श्रीहनुमत्स्तवः
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ आञ्जनेयाय विद्महे । रामदूताय धीमहि ।
तन्नो यजः प्रचोदयात् ॥
पवमानसुतं वीरं बलिष्ठं बलदायकम् ।
पाथोधितारणं भीमं हनुमन्तं नमाम्यहम् ॥ १॥
अणिमाद्यष्टसिद्धिं च आरोग्यबुद्धिदायिनम् ।
असमानप्रभावं तं आञ्जनेयं नमाम्यहम् ॥ २॥
अवरं वरभक्ताग्रं प्राञ्जलिप्रार्थनावरम् ।
वररागलयज्ञं तं मरुज्जातं नमाम्यहम् ॥ ३॥
रामभक्तिमुदाप्लावं भक्तिसागरपारगम् ।
नामध्यानसमाधिस्थं मारुतिं प्रणमाम्यहम् ॥ ४॥
सीताराममहत्प्रेष्ठं सीताहृच्छिद्रशामनम् ।
सीतारामपरानिष्ठं महावीरं नमाम्यहम् ॥ ५॥
वाक्सौष्ठवातिनैपुण्यं महामेधाविलासिनम् ।
वाक्शब्दस्वरमाधुर्यं वातात्मजं नमाम्यहम् ॥ ६॥
गीतसुस्वरसानन्दं आनन्दबाष्पकण्ठिनम् ।
अतिमाधुर्यगायन्तं वायुपुत्रं नमाम्यहम् ॥ ७॥
रामनामफलाशं तं नामकीर्तनतन्मयम् ।
त्यागराजकृतिप्रीतं रामभक्तं नमाम्यहम् ॥ ८॥
नवव्याकरणाभिज्ञं तत्त्वसुज्ञानपण्डितम् ।
नवैतन्नुतिसान्निध्यं नमस्कर्यं प्रणौम्यहम् ॥ ९॥
त्यागराजगुरुस्वामिशिष्यापुष्पाकृपाकरम् ।
कष्टाधिवारणं वन्दे इष्टेष्टिसिद्धिपूरणम् ॥ १०॥
वानरश्रेष्ठरत्नं तं रामभक्तिरसार्णवम् ।
पाठितश्लोकसङ्गीतं परमानन्दमङ्गलम् ॥ ११॥
मङ्गलं रामदूताय कपीशाय सुमङ्गलम् ।
मङ्गलं भक्तिवन्द्याय आञ्जनेयाय मङ्गलम् ॥ १२॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतः
श्रीहनुमत्स्तवः गुरौ समर्पितः ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan