११ श्रीमद्देवीभागवतमहापुराणे एकादशः स्कन्धः
११.१ प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।
नारद उवाच ।
भगवन् भूतभव्येश नारायण सनातन ।
आख्यातं परमाश्चर्यं देवीचारित्रमुत्तमम् ॥ १॥
प्रादुर्भावः परो मातुः कार्यार्थमसुरद्रुहाम् ।
अधिकाराप्तिरुक्तात्र देवीपूर्णकृपावशात् ॥ २॥
अधुना श्रोतुमिच्छामि येन प्रीणाति सर्वदा ।
स्वभक्तान्परिपुष्णाति तमाचारं वद प्रभो ॥ ३॥
श्रीनारायण उवाच ।
शृणु नारद तत्त्वज्ञ सदाचारविधिक्रमम् ।
यदनुष्ठानमात्रेण देवी प्रीणाति सर्वदा ॥ ४॥
प्रातरुत्थाय कर्तव्यं यद् द्विजेन दिने दिने ।
तदहं सम्प्रवक्ष्यामि द्विजानामुपकारकम् ॥ ५॥
उदयास्तमयं यावद् द्विजः सत्कर्मकृद्भवेत् ।
नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगर्हितैः ॥ ६॥
आत्मनश्च सहायार्थं पिता माता न तिष्ठति ।
न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलम् ॥ ७॥
तस्माद्धर्मं सहायार्थं नित्यं सञ्चिनु साधनैः ।
धर्मेणैव सहायात्तु तमस्तरति दुस्तरम् ॥ ८॥
आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च ।
तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मनो द्विजः ॥ ९॥
आचाराल्लभते चायुराचाराल्लभते प्रजाः ।
आचारादन्नमक्षय्यमाचारो हन्ति पातकम् ॥ १०॥
आचारः परमो धर्मो नृणां कल्याणकारकः ।
इह लोके सुखी भूत्वा परत्र लभते सुखम् ॥ ११॥
अज्ञानान्धजनानां तु मोहितैर्भ्रामितात्मनाम् ।
धर्मरूपो महादीपो मुक्तिमार्गप्रदर्शकः ॥ १२॥
आचारात्प्राप्यते श्रैष्ठ्यमाचारात्कर्म लभ्यते ।
कर्मणो जायते ज्ञानमिति वाक्यं मनोः स्मृतम् ॥ १३॥
सर्वधर्मवरिष्ठोऽयमाचारः परमं तपः ।
तदेव ज्ञानमुद्दिष्टं तेन सर्वं प्रसाध्यते ॥ १४॥
यस्त्वाचारविहीनोऽत्र वर्तते द्विजसत्तमः ।
स शूद्रवद् बहिष्कार्यो यथा शूद्रस्तथैव सः ॥ १५॥
आचारो द्विविधः प्रोक्तः शास्त्रीयो लौकिकस्तथा ।
उभावपि प्रकर्तव्यौ न त्याज्यौ शुभमिच्छता ॥ १६॥
ग्रामधर्मा जातिधर्मा देशधर्माः कुलोद्भवाः ।
परिग्राह्या नृभिः सर्वैर्नैव ताँल्लङ्घयेन्मुने ॥ १७॥
दुराचारो हि पुरुषो लोके भवति निन्दितः ।
दुःखभागी च सततं व्याधिना व्याप्त एव च ॥ १८॥
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
धर्ममप्यसुखोदर्कं लोकविद्विष्टमेव च ॥ १९॥
नारद उवाच ।
बहुत्वादिह शास्त्राणां निश्चयः स्यात्कथं मुने ।
कियत्प्रमाणं तद् ब्रूहि धर्ममार्गविनिर्णये ॥ २०॥
श्रीनारायण उवाच ।
श्रुतिस्मृती उभे नेत्रे पुराणं हृदयं स्मृतम् ।
एतत्त्रयोक्त एव स्याद्धर्मो नान्यत्र कुत्रचित् ॥ २१॥
विरोधो यत्र तु भवेत्त्रयाणां च परस्परम् ।
श्रुतिस्तत्र प्रमाणं स्याद् द्वयोर्द्वैधे स्मृतिर्वरा ॥ २२॥
श्रुतिद्वैधं भवेद्यत्र तत्र धर्मावुभौ स्मृतौ ।
स्मृतिद्वैधं तु यत्र स्याद्विषयः कल्प्यतां पृथक् ॥ २३॥
पुराणेषु क्वचिच्चैव तन्त्रदृष्टं यथातथम् ।
धर्मं वदन्ति तं धर्मं गृह्णीयान्न कथञ्चन ॥ २४॥
वेदाविरोधि चेत्तन्त्रं तत्प्रमाणं न संशयः ।
प्रत्यक्षश्रुतिरुद्धं यत्तत्प्रमाणं भवेन्न च ॥ २५॥
सर्वथा वेद एवासौ धर्ममार्गप्रमाणकः ।
तेनाविरुद्धं यत्किञ्चित्तत्प्रमाणं न चान्यथा ॥ २६॥
यो वेदधर्ममुज्झित्य वर्ततेऽन्यप्रमाणतः ।
कुण्डानि तस्य शिक्षार्थं यमलोके वसन्ति हि ॥ २७॥
तस्मात्सर्वप्रयत्नेन वेदोक्तं धर्ममाश्रयेत् ।
स्मृतिः पुराणमन्यद्वा तन्त्रं वा शास्त्रमेव च ॥ २८॥
तन्मूलत्वे प्रमाणं स्यान्नान्यथा तु कदाचन ।
ये कुशास्त्राभियोगेन वर्तयन्तीह मानवान् ॥ २९॥
अधोमुखोर्ध्वपादास्ते यास्यन्ति नरकार्णवम् ।
कामाचाराः पाशुपतास्तथा वै लिङ्गधारिणः ॥ ३०॥
तप्तमुद्राङ्किता ये च वैखानसमतानुगाः ।
ते सर्वे निरयं यान्ति वेदमार्गबहिष्कृताः ॥ ३१॥
वेदोक्तमेव सद्धर्मं तस्मात्कुर्यान्नरः सदा ।
उत्थायोत्थाय बोद्धव्यं किं मयाद्य कृतं कृतम् ॥ ३२॥
दत्तं वा दापितं वापि वाक्येनापि च भाषितम् ।
उपपापेषु सर्वेषु पातकेषु महत्स्वपि ॥ ३३॥
अवाप्य रजनीयामं ब्रह्मध्यानं समाचरेत् ।
ऊरुस्थोत्तानचरणः सव्ये चोरौ तथोत्तरम् ॥ ३४॥
उत्तानं किञ्चिदुत्तानं मुखमवष्टभ्य चोरसा ।
निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तान्न संस्पृशेत् ॥ ३५॥
तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः ।
सन्निरुद्धेन्द्रियग्रामो नातिनिम्नस्थितासनः ॥ ३६॥
द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् ।
ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥ ३७॥
धारयेत्तत्र चात्मानं धारणां धारयेद्बुधः ।
सधूमश्च विधूमश्च सगर्भश्चाप्यगर्भकः ॥ ३८॥
सलक्ष्यश्चाप्यलक्ष्यश्च प्राणायामस्तु षड्विधः ।
प्राणायामसमो योगः प्राणायाम इतीरितः ॥ ३९॥
प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः ।
वर्णत्रयात्मका ह्येते रेचपूरककुम्भकाः ॥ ४०॥
स एव प्रणवः प्रोक्तः प्राणायामश्च तन्मयः ।
इडया वायुमारोप्य पूरयित्वोदरे स्थितम् ॥ ४१॥
शनैः षोडशमात्राभिरन्यया तं विरेचयेत् ।
एवं सधूमः प्राणानामायामः कथितो मुने ॥ ४२॥
आधारेलिङ्गनाभिप्रकटितहृदये तालुमूले ललाटे
द्वे पत्रे षोडशारे द्विदशदशदलद्वादशार्धे चतुष्के ।
वासान्ते बालमध्ये डफकतसहिते कण्ठदेशे स्वराणां
हङ्क्षन्तत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥ ४३॥
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
हरनियमितचिह्ना पद्मतन्तुस्वरूपा ।
रविहुतवहराकानायकास्यस्तनाढ्या
सकृदपि यदि चित्ते संवसेत्स्यात्स भुक्तः ॥ ४४॥
स्थितिः सैव गतिर्यात्रा मतिश्चिन्ता स्तुतिर्वचः ।
अहं सर्वात्मको देवः स्तुतिः सर्वं त्वदर्चनम् ॥ ४५॥
अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ।
सच्चिदानन्दरूपोऽहं स्वात्मानमिति चिन्तयेत् ॥ ४६॥
प्रकाशमानां प्रथमे प्रयाणे
प्रतिप्रयाणेऽप्यमृतायमानाम् ।
अन्तःपदव्यामनुसञ्चरन्ती-
मानन्दरूपामबलां प्रपद्ये ॥ ४७॥
ततो निजब्रह्मरन्ध्रे ध्यायेत्तं गुरुमीश्वरम् ।
उपचारैर्मानसैश्च पूजयेत्तु यथाविधि ॥ ४८॥
स्तुवीतानेन मन्त्रेण साधको नियतात्मवान् ।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ४९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे
मनुकृतंदेवीस्तवनं नाम प्रथमोऽध्यायः ॥ ११.१॥
११.२ द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।
श्रीनारायण उवाच ।
आचारहीनं न पुनन्ति वेदा
यदप्यधीताः सह षड्भिरङ्गैः ।
छन्दांस्येनं मृत्युकाले त्यजन्ति
नीडं शकुन्ता इव जातपक्षाः ॥ १॥
ब्राह्मे मुहूर्त्ते चोत्थाय तत्सर्वं सम्यगाचरेत् ।
रात्रेरन्तिमयामे तु वेदाभ्यासं चरेद् बुधः ॥ २॥
किञ्चित्कालं ततः कुर्यादिष्टदेवानुचिन्तनम् ।
योगी तु पूर्वमार्गेण ब्रह्मध्यानं समाचरेत् ॥ ३॥
जीवब्रह्मैक्यता येन जायते तु निरन्तरम् ।
जीवन्मुक्तश्च भवति तत्क्षणादेव नारद ॥ ४॥
पञ्चपञ्च उषःकालः सप्तपञ्चारुणोदयः ।
अष्टपञ्चभवेत्प्रातः शेषः सूर्योदयः स्मृतः ॥ ५॥
प्रातरुत्थाय यः कुर्याद्विण्मूत्रं द्विजसत्तमः ।
नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ॥ ६॥
विण्मूत्रेऽपि च कर्णस्थ आश्रमे प्रथमे द्विजः ।
निवीतं पृष्ठतः कुर्याद्वानप्रस्थगृहस्थयोः ॥ ७॥
कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् ।
विण्मूत्रं तु गृही कुर्यात्कर्णस्थं प्रथमाश्रमी ॥ ८॥
अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा ।
वाचं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः ॥ ९॥
न फालकृष्टे न जले न चितायां न पर्वते ।
जीर्णदेवालये कुर्यान्न वल्मीके न शाद्वले ॥ १०॥
न ससत्त्वेषु गर्तेषु न गच्छन्न पथि स्थितः ।
सन्ध्ययोरुभयोर्जप्ये भोजने दन्तधावने ॥ ११॥
पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः ।
उत्साहे मैथुने वापि तथा वै गुरुसन्निधौ ॥ १२॥
यागे दाने ब्रह्मयज्ञे द्विजो मौनं समाचरेत् ।
देवता ऋषयः सर्वे पिशाचोरगराक्षसाः ॥ १३॥
इतो गच्छन्तु भूतानि बहिर्भूमिं करोम्यहम् ।
इति सम्प्रार्थ्य पश्चात्तु कुर्याच्छौचं यथाविधि ॥ १४॥
वाय्वग्नी विप्रमादित्यमापः पश्यंस्तथैव गाः ।
न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ १५॥
उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः ।
तत आच्छाद्य विण्मूत्रं लोष्ठपर्णतृणादिभिः ॥ १६॥
गृहीतलिङ्ग उत्थाय स गच्छेद्वारिसन्निधौ ।
पात्रे जलं गहीत्वा तु गच्छेदन्यत्र चैव हि ॥ १७॥
गृहीत्वा मृत्तिकां कूलाच्छ्वेतां ब्राह्मणसत्तमः ।
रक्तां पीतां तथा कृष्णां गृह्णीयुश्चान्यवर्णकाः ॥ १८॥
अथवा या यत्र देशे सैव ग्राह्या द्विजोत्तमैः ।
अन्तर्जलाद्देवगृहाद्वल्मीकान्मूषकोत्करात् ॥ १९॥
कृतशौचावशिष्टाच्च न ग्राह्याः पञ्चमृत्तिकाः ।
मूत्रात्तु द्विगुणं शौचे मैथुने त्रिगुणं स्मृतम् ॥ २०॥
एका लिङ्गे करे तिस्र उभयोर्मृद्द्वयं स्मृतम् ।
मूत्रशौचं समाख्यातं शौचे तद् द्विगुणं स्मृतम् ॥ २१॥
विट्शौचे लिङ्गदेशे तु प्रदद्यान्मृत्तिकाद्वयम् ।
पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥ २२॥
वामपादं पुरस्कृत्य पश्चाद्दक्षिणमेव च ।
प्रत्येकं च चतुर्वारं मृत्तिकां लेपयेत्सुधीः ॥ २३॥
एवं शौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः ।
त्रिगुणं वानप्रस्थस्य यतीनां च चतुर्गुणम् ॥ २४॥
आर्द्रामलकमाना तु मृत्तिका शौचकर्मणि ।
प्रत्येकं तु सदा ग्राह्या नातो न्यूना कदाचन ॥ २५॥
एतद्दिवा स्याद्विट्शौचं तदर्धं निशि कीर्तितम् ।
आतुरस्य तदर्धं तु मार्गस्थस्य तदर्धकम् ॥ २६॥
स्त्रीशूद्राणामशक्तानां बालानां शौचकर्मणि ।
यथा गन्धक्षयः स्यात्तु तथा कुर्यादसङ्ख्यकम् ॥ २७॥
गन्धलेपक्षयो यावत्तावच्छौचं विधीयते ।
सर्वेषामेव वर्णानामित्याह भगवान्मनुः ॥ २८॥
वामहस्तेन शौचं तु कुर्याद्वै दक्षिणेन न ।
नाभेरधो वामहस्तो नाभेरूर्ध्वं तु दक्षिणः ॥ २९॥
शौचकर्मणि विज्ञेयो नान्यथा द्विजपुङ्गवैः ।
जलपात्रं न गृह्णीयाद्विण्मूत्रोत्सर्जने बुधः ॥ ३०॥
गृह्णीयाद्यदि मोहेन प्रायश्चित्तं चरेत्ततः ।
मोहाद्वाप्यथवाऽऽलस्यान्न कुर्याच्छौचमात्मनः ॥ ३१॥
जलाहारस्त्रिरात्रः स्यात्ततो जापाच्च शुध्यति ।
देशकालद्रव्यशक्तिस्वोपपत्तीश्च सर्वशः ॥ ३२॥
ज्ञात्वा शौचं प्रकर्तव्यमालस्यं नात्र धारयेत् ।
पुरीषोत्सर्जने कुर्याद् गण्डूषान्द्वादशैव तु ॥ ३३॥
चतुरो मूत्रविक्षेपे नातो न्यूनान्कदाचन ।
अधोमुखं नरः कृत्वा त्यजेत्तं वामतः शनैः ॥ ३४॥
आचम्य च ततः कुर्याद्दन्तधावनमादरात् ।
कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलमव्रणम् ॥ ३५॥
कनिष्ठिकाग्रवत्स्थूलं पूर्वार्धे कृतकूर्चकम् ।
करञ्जोदुम्बरौ चूतः कदम्बो लोध्रचम्पकौ ।
बदरीति द्रुमाश्चेति प्रोक्ता दन्तप्रधावने ॥ ३६॥
अन्नाद्याय व्यूहध्वंसे सोमो राजायमागमत् ।
स मे मुखं प्रक्षाल्य तेजसा च भगेन च ॥ ३७॥
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पते ॥ ३८॥
अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेषु च ।
अपां द्वादशगण्डूषैर्विदध्याद्दन्तधावनम् ॥ ३९॥
रवेर्दिने यः कुरुते प्राणी दन्तस्य धावनम् ।
सविता भक्षितस्तेन स्वकुलं तेन घातितम् ॥ ४०॥
प्रतिपद्दर्शषष्ठीषु नवम्येकादशीरवौ ।
दन्तानां काष्ठसंयोगाद्दहत्यासप्तमं कुलम् ॥ ४१॥
कृत्वालं पादशौचं ह्यमलमथ जलं
त्रिःपिबेद् द्विर्विमृज्य
तर्जन्याङ्गुष्ठवत्या सजलमभिमृशे-
न्नासिकारन्ध्रयुग्मम् ।
अङ्गुष्ठानामिकाभ्यां नयनयुगयुतं
कर्णयुग्मं कनिष्ठा-
ङ्गुष्ठाभ्यां नाभिदेशे हृदयमथ तले-
नाङ्गुलीभिः शिरांसि ॥ ४२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
एकादशस्कन्धे शौचविधिवर्णनं नाम द्वितीयोऽध्यायः ॥ ११.२॥
११.३ तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
(शुद्धं स्मार्तं चाचमनं पौराणं वैदिकं तथा ।
तान्त्रिकं श्रौतमित्याहुः षड्विधं श्रुतिचोदितम् ॥
विण्मूत्रादिकशौचं च शुद्धं च परिकीर्तितम् ।
स्मार्तं पौराणिकं कर्म आचान्ते विधिपूर्वकम् ॥
वैदिकं श्रौत्रमित्यादि ब्रह्मयज्ञादिपूर्वकम् ।
अस्त्रविद्यादिकं कर्म तान्त्रिको विधिरुच्यते ॥)
स्मृत्वा चोङ्कारगायत्रीं निबध्नीयाच्छिखां तथा ।
पुनराचम्य हृदयं बाहू स्कन्धौ च संस्पृशेत् ॥ १॥
क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते ।
पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥ २॥
अग्निरापश्च वेदाश्च सोमः सूर्योऽनिलस्तथा ।
सर्वे नारद विप्रस्य कर्णे तिष्ठन्ति दक्षिणे ॥ ३॥
ततस्तु गत्वा नद्यादौ प्रातःस्नानं विशोधनम् ।
समाचरेन्मुनिश्रेष्ठ देहसंशुद्धिहेतवे ॥ ४॥
अत्यन्तमलिनो देहो नवद्वारैर्मलं वहन् ।
सदाऽऽस्ते तच्छोधनाय प्रातःस्नानं विधीयते ॥ ५॥
अगम्यागमनात्पापं यच्च पापं प्रतिग्रहात् ।
रहस्याचरितं पापं मुच्यते स्नानकर्मणा ॥ ६॥
अस्नातस्य क्रियाः सर्वा भवन्ति विफला यतः ।
तस्मात्प्रातश्चरेत्स्नानं नित्यमेव दिने दिने ॥ ७॥
दर्भयुक्तश्चरेत्स्नानं तथा सन्ध्याभिवन्दनम् ।
सप्ताहं प्रातरस्नायी सन्ध्याहीनस्त्रिभिर्दिनैः ॥ ८॥
द्वादशाहमनग्निः सन्द्विजः शूद्रत्वमाप्नुयात् ।
अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः ॥ ९॥
प्रातर्न तु तथा स्नायाद्धोमकाले विगर्हितः ।
गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥ १०॥
गायन्तं त्रायते यस्माद्गायत्रीत्यभिधीयते ।
प्रणवेन तु संयुक्तां व्याहृतित्रयसंयुताम् ॥ ११॥
वायुं वायौ जयेद्विप्रः प्राणसंयमनत्रयात् ।
ब्राह्मणः श्रुतिसम्पन्नः स्वधर्मनिरतः सदा ॥ १२॥
स वैदिकं जपेन्मन्त्रं लौकिकं न कदाचन ।
गौशृङ्गे सर्षपो यावत् तावद्येषां न स स्थिरः ॥ १३॥
न तारयन्त्युभौ पक्षौ पितॄनेकोत्तरं शतम् ।
सगर्भो जपसंयुक्तस्त्वगर्भो ध्यानमात्रकः ॥ १४॥
स्नानाङ्गतर्पणं कृत्वा देवर्षिपितृतोषकम् ।
शुद्धे वस्त्रे परीधाय जलाद्बहिरुपागतः ॥ १५॥
विभूतिधारणं कार्यं रुद्राक्षाणां च धारणम् ।
क्रमयोगेन कर्तव्यं सर्वदा जपसाधकैः ॥ १६॥
रुद्राक्षान्कण्ठदेशे दशनपरिमिता-
न्मस्तके विंशती द्वे
षट् षट् कर्णप्रदेशे करयुगलकृते
द्वादश द्वादशैव ।
बाह्वोरिन्दोः कलाभिर्नयनयुगकृते
त्वेकमेकं शिखायां
वक्षस्यष्टाधिकं यः कलयति शतकं
स स्वयं नीलकण्ठः ॥ १७॥
बद्ध्वा स्वर्णेन रुद्राक्षं रजतेनाथवा मुने ।
शिखायां धारयेन्नित्यं कर्णयोर्वा समाहितः ॥ १८॥
यज्ञोपवीते हस्ते वा कण्ठे तुन्देऽथवा नरः ।
श्रीमत्पञ्चाक्षरेणैव प्रणवेन तथापि वा ॥ १९॥
निर्व्याजभक्त्या मेधावी रुद्राक्षं धारयेन्मुदा ।
रुद्राक्षधारणं साक्षाच्छिवज्ञानस्य साधनम् ॥ २०॥
रुद्राक्षं यच्छिखायां तत्तारतत्त्वमिति स्मरेत् ।
कर्णयोरुभयोर्ब्रह्मन् देवं देवीं च भावयेत् ॥ २१॥
यज्ञोपवीते वेदांश्च तथा हस्ते दिशः स्मरेत् ।
कण्ठे सरस्वतीं देवीं पावकं चापि भावयेत् ॥ २२॥
सर्वाश्रमाणां वर्णानां रुद्राक्षाणां च धारणम् ।
कर्तव्यं मन्त्रतः प्रोक्तं द्विजानां नान्यवर्णिनाम् ॥ २३॥
रुद्राक्षधारणाद्रुद्रो भवत्येव न संशयः ।
पश्यन्नपि निषिद्धांश्च तथा शृण्वन्नपि स्मरन् ॥ २४॥
जिघ्रन्नपि तथा चाश्नन् प्रलपन्नपि सन्ततम् ।
कुर्वन्नपि सदा गच्छन्विसृजन्नपि मानवः ॥ २५॥
रुद्राक्षधारणादेव सर्वपापैर्न लिप्यते ।
अनेन भुक्तं देवेन भुक्तं यत्तु तथा भवेत् ॥ २६॥
पीतं रुद्रेण तत्पीतं घ्रातं घ्रातं शिवेन तत् ।
रुद्राक्षधारणे लज्जा येषामस्ति महामुने ॥ २७॥
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ।
रुद्राक्षधारिणं दृष्ट्वा परिवादं करोति यः ॥ २८॥
उत्पत्तौ तस्य साङ्कर्यमस्त्वेवेति विनिश्चयः ।
रुद्राक्षधारणादेव रुद्रो रुद्रत्वमाप्नुयात् ॥ २९॥
मुनयः सत्यसङ्कल्पा ब्रह्मा ब्रह्मत्वमागतः ।
रुद्राक्षधारणाच्छ्रेष्ठं न किञ्चिदपि विद्यते ॥ ३०॥
रुद्राक्षधारिणे भक्त्या वस्त्रं धान्यं ददाति यः ।
सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ ३१॥
रुद्राक्षधारिणं श्राद्धे भोजयेत विमोदतः ।
पितृलोकमवाप्नोति नात्र कार्या विचारणा ॥ ३२॥
रुद्राक्षधारिणः पादौ प्रक्षाल्याद्भिः पिबेन्नरः ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ३३॥
हारं वा कटकं वापि सुवर्णं वा द्विजोत्तमः ।
रुद्राक्षसहितं भक्त्या धारयन् रुद्रतामियात् ॥ ३४॥
रुद्राक्षं केवलं वापि यत्र कुत्र महामते ।
समन्त्रकं वा मन्त्रेण रहितं भाववर्जितम् ॥ ३५॥
यो वा को वा नरो भक्त्या धारयेल्लज्जयापि वा ।
सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ॥ ३६॥
अहो रुद्राक्षमाहात्म्यं मया वक्तुं न शक्यते ।
तस्मात्सर्वप्रयत्नेन कुर्याद्रुद्राक्षधारणम् ॥ ३७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे
सदाचारनिरूपणे रुद्राक्षमाहात्म्यवर्णनं नाम तृतीयोऽध्यायः ॥ ११.३॥
११.४ चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।
नारद उवाच ।
एवम्भूतानुभावोऽयं रुद्राक्षो भवतानघ ।
वर्णितो महतां पूज्यः कारणं तत्र किं वद ॥ १॥
श्रीनारायण उवाच ।
एवमेव पुरा पृष्टो भगवान् गिरिशः प्रभुः ।
षण्मुखेन च रुद्रस्तं यदुवाच शृणुष्व तत् ॥ २॥
ईश्वर उवाच ।
शृणु षण्मुख तत्त्वेन कथयामि समासतः ।
त्रिपुरो नाम दैत्यस्तु पुराऽऽसीत्सर्वदुर्जयः ॥ ३॥
जितास्तेन सुराः सर्वे बह्मविष्ण्वादिदेवताः ।
सर्वैस्तु कथिते तस्मिंस्तदाहं त्रिपुरं प्रति ॥ ४॥
अचिन्तयं महाशस्त्रमघोराख्यं मनोहरम् ।
सर्वदेवमयं दिव्यं ज्वलन्तं घोररूपि यत् ॥ ५॥
त्रिपुरस्य वधार्थाय देवानां तारणाय च ।
सर्वविघ्नोपशमनमघोरास्त्रमचिन्तयम् ॥ ६॥
दिव्यवर्षसहस्रं तु चक्षुरुन्मीलितं मया ।
पश्चान्ममाकुलाक्षिभ्यः पतिता जलबिन्दवः ॥ ७॥
तत्राश्रुबिन्दुतो जाता महारुद्राक्षवृक्षकाः ।
ममाज्ञया महासेन सर्वेषां हितकाम्यया ॥ ८॥
बभूवुस्ते च रुद्राक्षा अष्टत्रिंशत्प्रभेदतः ।
सूर्यनेत्रसमुद्भूताः कपिला द्वादश स्मृताः ॥ ९॥
सोमनेत्रोत्थिताः श्वेतास्ते षोडशविधाः क्रमात् ।
वह्निनेत्रोद्भवाः कृष्णा दश भेदा भवन्ति हि ॥ १०॥
श्वेतवर्णश्च रुद्राक्षो जातितो ब्राह्म उच्यते ।
क्षात्रो रक्तस्तथा मिश्रो वैश्यः कृष्णस्तु शूद्रकः ॥ ११॥
एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति ।
द्विवक्त्रो देवदेव्यो स्याद्विविधं नाशयेदघम् ॥ १२॥
त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् ।
चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ॥ १३॥
पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः ।
अभक्ष्यभक्षणोद्भूतैरगम्यागमनोद्भवैः ॥ १४॥
मुच्यते सर्वपापैस्तु पञ्चवक्त्रस्य धारणात् ।
षड्वक्त्रः कार्तिकेयस्तु स धार्यो दक्षिणे करे ॥ १५॥
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।
सप्तवक्त्रो महाभागो ह्यनङ्गो नाम नामतः ॥ १६॥
तद्धारणान्मुच्यते हि स्वर्णस्तेयादिपातकैः ।
अष्टवक्त्रो महासेन साक्षाद्देवो विनायकः ॥ १७॥
अन्तकूटं तूलकूटं स्वर्णकूटं तथैव च ।
दुष्टान्वयस्त्रियं वाथ संस्पृशंश्च गुरुस्त्रियम् ॥ १८॥
एवमादीनि पापानि हन्ति सर्वाणि धारणात् ।
विघ्नास्तस्य प्रणश्यन्ति याति चान्ते परं पदम् ॥ १९॥
भवन्त्येते गुणाः सर्वे ह्यष्टवक्त्रस्य धारणात् ।
नववक्त्रो भैरवस्तु धारयेद्वामबाहुके ॥ २०॥
भुक्तिमुक्तिप्रदः प्रोक्तो मम तुल्यबलो भवेत् ।
भ्रूणहत्यासहस्राणि ब्रह्महत्याशतानि च ॥ २१॥
सद्यः प्रलयमायान्ति नववक्त्रस्य धारणात् ।
दशवक्त्रस्तु देवेशः साक्षाद्देवो जनार्दनः ॥ २२॥
ग्रहाश्चैव पिशाचाश्च वेताला ब्रह्मराक्षसाः ।
पन्नगाश्चोपशाम्यन्ति दशवक्त्रस्य धारणात् ॥ २३॥
वक्त्रैकादशरुद्राक्षो रुद्रैकादशकं स्मृतम् ।
शिखायां धारयेद्यो वै तस्य पुण्यफलं शृणु ॥ २४॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ।
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ २५॥
तत्फलं लभते शीघ्रं वक्त्रैकादशधारणात् ।
द्वादशास्यस्य रुद्राक्षस्यैव कर्णे तु धारणात् ॥ २६॥
आदित्यास्तोषिता नित्यं द्वादशास्ये व्यवस्थिताः ।
गोभेधे चाश्वमेधे च यत्फलं तदवाप्नुयात् ॥ २७॥
शृङ्गिणां शस्त्रिणां चैव व्याघ्रादीनां भयं न हि ।
न च व्याधिभयं तस्य नैव चाधिः प्रकीर्तितः ॥ २८॥
न च किञ्चिद्भयं तस्य न च व्याधिः प्रवर्तते ।
न कुतश्चिद्भयं तस्य सुखी चैवेश्वरो भवेत् ॥ २९॥
हस्त्यश्वमृगमार्जारसर्पमूषकदर्दुरान् ।
खरांश्च श्वशृगालांश्च हत्वा बहुविधानपि ॥ ३०॥
मुच्यते नात्र सन्देहो वक्त्रद्वादशधारणात् ।
वक्त्रत्रयोदशो वत्स रुद्राक्षो यदि लभ्यते ॥ ३१॥
कार्तिकेयसमो ज्ञेयः सर्वकामार्थसिद्धिदः ।
रसो रसायनं चैव तस्य सर्वं प्रसिद्ध्यति ॥ ३२॥
तस्यैव सर्वभोग्यानि नात्र कार्या विचारणा ।
मातरं पितरं चैव भ्रातरं वा निहन्ति यः ॥ ३३॥
मुच्यते सर्वपापेभ्यो धारणात्तस्य षण्मुख ।
चतुर्दशास्यो रुद्राक्षो यदि लभ्येत पुत्रक ॥ ३४॥
धारयेत्सततं मूर्ध्नि तस्य पिण्डः शिवस्य तु ।
किं मुने बहुनोक्तेन वर्णनेन पुनः पुनः ॥ ३५॥
पूज्यते सन्ततं देवैः प्राप्यते च परा गतिः ।
रुद्राक्ष एकः शिरसा धार्यो भक्त्या द्विजोत्तमैः ॥ ३६॥
षड्विंशद्भिः शिरोमाला पञ्चाशद्धृदयेन तु ।
कलाक्षैर्बाहुवलये अर्काक्षैर्मणिबन्धनम् ॥ ३७॥
अष्टोत्तरशतैर्माला पञ्चाशद्भिः षडानन ।
अथवा सप्तविंशत्या कृत्वा रुद्राक्षमालिकाम् ॥ ३८॥
धारणाद्वा जपाद्वापि ह्यनन्तं फलमश्नुते ।
अष्टोत्तरशतैर्माला रुद्राक्षैर्धार्यते यदि ॥ ३९॥
क्षणे क्षणेऽश्वमेधस्य फलं प्राप्नोति षण्मुख ।
त्रिःसप्तकुलमुद्धृत्य शिवलोके महीयते ॥ ४०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे रुद्राक्षमाहाम्यवर्णनं नाम चतुर्थोऽध्यायः ॥ ११.४॥
११.५ पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।
ईश्वर उवाच ।
लक्षणं जपमालायाः शृणु वक्ष्यामि षण्मुख ।
रुद्राक्षस्य मुखं ब्रह्मा बिन्दू रुद्र इतीरितः ॥ १॥
विष्णुः पुच्छं भवेच्चैव भोगमोक्षफलप्रदम् ।
पञ्चविंशतिभिश्चाक्षैः पञ्चवक्त्रैः सकण्टकैः ॥ २॥
रक्तवर्णैः सितैर्मिश्रैः कृतरन्ध्रविदर्भितैः ।
अक्षसूत्रं प्रकर्तव्यं गोपुच्छवलयाकृति ॥ ३॥
वक्त्रं वक्त्रेण संयोज्य पुच्छं पुच्छेन योजयेत् ।
मेरुमूर्ध्वमुखं कुर्यात्तदूर्ध्वं नागपाशकम् ॥ ४॥
एवं सङ्ग्रथितां मालां मन्त्रसिद्धिप्रदायिनीम् ।
प्रक्षाल्य गन्धतोयेन पञ्चगव्येन चोपरि ॥ ५॥
ततः शिवाम्भसाऽऽक्षाल्य ततो मन्त्रगणान्न्यसेत् ।
स्पृष्ट्वा शिवास्त्रमन्त्रेण कवचेनावगुण्ठयेत् ॥ ६॥
मूलमन्त्रं न्यसेत्पश्चात्पूर्ववत्कारयेत्तथा ।
सद्योजातादिभिः प्रोक्ष्य यावदष्टोत्तरं शतम् ॥ ७॥
मूलमन्त्रं समुच्चार्य शुद्धभूमौ निधाय च ।
तस्योपरि न्यसेत्साम्बं शिवं परमकारणम् ॥ ८॥
प्रतिष्ठिता भवेन्माला सर्वकामफलप्रदा ।
यस्य देवस्य यो मन्त्रस्तां तेनैवाभिपूजयेत् ॥ ९॥
मूर्ध्नि कण्ठेऽथवा कर्णे न्यसेद्वा जपमालिकाम् ।
रुद्राक्षमालया चैवं जप्तव्यं नियतात्मना ॥ १०॥
कण्ठे मूर्ध्नि हृदि प्रान्ते कर्णे बाहुयुगेऽथवा ।
रुद्राक्षधारणं नित्यं भक्त्या परमया युतः । ११॥
किमत्र बहुनोक्तेन वर्णनेन पुनः पुनः ।
रुद्राक्षधारणं नित्यं तस्मादेतत्प्रशस्यते ॥ १२॥
स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने ।
प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः ॥ १३॥
अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् ।
कुर्वन्विप्रस्तु मोहेन नरके पतति ध्रुवम् ॥ १४॥
रुद्राक्षं धारयेन्मूर्ध्नि कण्ठे सूत्रे करेऽथवा ।
सुवर्णमणिसम्भिन्नं शुद्धं नान्यैर्धृतं शिवम् ॥ १५॥
नाशुचिर्धारयेदक्षं सदा भक्त्यैव धारयेत् ।
रुद्राक्षतरुसम्भूतवातोद्भूततृणान्यपि ॥ १६॥
पुण्यलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।
रुद्राक्षं धारयन्पापं कुर्वन्नपि च मानवः ॥ १७॥
सर्वं तरति पाप्मानं जाबालश्रुतिराह हि ।
पशवो हि च रुद्राक्षधारणाद्यान्ति रुद्रताम् ॥ १८॥
किमु ये धारयन्ति स्म नरा रुद्राक्षमालिकाम् ।
रुद्राक्षः शिरसा ह्येको धार्यो रुद्रपरैः सदा ॥ १९॥
ध्वंसनं सर्वदुःखानां सर्वपापविमोचनम् ।
व्याहरन्ति च नामानि ये शम्भोः परमात्मनः ॥ २०॥
रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः ।
रुद्राक्षधारणं कार्यं सर्वश्रेयोऽर्थिभिर्नृभिः ॥ २१॥
कर्णपाशे शिखायां च कण्ठे हस्ते तथोदरे ।
महादेवश्च विष्णुश्च ब्रह्मा तेषां विभूतयः ॥ २२॥
देवाश्चान्ये तथा भक्त्या खलु रुद्राक्षधारिणः ।
गोत्रर्षयश्च सर्वेषां कूटस्था मूलरूपिणः ॥ २३॥
तेषां वंशप्रसूताश्च मुनयः सकला अपि ।
श्रौतधर्मपराः शुद्धाः खलु रुद्राक्षधारिणः ॥ २४॥
श्रद्धा न जायते साक्षाद्वेदसिद्धे विमुक्तिदे ।
बहूनां जन्मनामन्ते महादेवप्रसादतः ॥ २५॥
रुद्राक्षधारणे वाञ्छा स्वभावादेव जायते ।
रुद्राक्षस्य तु माहात्म्यं जाबालैरादरेण तु ॥ २६॥
पठ्यते मुनिभिः सर्वैर्मया पुत्र तथैव च ।
रुद्राक्षस्य फलं चैव त्रिषु लोकेषु विश्रुतम् ॥ २७॥
फलस्य दर्शने पुण्यं स्पर्शात्कोटिगुणं भवेत् ।
शतकोटिगुणं पुण्यं धारणाल्लभते नरः ॥ २८॥
लक्षकोटिसहस्राणि लक्षकोटिशतानि च ।
जपाच्च लभते नित्यं नात्र कार्या विचारणा ॥ २९॥
हस्ते चोरसि कण्ठे च कर्णयोर्मस्तके तथा ।
रुद्राक्षं धारयेद्यस्तु स रुद्रो नात्र संशयः ॥ ३०॥
अवध्यः सर्वभूतानां रुद्रवद्धि चरेद्भुवि ।
सुराणामसुराणां च वन्दनीयो यथा शिवः ॥ ३१॥
रुद्राक्षधारी सततं वन्दनीयस्तथा नरैः ।
उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः ॥ ३२॥
मुच्यते सर्वपापेभ्यो रुद्राक्षस्य तु धारणात् ।
कण्ठे रुद्राक्षमाबध्य श्वापि वा म्रियते यदि ॥ ३३॥
सोऽपि मुक्तिमवाप्नोति किं पुनर्मानुषोऽपि सः ।
जपध्यानविहीनोऽपि रुद्राक्षं यदि धारयेत् ॥ ३४॥
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ।
एकं वापि हि रुद्राक्षं कृत्वा यत्नेन धारयेत् ॥ ३५॥
एकविंशतिमुद्धृत्य रुद्रलोके महीयते ।
अतः परं प्रवक्ष्यामि रुद्राक्षस्य पुनर्विधिम् ॥ ३६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे
रुद्राक्षजपमालाविधानवर्णनं नाम पञ्चमोऽध्यायः ॥ ११.५॥
११.६ षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।
ईश्वर उवाच ।
महासेन कुशग्रन्थिपुत्राजीवादयः परे ।
रुद्राक्षस्य तु नैकोऽपि कलामर्हति षोडशीम् ॥ १॥
पुरुषाणां यथा विष्णुर्ग्रहाणां च यथा रविः ।
नदीनां तु यथा गङ्गा मुनीनां कश्यपो यथा ॥ २॥
उच्चैःश्रवा यथाश्वानां देवानामीश्वरो यथा ।
देवीनां तु यथा गौरी तद्वच्छ्रेष्ठमिदं भवेत् ॥ ३॥
नातः परतरं स्तोत्रं नातः परतरं व्रतम् ।
अक्षय्येषु च दानेषु रुद्राक्षस्तु विशिष्यते ॥ ४॥
शिवभक्ताय शान्ताय दद्याद्रुद्राक्षमुत्तमम् ।
तस्य पुण्यफलस्यान्तं न चाहं वक्तुमुत्सहे ॥ ५॥
धृतरुद्राक्षकण्ठाय यस्त्वन्नं सम्प्रयच्छति ।
त्रिसप्तकुलमुद्धृत्य रुद्रलोकं स गच्छति ॥ ६॥
यस्य भाले विभूतिर्न नाङ्गे रुद्राक्षधारणम् ।
न शम्भोर्भवने पूजा स विप्रः श्वपचाधमः ॥ ७॥
खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजानपि ।
पातकेभ्यो विमुच्येत रुद्राक्षं शिरसि स्थिते ॥ ८॥
सर्वयज्ञतपोदानवेदाभ्यासैश्च यत्फलम् ।
तत्फलं लभते सद्यो रुद्राक्षस्य तु धारणात् ॥ ९॥
वेदैश्चतुर्भिर्यत्पुण्यं पुराणपठनेन च ।
यत्तीर्थसेवनेनैव सर्वविद्यादिभिस्तथा ॥ १०॥
तत्पुण्यं लभते सद्यो रुद्राक्षस्य तु धारणात् ।
प्रयाणकाले रुद्राक्षं बन्धयित्वा म्रियेद्यदि ॥ ११॥
स रुद्रत्वमवाप्नोति पुनर्जन्म न विद्यते ।
रुद्राक्षं धारयेत्कण्ठे बाह्वोर्वा म्रियते यदि ॥ १२॥
कुलैकविंशमुत्तार्य रुद्रलोके वसेन्नरः ।
ब्राह्मणो वापि चाण्डालो निर्गुणः सगुणोऽपि च ॥ १३॥
भस्मरुद्राक्षधारी यः स देवत्वं शिवं व्रजेत् ।
शुचिर्वाप्यशुचिर्वापि तथाभक्ष्यस्य भक्षकः ॥ १४॥
म्लेच्छो वाप्यथ चाण्डालो युतो वा सर्वपातकैः ।
रुद्राक्षधारणादेव स रुद्रो नात्र संशयः ॥ १५॥
शिरसा धारिते कोटिः कर्णयोर्दशकोटयः ।
शतकोटिर्गले बद्धो मूर्ध्नि कोटिसहस्रकम् ॥ १६॥
अयुतं चोपवीते तु लक्षकोटिर्भुजे स्थिते ।
मणिबन्धे तु रुद्राक्षो मोक्षसाधनकः परः ॥ १७॥
रुद्राक्षधारको भूत्वा यत्किञ्चित्कर्म वैदिकम् ।
कुर्वन्विप्रः सदा भक्त्या महदाप्नोति तत्फलम् ॥ १८॥
रुद्राक्षमालिकां कण्ठे धारयेद्भक्तिवर्जितः ।
पापकर्मा तु यो नित्यं स मुक्तः सर्वबन्धनात् ॥ १९॥
रुद्राक्षार्पितचेता यो रुद्राक्षस्तु न वै धृतः ।
असौ माहेश्वरो लोके नमस्यः स तु लिङ्गवत् ॥ २०॥
अविद्यो वा सविद्यो वा रुद्राक्षस्य तु धारणात् ।
शिवलोकं प्रपद्येत कीकटे गर्दभो यथा ॥ २१॥
स्कन्द उवाच ।
रुद्राक्षान्सन्दधे देव गर्दभः केन हेतुना ।
कीकटे केन वा दत्तस्तद्ब्रूहि परमेश्वर ॥ २२॥
श्रीभगवानुवाच ।
शृणु पुत्र पुरावृत्तं गर्दभो विन्ध्यपर्वते ।
धत्ते रुद्राक्षभारं तु वाहितः पथिकेन तु ॥ २३॥
श्रान्तोऽसमर्थस्तद्भारं वोढुं पतितवान्भुवि ।
प्राणैस्त्वक्तस्त्रिनेत्रस्तु शूलपाणिर्महेश्वरः ॥ २४॥
मत्प्रसादान्महासेन मदन्तिकमुपागतः ।
यावद्वक्त्रस्य सङ्ख्यानं रुद्राक्षाणां सुदुर्लभम् ॥ २५॥
तावद्युगसहस्राणि शिवलोके महीयते ।
स्वशिष्येभ्यस्तु वक्तव्यं नाशिष्येभ्यः कदाचन ॥ २६॥
अभक्तेभ्योऽपि मूर्खेभ्यः कदाचिन्न प्रकाशयेत् ।
अभक्तो वास्तु भक्तो वा नीचो नीचतरोऽपि वा ॥ २७॥
रुद्राक्षान्धारयेद्यस्तु मुच्यते सर्वपातकैः ।
रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ॥ २८॥
महाव्रतमिदं प्राहुर्मुनयस्तत्त्वदर्शिनः ।
सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः ॥ २९॥
तं नमन्ति सुराः सर्वे यथा रुद्रस्तथैव सः ।
अभावे तु सहस्रस्य बाह्वोः षोडश षोडश ॥ ३०॥
एकं शिखायां करयोर्द्वादश द्वादशैव तु ।
द्वात्रिंशत्कण्ठदेशे तु चत्वारिंशच्च मस्तके ॥ ३१॥
एकैकं कर्णयोः षट् षट् वक्षस्यष्टोत्तरं शतम् ।
यो धारयति रुद्राक्षान् रुद्रवत्स तु पूज्यते ॥ ३२॥
मुक्ताप्रवालस्कटिकरौप्यवैदूर्यकाञ्चनैः ।
समेतान्धारयेद्यस्तु रुद्राक्षान्स शिवो भवेत् ॥ ३३॥
केवलानपि रुद्राक्षान्यद्यालस्याद्बिभर्ति यः ।
तं न स्पृशन्ति पापानि तमांसीव विभावसुम् ॥ ३४॥
रुद्राक्षमालया मन्त्रो जप्तोऽनन्तफलप्रदः ।
यस्याङ्गे नास्ति रुद्राक्ष एकोऽपि बहुपुण्यदः ॥ ३५॥
तस्य जन्म निरर्थं स्यात्त्रिपुण्ड्ररहितं यथा ।
रुद्राक्षं मस्तके धृत्वा शिरःस्नानं करोति यः ॥ ३६॥
गङ्गास्नानफलं तस्य जायते नात्र संशयः ।
एकवक्त्रः पञ्चवक्त्र एकादशमुखाः परे ॥ ३७॥
चतुर्दशमुखाः केचिद्रुद्राक्षा लोकपूजिताः ।
भक्त्या सम्पूज्यते नित्यं रुद्राक्षः शङ्करात्मकः ॥ ३८॥
दरिद्रं वापि पुरुषं राजानं कुरुते भुवि ।
अत्र ते कथयिष्यामि पुराणं मतमुत्तमम् ॥ ३९॥
कोसलेषु द्विजः कश्चिद्गिरिनाथ इति श्रुतः ।
महाधनी च धर्मात्मा वेदवेदाङ्गपारगः ॥ ४०॥
यज्ञकृद्दीक्षितस्तस्य तनयः सुन्दराकृतिः ।
नाम्ना गुणनिधिः ख्यातस्तरुणः कामसुन्दरः ॥ ४१॥
गुरोः सुधिषणस्याथ पत्नीं मुक्तावलीमथ ।
मोहयामास रूपेण यौवनेन मदेन च ॥ ४२॥
सङ्गतस्तु तया सार्धं कञ्चित्कालं ततो भिया ।
विषं ददौ च गुरवे येभे पश्चात्तु निर्भयः ॥ ४३॥
यदा माता पिता कर्म किञ्चिज्जानाति यत्क्षणे ।
मातरं पितरं चापि मारयामास तद्विषात् ॥ ४४॥
नानाविलासभोगैश्च जाते द्रव्यव्यये ततः ।
ब्राह्मणानां गृहे चौर्यं चकार स तदा खलः ॥ ४५॥
सुरापानमदोन्मत्तस्तदा ज्ञातिबहिष्कृतः ।
ग्रामान्निष्कासितः सर्वैस्तदा सोऽभूद्वनेचरः ॥ ४६॥
मुक्तावल्या तया सार्धं जगाम गहनं वनम् ।
मार्गे स्थितो द्रव्यलोभाज्जघान ब्राह्मणान्बहून् ॥ ४७॥
एवं बहुगते काले ममार स तदाधमः ।
नेतुं तं यमदूताश्च समाजग्मुः सहस्रशः ॥ ४८॥
शिवलोकाच्छिवगणास्तथैव च समागताः ।
तयोः परस्परं वादो बभूव गिरिजासुत ॥ ४९॥
यमदूतास्तदा प्रोचुः पुण्यमस्य किमस्ति हि ।
ब्रुवन्तु सेवकाः शम्भोर्यद्येनं नेतुमिच्छथ ॥ ५०॥
शिवदूतास्तदा प्रोचुरयं यस्मिन्स्थले मृतः ।
दशहस्तादधो भूमे रुद्राक्षस्तत्र चास्ति हि ॥ ५१॥
तत्प्रभावेण हे दूता नेष्यामः शिवसन्निधिम् ।
ततो विमानमारुह्य दिव्यरूपधरो द्विजः ॥ ५२॥
गतो गुणनिधिर्दूतैः सहितः शङ्करालयम् ।
इति रुद्राक्षमाहात्म्यं कथितं तव सुव्रत ॥ ५३॥
एवं रुद्राक्षमहिमा समासात्कथितो मया ।
सर्वपापक्षयकरो महापुण्यफलप्रदः ॥ ५४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे रुद्राक्षमाहात्म्ये
गुणनिधिमोक्षवर्णनं नाम षष्ठोऽध्यायः ॥ ११.६॥
११.७ सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
एवं नारद षड्वक्त्रो गिरिशेन विबोधितः ।
रुद्राक्षमहिमानं च ज्ञात्वासीत्स कृतार्थकः ॥ १॥
इत्थं भूतानुभावोऽयं रुद्राक्षो वर्णितो मया ।
सदाचारप्रसङ्गेन शृणु चान्यत्समाहितः ॥ २॥
यथा रुद्राक्षमहिमा वर्णितोऽनन्तपुण्यदः ।
लक्षणं मन्त्रविन्यासं तथाहं वर्णयामि ते ॥ ३॥
लक्षं तु दर्शनात्युण्यं कोटिस्तत्स्पर्शनाद्भवेत् ।
तस्य कोटिगुणं पुण्यं लभते धारणान्नरः ॥ ४॥
लक्षकोटिसहस्राणि लक्षकोटिशतानि च ।
तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् ॥ ५॥
रुद्राक्षाणां तु भद्राक्षधारणात्स्यान्महाफलम् ।
धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥ ६॥
बदरीफलमात्रं तु प्रोच्यते मध्यमं बुधैः ।
अधमं चणमात्रं स्यात्प्रतिज्ञैषा मयोदिता ॥ ७॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।
वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ८॥
श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।
पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्राः प्रकीर्तिताः ॥ ९॥
ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।
पीतान्वैश्यस्तु बिभृयात्कृष्णान् शूद्रस्तु धारयेत् ॥ १०॥
समाः स्निग्धा दृढास्तद्वत्कण्टकैः संयुताः शुभाः ।
कृमिदष्टाञ्छिन्नभिन्नान्कण्टकैरहितांस्तथा ॥ ११॥
व्रणयुक्तानावृतांश्च षड्रुद्राक्षांस्तु वर्जयेत् ।
स्वयमेव कृतद्वारो रुद्राक्षः स्यादिहोत्तमः ॥ १२॥
यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ।
समान्स्निग्धान्दृढान्वृत्तान्क्षौमसूत्रेण धारयेत् ॥ १३॥
सर्वगात्रेषु साम्येन समानातिविलक्षणा ।
निर्घर्षे हेमलेखाभा यत्र लेखा प्रदृश्यते ॥ १४॥
तदक्षमुत्तमं विद्यात्स धार्यः शिवपूजकैः ।
शिखायामेकरुद्राक्षं त्रिंशद्वै शिरसा वहेत् ॥ १५॥
षट्त्रिंशच्च गले धार्या बाह्वोः षोडश षोडश ।
मणिबन्धे द्वादशाक्षान्स्कन्धे पञ्चाशतं भवेत् ॥ १६॥
अष्टोत्तरशतैर्मालोपवीतं च प्रकल्पयेत् ।
द्विसरं त्रिसरं वापि बिभृयात्कण्ठदेशतः ॥ १७॥
कुण्डले मुकुटे चैव कर्णिकाहारकेषु च ।
केयूरे कटके चैव कुक्षिवंशे तथैव च ॥ १८॥
सुप्ते पीते सर्वकालं रुद्राक्षं धारयेन्नरः ।
त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ॥ १९॥
सहस्रमुत्तमं प्रोक्तं चैवं भेदेन धारयेत् ।
शिरसीशानमन्त्रेण कर्णे तत्पुरुषेण च ॥ २०॥
अघोरेण ललाटे तु तेनैव हृदयेऽपि च ।
अघोरबीजमन्त्रेण करयोर्धारयेत्पुनः ॥ २१॥
पञ्चाशदक्षग्रथितां वामदेवेन चोदरे ।
पञ्चब्रह्मभिरङ्गैश्चाप्येवं रुद्राक्षधारणम् ॥ २२॥
ग्रथितान्मूलमन्त्रेण सर्वानक्षांस्तु धारयेत् ।
एकवक्त्रस्तु रुद्राक्षः परतत्त्वप्रकाशकः ॥ २३॥
परतत्त्वधारणाच्च जायते तत्प्रकाशनम् ।
द्विवक्त्रस्तु मुनिश्रेष्ठ अर्धनारीश्वरो भवेत् ॥ २४॥
धारणादर्धनारीशः प्रीयते तस्य नित्यशः ।
त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् ॥ २५॥
त्रिमुखश्चैव रुद्राक्षोऽप्यग्नित्रयस्वरूपकः ।
तद्धारणाच्च हुतभुक् तस्य तुष्यति नित्यशः ॥ २६॥
चतुर्मुखस्तु रुद्राक्षः पितामहस्वरूपकः ।
तद्धारणान्महाश्रीमान्महदारोग्यमुत्तमम् ॥ २७॥
महती ज्ञानसम्पत्तिः शुद्धये धारयेन्नरः ।
पञ्चमुखस्तु रुद्राक्षः पञ्चब्रह्मस्वरूपकः ॥ २८॥
तस्य धारणमात्रेण सन्तुष्यति महेश्वरः ।
षड्वक्त्रश्चैव रुद्राक्षः कार्तिकेयाधिदैवतः ॥ २९॥
विनायकं चापि देवं प्रवदन्ति मनीषिणः ।
सप्तवक्त्रस्तु रुद्राक्षः सप्तमात्राधिदैवतः ॥ ३०॥
सप्ताश्वदैवतश्चैव मुनिसप्तकदैवतः ।
तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ३१॥
महती ज्ञानसम्पत्तिः शुचिर्वै धारयेन्नरः ।
अष्टवक्त्रस्तु रुद्राक्षोऽप्यष्टमात्राधिदैवतः ॥ ३२॥
वस्वष्टकप्रीतिकरो गङ्गाप्रीतिकरः शुभः ।
तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः ॥ ३३॥
नववक्त्रस्तु रुद्राक्षो यमदेव उदाहृतः ।
तद्धारणाद्यमभयं न भवत्येव सर्वथा ॥ ३४॥
दशवक्त्रस्तु रुद्राक्षो दशाशादैवतः स्मृतः ।
दशाशाप्रीतिजनको धारणे नात्र संशयः ॥ ३५॥
एकादशमुखस्त्वक्षो रुद्रैकादशदैवतः ।
तमिन्द्रदैवतं चाहुः सदा सौख्यविवर्धनम् ॥ ३६॥
रुद्राक्षो द्वादशमुखो महाविष्णुस्वरूपकः ।
द्वादशादित्यदैवश्च बिभर्त्येव हि तत्परः ॥ ३७॥
त्रयोदशमुखश्चाक्षः कामदः सिद्धिदः शुभः ।
तस्य धारणमात्रेण कामदेवः प्रसीदति ॥ ३८॥
चतुर्दशमुखश्चाक्षो रुद्रनेत्रसमुद्भवः ।
सर्वव्याधिहरश्चैव सर्वारोग्यप्रदायकः ॥ ३९॥
मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च ।
श्लेष्मातकं विड्वराहं भक्षणे वर्जयेत्ततः ॥ ४०॥
ग्रहणे विषुवे चैव सङ्क्रमे त्वयने तथा ।
दर्शे च पौर्णमासे च पुण्येषु दिवसेष्वपि ।
रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥ ४१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
रुद्राक्षमाहात्म्यवर्णनं नाम सप्तमोऽध्यायः ॥ ११.७॥
११.८ अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।
श्रीनारायण उवाच ।
भूतशुद्धिप्रकारं च कथयामि महामुने ।
मूलाधारात्समुत्थाय कुण्डलीं परदेवताम् ॥ १॥
सुषुम्णामार्गमाश्रित्य ब्रह्मरन्ध्रगतां स्मरेत् ।
जीवं ब्रह्मणि संयोज्य हंसमन्त्रेण साधकः ॥ २॥
पादादिजानुपर्यन्तं चतुष्कोणं सवज्रकम् ।
लं बीजाख्यं स्वर्णवर्णं स्मरेदवनिमण्डलम् ॥ ३॥
जान्वाद्यानाभिचन्द्रार्धनिभं पद्मद्वयाङ्कितम् ।
वं बीजयुक्तं श्वेताभमम्भसो मण्डलं स्मरेत् ॥ ४॥
नाभेर्हृदयपर्यन्तं त्रिकोणं स्वस्तिकान्वितम् ।
रं बीजेन युतं रक्तं स्मरेत्पावकमण्डलम् ॥ ५॥
हृदो भूमध्यपर्यन्तं वृत्तं षड्बिन्दुलाञ्छितम् ।
यं बीजयुक्तं धूम्राभं नभस्वन्मण्डलं स्मरेत् ॥ ६॥
आब्रह्मरन्ध्रं भ्रूमध्याद्वृत्तं स्वच्छं मनोहरम् ।
हं बीजयुक्तमाकाशमण्डलं च विचिन्तयेत् ॥ ७॥
एवं भूतानि सञ्चिन्त्य प्रत्येकं संविलापयेत् ।
भुवं जले जलं वह्नौ वह्निं वायौ नभस्यमुम् ॥ ८॥
विलाप्य खमहङ्कारे महत्तत्त्वेऽप्यहङ्कृतिम् ।
महान्तं प्रकृतौ मायामात्मनि प्रविलापयेत् ॥ ९॥
शुद्धसंविन्मयो भूत्वा चिन्तयेत्पापपूरुषम् ।
वामकुक्षिस्थितं कृष्णमङ्गुष्ठपरिमाणकम् ॥ १०॥
ब्रह्महत्याशिरोयुक्तं कनकस्तेयबाहुकम् ।
मदिरापानहृदयं गुरुतल्पकटीयुतम् ॥ ११॥
तत्संसर्गिपदद्वन्द्वमुपपातकमस्तकम् ।
खड्गचर्मधरं कृष्णमधोवक्त्रं सुदुःसहम् ॥ १२॥
वायुबीजं स्मरन्वायुं सम्पूर्यैनं विशोषयेत् ।
स्वशरीरयुतं मन्त्रो वह्निबीजेन निर्दहेत् ॥ १३॥
कुम्भके परिजप्तेन ततः पापनरोद्भवम् ।
बहिर्भस्म समुत्सार्य वायुबीजेन रेचयेत् ॥ १४॥
सुधाबीजेन देहोत्थं भस्म सम्प्लावयेत्सुधीः ।
भूबीजेन घनीकृत्य भस्म तत्कनकाण्डवत् ॥ १५॥
विशुद्धमुकुराकारं जपन्बीजं विहायसः ।
मूर्धादिपादपर्यन्तान्यङ्गानि रचयेत्सुधीः ॥ १६॥
आकाशादीनि भूतानि पुनरुत्पादयेच्चितः ।
सोऽहं मन्त्रेण चात्मानमानयेद्धृदयाम्बुजे ॥ १७॥
कुण्डलीजीवमादाय परसङ्गात्सुधामयम् ।
संस्थाप्य हृदयाम्भोजे मूलाधारगतां स्मरेत् ॥ १८॥
रक्ताम्भोधिस्थपोतोल्लसदरुण-
सरोजाधिरूढा कराब्जैः
शूलं कोदण्डमिक्षूद्भवमणिगुण-
मप्यङ्कुशं पञ्चबाणान् ।
बिभ्राणासृक्कपालं त्रिनयन-
लसिता पीनवक्षोरुहाढ्या
देवी बालार्कवर्णा भवतु
सुखकरी प्राणशक्तिः परा नः ॥ १९॥
एवं ध्यात्वा प्राणशक्तिं परमात्मस्वरूपिणीम् ।
विभूतिधारणं कार्यं सर्वाधिकृतिसिद्धये ॥ २०॥
विभूतेर्विस्तरं वक्ष्ये धारणे च महाफलम् ।
श्रुतिस्मृतिप्रमाणोक्तं भस्मधारणमुत्तमम् ॥ २१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे भूतशुद्धिवर्णनं नामाष्टमोऽध्यायः ॥ ११.८॥
११.९ नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।
श्रीनारायण उवाच ।
इदं शिरोव्रतं चीर्णं विधिवद्यैर्द्विजातिभिः ।
तेषामेव परां विद्यां वदेदज्ञानबाधिकाम् ॥ १॥
विधिवच्छ्रद्धया सार्धं न चीर्णं यैः शिरोव्रतम् ।
श्रौतस्मार्तसमाचारस्तेषामनुपकारकः ॥ २॥
शिरोव्रतसमाचारादेव ब्रह्मादिदेवताः ।
देवता अभवन्विद्वन् खलु नान्येन हेतुना ॥ ३॥
शिरोव्रतस्य माहात्म्यं पूर्वैः पूर्वतरं कृतम् ।
ब्रह्मा विष्णुश्च रुद्रश्च देवताः सकला अपि ॥ ४॥
सर्वपातकयुक्तोऽपि मुच्यते सर्वपातकैः ।
शिरोव्रतमिदं येन चरितं विधिवद्बुधैः ॥ ५॥
शिरोव्रतमिदं नाम शिरस्याथर्वणश्रुतेः ।
यदुक्तं तद्धि नैवान्यत्तत्तु पुण्येन लभ्यते ॥ ६॥
शाखाभेदेषु नामानि व्रतस्यास्य विभेदतः ।
पठ्यन्ते मुनिशार्दूल शाखास्वेकव्रतं हि तत् ॥ ७॥
सर्वशाखासु वस्त्वेकं शिवाख्यं सत्यचिद्घनम् ।
तथा तद्विषयं ज्ञानं तथैव च शिरोतव्रतम् ॥ ८॥
शिरोव्रतविहीनस्तु सर्वधर्मविवर्जितः ।
अपि सर्वासु विद्यासु सोऽधिकारी न संशयः ॥ ९॥
शिरोव्रतमिदं कार्यं पापकान्तारदाहकम् ।
साधनं सर्वविद्यानां यतस्तत्सम्यगाचरेत् ॥ १०॥
श्रुतिराथर्वणी सूक्ष्मा सूक्ष्मार्थस्य प्रकाशिनी ।
यदुवाच व्रतं प्रीत्या तन्नित्यं सम्यगाचरेत् ॥ ११॥
अग्निरित्यादिभिर्मन्त्रैः षड्भिः शुद्धेन भस्मना ।
सर्वाङ्गोद्धूलनं कुर्याच्छिरोव्रतसमाह्वयम् ॥ १२॥
एतच्छिरोव्रतं कुर्यात्सन्ध्याकालेषु सादरम् ।
यावद्विद्योदयस्तावत्तस्य विद्या खलूत्तमा ॥ १३॥
द्वादशाब्दमथाब्दं वा तदर्धं च तदर्धकम् ।
प्रकुर्याद्द्वादशाहं वा सङ्कल्पेन शिरोव्रतम् ॥ १४॥
शिरोव्रतेन यः स्नातस्तं तु नोपदिशेत्तु यः ।
तस्य विद्या विनष्टा स्यान्निर्घृणः स गुरुः खलु ॥ १५॥
ब्रह्मविद्यागुरुः साक्षान्मुनिः कारुणिकः खलु ।
यथा सर्वेश्वरः श्रीमान्मृदुः कारुणिकः खलु ॥ १६॥
जन्मान्तरसहस्रेषु नरा ये धर्मचारिणः ।
तेषामेव खलु श्रद्धा जायते न कदाचन ॥ १७॥
प्रत्युताज्ञानबाहुल्याद्द्वेष एव विजायते ।
अतः प्रद्वेषयुक्तस्य न भवेदात्मवेदनम् ॥ १८॥
ब्रह्मविद्योपदेशस्य साक्षादेवाधिकारिणः ।
त एव नेतरे विद्वन् ये तु स्नाताः शिरोव्रतैः ॥ १९॥
व्रतं पाशुपतं चीर्णं यैर्द्विजैरादरेण तु ।
तेषामेवोपदेष्टव्यमिति वेदानुशासनम् ॥ २०॥
यः पशुस्तत्पशुत्वं च व्रतेनानेन सन्त्यजेत् ।
तान्हत्वा न स पापीयान्भवेद्वेदान्तनिश्चयः ॥ २१॥
त्रिपुण्ड्रधारणं प्रोक्तं जाबालैरादरेण तु ।
त्रियम्बकेन मन्त्रेण सतारेण शिवेन च ॥ २२॥
त्रिपुण्ड्रं धारयेन्नित्यं गहस्थाश्रममाश्रितः ।
ओङ्कारेण त्रिरुक्तेन सहंसेन त्रिपुण्ड्रकम् ॥ २३॥
धारयेद्भिक्षुको नित्यमिति जाबालिकी श्रुतिः ।
त्रियम्बकेन मन्त्रेण प्रणवेन शिवेन च ॥ २४॥
गृहस्थश्च वानप्रस्थो धारयेच्च त्रिपुण्ड्रकम् ।
मेधावीत्यादिना वापि ब्रह्मचारी दिने दिने ॥ २५॥
भस्मना सजलेनापि धारयेच्च त्रिपुण्ड्रकम् ।
ब्राह्मणो विधिनोत्पन्नस्त्रिपुण्ड्रभस्मनैव तु ॥ २६॥
ललाटे धारयेन्नित्यं तिर्यग्भस्मावगुण्ठनम् ।
(महादेवस्य सम्बन्धात्तद्धर्मेऽप्यस्ति सङ्गतिः ।)
सम्यक् त्रिपुण्ड्रधर्मं च ब्राह्मणो नित्यमाचरेत् ॥ २७॥
आदिब्राह्मणभूतेन त्रिपुण्ड्रं भस्मना धृतम् ।
यतोऽत एव विप्रस्तु त्रिपुण्ड्रं धारयेत्सदा ॥ २८॥
भस्मना वेदसिद्धेन त्रिपुण्ड्रं देहगुण्ठनम् ।
रुद्रलिङ्गार्चनं वापि मोहतोऽपि च न त्यजेत् ॥ २९॥
त्रियम्बकेन मन्त्रेण सतारेण तथैव च ।
पञ्चाक्षरेण मन्त्रेण प्रणवेन तथैव च ॥ ३०॥
ललाटे हृदये चैव दोर्द्वन्द्वे च महामुने ।
त्रिपुण्ड्रं धारयेन्नित्यं संन्यासाश्रममाश्रितः ॥ ३१॥
त्रियायुषेण मन्त्रेण मेधावीत्यादिनाथवा ।
गौणेन भस्मना धार्यं त्रिपुण्ड्रं ब्रह्मचारिणा ॥ ३२॥
नमोऽन्तेन शिवेनैव शूद्रः शुश्रूषणे रतः ।
उद्धूलनं त्रिपुण्ड्रं च नित्यं भक्त्या समाचरेत् ॥ ३३॥
अन्येषामपि सर्वेषां विना मन्त्रेण सुव्रत ।
उद्धूलनं त्रिपुण्ड्रं च कर्तव्यं भक्तितो मुने ॥ ३४॥
भूत्यैवोद्धूलनं तिर्यक् त्रिपुण्ड्रस्य च धारणम् ।
वरेण्यं सर्वधर्मेभ्यस्तस्मान्नित्यं समाचरेत् ॥ ३५॥
भस्माग्निहोत्रजं वाथ विरजाग्निसमुद्भवम् ।
आदरेण समादाय शुद्धे पात्रे निधाय तत् ॥ ३६॥
प्रक्षाल्य पादौ हस्तौ च द्विराचम्य समाहितः ।
गृहीत्वा भस्म तत्पञ्चब्रह्ममन्त्रैः शनैः शनैः ॥ ३७॥
प्राणायामत्रयं कृत्वा अग्निरित्यादिमन्त्रितम् ।
