णयिष्यंस्तदथ रघुपतेः तीर्णवन्नर्णवं भोः
तूर्णं कर्णावतीर्णं कुरु सुत मरुतस्तोत्रमुद्गीर्णमेतत् ॥ ५१॥
उग्रं वा शान्तमूर्तिं दशमुखनगरे विष्टमङ्गुष्ठमात्रं
अग्रे सौमित्रिसीतासहितरघुपतेः तूर्णकर्णावतीर्णम् । (प्रश्रयेणोपविष्टम् ।)
व्यग्रा निध्याय सद्यो निजहृदि बहुधा सिद्धिमासेदिवांसः
सुग्राह्यां पावमानेरिति हि नुतिमिमादरेणाददीरन् ॥ ५२॥
एतां पञ्चाशतं यः पठति हनुमतः प्रश्रितो या शृणोति
भक्त्या तात्पर्यमस्य प्रवचनविधिना श्रावयत्यन्यभक्तान् ।
तद्दृष्ट्या कुष्ठयक्ष्मोदरहृदयशिरःकर्कटादीन् स रोगान्
उल्लङ्घ्योल्लाघभूतस्सुखमनुभविता शश्वदुल्लासशीलः ॥ ५३॥
प्रत्नं रत्नाकरस्य प्रथितमपि यशो दुस्तरत्वे निरस्य
यत्नैर्येन प्रणीतैरभवदवसितो रामसीतावियोगः ।
रत्नं रामायणाख्यस्रज इति कविभिर्मारुतेः कीर्तितस्य
यत्नस्तस्यार्चने नः क्षणमपि विहितो नित्यकल्याणहेतुः ॥ ५४॥
श्रीरामो विश्वसर्गस्थितिविलयकरो यः परब्रह्मभूतः
भूलोकेऽन्नावतीर्णो दशलपनविलोपाय मायामनुष्यः ।
चक्रे सन्दर्शया नः शुभचरितमिषेणैकमादर्शमार्गं
स्तोत्रं दासस्य तस्योदितमनिलभुवस्तन्मुदे तत्सवेदम् ॥ ५५॥
सुन्दरराजग्रथितं सुन्दरकाण्डाधिनायकस्तोत्रम् ।
सुन्दरमेतत् पठिता नन्दति मुक्तः पुमान् रोगात् ॥ ५६॥
इति श्रीसुन्दरराजकृता श्रीहनूमत्पञ्चाशत् समाप्ता ॥
(रोगदुःखनाशक श्रीहनूमत्पञ्चाशत्)
कवि- श्री सुन्दरराजः ।
माता- श्रीमती वञ्जुवल्ली ।
पिता आशुकविसार्वभौम विल्लूर श्रीनिवासराघवाचार्य स्वामी
जन्म तिथि-१३-९-१९३६, जन्मस्थान-तञ्जावूर जनपदान्तर्गत देवनाथविलास ग्राम
शिक्षा-एम.ए. (रसायन शास्त्र), आइ.ए.एस (ओडिशां प्राप्तावकाशः)
(स्रग्धरा छन्द)
स्रग्धरा म्रौ भ्नौ यौ य् त्रिःसप्तकाः (पिङ्गल छन्द शास्त्र, ७/२५)
यस्य पादे मगण-रगण-मगण-नगणास्त्रयश्च यगणाः
(ऽऽऽ, ऽ॥अ, ऽ॥, ॥।, ॥अऽ, ॥अऽ, ॥अऽ)।
सप्तसु, सप्तसु, सप्तसु च यतिः । (ऽ - गुरु, । - लघु)
मगण रगण भगण नगण यगण यगण यगण
(ऽऽऽ) (ऽ॥अ) (ऽ॥) (॥।) (॥अऽ) (॥अऽ) (॥अऽ)
(स्रग्धरा छन्द लक्षणश्लोकः)
रेखा-भ्रूः शूभ्रद-न्त(७)द्युति-हसित-शर(७)श्चन्द्रिकाचा-रुमूर्ति(७)-
र्माद्यन्मा-तङ्गली-ला(७)गति-रतिवि-पुला(७)भो-गतुङ्ग-स्तनी या(७) ।
रम्भास्त-म्भोपमो-रू(७)रलि-मलिन-धन(७)स्नि-ग्धधम्मि-ल्लहस्ता(७)
बिम्बोष्ठी रक्तक-ण्ठी(७)दिश-तु रति-सुखं(७)स्र-ग्धरा सु-न्दरीयम्(७) ॥