जय मारुते
मन्दात्मकं मारुतिस्तोत्रम् ।
ॐ नमो वायुपुत्राय भीमरूपाय धीमते ।
नमस्ते रामदूताय कामरूपाय श्रीमते ॥ १॥
मोहशोकविनाशाय सीताशोकविनाशिने ।
भग्नाशोकवनायास्तु दग्धलङ्काय वाग्मिने ॥ २॥
गतिनिर्जितवाताय लक्ष्मणप्राणदाय च ।
वनौकसां वरिष्ठाय वशिने वनवासिने ॥ ३॥
तत्त्वज्ञानसुधासिन्धुनिमग्नाय महीयसे ।
आञ्जनेयाय शूराय सुग्रीवसचिवाय ते ॥ ४॥
जन्ममृत्युभयघ्नाय सर्वक्लेशहराय च ।
नेदिष्ठाय प्रेतभूतपिशाचभयहारिणे ॥ ५॥
यातनानाशनायास्तु नमो मर्कटरूपिणे ।
यक्षराक्षसशार्दूलसर्पवृश्चिकभीहृते ॥ ६॥
महाबलाय वीराय चिरञ्जीविन उद्धते ।
हारिणे वज्रदेहाय चोल्लङ्घितमहाब्धये ॥ ७॥
बलिनामग्रगण्याय नमो नमः पाहि मारुते ।
लाभदोऽसि त्वमेवाशु हनुमन् राक्षसान्तक ।
यशो जयं च मे देहि शत्रून्नाशय नाशय ॥ ८॥
श्रीवासुदेवानन्दसरस्वती ।
सङ्गीतेन वशीकरोति वरदं क्ष्माजाधवं राघवं
यश्चामीकरचारुगात्रसुषमां विस्तारयत्यद्भुताम् ।
नानातालकलाकलापनिपुणः कौशन्यवद्गायति
स प्रीणातु प्रशस्तगानरसिकव्यामोदिशाखामृगः ॥
सङ्गीतपारिजततः ।
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ १०॥
रामराक्षास्तोत्रतः ।
मारुतिं वीरवज्राङ्गं भक्तरक्षणदीक्षितम् ।
हनुमन्तं सदा वन्दे राममन्त्रप्रचारकम् ॥ ११॥
हनुमन्नञ्जनासूनो वायुपुत्र महाबल ।
अकस्मादागतोत्पातं नाशयाशु नमोऽस्तु ते ॥ १२॥
कुतोऽपि - (सोउर्चे उन्क्नोव्न्)
उद्यन्मार्तण्डतेजःप्रसरपरिगतारक्तमेरुप्रभाभं
वज्रप्रान्तानुकारि प्रखरनखमुखाघात सन्दारितारिम् ।
लोलल्लाङ्गूल लीलालुलित खलदलोद्दाम दर्पान्धनाकं
कालं क्रूरग्रहाणां शतभयशमनं नौमि वायोः सुबालम् ॥ १२॥
धीरं धीरं धरित्रीं पदकमलमुखन्याससम्पीडयन्तं
निक्वाणैर्नाशयन्तं निखिलकलिमलं तालजैः कङ्कणानाम् ।
गायन्तं राम रामेत्यतिरतिरभसैः राघवं संस्मरन्तं
सङ्गीताचार्यवर्यं कविकुलतिलकं मारुतिं नौमि वीरम् ॥ १४॥
कूर्मो मूलवदालवालवदपां नाथो लतावद्दिशो
मेघाः पल्लववत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः ।
स्वामिन् ! व्योमतरुर्मम क्रमतले श्रुत्वेति गां मारुतेः
सीतान्वेषणमादिशन् दिशतु वो रामः सहर्षः श्रियम् ॥ १५॥
हनुमन्नाटकतः
खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् ।
ध्रुवमुष्टिगदामुण्डं दशभिः कपिपुङ्गवम् ॥
एतान्यायुधजालानि धारयन्तं यजामहे ॥ १६॥
श्रीविद्यार्णवतः
स्वप्रभोर्वाहकश्रेष्ठः श्वेतच्छत्रितपुच्छकः ।
सुखासनमहापृष्ठः सेतुबन्धक्रियाग्रणीः ॥ १७॥
कदाऽपि शुभ्रैर्वरचामरैः प्रभुं
गायन् गुणान्वीजयति स्थितोऽग्रतः ।
कदाऽप्युपश्लोकयति स्वनिर्मितैः
चित्रैः स्तवैः श्रीहनुमान्कृताञ्जलिः ॥ १८॥
बृहद्भागवतामृततः
नखायुधाय भीमाय दन्तायुधधराय च ।
विहगाय च शर्वाय वज्रदेहाय ते नमः ॥ १९॥
ज्वलत्काञ्चनवर्णाय दीर्घलाङ्गूलधारिणे ।
सौमित्रिजयदात्रे च रामदूताय ते नमः ॥ २०॥
नारदपुराणतः
द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् ।
मौञ्जीकौपीनसहितं मां ध्यायेद्रामसेवकम् ॥ २१॥
रामरहस्योपनिषदि
श्रीविष्णोः श्रवणे परीक्षिदभवद्वैयासकिः कीर्तने
प्रह्लादः स्मरणे, तदङ्घ्रिभजने लक्ष्मीः पृथुः पूजने ।
अक्रूरस्त्वभिनन्दने कपिपतिर्दास्येऽथ सख्येऽर्जुनः
सर्वस्वात्मनिवेदने बलिरभूत् कृष्णाप्तिरेषां परम् ॥ २२॥
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।
तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः ।
पौरुषं विक्रमो बुद्धिः यस्मिन्नेतानि नित्यदा ।
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ।
वाल्मीकि रामायणतः ।
मरुत्सुतं रामपदारविन्दवन्दारु वृन्दारकमाशु वन्दे ।
धीशक्तिभक्तिद्युतिसिद्धयो यं कान्तां स्वकान्तामिव कामयन्ते ॥ २६॥
रामचरिताब्धिरत्नतः ।
स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् ।
कुण्डलद्वयसंशोभिमुखाम्बुजमहं भजे ॥ २७॥
हनूमान् रामपादाब्जसङ्गी वर्णिवरः शुचिः ।
सञ्जीवनोपहर्ता मे दीर्घमायुर्ददात्विह ॥ २८॥
श्रीतत्त्वनिधितः ।
सदा राम रामेति नामामृतं ते सदाराममानन्दनिष्यन्दकन्दम् ।
पिबन्तं नमन्तं सुदन्तं हसन्तं हनूमन्तमन्तर्भजे तं नितान्तम् ॥ १९॥
From Hanumatstutimanjari, Mahaperiaval Publication
Proofread by PSA Easwaran psaeaswaran at gmail