तैरेव सप्तभिर्मन्त्रैस्त्रिवारमभिमन्त्रयेत् ॥ ३८॥
ओमापोज्योतिरित्युक्त्वा ध्यात्वा मन्त्रानुदीरयेत् ।
सितेन भस्मना पूर्वं समुद्धूल्य शरीरकम् ॥ ३९॥
विपापो विरजो मर्त्यो जायते नात्र संशयः ।
ततो ध्यात्वा महाविष्णुं जगन्नाथं जलाधिपम् ॥ ४०॥
संयोज्य भस्मना तोयमग्निरित्यादिभिः पुनः ।
विमृज्य साम्बं ध्यात्वा च समुद्धूल्योर्ध्वमस्तकम् ॥ ४१॥
तेन भावनया ब्राह्मभूतेन सितभस्मना ।
ललाटवक्षःस्कन्धेषु स्वाश्रमोचितमन्त्रतः ॥ ४२॥
मध्यमानामिकाङ्गुष्ठैरनुलोमविलोमतः ।
त्रिपुण्ड्रं धारयेन्नित्यं त्रिकालेष्वपि भक्तितः ॥ ४३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे सशिरोव्रतं
त्रिपुण्डधारणवर्णनं नाम नवमोऽध्यायः ॥ ११.९॥
११.१० दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।
श्रीनारायण उवाच ।
आग्नेयं गौणमज्ञानध्वंसकं ज्ञानसाधकम् ।
गौणं नानाविधं विद्धि ब्रह्मन्ब्रह्मविदांवर ॥ १॥
अग्निहोत्राग्निजं तद्वद्विरजानलजं मुने ।
औपासनसमुत्पन्नं समिदग्निसमुद्भवम् ॥ २॥
पचनाग्निसमुत्पन्नं दावानलसमुद्भवम् ।
त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम् ॥ ३॥
विरजानलजं चैव धार्यं भस्म महामुने ।
औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥ ४॥
समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा ।
शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम् ॥ ५॥
अन्येषामपि सर्वेषां धार्यं दावानलोद्भवम् ।
कालश्चित्रा पौर्णमासी देशः स्वीयः परिग्रहः ॥ ६॥
क्षेत्रारामाद्यरण्यं वा प्रशस्तः शुभलक्षणः ।
तत्र पूर्वत्रयोदश्यां सुस्नातः सुकृताह्निकः ॥ ७॥
अनुज्ञाप्य स्वमाचार्यं सम्पूज्य प्रणिपत्य च ।
पूजां वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम् ॥ ८॥
शुद्धयज्ञोपवीती च शुक्लमाल्यानुलेपनः ।
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ॥ ९॥
प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ।
ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ १०॥
व्रतमेतत्करोमीति भवेत्सङ्कल्पदीक्षितः ।
यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ ११॥
तदर्धं वा तदर्धं वा मासद्वादशकं तु वा ।
तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ १२॥
दिनद्वादशकं वापि दिनषट्कमथापि वा ।
तदर्धं दिनमेकं वा व्रतसङ्कल्पनावधि ॥ १३॥
अग्निमाधाय विधिवद्विरजाहोमकारणात् ।
हुत्वाऽऽज्येन समिद्भिश्च चरुणा च यथाविधि ॥ १४॥
पूताहात्पुरतो भूयस्तत्त्वानां शुद्धिमुद्दिशन् ।
जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ १५॥
तत्त्वान्येतानि मे देहे शुध्यन्तामित्यनुस्मरन् ।
पश्चाद्भूतादितन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ १६॥
ज्ञानकर्मविभेदेन पञ्च पञ्च विभागशः ।
त्वगादिधातवः सप्त पञ्च प्राणादिवायवः ॥ १७॥
मनो बुद्धिरहङ्कारो गुणाः प्रकृतिपूरुषौ ।
रागो विद्या कला चैव नियतिः काल एव च ॥ १८॥
माया च शुद्धविद्या च महेश्वरसदाशिवौ ।
शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ १९॥
मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजो भवेत् ।
अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च ॥ २०॥
न्यस्याग्नौ तं च संरक्ष्य दिने तस्मिन् हविष्यभुक् ।
प्रभाते च चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ॥ २१॥
तस्मिन्दिने निराहारः कालशेषं समापयेत् ।
प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः ॥ २२॥
उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्नतः ।
ततश्च जटिलो मुण्डः शिखैकजट एव च ॥ २३॥
भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत्स्याद्दिगम्बरः ।
अन्यः काषायवसनश्चर्मचीराम्बरोऽथवा ॥ २४॥
एकाम्बरो वल्कलवान्भवेद्दण्डी च मेखली ।
प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ॥ २५॥
सङ्कलीकृत्य तद्भस्म विरजानलसम्भवम् ।
अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात् ॥ २६॥
विमृज्याङ्गानि मूर्धादिचरणान्तं च तैः स्पृशेत् ।
ततस्तेन क्रमेणैव समुद्धूल्य च भस्मना ॥ २७॥
सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा ।
ततश्च पुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥ २८॥
शिवभावं समागम्य शिवभावमथाचरेत् ।
कुर्यात्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ॥ २९॥
भुक्तिमुक्तिप्रदं चैव पशुत्वं विनिवर्तयेत् ।
तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥ ३०॥
पूजनीयो महादेवो लिङ्गमूर्तिः सदाशिवः ।
भस्मस्नानं महापुण्यं सर्वसौख्यकरं परम् ॥ ३१॥
आयुष्यं बलमारोग्यं श्रीपुष्टिवर्धनं यतः ।
रक्षार्थं मङ्गलार्थं च सर्वसम्पत्समृद्धये ॥ ३२॥
भस्मस्निग्धमनुष्याणां महामारीभयं न च ।
शान्तिकं पौष्टिकं भस्म कामदं च त्रिधा भवेत् ॥ ३३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे भस्ममाहात्म्ये
पाशुपतव्रतवर्णनं नाम दशमोऽध्यायः ॥ ११.१०॥
११.११ एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।
नारद उवाच ।
त्रिविधत्वं कथं चास्य भस्मनः परिकीर्तितम् ।
एतत्कथय मे देव महत्कौतूहलं मम ॥ १॥
श्रीनारायण उवाच ।
त्रिविधत्वं प्रवक्ष्यामि देवर्षे भस्मनः शृणु ।
महापापक्षयकरं महाकीर्तिकरं परम् ॥ २॥
गोमयं योनिसम्बद्धं तद्धस्तेनैव गृह्यते ।
ब्राह्मैर्मन्त्रैस्तु सन्दग्धं तच्छान्तिकृदिहोच्यते ॥ ३॥
सावधानस्तु गृह्णीयान्नरो वै गोमयं तु यत् ।
अन्तरिक्षे गृहीत्वा तत्षडङ्गेन दहेदतः ॥ ४॥
पौष्टिकं तत्समाख्यातं कामदं च ततः शृणु ।
प्रासादेन दहेदेतत्कामदं भस्म कीर्तितम् ॥ ५॥
प्रातरुत्थाय देवर्षे भस्मव्रतपरः शुचिः ।
गवां गोष्ठेषु गत्वा तु नमस्कृत्य तु गोकुलम् ॥ ६॥
गवां वर्णानुरूपाणां गृह्णीयाद्गोमयं शुभम् ।
ब्राह्मणस्य च गौः श्वेता रक्ता गौः क्षत्रियस्य च ॥ ७॥
पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य कथ्यते ।
पौर्णमास्याममावास्यामष्टम्यां वा विशुद्धधीः ॥ ८॥
प्रासादेन तु मन्त्रेण गृहीत्वा गोमयं शुभम् ।
हृदयेन तु मन्त्रेण पिण्डीकृत्य तु गोमयम् ॥ ९॥
रविरश्मिसुसन्तप्तं शुचौ देशे मनोहरे ।
तुषेण वा बुसैर्वापि प्रासादेन तु निक्षिपेत् ॥ १०॥
अरण्युद्भवमग्निं वा श्रोत्रियागारजं तु वा ।
तदग्नौ विन्यसेत्तं च शिवबीजेन मन्त्रतः ॥ ११॥
गृह्णीयादथ तत्राग्निकुण्डाद्भस्म विचक्षणः ।
नवपात्रं समादाय प्रासादेन तु निक्षिपेत् ॥ १२॥
केतकी पाटली तद्वदुशीरं चन्दनं तथा ।
नानासुगन्धिद्रव्याणि काश्मीरप्रभृतीनि च ॥ १३॥
निक्षिपेत्तत्र पात्रे तु सद्योमन्त्रेण शुद्धधीः ।
जलस्नानं पुरा कृत्वा भस्मस्नानमतः परम् ॥ १४॥
जलस्नाने त्वशक्तश्च भस्मस्नानं समाचरेत् ।
प्रक्षाल्य पादौ हस्तौ च शिरश्चेशानमन्त्रतः ॥ १५॥
समुद्धूल्य ततः पश्चादाननं तत्पुरुषेण तु ।
अघोरेण तु हृदयं नाभिं वामेन तत्परम् ॥ १६॥
सद्योमन्त्रेण सर्वाङ्गं समूद्धूल्य विचक्षणः ।
पूर्ववस्त्रं परित्यज्य शुद्धवस्त्रं परिग्रहेत् ॥ १७॥
प्रक्षाल्य पादौ हस्तौ च पश्चादाचमनं चरेत् ।
भस्मनोद्धूलनाभावे त्रिपुण्ड्रं तु विधीयते ॥ १८॥
मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् ।
तर्जन्यनामिकामध्यैस्त्रिपुण्ड्रं च समाचरेत् ॥ १९॥
मूर्ध्नि चैव ललाटे च कर्णे कण्ठे तथैव च ।
हृदये चैव बाह्वोश्च न्यासस्थानं हि चोच्यते ॥ २०॥
पञ्चाङ्गुलैर्न्यसेन्मूर्ध्नि प्रासादेन तु मन्त्रतः ।
त्र्यङ्गुलैर्विन्यसेद्भाले शिरोमन्त्रेण देशिकः ॥ २१॥
सद्येन दक्षिणे कर्णे वामदेवेन वामतः ।
अघोरेण तु कण्ठे च मध्याङ्गुल्या स्पृशेद्बुधः ॥ २२॥
हृदयं हृदयेनैव त्रिभिरङ्गुलिभिः स्पृशेत् ।
विन्यसेद्दक्षिणे बाहौ शिखामन्त्रेण देशिकः ॥ २३॥
वामबाहौ न्यसेद्धीमान्कवचेन त्रियङ्गुलैः ।
मध्येन संस्पृशेन्नाभ्यामीशान इति मन्त्रतः ॥ २४॥
ब्रह्मविष्णुमहेशानास्तिस्रो रेखा इति स्मृताः ।
आद्यो ब्रह्मा ततो विष्णुस्तदूर्ध्वं तु महेश्वरः ॥ २५॥
एकाङ्गुलेन न्यस्तं यदीश्वरस्तत्र देवता ।
शिरोमध्ये त्वयं ब्रह्मा ईश्वरस्तु ललाटके ॥ २६॥
कर्णयोरश्विनौ देवौ गणेशस्तु गले तथा ।
क्षत्रियश्च तथा वैश्यः शूद्रश्चोद्धूलनं त्यजेत् ॥ २७॥
सर्वेषामन्त्यजातीनां मन्त्रेण रहितं भवेत् ।
(अदीक्षितं मनुष्याणामपि मन्त्रं विना भवेत्)॥ २८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
त्रिविधभस्ममाहात्म्यवर्णनं नामकादशोऽध्यायः ॥ ११.११॥
११.१२ द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।
श्रीनारायण उवाच ।
देवर्षे शृणु तत्सर्वं भस्मोद्धूलनजं फलम् ।
सरहस्यविधानं च सर्वकामफलप्रदम् ॥ १॥
कपिलायाः शकृत्स्वच्छं गृहीत्वा गगनेऽपतत् ।
न क्लिन्नं नापि कठिनं न दुर्गन्धं न चोषितम् ॥ २॥
उपर्यधः परित्यज्य गह्णीयात्पतितं यदि ।
पिण्डीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमन्त्रितम् ॥ ३॥
आदाय वाससाऽऽच्छाद्य भस्माधाने विनिक्षिपेत् ।
सुकृते सुदृढे शुद्धे क्षालिते प्रोक्षिते शुभे ॥ ४॥
विन्यस्य मन्त्री मन्त्रेण पात्रे भस्म विनिक्षिपेत् ।
तैजसं दारवं चाथ मृण्मयं चैलमेव च ॥ ५॥
अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ।
क्षौमे चैवातिशुद्धे वा धनवद्भस्म निक्षिपेत् ॥ ६॥
प्रस्थितो भस्म गृह्णीयात्स्वयं चानुचरोऽपि वा ।
न चायुक्तकरे दद्यान्न चाशुचितले क्षिपेत् ॥ ७॥
न संस्पृशेत्तु नीचाङ्गैर्न क्षिपेन्न च लङ्घयेत् ।
तस्माद्भसितमादाय विनियुञ्जीत मन्त्रितम् ॥ ८॥
विभूतिधारणविधिः स्मृतिप्रोक्तो मयेरितः ।
यदीयाचरणेनैव शिवतुल्यो न संशयः ॥ ९॥
शैवैः सम्पादितं भस्म वैदिकैः शिवसन्निधौ ।
भक्त्या परमया ग्राह्यं प्रार्थयित्वा तु पूजयेत् ॥ १०॥
तन्त्रोक्तवर्त्मना सिद्धं भस्म तान्त्रिकपूजकैः ।
यत्रकुत्रापि दत्तं चेत्तद्ग्राह्यं नैव वैदिकैः ॥ ११॥
शूद्रैः कापालिकैर्वाथ पाखण्डैरपरैस्तु तत् ।
त्रिपुण्ड्रं धारयेद्भक्त्या मनसापि न लङ्घयेत् ॥ १२॥
श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् ।
त्रिपुण्ड्रधारणं भक्त्या तथा देहावगुण्ठनम् ॥ १३॥
द्विजः कुर्याद्धि मन्त्रेण तत्त्यागी पतितो भवेत् ।
उद्धूलनं त्रिपुण्ड्रं च भक्त्या नैवाचरन्ति ये ॥ १४॥
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ।
येन भस्मोक्तमार्गेण धृतं न मुनिपुङ्गव ॥ १५॥
तस्य विद्धि मुने जन्म निष्कलं सौकरं यथा ।
येषां वपुर्मनुष्याणां त्रिपुण्ड्रेण विना स्थितम् ॥ १६॥
श्मशानसदृशं तत्स्यान्न प्रेक्ष्यं पुण्यकृज्जनैः ।
धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ॥ १७॥
धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ।
त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते ॥ १८॥
धारयन्ति च ये भक्त्या धारयन्ति तमेव ते ।
यथा कृशानुरहितो भूधरो न विराजते ॥ १९॥
अशेषसाधनेऽप्येवं भस्महीनं शिवार्चनम् ।
उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ॥ २०॥
तैः पूर्वाचरितं सर्वं विपरीतं भवेदपि ।
भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य च धारणम् ॥ २१॥
विना वेदोचिताचारं स्मार्तस्यानर्थकारणम् ।
कृतं स्यादकृतं तेन श्रुतमप्यश्रुतं भवेत् ॥ २२॥
अधीतमनधीतं च त्रिपुण्ड्रं यो न धारयेत् ।
वृथा वेदा वृथा यज्ञा वृथा दानं वृथा तपः ॥ २३॥
वृथा व्रतोपवासेन त्रिपुण्ड्रं यो न धारयेत् ।
भस्मधारणकं त्यक्त्वा मुक्तिमिच्छति यः पुमान् ॥ २४॥
विषपानेन नित्यत्वं कुरुते ह्यात्मनो हि सः ।
स्रष्टा सृष्टिच्छलेनाह त्रिपुण्ड्रस्य च धारणम् ॥ २५॥
ससर्ज स ललाटं हि तिर्यगूर्ध्वं न वर्तुलम् ।
तिर्यग्रेखाः प्रदृश्यन्ते ललाटे सर्वदेहिनाम् ॥ २६॥
तथापि मानवा मूर्खा न कुर्वन्ति त्रिपुण्ड्रकम् ।
न तद्ध्यानं न तन्मोक्षं न तज्ज्ञानं न तत्तपः ॥ २७॥
विना तिर्यक्त्रिपुण्ड्रं च विप्रेण यदनुष्ठितम् ।
वेदस्याध्ययने शूद्रो नाधिकारी यथा भवेत् ॥ २८॥
त्रिपुण्ड्रेण विना विप्रो नाधिकारी शिवार्चने ।
प्राङ्मुखश्चरणौ हस्तौ प्रक्षाल्याचम्य पूर्ववत् ॥ २९॥
प्राणानायम्य सङ्कल्प्य भस्मस्नानं समाचरेत् ।
आदाय भसितं शुद्धमग्निहोत्रसमुद्भवम् ॥ ३०॥
ईशानेन तु मन्त्रेण स्वमूर्धनि विनिक्षिपेत् ।
तत आदाय तद्भस्म मुखे च पुरुषेण तु ॥ ३१॥
अघोराख्येण हृदये गुह्ये वामाह्वयेन च ।
सद्योजाताभिधानेन भस्म पादद्वये क्षिपेत् ॥ ३२॥
सर्वाङ्गं प्रणवेनैव मन्त्रेणोद्धूलनं ततः ।
एतदाग्नेयकं स्नानमुदितं परमर्षिभिः ॥ ३३॥
सर्वकर्मसमृद्ध्यर्थं कुर्यादादाविदं बुधः ।
ततः प्रक्षाल्य हस्तादीनुपस्पृश्य यथाविधि ॥ ३४॥
तिर्यक्त्रिपुण्ड्रं विधिना ललाटे हृदये गले ।
पञ्चभिर्ब्रह्मभिर्वापि कृतेन भसितेन च ॥ ३५॥
घृतमेतत्त्रिपुण्ड्रं स्यात्सर्वकर्मसु पावनम् ।
शूद्रैरन्त्यजहस्तस्थं न धार्यं भस्म च क्वचित् ॥ ३६॥
भस्मना साग्निहोत्रेण लिप्तः कर्म समाचरेत् ।
अन्यथा सर्वकर्माणि न फलन्ति कदाचन ॥ ३७॥
सत्यं शौचं जपो होमस्तीर्थं देवादिपूजनम् ।
तस्य व्यर्थमिदं सर्वं यस्त्रिपुण्ड्रं न धारयेत् ॥ ३८॥
त्रिपुण्ड्रधृग्विप्रवरो यो रुद्राक्षधरः शुचिः ।
स हन्ति रोगदुरितव्याधिदुर्भिक्षतस्करान् ॥ ३९॥
समाप्नोति परं ब्रह्म यतो नावर्तते पुनः ।
स पङ्क्तिपावनः श्राद्धे पूज्यो विप्रैः सुरैरपि ॥ ४०॥
श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने ।
धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः ।
भस्मधारणमाहात्म्यं भूयोऽपि कथयामि ते ॥ ४१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
भस्मधारणमाहाम्यवर्णनं नाम द्वादशोऽध्यायः ॥ ११.१२॥
११.१३ त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
महापातकसङ्घाश्च पातकान्यपराण्यपि ।
नश्यन्ति मुनिशार्दूल सत्यं सत्यं न चान्यथा ॥ १॥
एकं भस्म धृतं येन तस्य पुण्यफलं शृणु ।
यतीनां ज्ञानदं प्रोक्तं वानस्थानां विरक्तिदम् ॥ २॥
गृहस्थानां मुने तद्वद्धर्मवृद्धिकरं तथा ।
ब्रह्मचर्याश्रमस्थानां स्वाध्यायप्रदमेव च ॥ ३॥
शूद्राणां पुण्यदं नित्यमन्येषां पापनाशनम् ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ४॥
रक्षार्थं सर्वभूतानां विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ५॥
यज्ञत्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ६॥
सर्वधर्मतया तेषां विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ७॥
माहेश्वराणां लिङ्गार्थं विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ८॥
विज्ञानार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः ।
शिवेन विष्णुना चैव ब्रह्मणा वज्रिणा तथा ॥ ९॥
हिरण्यगर्भेण तदवतारैर्वरुणादिभिः ।
देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मकम् ॥ १०॥
उमादेव्या च लक्ष्या च वाचा चान्याभिरास्तिकैः ।
सर्वस्त्रीभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ ११॥
यक्षराक्षसगन्धर्वसिद्धविद्याधरादिभिः ।
मुनिभिश्च धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ १२॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रेरपि च सङ्करैः ।
अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ १३॥
उद्धूलनं त्रिपुण्ड्रं च यैः समाचरितं मुदा ।
त एव शिष्टा विद्वांसो नेतरे मुनिपुङ्गव ॥ १४॥
शिवलिङ्गं मणिः सख्यं मन्त्रः पञ्चाक्षरस्तथा ।
विभूतिरौषधं पुंसां मुक्तिस्त्रीवश्यकर्मणि ॥ १५॥
भुनक्ति यत्र भस्माङ्गो मूर्खो वा पण्डितोऽपि वा ।
तत्र भुङ्क्ते महादेवः सपत्नीको वृषध्वजः ॥ १६॥
भस्मसञ्छन्नसर्वाङ्गमनुगच्छति यः पुमान् ।
सर्वपातकयुक्तोऽपि पूजितो मानवोऽचिरात् ॥ १७॥
भस्मसञ्छन्नसर्वाङ्गं यः स्तौति श्रद्धया सह ।
सर्वपातकयुक्तोऽपि पूज्यते मानवोऽचिरात् ॥ १८॥
त्रिपुण्ड्रधारिणे भिक्षाप्रदानेन हि केवलम् ।
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥ १९॥
येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना कृतम् ।
कीकटेष्वपि देशेषु यत्र भूतिविभूषणः ॥ २०॥
मानवस्तु वसेन्नित्यं काशीक्षेत्रसमं हि तत् ।
दुःशीलः शीलयुक्तो वा योगयुक्तोऽप्यलक्षणः ॥ २१॥
भूतिशासनयुक्तो वा स पूज्यो मम पुत्रवत् ।
छद्मनापि चरेद्यो हि भूतिशासनमैश्वरम् ॥ २२॥
सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि ।
सम्पर्काल्लीलया वापि भयाद्वा धारयेत्तु यः ॥ २३॥
विधियुक्तो विभूतिं तु स च पूज्यो यथा ह्यहम् ।
शिवस्य विष्णोर्देवानां ब्रह्मणस्तृप्तिकारणम् ॥ २४॥
पार्वत्याश्च महालक्ष्या भारत्यास्तृप्तिकारणम् ।
न दानेन न यज्ञेन न तपोभिः सुदुर्लभैः ॥ २५॥
न तीर्थयात्रया पुण्यं त्रिपुण्ड्रेण च लभ्यते ।
दानं यज्ञाश्च धर्माश्च तीर्थयात्राश्च नारद ॥ २६॥
ध्यानं तपस्त्रिपुण्ड्रस्य कलां नार्हन्ति षोडशीम् ।
यथा राजा स्वचिह्नाङ्कं स्वजनं मन्यते सदा ॥ २७॥
तथा शिवस्त्रिपुण्ड्राङ्कं स्वकीयमिव मन्यते ।
द्विजातिर्वान्यजातिर्वा शुद्धचित्तेन भस्मना ॥ २८॥
धारयेद्यस्त्रिपुण्ड्राङ्कं रुद्रस्तेन वशीकृतः ।
त्यक्तसर्वाश्रमाचारो लुप्तसर्वक्रियोऽपि सः ॥ २९॥
सकृत्तिर्यक्त्रिपुण्ड्राङ्कं धारयेत्सोऽपि मुच्यते ।
नास्य ज्ञानं परीक्षेत न कुलं न व्रतं तथा ॥ ३०॥
त्रिपुण्ड्राङ्कितभालेन पूज्य एव हि नारद ।
शिवमन्त्रात्परो मन्त्रो नास्ति तुल्यं शिवात्परम् ॥ ३१॥
शिवार्चनात्परं पुण्यं न हि तीर्थं च भस्मना ।
रुद्राग्नेर्यत्परं तीर्थं तद्भस्म परिकीर्तितम् ॥ ३२॥
ध्वंसनं सर्वदुःखानां सर्वपापविशोधनम् ।
अन्त्यजो वाधमो वापि मूर्खो वा पण्डितोऽपि वा ॥ ३३॥
यस्मिन्देशे वसेन्नित्यं भूतिशासनसंयुतः ।
तस्मिन्सदाशिवः सोमः सर्वभूतगणैर्वृतः ।
सर्वतीर्थेश्च संयुक्तः सान्निध्यं कुरुते सदा ॥ ३४॥
एतानि पञ्चशिवमन्त्रपवित्रितानि
भस्मानि कामदहनाङ्गविभूषितानि ।
त्रैपुण्ड्रकाणि रचितानि ललाटपट्टे
लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ ३५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
त्रिपुण्डधारणमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ ११.१३॥
११.१४ चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
भस्मदिग्धशरीराय यो ददाति धनं मुदा ।
तस्य सर्वाणि पापानि विनश्यन्ति न संशयः ॥ १॥
श्रुतयः स्मृतयः सर्वाः पुराणान्यखिलान्यपि ।
वदन्ति भूतिमाहाम्यं तत्तस्माद्धारयेद्द्विजः ॥ २॥
सितेन भस्मना कुर्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ३॥
योगी सर्वाङ्गकं स्तानमापादतलमस्तकम् ।
त्रिसन्ध्यमाचरेन्नित्यमाशु योगमवाप्नुयात् ॥ ४॥
भस्मस्नानेन पुरुषः कुलस्योद्धारको भवेत् ।
भस्मस्नानं जलस्नानादसङ्ख्येयगुणान्वितम् ॥ ५॥
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं लभते सर्वं भस्मस्नानान्न संशयः ॥ ६॥
महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।
भस्मस्नानेन तत्सर्वं दहत्यग्निरिवेन्धनम् ॥ ७॥
भस्मस्नानात्परं स्नानं पवित्रं नैव विद्यते ।
एवमुक्तं शिवेनादौ तदा स्नातः स्वयं शिवः ॥ ८॥
तदाप्रभृति ब्रह्माद्या मुनयश्च शिवार्थिनः ।
सर्वकर्मसु यत्नेन भस्मस्नानं प्रचक्रिरे ॥ ९॥
तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् ।
अनेनैव शरीरेण स हि रुद्रो न संशयः ॥ १०॥
ये भस्मधारिणं दृष्ट्वा परितृप्ता भवन्ति ते ।
देवासुरमुनीन्द्रैश्च पूज्या नित्यं न संशयः ॥ ११॥
भस्मसञ्छन्नसर्वाङ्गं दृष्ट्वोत्तिष्ठति यः पुमान् ।
तं दृष्ट्वा देवराजोऽपि दण्डवत्प्रणमिष्यति ॥ १२॥
अभक्ष्यभक्षणं येषां भस्मधारणपूर्वकम् ।
तेषां तद्भक्ष्यमेव स्यान्मुने नात्र विचारणा ॥ १३॥
यः स्नाति भस्मना नित्यं जले स्नात्वा ततः परम् ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽऽथवादरात् ॥ १४॥
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ।
आग्नेयं भस्मना स्नानं यतीनां च विशिष्यते ॥ १५॥
आर्द्रस्नानाद्वरं भस्मस्नानमार्द्रवधो ध्रुवः ।
आर्द्रं तु प्रकृतिं विद्यात्प्रकृतिं बन्धनं विदुः ॥ १६॥
प्रकृतेस्तु प्रहाणाय भस्मना स्नानमिष्यते ।
भस्मना सदृशं ब्रह्यन्नास्ति लोकत्रयेष्वपि ॥ १७॥
रक्षार्थं मङ्गलार्थं च पवित्रार्थं पुरा सुरैः ।
भस्म दृष्ट्वा मुने पूर्वं दत्तं देव्यै प्रियेण तु ॥ १८॥
तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् ।
भवपाशैर्विनिर्मुक्तः शिवलोके महीयते ॥ १९॥
ज्वररक्षःपिशाचाश्च पूतनाकुष्ठगुल्मकाः ।
भगन्दराणि सर्वाणि चाशीतिर्वातरोगकाः ॥ २०॥
चतुःषष्टिः पित्तरोगाः श्लेष्मा सप्तत्रिपञ्चकाः ।
व्याघ्रचौरभयं चैवाप्यन्ये दुष्टग्रहा अपि ॥ २१॥
भस्मस्नानेन नश्यन्ति सिंहेनैव यथा गजाः ।
शुद्धशीतजलेनैव भस्मना च त्रिपुण्ड्रकम् ॥ २२॥
यो धारयेत्परं ब्रह्म स प्राप्नोति न संशयः ।
(भस्मना च त्रिपुण्ड्रं च यः कोऽपि धारयेत्परम् ।
स ब्रह्मलोकमाप्नोति मुक्तपापो न संशयः ॥)
यथाविधि ललाटे वै वह्निवीर्यप्रधारणात् ॥ २३॥
नाशयेल्लिखितां यामीं ललाटस्थां लिपिं ध्रुवम् ।
कण्ठोपरिकृतं पापं नाशयेत्तत्प्रधारणात् ॥ २४॥
कण्ठे च धारणात्कण्ठभोगादिकृतपातकम् ।
बाह्वोर्बाहुकृतं पापं वक्षसा मनसा कृतम् ॥ २५॥
नाभ्यां शिश्नकृतं पापं गुदे गुदकृतं हरेत् ।
पार्श्वयोर्धारणाद्ब्रह्मन् परस्त्र्यालिङ्गनादिकम् ॥ २६॥
तद्भस्मधारणं शस्तं सर्वत्रैव त्रिलिङ्गकम् ।
ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् ॥ २७॥
गुणलोकत्रयाणां च धारणं तेन वै कृतम् ।
भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः ॥ २८॥
दोषैर्वियुज्यते सद्यो मुच्यते च न संशयः ।
भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् ॥ २९॥
भस्मस्नानविशुद्धात्मा आत्मनिष्ठ इति स्मृतः ।
भस्मना दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः ॥ ३०॥
भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः ।
भूतप्रेतपिशाचाद्या रोगाश्चातीव दुःसहाः ॥ ३१॥
भस्मनिष्ठस्य सान्निध्याद्विद्रवन्ति न संशयः ।
भासनाद्भसितं प्रोक्तं भस्म कल्मषभक्षणात् ॥ ३२॥
भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी पुरा ।
त्रिपुण्ड्रधारिणं दृष्ट्वा भूतप्रेतपुरःसराः ॥ ३३॥
भीताः प्रकम्पिताः शीघ्रं नश्यन्त्येव न संशयः ।
स्मरणादेव रुद्रस्य यथा पापं प्रणश्यति ॥ ३४॥
अप्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना ।
तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम् ॥ ३५॥
कृत्वापि चातुलं पापं मृत्युकालेऽपि यो द्विजः ।
भस्मस्नायी भवेत्कश्चित्क्षिप्रं पापैः प्रमुच्यते ॥ ३६॥
भस्मस्नानाद्धि शुद्धात्मा जितक्रोधो जितेन्द्रियः ।
मत्समीपं समागम्य न स भूयोऽभिवर्तते ॥ ३७॥
वनस्पतिगते सोमे भस्मोद्धूलितविग्रहः ।
अर्चितं शङ्करं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥ ३८॥
आयुष्कामोऽथवा विद्वान्भूतिकामोऽथवा नरः ।
नित्यं वै धारयेद्भस्म मोक्षकामी च वै द्विजः ॥ ३९॥
त्रिपुण्ड्रं परमं पुण्यं ब्रह्मविष्णुशिवात्मकम् ।
ये घोरा राक्षसाः प्रेता ये चान्ये क्षुद्रजन्तवः ॥ ४०॥
त्रिपुण्ड्रधारणं दृष्ट्वा पलायन्ते न संशयः ।
कृत्वा शौचादिकं कर्म स्नात्वा तु विमले जले ॥ ४१॥
भस्मनोद्धूलनं कार्यमापादतलमस्तकम् ।
केवलं वारुणं स्नानं देहे बाह्यमलापहम् ॥ ४२॥
विभूतिस्तानमनघं बाह्यान्तरमलापहम् ।
त्यक्त्वापि वारुणं स्नानं तत्परः स्यान्न संशयः ॥ ४३॥
कृतमप्यकृतं सत्यं भस्मस्नानं विना मुने ।
भस्मस्नानं श्रुतिप्रोक्तमाग्नेयं स्नानमुच्यते ॥ ४४॥
अन्तर्बहिश्च संशुद्धं शिवपूजाफलं लभेत् ।
यद्बाह्यमलमात्रस्य नाशकं स्तानमस्ति तत् ॥ ४५॥
तन्नाशयति तीव्रेण प्राणिबाह्यान्तरं मलम् ।
कृत्वापि कोटिशो नित्यं वारुणं स्नानमादरात् ॥ ४६॥
न भवत्येव पूतात्मा भस्मस्नानं विना मुने ।
यद्भस्मस्नानमाहाम्यं तद्वेदो वेद तत्त्वतः ॥ ४७॥
यद्वा वेद महादेवः सर्वदेवशिखामणिः ।
भस्मस्नानमकृत्वैव यः कुर्यात्कर्म वैदिकम् ॥ ४८॥
स तत्कर्मकलार्धार्धमपि नाप्नोति वस्तुतः ।
यः करिष्यति यत्नेन भस्मस्नानं यथाविधि ॥ ४९॥
स एवैकः सर्वकर्मस्वधिकारी श्रुतिश्रुतः ।
पावनं पावनानां च भस्मस्नानं श्रुतिश्रुतम् ॥ ५०॥
न करिष्यति यो मोहात्स महापातकी भवेत् ।
अनन्तैर्वारुणैः स्नानैर्यत्पुण्यं प्राप्यते द्विजैः ॥ ५१॥
ततोऽनन्तगुणं पुण्यं भस्मस्नानादवाप्यते ।
कालत्रयेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः ॥ ५२॥
भस्मस्नानं स्मृतं श्रौतं तत्त्यागी पतितो भवेत् ।
मूत्राद्युत्सर्जनान्ते तु भस्मस्नानं प्रयत्नतः ॥ ५३॥
कर्तव्यमन्यथा पूता न भविष्यन्ति मानवाः ।
विधिवत्कृतशौचोऽपि भस्मस्नानं विना द्विजः ॥ ५४॥
न भविष्यति पूतात्मा नाधिकार्यपि कर्मणि ।
अपानवायुनिर्याते जृम्भणे स्कन्दने क्षुते ॥ ५५॥
श्लेष्मोद्गारेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः ।
श्रीभस्मस्नानमाहात्म्यस्यैकदेशोऽत्र वर्णितः ॥ ५६॥
पुनश्च सम्प्रवक्ष्यामि भस्मस्नानोत्थितं फलम् ।
सावधानेन मनसा श्रोतव्यं मुनिपुङ्गव ॥ ५७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
विभूतिधारणमाहात्म्यवर्णनं नाम चतुर्दशोऽध्यायः ॥ ११.१४॥
११.१५ पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।
श्रीनारायण उवाच ।
अग्निरित्यादिभिर्मन्त्रैर्भस्म संशोध्य सादरम् ।
धारणीयं ललाटादौ त्रिपुण्ड्रं केवलं द्विजैः ॥ १॥
ब्रह्मक्षत्रियवैश्याश्च एते सर्वे द्विजाः स्मृताः ।
तस्माद्द्विजैः प्रयत्नेन त्रिपुण्ड्रं धार्यमन्वहम् ॥ २॥
यस्योपनयनं ब्रह्मन् स एव द्विज उच्यते ।
तस्माच्छ्रौतं द्विजैः कार्यं त्रिपुण्ड्रस्य च धारणम् ॥ ३॥
विभूतिधारणं त्यक्त्वा यः सत्कर्म समाचरेत् ।
तत्कृतं चाकृतप्रायं भवत्येव न संशयः ॥ ४॥
न गायत्र्युपदेशोऽपि भस्मनो धारणं विना ।
ततो धृत्वैव भस्माङ्गे गायत्रीजपमाचरेत् ॥ ५॥
गायत्रीं मूलमेवाहुर्ब्राह्मण्ये मुनिपुङ्गव ।
सा भस्मधारणाभावे न केनाप्युपदिश्यते ॥ ६॥
न तावदधिकारोऽस्ति गायत्रीग्रहणे मुने ।
यावन्न भस्म भालादौ धृतमग्निसमुद्भवम् ॥ ७॥
भस्महीनललाटत्वं न ब्रह्मण्यानुमापकम् ।
एवमेव मया ब्रह्मन् हेतुरुक्तः सुपुण्यदः ॥ ८॥
मन्त्रपूतं सितं भस्म ललाटे परिवर्तते ।
स एव ब्राह्मणो विद्वान्सत्यं सत्यं मयोच्यते ॥ ९॥
यस्यास्ति सहजा प्रीतिर्मणिवद्भस्मसङ्ग्रहे ।
स एव ब्राह्मणो ब्रह्मन् सत्यं सत्यं मयोच्यते ॥ १०॥
न यस्य सहजा प्रीतिर्मणिवद्भस्मसङ्ग्रहे ।
स चाण्डाल इति ज्ञेयो जन्मजन्मान्तरे ध्रुवम् ॥ ११॥
न यस्य सहजा प्रीतिस्त्रिपुण्ड्रोद्धूलनादिषु ।
स चाण्डाल इति ज्ञेयः सत्यं सत्यं मयोच्यते ॥ १२॥
ये भस्मधारणं त्यक्त्वा भुञ्जन्ते च फलादिकम् ।
ते सर्वे नरकं घोरं प्राप्नुवन्ति न संशयः ॥ १३॥
(विभूतिधारणं त्यक्त्वा यः शिवं पूजयिष्यति ।
स दुर्भगः शिवद्वेष्टा स द्वेषो नरकप्रदः ।
सर्वकर्मबहिर्भूतो भस्मधारणवर्जितः ॥)
विभूतिधारणं त्यक्त्वा कुर्वन् हेमतुलामपि ।
न तत्फलमवाप्नोति पतितो हि भवेद्धि सः ॥ १४॥
यथोपवीतरहितैः सन्ध्या न क्रियते द्विजैः ।
तथा सन्ध्या न कर्तव्या विभूतिरहितैरपि ॥ १५॥
गतोपवीतैः सन्ध्यायां कार्यः प्रतिनिधिः क्वचित् ।
जपादिकं तु सावित्र्यास्तथैवोपोषणादिकम् ॥ १६॥
विभूतिधारणे त्वन्यो नास्ति प्रतिनिधिः क्वचित् ।
विभूतिधारणं त्यक्त्वा यदि सन्ध्यां करोति यः ॥ १७॥
प्रत्यवैत्येव येनासौ नाधिकारी तदा द्विजः ।
यथा श्रुत्वान्त्यजो वेदान्प्रत्यवैति तथा द्विजः ॥ १८॥
प्रत्यवैति न सन्देहः सन्ध्याकृद्भस्मवर्जितः ।
सम्पादनीय यत्नेन श्रौतं भस्म सदा द्विजैः ॥ १९॥
स्मार्तं वा तदभावे तु लौकिकं वा समाहितैः ।
यादृशं तादृशं वास्तु पवित्रं भस्म सन्ततम् ॥ २०॥
धारणीयं प्रयत्नेन द्विजैः सन्ध्यादिकर्मसु ।
न संविशन्ति पापानि भस्मनिष्ठे ततः सदा ॥ २१॥
कर्तव्यमपि यत्नेन ब्राह्मणैर्भस्मधारणम् ।
मध्याङ्गुलित्रयेणैव स्वदक्षिणकरस्य तु ॥ २२॥
षडङ्गुलायतं मानमपि चाधिकमानकम् ।
नेत्रयुग्मप्रमाणेन भाले दीप्तं त्रिपुण्ड्रकम् ॥ २३॥
कदाचिद्भस्मना कुर्यात्स रुद्रो नात्र संशयः ।
अकारोऽनामिका प्रोक्त उकारो मध्यमाङ्गुलिः ॥ २४॥
मकारस्तर्जनी तस्मात् त्रिपुण्ड्रं त्रिगुणात्मकम् ।
त्रिपुण्ड्रं मध्यमातर्जन्यनामाभिरनुलोमतः ॥ २५॥
अत्र ते कथयाम्येनमितिहासं पुरातनम् ।
कदाचिदथ दुर्वासाः पितृलोकं गतोऽभवत् ॥ २६॥
भस्मसन्दिग्धसर्वाङ्गो रुद्राक्षाभरणान्वितः ।
शिव शङ्कर सर्वात्मञ्छ्रीमातर्जगदम्बिके ॥ २७॥
नामानीति गृणन्नुच्चैस्तापसानां शिखामणिः ।
कव्यवाडादयस्ते तु प्रत्युत्थानाभिवादनैः ॥ २८॥
आसनाद्युपचारैश्च सम्मानं बहु चक्रिरे ।
नानाकथाभिरन्योन्यं सम्भाषाञ्चक्रिरे तदा ॥ २९॥
तस्मिंस्तु समये कुम्भीपाकस्थानां तु पापिनाम् ।
घोरः समभवच्छब्दो हा हताः स्मेतिवादिनाम् ॥ ३०॥
मृताः स्मेति वदन्त्येके दग्धाः स्मेति परे जगुः ।
छिन्नाः स्मेति विभिन्नाः स्मेत्येवं रोदनकारिणः ॥ ३१॥
श्रुत्वा तं करुण शब्दं दुःखितो मुनिराड् हृदि ।
पप्रच्छ पितृनाथांस्तान्केषां शब्दोऽयमित्यपि ॥ ३२॥
ते समूचुर्मुनेऽत्रैव पुरी संयमनी परा ।
वर्तते यमराडत्र पापिनां भोगदायकः ॥ ३३॥
नानादूतैः कालरूपैः कृष्णवर्णेर्भयङ्करैः ।
सहितोऽत्रैव तत्पुर्यां नायको विद्यतेऽनघ ॥ ३४॥
तत्र कुण्डान्यनेकानि पापिनां भोगदानि च ।
षडशीतिर्घोररूपैर्दूतैः परिवृतानि च ॥ ३५॥
तत्र मुख्यतमं कुण्डं कुम्भीपाकाभिधं महत् ।
वर्तते तद्गतानां च यातनानां तु वर्णनम् ॥ ३६॥
कर्तुं न शक्यते कैश्चिदपि वर्षशतैरपि ।
ये शिवद्रोहिणः सन्ति तथा देवीविनिन्दकाः ॥ ३७॥
ये विष्णुद्रोहिणः सन्ति पतन्त्यत्रैव ते मुने ।
ये वेदनिन्दकाः सन्ति सूर्यस्य च गणेशितुः ॥ ३८॥
ब्राह्मणानां द्रोहिणो ये पतन्त्यत्रैव ते मुने ।
कामाचाराश्च ये सन्ति तप्तमुद्राङ्किताश्च ये ॥ ३९॥
त्रिशूलधारिणो ये च पतन्त्यत्रैव ते मुने ।
मातृपितृगुरुज्येष्ठपुराणस्मृतिनिन्दकाः ॥ ४०॥
ये धर्मदूषकाः सन्ति पतन्त्यत्रैव ते मुने ।
तेषामयं महाघोरः शब्दः श्रवणदारुणः ॥ ४१॥
श्रूयतेऽस्माभिरनिशं वैराग्यं यच्छ्रुतेर्भवेत् ।
इति तेषां वचः श्रुत्वा मुनिराट् तद्दिदृक्षया ॥ ४२॥
उत्थाय चलितस्तूर्णं ययौ कुण्डसमीपतः ।
अवाङ्मुखो ददर्शाधस्तस्मिन्नेव क्षणे मुने ॥ ४३॥
तत्रत्यानां पापिनां तु स्वर्गाधिकमभूत्सुखम् ।
हसन्ति केचिद्गायन्ति नृत्यन्ति च तथापरे ॥ ४४॥
परस्परं रमन्ते तेऽत्युन्मत्ताः सुखवर्धनात् ।
मृदङ्गमुरजावीणाढक्कादुन्दुभिनिस्वनाः ॥ ४५॥
समुद्भूतास्तु मधुराः पञ्चमस्वरभूषिताः ।
वसन्तवल्लीपुष्पाणां सुगन्धमरुतो ववुः ॥ ४६॥
मुनिस्तु चकितो दृष्ट्वा यमदूताश्च विस्मिताः ।
शीघ्रं ते कथयामासुर्धर्मराजाय वेदिने ॥ ४७॥
महाराज महाश्चर्यमधुनैवाभवद्विभो ।
स्वर्गादप्यधिकं सौख्यं कुम्भीपाकस्थपापिनाम् ॥ ४८॥
निमित्तं नैव जानीमः कस्मादिदमभूद्विभो ।
चकिताः स्म वयं सर्वे प्राप्ता देव त्वदन्तिकम् ॥ ४९॥
निशम्य दूतवाणीं तां धर्मराट् शीघ्रमुत्थितः ।
महामहिषमारूढो ययौ ते यत्र पापिनः ॥ ५०॥
तां वार्तां प्रेषयामास दूतद्वारामरावतीम् ।
श्रुत्वा तां देवराजोऽपि प्राप्तो देवगणैः सह ॥ ५१॥
ब्रह्मलोकात्पद्मजोऽपि वैकुण्ठाद्विष्टरश्रवाः ।
तत्तल्लोकाच्च दिक्पालाः समाजग्मुर्गणैः सह ॥ ५२॥
परिवार्य स्थिताः सर्वे कुम्भीपाकमितस्ततः ।
अपश्यंस्तद्गताञ्जीवान्स्वर्गाधिकसुखान्त्वितान् ॥ ५३॥
चकिता एव ते सर्वे न विदुस्तस्य कारणम् ।
अहो पापस्य भोगार्थं कुण्डमेतद्विनिर्मितम् ॥ ५४॥
तत्र सौख्यं यदा जातं तदा पापात्तु किं भयम् ।
उच्छिन्ना वेदमर्यादा परमेशकृता कथम् ॥ ५५॥
भगवान् स्वस्य सङ्कल्पं वितथं कृतवान्कथम् ।
आश्चर्यमेतदाश्चर्यमेतदित्येव भाषिणः ॥ ५६॥
तटस्था अभवन्सर्वे न विदुस्तत्र कारणम् ।
एतस्मिन्नन्तरे शौरिः सम्मन्त्र्य विबुधादिभिः ॥ ५७॥
ययौ कैश्चित्सुरगणैः सहितः शङ्करालयम् ।
पार्वत्या सहितं देवं कोटिकन्दर्पसुन्दरम् ॥ ५८॥
रमणीयतमाङ्गं तं लावण्यखनिमद्भुतम् ।
सदा षोडशवर्षीयं नानालङ्कारभूषितम् ॥ ५९॥
नानागणैः परिवृतं लालयन्तं परां शिवाम् ।
ददर्श चन्द्रमौलिं स चतुर्वेदं ननाम ह ॥ ६०॥
वृत्तान्तं कथयामास चमत्कृतमतिस्फुटम् ।
एतस्य कारणं देव न जानीमः कथञ्चन ॥ ६१॥
वद तत्कारणं देव सर्वज्ञोऽसि यतः प्रभो ।
विष्णुवाक्यं तदा श्रुत्वा प्रसन्नमुखपङ्कजः ॥ ६२॥
उवाच मधुरं वाक्यं मेघगम्भीरया गिरा ।
शृणु विष्णो तन्निमित्तं नाश्चर्यं त्वत्र विद्यते ॥ ६३॥
भस्मनो महिमैवायं भस्मना किं भवेन्न हि ।
कुम्भीपाकं गतो द्रष्टुं दुर्वासाः शैवसम्मतः ॥ ६४॥
अवाङ्मुखो ददर्शाधस्तदा वायुवशाद्धरे ।
भालभस्मकणास्तत्र पतिता दैवयोगतः ॥ ६५॥
तेन जातमिदं सर्वं भस्मनो महिमा त्वयम् ।
इतः परं तु तत्तीर्थं पितृलोकनिवासिनाम् ॥ ६६॥
भविष्यति न सन्देहो यत्र स्नात्वा सुखी भवेत् ।
पितृतीर्थं तु तन्नाम्नाप्यत ऊर्ध्वं भविष्यति ॥ ६७॥
मल्लिङ्गस्थापनं तत्र कार्यं देव्याश्च सत्तम ।
पूजयिष्यन्ति ते तत्र पितृलोकनिवासिनः ॥ ६८॥
त्रैलोक्ये यानि तीर्थानि तत्र श्रेष्ठमिदं भवेत् ।
पित्रीश्वरीपूजया तु त्रैलोक्यं पूजितं भवेत् ॥ ६९॥
श्रीनारायण उवाच ।
इति देववचः श्रुत्वा देवं मूर्ध्ना प्रणम्य च ।
तदनुज्ञां समादाय ययौ देवान्तिकं हरिः ॥ ७०॥
तत्सर्वं कथयामास कारणं शङ्करोदितम् ।
साधु साध्विति ते प्रोचुरमरा मौलिचालनैः ॥ ७१॥
शशंसुर्भस्ममाहात्म्यं हरिब्रह्मादयः सुराः ।
पितरश्चैव सन्तुष्टास्तीर्थलाभात्परन्तप ॥ ७२॥
तत्तीर्थतीरे लिङ्गं च देव्या मूर्तिं यथाविधि ।
स्थापयामासुरमराः पूजयामासुरन्वहम् ॥ ७३॥
तत्र ये प्राणिनोऽभूवन्पापभोगार्थमास्थिताः ।
ते विमानं समारुह्य गताः कैलासमण्डलम् ॥ ७४॥
नाम्ना भद्रगणास्ते तु वसन्त्यद्यापि तत्र हि ।
पुनश्च दूरदेशे तु कुम्भीपाको विनिर्मितः ॥ ७५॥
निरुद्धं शैवगमनं देवैस्तत्र तु तद्दिनात् ।
इति ते सर्वमाख्यातं भस्ममाहात्म्यमुत्तमम् ॥ ७६॥
नातः परतरं किञ्चिदधिकं विद्यते मुने ।
ऊर्ध्वपुण्ड्रविधिं चैवाप्यधिकारिविभेदतः ॥ ७७॥
प्रवक्ष्ये मुनिशार्दूल वैष्णवागमलोकनात् ।
ऊर्ध्वपुण्ड्रप्रमाणानि दिव्यान्यङ्गुलिभेदतः ॥ ७८॥
वर्णाभिमन्त्रदेवांश्च प्रवक्ष्यामि फलानि च ।
पर्वताग्रे नदीतीरे शिवक्षेत्रे विशेषतः ॥ ७९॥
सिन्धुतीरे च वल्मीके तुलसीमूलमाश्रिते ।
मृद एतास्तु सङ्ग्राह्या वर्जयेदन्यमृत्तिकाः ॥ ८०॥
श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं भवेत् ।
श्रीकरं पीतमित्याहुर्धर्मदं श्वेतमुच्यते ॥ ८१॥
अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत् ।
अनामिकान्नदा नित्यं मुक्तिदा च प्रदेशिनी ॥ ८२॥
एतैरङ्गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् ।
वर्तिदीपावलिकृतिं वेणपत्राकृतिं तथा ॥ ८३॥
पद्मस्य मुकुलाकारं तथा कुर्यात्प्रयत्नतः ।
मत्स्यकूर्माकृतिं वापि शङ्खाकारं ततः परम् ॥ ८४॥
दशाङ्गुलिप्रमाणं तु उत्तमोत्तममुच्यते ।
नवाङ्गुलं मध्यमं स्यादष्टाङ्गुलमतः परम् ॥ ८५॥
सप्तषट्पञ्चभिः पुण्ड्रं मध्यमं त्रिविधं स्मृतम् ।
चतुस्त्रिद्व्यङ्गुलैः पुण्ड्रं कनिष्ठं त्रिविधं भवेत् ॥ ८६॥
ललाटे केशवं विद्यान्नारायणमथोदरे ।
माधवं हृदि विन्यस्य गोविन्दं कण्ठकूपके ॥ ८७॥
उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते ।
तत्पार्श्वबाहुमध्ये च मधुसूदनमेव च ॥ ८८॥
त्रिविक्रमं कर्णदेशे वामकुक्षौ तु वामनम् ।
श्रीधरं बाहुके वामे हृषीकेशं तु कर्णके ॥ ८९॥
पृष्ठे च पद्मनाभं तु ककुद्दामोदरं स्मरेत् ।
द्वादशैतानि नामानि वासुदेवेति मूर्धनि ॥ ९०॥
पूजाकाले च होमे च सायं प्रातः समाहितः ।
नामान्युच्चार्य विधिना धारयेदूर्ध्वपुण्ड्रकम् ॥ ९१॥
अशुचिर्वाप्यनाचारो मनसा पापमाचरेत् ।
शुचिरेव भवेन्नित्यं मूर्ध्नि पुण्ड्राङ्कितो नरः ॥ ९२॥
ऊर्ध्वपुण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् ।
श्वपाकोऽपि विमानस्थो मम लोके महीयते ॥ ९३॥
एकान्तिनो महाभागा मत्स्वरूपविदोऽमलाः ।
सान्तरालान्प्रकुर्वन्ति पुण्ड्रान्विष्णुपदाकृतीन् ॥ ९४॥
परमैकान्तिनोऽप्येवं मत्पादैकपरायणाः ।
हरिद्राचूर्णसंयुक्ताञ्छूलाकारांस्तु वामलान् ॥ ९५॥
अन्ये तु वैष्णवाः पुण्ड्रानच्छिद्रानपि भक्तितः ।
प्रकुर्वीरन्दीपपद्मवेणुपत्रोपमाकृतीन् ॥ ९६॥
अच्छिद्रानपि सच्छिद्रान् कुर्युः केवलवैष्णवाः ।
अच्छिद्रकरणे तेषां प्रत्यवायो न विद्यते ॥ ९७॥
एकान्तिनां प्रपन्नानां परमैकान्तिनामपि ।
अच्छिद्रपुण्ड्राकरणे प्रत्यवायो महान्भवेत् ॥ ९८॥
ऊर्ध्वपुण्ड्रं तु यः कुर्याद्दण्डाकारं तु शोभनम् ।
मध्ये छिद्रं वैष्णवाश्च नमोऽन्तैः केशवादिभिः ॥ ९९॥
विमलान्यूर्ध्वपुण्ड्राणि सान्तरालानि यो नरः ।
करोति विपुलं तत्र मन्दिरं मे करोति सः ॥ १००॥
ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे ।
लक्ष्म्या साकं सहासीनो रमते विष्णुरव्ययः ॥ १०१॥
निरन्तरालं यः कुर्यादूर्ध्वपुण्ड्रं द्विजाधमः ।
स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति ॥ १०२॥
अच्छिद्रमूर्ध्वपुण्ड्रं तु यः करोति विमूढधीः ।
स पर्यायेण तानेति नरकानेकविंशतिम् ॥ १०३॥
ऋजूनि स्फुटपार्श्वानि सान्तरालानि विन्यसेत् ।
ऊर्ध्वपुण्ड्राणि दण्डाब्जदीपमत्स्यनिभानि च ॥ १०४॥
शिखोपवीतवद्धार्यमूर्ध्वपुण्ड्रं द्विजेन च ।
विना कृताश्चेद्विफलाः क्रियाः सर्वा महामुने ॥ १०५॥
तस्मात्सर्वेषु कार्येषु कार्यं विप्रस्य धीमतः ।
ऊर्ध्वपुण्ड्रं त्रिशूलं च वर्तुलं चतुरस्रकम् ॥ १०६॥
अर्धचन्द्रादिकं लिङ्गं वेदनिष्ठो न धारयेत् ।
जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः ॥ १०७॥
पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत् ।
ख्यातिकान्त्यादिसिद्ध्यर्थं चापि विष्ण्वागमादिषु ॥ १०८॥
स्थितं पुण्ड्रान्तरं नैव धारयेद्वैदिको जनः ।
तिर्यक्त्रिपुण्ड्रं सन्त्यज्य श्रौतं कथमपि भ्रमात् ॥ १११॥
ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम् ।
विना पुण्ड्रान्तरं मोहाद्धारयन्नारकी भवेत् ॥ ११०॥
वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि ।
पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि ॥ १११॥
नाङ्कनं विग्रहे कुर्याद्वेदमार्गं समाश्रितः ।
श्रौतधर्मैकनिष्ठानां लिङ्गं तु श्रौतमेव हि ॥ ११२॥
अश्रौतधर्मनिष्ठानामश्रौत लिङ्गमीरितम् ।
देवता वेदसिद्धा यास्तासां लिङ्गं तु वैदिकम् ॥ ११३॥
अश्रौततन्त्रनिष्ठा यास्तासामश्रौतमेव हि ।
वेदसिद्धो महादेवः साक्षात्संसारमोचकः ॥ ११४॥
भक्तानामुपकाराय श्रौतं लिङ्गं दधाति च ।
वेदसिद्धस्य विष्णोश्च श्रौतं लिङ्गं न चेतरत् ॥ ११५॥
प्रादुर्भावविशेषाणामपि तस्य तदेव हि ।
श्रौतं लिङ्गं तु विज्ञेयं त्रिपुण्ड्रोद्धूलनादिकम् ॥ ११६॥
अश्रौतमूर्ध्वपुण्ड्रादि नैव तिर्यक्त्रिपुण्ड्रकम् ।
वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना ॥ ११७॥
ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि ।
यस्तु नारायणं देवं प्रपन्नः परमं पदम् ।
धारयेत्सर्वदा शूलं ललाटे गन्धवारिणा ॥ ११८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ११.१५॥
११.१६ षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां पुण्यं सन्ध्योपासनमुत्तमम् ।
भस्मधारणमाहात्म्यं कथितं चैव विस्तरात् ॥ १॥
प्रातःसन्ध्याविधानं च कथयिष्यामि तेऽनघ ।
प्रातःसन्ध्यां सनक्षत्रां मध्याह्ने मध्यभास्कराम् ॥ २॥
ससूर्यां पश्चिमां सन्ध्यां तिस्रः सन्ध्या उपासते ।
तद्भेदानपि वक्ष्यामि शृणु देवर्षिसत्तम ॥ ३॥
उत्तमा तारकोपेता मध्यमा लुप्ततारका ।
अधमा सूर्यसहिता प्रातःसन्ध्या त्रिधा मता ॥ ४॥
उत्तमा सूर्यसहिता मध्यमास्तमिते रवौ ।
अधमा तारकोपेता सायंसन्ध्या त्रिधा मता ॥ ५॥
विप्रो वृक्षो मूलकान्यत्र सन्ध्या
वेदः शाखा धर्मकर्माणि पत्रम् ।
तस्मान्मूलं यत्नतो रक्षणीयं
छिन्ने मूले नैव वृक्षो न शाखा ॥ ६॥
सन्ध्या येन न विज्ञाता सन्ध्या येनानुपासिता ।
जीवमानो भवेच्छूद्रो मृतः श्वा चैव जायते ॥ ७॥
तस्मान्नित्यं प्रकर्तव्यं सन्ध्योपासनमुत्तमम् ।
तदभावेऽन्यकर्मादावधिकारी भवेन्न हि ॥ ८॥
उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् ।
तावत्सन्ध्यामुपासीत प्रायश्चित्तं ततः परम् ॥ ९॥
कालातिक्रमणे जाते चतुर्थार्घ्यं प्रदापयेत् ।
अथवाष्टशतं देवीं जप्त्वादौ तां समाचरेत् ॥ १०॥
यस्मिन्काले तु यत्कर्म तत्कालाधीश्वरीं च ताम् ।
सन्ध्यामुपास्य पश्चात्तु तत्कालीनं समाचरेत् ॥ ११॥
गृहे साधारणा प्रोक्ता गोष्ठे वै मध्यमा भवेत् ।
नदीतीरे चोत्तमा स्याद्देवीगेहे तदुत्तमा ॥ १२॥
यतो देव्या उपासेयं ततो देव्यास्तु सन्निधौ ।
सन्ध्यात्रयं प्रकर्तव्यं तदानन्त्याय कल्पते ॥ १३॥
एतस्या अपरं दैवं ब्राह्मणानां च विद्यते ।
न विष्णूपासना नित्या न शिवोपासना तथा ॥ १४॥
यथा भवेन्महादेव्या गायत्र्याः श्रुतिचोदिता ।
सर्ववेदसारभूता गायत्र्यास्तु समर्चना ॥ १५॥
ब्रह्मादयोऽपि सन्ध्यायां तां ध्यायन्ति जपन्ति च ।
वेदा जपन्ति तां नित्यं वेदोपास्या ततः स्मृता ॥ १६॥
तस्मात्सर्वे द्विजाः शाक्ता न शैवा न च वैष्णवाः ।
आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम् ॥ १७॥
आचान्तः प्राणमायम्य केशवादिकनामभिः ।
केशवश्च तथा नारायणो माधव एव च ॥ १८॥
गोविन्दो विष्णुरेवाथ मधुसूदन एव च ।
त्रिविक्रमो वामनश्च श्रीधरोऽपि ततः परम् ॥ १९॥
हृषीकेशः पद्मनाभो दामोदर अतः परम् ।
सङ्कर्षणो वासुदेवः प्रद्युम्नोऽप्यनिरुद्धकः ॥ २०॥
पुरुषोत्तमाधोक्षजौ च नारसिंहोऽप्युतस्तथा ।
जनार्दन उपेन्द्रश्च हरिः कृष्णोऽन्तिमस्तथा ॥ २१॥
ओङ्कारपूर्वकं नाम चतुर्विंशतिसङ्ख्यया ।
स्वाहान्तैः प्राशयेद्वारि नमोऽन्तैः स्पर्शयेत्तथा ॥ २२॥
केशवादित्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ ।
मुखं प्रक्षालयेद्द्वाभ्यां द्वाभ्यामुन्मार्जनं तथा ॥ २३॥
एकेन पाणिं सम्प्रोक्ष्य पादावपि शिरोऽपि च ।
सङ्कर्षणादिदेवानां द्वादशाङ्गानि संस्पृशेत् ॥ २४॥
दक्षिणेनोदकं पीत्वा वामेन संस्पृशेद्बुधः ।
तावन्न शुध्यते तोयं यावद्वामेन न स्पृशेत् ॥ २५॥
गोकर्णाकृतिहस्तेन माषमात्रं जलं पिबेत् ।
ततो न्यूनाधिकं पीत्वा सुरापायी भवेद्द्विजः ॥ २६॥
संहताङ्गुलिना तोयं पाणिना दक्षिणेन तु ।
मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं विदुः ॥ २७॥
प्राणायामं ततः कृत्वा प्रणवस्मृतिपूर्वकम् ।
गायत्रीं शिरसा सार्धं तुरीयपदसंयुताम् ॥ २८॥
दक्षिणे रेचयेद्वायुं वामेन पूरितोदरम् ।
कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधाः ॥ २९॥
पीडयेद्दक्षिणां नाडीमङ्गुष्ठेन तथोत्तराम् ।
कनिष्ठानामिकाभ्यां तु मध्यमां तर्जनीं त्यजेत् ॥ ३०॥
रेचकः पूरकश्चैव प्राणायामोऽथ कुम्भकः ।
प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥ ३१॥
रेचकः सृजते वायुं पूरकः पूरयेत्तु तम् ।
साम्येन संस्थितिर्यत्तत्कुम्भकः परिकीर्तितः ॥ ३२॥
नीलोत्पलदलश्यामं नाभिमध्ये प्रतिष्ठितम् ।
चतुर्भुजं महात्मानं पूरके चिन्तयेद्धरिम् ॥ ३३॥
कुम्भके तु हृदि स्थाने ध्यायेत्तु कमलासनम् ।
प्रजापतिं जगन्नाथं चतुर्वक्त्रं पितामहम् ॥ ३४॥
रेचके शङ्करं ध्यायेल्ललाटस्थं महेश्वरम् ।
शुद्धस्फटिकसङ्काशं निर्मलं पापनाशनम् ॥ ३५॥
पूरके विष्णुसायुज्यं कुम्भके ब्रह्मणो गतिम् ।
रेचकेन तृतीयं तु प्राप्नुयादीश्वरं परम् ॥ ३६॥
पौराणाचमनाद्यं च प्रोक्तं देवर्षिसत्तम ।
श्रौतमाचमनाद्यं च शृणु पापापहं मुने ॥ ३७॥
प्रणवं पूर्वमुच्चार्य गायत्रीं तु तदित्यृचम् ।
पादादौ व्याहृतीस्तिस्रः श्रौताचमनमुच्यते ॥ ३८॥
गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रितयं प्राणसंयमः ॥ ३९॥
(सलक्षणं तु प्राणानामायामं कीर्त्यतेऽधुना ।
नानापापैकशमनं महापुण्यफलप्रदम् ॥)
पञ्चाङ्गुलीभिर्नासाग्रं पीडयेत्प्रणवेन तु ।
सर्वपापहरा मुद्रा वानप्रस्थगृहस्थयोः ॥ ४०॥
कनिष्ठानामिकाङ्गुष्ठैर्यतेश्च ब्रह्मचारिणः ।
आपो हि ष्ठेति तिसृभिः प्रोक्षणं स्यात्कुशोदकैः ॥ ४१॥
ऋगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः ।
नवप्रणवयुक्तेन आपो हि ष्ठेत्यनेन तु ॥ ४२॥
नश्येदघं मार्जनेन संवत्सरसमुद्भवम् ।
तत आचमनं कृत्वा सूर्यश्चेति पिबेदपः ॥ ४३॥
अन्तःकरणसम्भिन्नं पापं तस्य विनश्यति ।
प्रणवेन व्याहृतिभिर्गायत्र्या प्रणवाद्यया ॥ ४४॥
आपो हि ष्ठेति सूक्तेन मार्जनं चैव कारयेत् ।
उद्धृत्य दक्षिणे हस्ते जलं गोकर्णवत्कृते ॥ ४५॥
नीत्वा तं नासिकाग्रं तु वामकुक्षौ स्मरेदघम् ।
पुरुषं कृष्णवर्णं च ऋतं चेति पठेत्ततः ॥ ४६॥
द्रुपदां वा ऋचं पश्चाद्दक्षनासापुटेन च ।
श्वासमार्गेण तं पापमानयेत्करवारिणि ॥ ४७॥
नावलोक्यैव तद्वारि वामभागेऽश्मनि क्षिपेत् ।
निष्पापं तु शरीरं मे सञ्जातमिति भावयेत् ॥ ४८॥
उत्थाय तु ततः पादौ द्वौ समौ सन्नियोजयेत् ।
जलाञ्जलिं गृहीत्वा तु तर्जन्यङ्गुष्ठवर्जितम् ॥ ४९॥
वीक्ष्य भानुं क्षिपेद्वारि गायत्र्या चाभिमन्त्रितम् ।
त्रिवारं मुनिशार्दूल विधिरेषोऽर्घ्यमोचने ॥ ५०॥
ततः प्रदक्षिणां कुर्यादसावादित्यमन्त्रतः ।
मध्याह्ने सकृदेव स्यात्सन्ध्ययोस्तु त्रिवारतः ॥ ५१॥
ईषन्नग्रः प्रभाते तु मध्याह्ने दण्डवत्स्थितः ।
आसने चोपविष्टस्तु द्विजः सायं क्षिपेदपः ॥ ५२॥
उदकं प्रक्षिपेद्यस्मात्तत्कारणमतः शृणु ।
त्रिंशत्कोट्यो महावीरा मन्देहा नाम राक्षसाः ॥ ५३॥
कृतघ्ना दारुणा घोराः सूर्यमिच्छन्ति खादितुम् ।
ततो देवगणाः सर्वे ऋषयश्च तपोधनाः ॥ ५४॥
उपासते महासन्ध्यां प्रक्षिपन्त्युदकाञ्जलिम् ।
दह्यन्ते तेन दैत्यास्ते वज्रीभूतेन वारिणा ॥ ५५॥
एतस्मात्कारणाद्विप्राः सन्ध्यां नित्यमुपासते ।
महापुण्यस्य जननं सन्ध्योपासनमीरितम् ॥ ५६॥
अर्घ्याङ्गभूतमन्त्रोऽयं प्रोच्यते शृणु नारद ।
यदुच्चारणमात्रेण साङ्गं सन्ध्याफलं भवेत् ॥ ५७॥
सोऽहमर्कोऽस्म्यहं ज्योतिरात्मा ज्योतिरहं शिवः ।
आत्मज्योतिरहं शुक्लः सर्वज्योती रसोऽस्म्यहम् ॥ ५८॥
आगच्छ वरदे देवि गायत्रि ब्रह्मरूपिणि ।
जपानुष्ठानसिद्ध्यर्थं प्रविश्य हृदयं मम ॥ ५९॥
उत्तिष्ठ देवि गन्तव्यं पुनरागमनाय च ।
अर्घ्येषु देवि गन्तव्यं प्रविश्य हृदयं मम ॥ ६०॥
ततः शुद्धस्थले नैजमासनं स्थापयेद्बुधः ।
तत्रारुह्य जपेत्पश्चाद्गायत्रीं वेदमातरम् ॥ ६१॥
अत्रैव खेचरी मुद्रा प्राणायामोत्तरं मुने ।
प्रातःसन्ध्याविधाने च कीर्तिता मुनिपुङ्गव ॥ ६२॥
तन्नामार्थं प्रवक्ष्यामि सादरं शृणु नारद ।
चित्तं चरति खे यस्माज्जिह्वा चरति खे गता ॥ ६३॥
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ।
न चासनं सिद्धसमं न कुम्भसदृशोऽनिलः ॥ ६४॥
न खेचरीसमा मुद्रा सत्यं सत्यं च नारद ।
घण्टावत्पणवोच्चाराद्वायुं निर्जित्य यत्नतः ॥ ६५॥
स्थिरासने स्थिरो भूत्वा निरहङ्कारनिर्ममः ।
लक्षणं नारद मुने शृणु सिद्धासनस्य च ॥ ६६॥
योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसे-
न्मेढ्रे पादमथैकमेव हृदयं कृत्वा समं विग्रहम् ।
स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरं
तिष्ठत्येतदतीव योगिसुखदं सिद्धासनं प्रोच्यते ॥ ६७॥
आयातु वरदा देवी अक्षरं ब्रह्मसम्मितम् ।
गायत्री छन्दसां मातरिदं ब्रह्म जुषस्व मे ॥ ६८॥
यदह्ना कुरुते पापं तदह्ना प्रतिमुच्यते ।
यद्रात्र्या कुरुते पापं तद्रात्र्या प्रतिमुच्यते ॥ ६९॥
सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति ।
अजरे अमरे देवि सर्वदेवि नमोऽस्तु ते ॥ ७०॥
तेजोऽसीत्यादिमन्त्रेण देवीमावाहयेत्ततः ।
यत्कृतं त्वदनुष्ठानं तत्सर्वं पूर्णमस्तु मे ॥ ७१॥
ततः शापविमोक्षाय विधानं सम्यगाचरेत् ।
ब्रह्मशापस्ततो विश्वामित्रस्य च तथैव च ॥ ७२॥
वसिष्ठशाप इत्येतत्त्रिविधं शापलक्षणम् ।
ब्रह्मणः स्मरणेनैव ब्रह्मशापो निवर्तते ॥ ७३॥
विश्वामित्रस्मरणतो विश्वामित्रस्य शापतः ।
वसिष्ठस्मरणादेव तस्य शापो विनश्यति ॥ ७४॥
हृत्पद्ममध्ये पुरुषं प्रमाणं
सत्यात्मकं सर्वजगत्स्वरूपम् ।
ध्यायामि नित्यं परमात्मसंज्ञं
चिद्रूपमेकं वचसामगम्यम् ॥ ७५॥
अथ न्यासविधिं वक्ष्ये सन्ध्याया अङ्गसम्भवम् ।
ओङ्कारं पूर्ववद्योज्यं ततो मन्त्रानुदीरयेत् ॥ ७६॥
भूरित्युक्त्वा च पादाभ्यां नम इत्येव चोच्चरेत् ।
भुवः पूर्वं तु जानुभ्यां स्वः कटिभ्यां नमो वदेत् ॥ ७७॥
महर्नाभ्यै जनश्चैव हदयाय ततस्तपः ।
कण्ठाय च ततः सत्यं ललाटे परिकीर्तयेत् ॥ ७८॥
अङ्गुष्ठाभ्यां तत्सवितुस्तर्जनीभ्यां वरेण्यकम् ।
भर्गो देवस्य मध्याध्यां धीमहीत्येव कीर्तयेत् ॥ ७९॥
अनामाभ्यां कनिष्ठाभ्यां धियो यो नः पदं वदेत् ।
प्रचोदयात्करपृष्ठतलयोर्विन्यसेत्सुधीः ॥ ८०॥
ब्रह्मात्मने तत्सवितुर्हृदयाय नमस्तथा ।
विष्ण्वात्मने वरेण्यं च शिरसे नम इत्यपि ॥ ८१॥
भर्गो देवस्थ रुद्रात्मने शिखायै प्रकीर्तितम् ।
शक्त्यात्मने धीमहीति कवचाय ततः परम् ॥ ८२॥
कालात्मने धियो यो नो नेत्रत्रय उदीरितम् ।
प्रचोदयाच्च सर्वात्मनेऽस्त्राय परिकीर्तितम् ॥ ८३॥
अक्षरन्यासमेवाग्रे कथयामि महामुने ।
गायत्रीवर्णसम्भूतन्यासः पापहरः परः ॥ ८४॥
प्रणवं पूर्वमुच्चार्य वर्णन्यासः प्रकीर्तितः ।
तत्कारमादावुच्चार्य पादाङ्गुष्ठद्वये न्यसेत् ॥ ८५॥
सकारं गुल्फयोस्तद्वद्विकारं जङ्घयोर्न्यसेत् ।
जान्वोस्तुकारं विन्यस्य ऊर्वोश्चैव वकारकम् ॥ ८६॥
रेकारं च गुदे न्यस्य णिकारं लिङ्ग एव च ।
कट्यां यकारमेवात्र भकारं नाभिमण्डले ॥ ८७॥
गोकारं हृदये न्यस्य देकारं स्तनयोर्द्वयोः ।
वकारं हृदि विन्यस्य स्यकारं कण्ठकूपके ॥ ८८॥
धीकारं मुखदेशे तु मकारं तालुदेशके ।
हिकारं नासिकाग्रे तु धिकारं नेत्रमण्डले ॥ ८९॥
भ्रूमध्ये चैव योकारं योकारं च ललाटके ।
नकारं वै पूर्वमुखे प्रकारं दक्षिणे मुखे ॥ ९०॥
चोकारं पश्चिममुखे दकारं चोत्तरे मुखे ।
याकारं मूर्ध्नि विन्यस्य तकारं व्यापकं न्यसेत् ॥ ९१॥
एतन्न्यासविधिं केचिन्नेच्छन्ति जपतत्पराः ।
ततो ध्यायेन्महादेवीं जगन्मातरमम्बिकाम् ॥ ९२॥
भास्वज्जपाप्रसूनाभां कुमारीं परमेश्वरीम् ।
रक्ताम्बुजासनारूढां रक्तगन्धानुलेपनाम् ॥ ९३॥
रक्तमाल्याम्बरधरां चतुरास्यां चतुर्भुजाम् ।
द्विनेत्रां स्रुक्स्रुवो मालां कुण्डिकां चैव बिभ्रतीम् ॥ ९४॥
सर्वाभरणसन्दीप्तामृग्वेदाध्यायिनीं पराम् ।
हंसपत्रामाहवनीयमध्यस्थां ब्रह्मदेवताम् ॥ ९५॥
चतुष्पदामष्टकुक्षिं सप्तशीर्षां महेश्वरीम् ।
अग्निवक्त्रां रुद्रशिखां विष्णुचित्तां तु भावयेत् ॥ ९६॥
ब्रह्मा तु कवचं यस्या गोत्रं साङ्ख्यायनं स्मृतम् ।
आदित्यमण्डलान्तःस्थां ध्यायेद्देवीं महेश्वरीम् ॥ ९७॥
एवं ध्यात्वा विधानेन गायत्रीं वेदमातरम् ।
ततो मुद्राः प्रकुर्वीत देव्याः प्रीतिकराः शुभाः ॥ ९८॥
सुमुखं सपुटं चैव विततं विस्तृतं तथा ।
द्विमुखं त्रिमुखं चैव चतुष्कं पञ्चकं तथा ॥ ९९॥
षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा ।
शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम् ॥ १००॥
विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् ।
सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ॥ १०१॥
चतुर्विंशतिमुद्राश्च गायत्र्याः सम्प्रदर्शयेत् ।
शताक्षरां च गायत्रीं सकृदावर्तयेत्सुधीः ॥ १०२॥
चतुर्विंशत्यक्षराणि गायत्र्या कीर्तितानि हि ।
जातवेदसनाम्नीं च ऋचमुच्चारयेत्ततः ॥ १०३॥
त्र्यम्बकस्यर्चमावृत्य गायत्री शतवर्णका ।
भवतीयं महापुण्या सकृज्जप्या बुधैरियम् ॥ १०४॥
ओङ्कारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च ।
चतुर्विंशत्यक्षरां च गायत्रीं प्रोच्चरेत्ततः ॥ १०५॥
एवं नित्यं जपं कुर्याद्ब्राह्मणो विप्रपुङ्गवः ।
स समग्रं फलं प्राप्य सन्ध्यायाः सुखमेधते ॥ १०६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
सन्ध्योपासननिरूपणं नाम षोडशोऽध्यायः ॥ ११.१६॥
११.१७ सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।
श्रीनारायण उवाच ।
भिन्नपादा तु गायत्री ब्रह्महत्याप्रणाशिनी ।
अभिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति ॥ १॥
अच्छिन्नपादागायत्रीजपं कुर्वन्ति ये द्विजाः ।
अथोमुखाश्च तिष्ठन्ति कल्पकोटिशतानि च ॥ २॥
सम्पुटैका षडोङ्कारा गायत्री विविधा मता ।
धर्मशास्त्रपुराणेषु इतिहासेषु सुव्रत ॥ ३॥
पञ्चप्रणवसंयुक्तां जपेदित्यनुशासनम् ।
जपसङ्ख्याष्टभागान्ते पादो जप्यस्तुरीयकः ॥ ४॥
स द्विजः परमो ज्ञेयः परं सायुज्यमाप्नुयात् ।
अन्यथा प्रजपेद्यस्तु स जपो विफलो भवेत् ॥ ५॥
सम्पुटैका षडोङ्कारा भवेत्सा ऊर्ध्वरेतसाम् ।
गृहस्थो ब्रह्मचारी वा मोक्षार्थी तुरीयां जपेत् ॥ ६॥
तुरीयपादो गायत्र्याः परोरजसे सावदोम् ।
ध्यानमस्य प्रवक्ष्यामि जपसाङ्गफलप्रदम् ॥ ७॥
हृदि विकसितपद्मं सार्कसोमाग्निबिम्बं
प्रणवमयमचिन्त्यं यस्य पीतं प्रकल्प्यम् ।
अचलपरमसूक्ष्मं ज्योतिराकाशसारं
भवतु मम मुदेऽसौ सच्चिदानन्दरूपः ॥ ८॥
त्रिशूलयोनी सुरभिमक्षमालां च लिङ्गकम् ।
अम्बुजं च महामुद्रामिति सप्त प्रदर्शयेत् ॥ ९॥
या सन्ध्या सैव गायत्री सच्चिदानन्दरूपिणी ।
भक्त्या तां ब्राह्मणो नित्यं पूजयेच्च नमेत्ततः ॥ १०॥
ध्यातस्य पूजां कुर्वीत पञ्चभिश्चोपचारकैः ।
लं पृथिव्यात्मने गन्धमर्पयामि नमो नमः ॥ ११॥
हमाकाशात्मने पुष्पं चार्पयामि नमो नमः ।
यं च वाय्वात्मने धूपं चार्पयामि ततो वदेत् ॥ १२॥
रं च वह्न्यात्मने दीपमर्पयामि ततो वदेत् ।
वममृतात्मने तस्मै नैवेद्यमपि चार्पयेत् ॥ १३॥
यं रं लं वं हमिति च पुष्पाञ्जलिमथार्पयेत् ।
एवं पूजां विधायाथ चान्ते मुद्राः प्रदर्शयेत् ॥ १४॥
ध्यायेत्तु मनसा देवीं मन्त्रमुच्चारयेच्छनैः ।
न कम्पयेच्छिरो ग्रीवा दन्तान्नैव प्रकाशयेत् ॥ १५॥
विधिनाष्टोत्तरशतमष्टाविंशतिरेव वा ।
दशवारमशक्तो वा नातो न्यूनं कदाचन ॥ १६॥
तत उद्वासयेद्देवीमुत्तमेत्यनुवाकतः ।
न गायत्रीं जपेद्विद्वाञ्जलमध्ये कथञ्चन ॥ १७॥
यतः साग्निमुखी प्रोक्तेत्याहुः केचिन्महर्षयः ।
सुरभिर्ज्ञानशूर्पं च कूर्मो योनिश्च पङ्कजम् ॥ १८॥
लिङ्गं निर्वाणकं चैव जपान्तेऽष्टौ प्रदर्शयेत् ।
यदक्षरपदभ्रष्टं स्वरव्यञ्जनवर्जितम् ॥ १९॥
तत्सर्वं क्षम्यतां देवि कश्यपप्रियवादिनि ।
गायत्रीतर्पणं चातः करणीयं महामुने ॥ २०॥
गायत्री छन्द आख्यातं विश्वामित्रऋषिः स्मृतः ।
सविता देवता प्रोक्ता विनियोगश्च तर्पणे ॥ २१॥
भूरित्युक्त्वा च ऋग्वेदपुरुषं तर्पयामि च ।
भुव इत्येतदुक्त्वा च यजुर्वेदमथो वदेत् ॥ २२॥
स्वर्व्याहृतिं समुक्त्वा च सामवेदं समुच्चरेत् ।
मह इत्येतदुक्त्वान्तेऽथर्ववेदं च तर्पयेत् ॥ २३॥
जनः पदान्त इतिहासपुराणमितीरयेत् ।
तपः सर्वागमं चैव पुरुषं तर्पयामि च ॥ २४॥
सत्यं च सत्यलोकाख्यपुरुषं तर्पयामि च ।
ॐ भूर्भूर्लोकपुरुषं तर्पयामि ततो वदेत् ॥ २५॥
भुवश्चेति भुवर्लोकपुरुषं तर्पयामि च ।
स्वः स्वर्गलोकपुरुषं तर्पयामि ततः परम् ॥ २६॥
ओम्भूरेकपदा नाम गायत्रीं तर्पयामि च ।
भुवो द्विपदां गायत्रीं तर्पयामीति कीर्तयेत् ॥ २७॥
स्वश्च त्रिपदां गायत्रीं तर्पयामि ततो वदेत् ।
ओम्भूर्भुवः स्वश्चेति तथा गायत्रीं च चतुष्पदाम् ॥ २८॥
उषसीं चैव गायत्रीं सावित्रीं च सरस्वतीम् ।
वेदानां मातरं पृथ्वीमजां चैव तु कौशिकीम् ॥ २९॥
साङ्कृतिं वै सार्वजितिं गायत्रीं तर्पणे वदेत् ।
तर्पणान्ते च शान्त्यर्थं जातवेदसमीरयेत् ॥ ३०॥
मानस्तोकेति मन्त्रं च शान्त्यर्थं प्रजपेत्सुधीः ।
ततोऽपि त्र्यम्बको मन्त्रः शान्त्यर्थः परिकीर्तितः ॥ ३१॥
तच्छंयोरिति मन्त्रं च जपेच्छान्त्यर्थमेव तु ।
अतो देवा इति द्वाभ्यां सर्वाङ्गस्पर्शनं चरेत् ॥ ३२॥
स्योनापृथिविमन्त्रेण भूम्यै कुर्यात्प्रणामकम् ।
यथाविधि च गोत्रादीनुच्चरेद्द्विजसत्तमः ॥ ३३॥
एवं विधानं सन्ध्यायाः प्रातःकाले प्रकीर्तितम् ।
सन्ध्याकर्म समाप्यान्तेऽप्यग्निहोत्रं स्वयं हुनेत् ॥ ३४॥
पञ्चायतनपूजां च ततः कुर्यात्समाहितः ।
शिवां शिवं गणपतिं सूर्यं विष्णुं तथार्चयेत् ॥ ३५॥
पौरुषेण तु सूक्तेन व्याहृत्या वा समाहितः ।
मूलमन्त्रेण वा कुर्याद्ध्रीश्च ते इति मन्त्रतः ॥ ३६॥
भवानीं तु यजेन्मध्ये तथैशान्यां तु माधवम् ।
आग्नेय्यां गिरिजानाथं गणेशं रक्षसां दिशि ॥ ३७॥
वायव्यामर्चयेत्सूर्यमिति देवस्थितिक्रमः ।
षोडशानुपचारांश्च षोडशर्ग्भिर्हरेन्नरः ॥ ३८॥
देवीमभ्यर्च्य पुरतो यजेदन्याननुक्रमात् ।
न देवीपूजनात्पुण्यमधिकं क्वचिदीक्ष्यते ॥ ३९॥
अत एव तु सन्ध्यासु सन्ध्योपास्तिः श्रुतीरिता ।
नाक्षतैरर्चयेर्द्विष्णुं न तुलस्या गणेश्वरम् ॥ ४०॥
दूर्वाभिर्नार्चयेद्दुर्गां केतकैर्न महेश्वरम् ।
मल्लिकाजातिकुसुमं कुटजं पनसं तथा ॥ ४१॥
किंशुकं बकुलं कुन्दं लोध्रं तु करवीरकम् ।
शिंशपाऽपराजितापुष्पं बब्धूकागस्त्यपुष्पके ॥ ४२॥
मदन्तं सिन्दुवारं च पालाशकुसुमं तथा ।
दूर्वाङ्कुरं बिल्वदलं कुशमञ्जरिकां तथा ॥ ४३॥
शल्लकीमाधवीपुष्पमर्कमन्दारपुष्पकम् ।
केतकीं कर्णिकारं च कदम्बकुसुमं तथा ॥ ४४॥
पुन्नागश्चम्पकस्तद्वद्यूथिकातगरौ तथा ।
एवमादीनि पुष्पाणि देवीप्रियकराणि च ॥ ४५॥
गुग्गुलस्य भवेद्धूपो दीपः स्यात्तिलतैलतः ।
कृत्वेत्थं देवतापूजां ततो मूलमनुं जपेत् ॥ ४६॥
एवं पूजां समाप्यैव वेदाभ्यासं चरेद्बुधः ।
ततः स्ववृत्त्या कुर्वीत पोष्यवर्गार्थसाधनम् ।
तृतीयदिनभागे तु नियमेन विचक्षणः ॥ ४७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
सन्ध्यादिकृत्यवर्णनं नाम सप्तदशोऽध्यायः ॥ ११.१७॥
११.१८ अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।
नारद उवाच ।
पूजाविशेषं श्रीदेव्याः श्रोतुमिच्छामि मानद ।
येनाश्रितेन मनुजः कृतकृत्यत्वमावहेत् ॥ १॥
श्रीनारायण उवाच ।
देवर्षे शृणु वक्ष्यामि श्रीमत्सु पूजनक्रमम् ।
भुक्तिमुक्तिप्रदं साक्षात्समस्तापन्निवारणम् ॥ २॥
आचम्य मौनी सङ्कल्प्य भूतशुद्ध्यादिकं चरेत् ।
मातृकान्यासपूर्वं तु षडङ्गन्यासमाचरेत् ॥ ३॥
शङ्खस्य स्थापनं कृत्वा सामान्यार्घ्यं विधाय च ।
पूजाद्रव्याणि चास्त्रेण प्रोक्षयेन्मतिमान्नरः ॥ ४॥
गुरोरनुज्ञामादाय ततः पूजां समारभेत् ।
पीठपूजां पुरा कृत्वा देवीं ध्यायेत्ततः परम् ॥ ५॥
आसनाद्युपचारैश्च भक्तिप्रेमयुतः सदा ।
स्नापयेत्परदेवीं तां पञ्चामृतरसादिभिः ॥ ६॥
पौण्ड्रेक्षुरसपूर्णैस्तु कलशैः शतसङ्ख्यकैः ।
स्तापयेद्यो महेशानीं न स भूयोऽभिजायते ॥ ७॥
यश्च चूतरसैरेवं स्नापयेज्जगदम्बिकाम् ।
वेदपारायणं कृत्वा रसेनेक्षूद्भवेन वा ॥ ८॥
तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती ।
यस्तु द्राक्षारसेनैव वेदपारायणं चरन् ॥ ९॥
अभिषिञ्चेन्महेशानीं सकुटुम्बो नरोत्तमः ।
रसरेणुप्रमाणं च देवीलोके महीयते ॥ १०॥
कर्पूरागुरुकाश्मीरकस्तूरीपङ्कपङ्किलैः ।
सलिलैः स्नापयेद्देवीं वेदपारायणं चरन् ॥ ११॥
भस्मीभवन्ति पापानि शतजन्मार्जितानि च ।
यो दुग्धकलशैर्देवीं स्तापयेद्वेदपाठतः ॥ १२॥
आकल्पं स वसेन्नित्यं तस्मिन् वै क्षीरसागरे ।
यस्तु दध्नाभिषिञ्चेत्तां दधिकुल्यापतिर्भवेत् ॥ १३॥
मधुना च धृतेनैव तथा शर्करयापि च ।
स्नापयेन्मधुकुल्यादिनदीनां स पतिर्भवेत् ॥ १४॥
सहस्रकलशैर्देवीं स्नापयन्भक्तितत्परः ।
इह लोके सुखी भूत्वाप्यन्यलोके सुखी भवेत् ॥ १५॥
क्षौमं वस्त्रद्वयं दत्त्वा वायुलोकं स गच्छति ।
रत्ननिर्मितभूषाणां दाता निधिपतिर्भवेत् ॥ १६॥
काश्मीरचन्दनं दत्त्वा कस्तूरीबिन्दुभूषितम् ।
तथा सीमन्तसिन्दूरं चरणेऽलक्तपत्रकम् ॥ १७॥
इन्द्रासने समारूढो भवेद्देवपतिः परः ।
पुष्पाणि विविधान्याहुः पूजाकर्मणि साधवः ॥ १८॥
तानि दत्त्वा यथालाभं कैलासं लभते स्वयम् ।
बिल्वपत्राण्यमोघानि यो दद्यात्परशक्तये ॥ १९॥
तस्य दुःखं कदाचिच्च क्वचिच्च न भविष्यति ।
बिल्वपत्रत्रये रक्तचन्दनेन तु संल्लिखेत् ॥ २०॥
मायाबीजत्रयं यत्नात्सुस्फुटं चातिसुन्दरम् ।
मायाबीजादिकं नाम चतुर्थ्यन्तं समुच्चरेत् ॥ २१॥
नमोऽन्तं परया भक्त्या देवीचरणपङ्कजे ।
समर्पयेन्महादेव्यै कोमलं तच्च पत्रकम् ॥ २२॥
य एवं कुरुते भक्त्या मनुत्वं लभते हि सः ।
यस्तु कोटिदलैरेवं कोमलैरतिनिर्मलैः ॥ २३॥
पूजयेद्भुवनेशानीं ब्रह्माण्डाधिपतिर्भवेत् ।
कुन्दपुष्पैर्नवीनैस्तु लुलितैरष्टगन्धतः ॥ २४॥
कोटिसङ्ख्यैः पूजयेत्तु प्राजापत्यं लभेद्ध्रुवम् ।
मल्लिकामालतीपुष्पैरष्टगन्धेन लोलितैः ॥ २५॥
कोटिसङ्ख्यैः पूजया तु जायते स चतुर्मुखः ।
दशकोटिभिरप्येवं तैरेव कुसुमैर्मुने ॥ २६॥
विष्णुत्वं लभते मर्त्यो यत्सुरेष्वपि दुर्लभम् ।
विष्णुनैतद्व्रतं पूर्वं कृतं स्वपदलब्धये ॥ २७॥
शतकोटिभिरप्येवं सूत्रात्मत्वं व्रजेद्ध्रुवम् ।
व्रतमेतत्पुरा सम्यक्कृतं भक्त्या प्रयत्नतः ॥ २८॥
तेन व्रतप्रभावेण हिरण्योदरतां व्रजेत् ।
जपाकुसुमपुष्पस्य बन्धूककुसुमस्य च ॥ २९॥
दाडिमीकुसुमस्यापि विधिरेष उदीरितः ।
एवमन्यानि पुष्पाणि श्रीदेव्यै विधिनार्पयेत् ॥ ३०॥
तस्य पुण्यफलस्यान्तं न जानातीश्वरोऽपि सः ।
तत्तदृतूद्भवैः पुष्पैर्नामसाहस्रसङ्ख्यया ॥ ३१॥
समर्पयेन्महादेव्यै प्रतिवर्षमतन्द्रितः ।
य एवं कुरुते भक्त्या महापातकसंयुतः ॥ ३२॥
उपपातकयुक्तोऽपि मुच्यते सर्वपातकैः ।
देहान्ते श्रीपदाम्भोजं दुर्लभं देवसत्तमैः ॥ ३३॥
प्राप्नोति साधकवरो मुने नास्त्यत्र संशयः ।
कृष्णागुरुं सकर्पूरं चन्दनेन समन्वितम् ॥ ३४॥
सिल्हकं चाज्यसंयुक्तं गुग्गुलेन समन्वितम् ।
धूपं दद्यान्महादेव्यै येन स्याद्धूपितं गृहम् ॥ ३५॥
तेन प्रसन्ना देवेशी ददाति भुवनत्रयम् ।
दीपं कर्पूरखण्डैश्च दद्याद्देव्यै निरन्तरम् ॥ ३६॥
सूर्यलोकमवाप्नोति नात्र कार्या विचारणा ।
शतदीपांस्तथा दद्यात्सहस्रान्वा समाहितः ॥ ३७॥
नैवेद्यं पुरतो देव्याः स्थापयेत्पर्वताकृतिम् ।
लेह्यैश्चोष्यैस्तथा पेयैः षड्रसैस्तु समाहितैः ॥ ३८॥
नानाफलानि दिव्यानि स्वादूनि रसवन्ति च ।
स्वर्णपात्रस्थितान्नानि दद्याद्देव्यै निरन्तरम् ॥ ३९॥
तृप्तायां श्रीमहादेव्यां भवेत्तृप्तं जगत्त्रयम् ।
यतस्तदात्मकं सर्वं रज्जौ सर्पो यथा तथा ॥ ४०॥
ततः पानीयकं दद्याच्छुभं गङ्गाजलं महत् ।
कर्पूरवालासंयुक्तं शीतलं कलशस्थितम् ॥ ४१॥
ताम्बूलं च ततो देव्यै कर्पूरशकलान्वितम् ।
एलालवङ्गसंयुक्तं मुखसौगन्ध्यदायकम् ॥ ४२॥
दद्याद्देव्यै महाभक्त्या येन देवी प्रसीदति ।
मृदङ्गवीणामुरजढक्कादुन्दुभिनिःस्वनैः ॥ ४३॥
तोषयेज्जगतां धात्रीं गायनैरतिमोहनैः ।
वेदपारायणैः स्तोत्रैः पुराणादिभिरप्युत ॥ ४४॥
छत्रं च चामरे द्वे च दद्याद्देव्यै समाहितः ।
राजोपचारान् श्रीदेव्यै नित्यमेव समर्पयेत् ॥ ४५॥
प्रदक्षिणां नमस्कारं कुर्याद्देव्या अनेकधा ।
क्षमापयेज्जगद्धात्रीं जगदम्बां मुहुर्मुहुः ॥ ४६॥
सकृत्स्मरणमात्रेण यत्र देवी प्रसीदति ।
एतादृशोपचारैश्च प्रसीदेदत्र कः स्मयः ॥ ४७॥
स्वभावतो भवेन्माता पुत्रेऽतिकरुणावती ।
तेन भक्तौ कृतायां तु वक्तव्यं किं ततः परम् ॥ ४८॥
अत्र ते कथयिष्यामि पुरावृत्तं सनातनम् ।
बृहद्रथस्य राजर्षेः प्रियं भक्तिप्रदायकम् ॥ ४९॥
चक्रवाकोऽभवत्पक्षी क्वचिद्देशे हिमालये ।
भ्रमन्नानाविधान्देशान्ययौ काशीपुरं प्रति ॥ ५०॥
अन्नपूर्णामहास्थाने प्रारब्धवशतो द्विजः ।
जगाम लीलया तत्र कणलोभादनाथवत् ॥ ५१॥
कृत्वा प्रदक्षिणामेकां जगाम स विहायसा ।
देशान्तरं विहायैव पुरीं मुक्तिप्रदायिनीम् ॥ ५२॥
कालान्तरे ममारासौ गतः स्वर्गपुरीं प्रति ।
बुभुजे विषयान्सर्वान् दिव्यरूपधरो युवा ॥ ५३॥
कल्पद्वयं तथा भुक्त्वा पुनः प्राप भुवं प्रति ।
क्षत्रियाणां कुले जन्म प्राप सर्वोत्तमोत्तमम् ॥ ५४॥
बृहद्रथेति नाम्नाभूत्प्रसिद्धः क्षितिमण्डले ।
महायज्वा धार्मिकश्च सत्यवादी जितेन्द्रियः ॥ ५५॥
त्रिकालज्ञः सार्वभौमो यमी परपुरञ्जयः ।
पूर्वजन्मस्मृतिस्तस्य वर्तते दुर्लभा भुवि ॥ ५६॥
इति श्रुत्वा किंवदन्तीं मुनयः समुपागताः ।
कृतातिथ्या नृपेन्द्रेण विष्टरेषूषुरेव ते ॥ ५७॥
पप्रच्छुर्मुनयः सर्वे संशयोऽस्ति महान्नृप ।
केन पुण्यप्रभावेण पूर्वजन्मस्मृतिस्तव ॥ ५८॥
त्रिकालज्ञानमेवापि केन पुण्यप्रभावतः ।
ज्ञानं तवेति तज्ज्ञातुमागताः स्म तवान्तिकम् ॥ ५९॥
वद निर्व्याजया वृत्त्या तदस्माकं यथातथम् ।
श्रीनारायण उवाच ।
इति तेषां वचः श्रुत्वा राजा परमधार्मिकः ॥ ६०॥
उवाच सकलं ब्रह्मन् त्रिकालज्ञानकारणम् ।
श्रूयतां मुनयः सर्वे मम ज्ञानस्य कारणम् ॥ ६१॥
चक्रवाकः स्थितः पूर्वं नीचयोनिगतोऽपि वा ।
अज्ञानतोऽपि कृतवानन्नपूर्णाप्रदक्षिणाम् ॥ ६२॥
तेन पुण्यप्रभावेण स्वर्गे कल्पद्वयस्थितिः ।
त्रिकालज्ञानताप्यस्मिन्नभूज्जन्मनि सुव्रताः ॥ ६३॥
को वेद जगदम्बायाः पदस्मृतिफलं कियत् ।
स्मृत्वा तन्महिमानं तु पतन्त्यश्रूणि मेऽनिशम् ॥ ६४॥
धिगस्तु जन्म तेषां वै कृतघ्नानां तु पापिनाम् ।
ये सर्वमातरं देवीं स्वोपास्यां न भजन्ति हि ॥ ६५॥
न शिवोपासना नित्या न विष्णूपासना तथा ।
नित्योपास्तिः परा देव्या नित्या श्रुत्यैव चोदिता ॥ ६६॥
किं मया बहु वक्तव्यं स्थाने संशयवर्जिते ।
सेवनीयं पदाम्भोजं भगवत्या निरन्तरम् ॥ ६७॥
नातः परतरं किञ्चिदधिकं जगतीतले ।
सेवनीया परा देवी निर्गुणा सगुणाथवा ॥ ६८॥
श्रीनारायण उवाच ।
इति तस्य वचः श्रुत्वा राजर्षेर्धार्मिकस्य च ।
प्रसन्नहृदयाः सर्वे गताः स्वस्वनिकेतनम् ॥ ६९॥
एवम्प्रभावा सा देवी तत्पूजायाः फलं कियत् ।
अस्तीति केन प्रष्टव्यं वक्तव्यं वा न केनचित् ॥ ७०॥
येषां तु जन्मसाफल्यं तेषां श्रद्धा तु जायते ।
येषां तु जन्मसाङ्कर्यं तेषां श्रद्धा न जायते ॥ ७१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे देवीमाहात्म्ये
बृहद्रथकथानकं नामाष्टादशोऽध्यायः ॥ ११.१८॥
११.१९ एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां ब्रह्मन् सन्ध्यां माध्याह्निकीं शुभाम् ।
यदनुष्ठानतोऽपूर्वं जायतेऽत्युत्तमं फलम् ॥ १॥
सावित्रीं युवतीं श्वेतवर्णां चैव त्रिलोचनाम् ।
वरदां चाक्षमालाढ्यां त्रिशूलाभयहस्तकाम् ॥ २॥
वृषारूढां यजुर्वेदसंहितां रुद्रदेवताम् ।
तमोगुणयुतां चैव भुवर्लोकव्यवस्थिताम् ॥ ३॥
आदित्यमार्गसञ्चारकर्त्रीं मायां नमाम्यहम् ।
आदिदेवीमथ ध्यात्वाऽऽचमनादि च पूर्ववत् ॥ ४॥
अथ चार्घ्यप्रकरणं पुष्पाणि चिनुयात्ततः ।
तदलाभे बिल्वपत्रं तोयेन मिश्रयेत्ततः ॥ ५॥
ऊर्ध्वं च सूर्याभिमुखं क्षिप्त्वार्घ्यं प्रतिपादयेत् ।
प्रातःसन्ध्यादिवत्सर्वमुपसंहारपूर्वकम् ॥ ६॥
मध्याह्ने केचिदिच्छन्ति सावित्रीं तु तदित्यृचम् ।
असम्प्रदायं तत्कर्म कार्यहानिस्तु जायते ॥ ७॥
कारणं सन्ध्ययोश्चात्र मन्देहा नाम राक्षसाः ।
भक्षितुं सूर्यमिच्छन्ति कारणं श्रुतिचोदितम् ॥ ८॥
अतस्तु कारणाद्विप्रः सन्ध्यां कुर्यात्प्रयत्नतः ।
सन्ध्ययोरुभयोर्नित्यं गायत्र्या प्रणवेन च ॥ ९॥
अम्भस्तु प्रक्षिपेत्तेन नान्यथा श्रुतिघातकः ।
आकृष्णेनेति मन्त्रेण पुष्पैर्वाम्बुविमिश्रितम् ॥ १०॥
अलाभे बिल्वदूर्वादिपत्रेणोक्तेन पूर्वकम् ।
अर्ध्यं दद्यात्प्रयत्नेन साङ्गं सन्ध्याफलं लभेत् ॥ ११॥
अत्रैव तर्पणं वक्ष्ये शृणु देवर्षिसत्तम ।
भुवः पुनः पूरुषं तु तर्पयामि नमो नमः ॥ १२॥
यजुर्वेदं तर्पयामि मण्डलं तर्पयामि च ।
हिरण्यगर्भं च तथान्तरात्मानं तथैव च ॥ १३॥
सावित्रीं च ततो देवमातरं साङ्कृतिं तथा ।
सन्ध्यां तथैव युवतीं रुद्राणीं नीमृजां तथा ॥ १४॥
सर्वार्थानां सिद्धिकरीं सर्वमन्त्रार्थसिद्धिदाम् ।
भूर्भुवः स्वः पूरुषं तु इति मध्याह्नतर्पणम् ॥ १५॥
उदुत्यमिति सूक्तेन सूर्योपस्थानमेव च ।
चित्रं देवानामिति च सूर्योपस्थानमाचरेत् ॥ १६॥
ततो जपं प्रकुर्वीत मन्त्रसाधनतत्परः ।
जपस्यापि प्रकारं तु वक्ष्यामि शृणु नारद ॥ १७॥
कृत्वोत्तानौ करौ प्रातः सायं चाधः करौ तथा ।
मध्याह्ने हृदयस्थौ तु कृत्वा जपमुदीरयेत् ॥ १८॥
पर्वद्वयमनामिक्याः कनिष्ठादिक्रमेण तु ।
तर्जनीमूलपर्यन्तं करमाला प्रकीर्तिता ॥ १९॥
गोघ्नः पितृघ्नो मातृघ्नो भ्रूणहा गुरुतल्पगः ।
ब्रह्मस्वक्षेत्रहारी च यश्च विप्रः सुरां पिबेत् ॥ २०॥
स गायत्र्या सहस्रेण पूतो भवति मानवः ।
मानसं वाचिकं पापं विषयेन्द्रियसङ्गजम् ॥ २१॥
तत्किल्बिषं नाशयति त्रीणि जन्मानि मानवः ।
गायत्रीं यो न जानाति वृथा तस्य परिश्रमः ॥ २२॥
पठेच्च चतुरो वेदान् गायत्रीं चैकतो जपेत् ।
वेदानां चावृतेस्तद्वद्गायत्रीजप उत्तमः ॥ २३॥
इति मध्याह्नसन्ध्यायाः प्रकारः कीर्तितो मया ।
अतः परं प्रवक्ष्यामि ब्रह्मयज्ञविधिक्रमम् ॥ २४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
मध्याह्नसन्ध्यावर्णनं नामैकोनविंशोऽध्यायः ॥ ११.१९॥
११.२० विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।
श्रीनारायण उवाच ।
त्रिराचम्य द्विजः पूर्वं द्विर्मार्जनमथाचरेत् ।
उपस्पृशेत्सव्यपाणिं पादौ च प्रोक्षयेत्ततः ॥ १॥
शिरसि चक्षुषि तथा नासायां श्रोत्रदेशके ।
हृदये च तथा मौलौ प्रोक्षणं सम्यगाचरेत् ॥ २॥
देशकालौ समुच्चार्य ब्रह्मयज्ञमथाचरेत् ।
द्वौ दर्भौ दक्षिणे हस्ते वामे त्रीनासने सकृत् ॥ ३॥
उपवीते शिखायां च पादमूले सकृत्सकृत् ।
विमुक्तये सर्वपापक्षयार्थं चैवमेव हि ॥ ४॥
सूत्रोक्तदेवताप्रीत्यै ब्रह्मयज्ञं करोम्यहम् ।
गायत्रीं त्रिर्जपेत्पूर्वं चाग्निमीळे ततः परम् ॥ ५॥
यदङ्गेति ततः प्रोच्य अग्निर्वै इति कीर्तयेत् ।
अथ महाव्रतं चैव पन्था एतच्च कीर्तयेत् ॥ ६॥
अथातः संहितायाश्च विदा मघवदित्यपि ।
महाव्रतस्येति तथा इषे त्वोर्जे इतीव हि ॥ ७॥
अग्न आयाहि चेत्येवं शन्तो देवीरितीति च ।
अथ तस्य समाम्नायो वृद्धिरादैजितीव हि ॥ ८॥
अथ शिक्षां प्रवक्ष्यामि पञ्चसंवत्सरेति च ।
मयरसतजभनेत्येव गौर्ग्मा इत्येव कीर्तयेत् ॥ ९॥
अथातो धर्मजिज्ञासा अथातो ब्रह्म इत्यपि ।
तच्छंयोरिति च प्रोच्य ब्रह्मणे नम इत्यपि ॥ १०॥
तर्पणं चैव देवानां ततः कुर्यात्प्रदक्षिणम् ।
प्रजापतिश्च ब्रह्मा च वेदा देवास्तथर्षयः ॥ ११॥
सर्वाणि चैव छन्दांसि तथोङ्कारस्तथैव च ।
वषट्कारो व्याहृतयः सावित्री च ततः परम् ॥ १२॥
गायत्री चैव यज्ञाश्च द्यावापृथिवी इत्यपि ।
अन्तरिक्षं त्वहोरात्राणि च साङ्ख्या अतः परम् ॥ १३॥
सिद्धाः समुद्रा नद्यश्च गिरयश्च ततः परम् ।
क्षेत्रौषधिवनस्पत्यो गन्धर्वाप्सरसस्तथा ॥ १४॥
नागा वयांसि गावश्च साध्या विप्रास्तथैव च ।
यक्षा रक्षांसि भूतानीत्येवमन्तानि कीर्तयेत् ॥ १५॥
अथो निवीती भूत्वा च ऋषीन्सन्तर्पयेदपि ।
शतर्चिनो माध्यमाश्च गृत्समदस्तथैव च ॥ १६॥
विश्वामित्रो वामदेवोऽत्रिर्भरद्वाज एव च ।
वसिष्ठश्च प्रगाथश्च पावमान्यस्ततः परम् ॥ १७॥
क्षुद्रसूक्ता महासूक्ताः सनकश्च सनन्दनः ।
सनातनस्तथैवात्र सनत्कुमार एव च ॥ १८॥
कपिलासुरिनामानौ वोहलिः पञ्चशीर्षकः ।
प्राचीनावीतिना तच्च कर्तव्यमथ तर्पणम् ॥ १९॥
सुमन्तुर्जैमिनिर्वैशम्पायनः पैलसूत्रयुक् ।
भाष्यभारतपूर्वं च महाभारत इत्यपि ॥ २०॥
धर्माचार्या इमे सर्वे तृप्यन्त्विति च कीर्तयेत् ।
जानन्ति बाहविगार्ग्यगौतमाश्चैव शाकलः ॥ २१॥
बाभ्रव्यमाण्डव्ययुतोमाण्डूकेयस्ततः परम् ।
गार्गी वाचक्नवी चैव वडवा प्रातिथेयिका ॥ २२॥
सुलभायुक्तमैत्रेयी कहोलश्च ततः परम् ।
कौषीतकं महाकौषीतकं वै तर्पयेत्ततः ॥ २३॥
भारद्वाजं च पैङ्ग्यं च महापैङ्ग्यं सुयज्ञकम् ।
साङ्ख्यायनमैतरेयं महैतरेयमेव च ॥ २४॥
बाष्कलं शाकलं चैव सुजातवक्त्रमेव च ।
औदवाहिं च सौजामिं शौनकं चाश्वलायनम् ॥ २५॥
ये चान्ये सर्व आचार्यास्ते सर्वे तृप्तिमाप्नुयुः ।
ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः ॥ २६॥
ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ।
एवं ते ब्रह्मयज्ञस्य विधिरुक्तो महामुने ॥ २७॥
यश्चायं कुरुते ब्रह्मयज्ञस्य विधिमुत्तमम् ।
सर्ववेदाङ्गपाठस्य फलमाप्नोति साधकः ॥ २८॥
वैश्वदेवं ततः कुर्यान्नित्यश्राद्धं तथैव च ।
अतिथिभ्योऽन्नदानं च नित्यमेव समाचरेत् ॥ २९॥
गोग्रासं च ततो दत्त्वा भुञ्जीत ब्राह्मणैः सह ।
अह्नस्तु पञ्चमे भागे प्रकुर्यादेतदुत्तमम् ॥ ३०॥
इतिहासपुराणाद्यैः षष्ठसप्तमकौ नयेत् ।
अष्टमे लोकयात्रा तु बहिः सन्ध्यां ततः पुनः ॥ ३१॥
अथ सायन्तनीं सन्ध्यां प्रवक्ष्यामि महामुने ।
यदनुष्ठानमात्रेण महामाया प्रसीदति ॥ ३२॥
आचम्य प्राणानायम्य साधकः स्थिरमानसः ।
बद्धपद्मासनो योगी सायङ्काले स्थिरो भवेत् ॥ ३३॥
श्रुतिस्मृत्यादिकर्मादौ सगर्भः प्राणसंयमः ।
अगर्भो ध्यानमात्रं तु स चामन्त्रः प्रकीर्तितः ॥ ३४॥
भूतशुद्ध्यादिकं कृत्वा नान्यथा कर्म कीर्तितम् ।
सलक्षो देवतां ध्यात्वा पूरकुम्भकरेचकैः ॥ ३५॥
ध्यानं प्रकुर्यात्सन्ध्यायां सायङ्काले विचक्षणः ।
वृद्धां सरस्वतीं देवीं कृष्णाङ्गीं कृष्णवाससम् ॥ ३६॥
शङ्खचक्रगदापद्महस्तां गरुडवाहनाम् ।
नानारत्नलसद्भूषां क्वणन्मञ्जीरमेखलाम् ॥ ३७॥
अनर्घ्यरत्नमुकुटां तारहारावलीयुताम् ।
ताटङ्कबद्धमाणिक्यकान्तिशोभिकपोलकाम् ॥ ३८॥
पीताम्बरधरां देवीं सच्चिदानन्दरूपिणीम् ।
सामवेदेन सहितां संयुतां सत्त्ववर्त्मना ॥ ३९॥
व्यवस्थितां च स्वर्लोके आदित्यपय्हगामिनीम् ।
आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् ॥ ४०॥
एवं ध्यात्वा च तां देवीं सन्ध्यासङ्कल्पमाचरेत् ।
आपो हि ष्ठेति मन्त्रेण अग्निश्चेति तथैव च ॥ ४१॥
विदध्यादाचमनकं शेषं पूर्ववदीरितम् ।
गायत्रीमन्त्रमुक्च्चार्य श्रीनारायणप्रीतये ॥ ४२॥
अर्घ्यं दद्याच्च सूर्याय साधकः शुद्धमानसः ।
उभौ पादौ समौ कृत्वा हस्ते धूत्वा जलाञ्जलिम् ॥ ४३॥
देवं ध्यात्वा मण्डलस्थं क्षिपेदर्घ्यं ततः क्रमात् ।
अर्घ्यं दद्यात्तु यो नीरे मूढात्मा ज्ञानवर्जितः ॥ ४४॥
उल्लङ्घ्य स्मृतिमन्त्रांश्च प्रायश्चित्ती भवेद्द्विजः ।
ततः सूर्यमुपस्थायाप्यसावादित्यमन्त्रतः ॥ ४५॥
गायत्र्याश्च जपं कुर्यादुपविश्य ततो बृसीम् ।
सहस्रं वा तदर्धं वा श्रीदेवीध्यानपूर्वकम् ॥ ४६॥
यथा प्रातः पुनस्तद्वदुपस्थानादिकं चरेत् ।
सायं सन्ध्यातर्पणे च क्रमेण परिकीर्तयेत् ॥ ४७॥
वसिष्ठो ऋषिरेवात्र सरस्वत्याः प्रकीर्तितः ।
देवता विष्णुरूपा सा छन्दश्चैव सरस्वती ॥ ४८॥
सायङ्कालीनसन्ध्यायास्तर्पणे विनियोगकः ।
स्वरित्युक्त्वा च पुरुषं सामवेदं तथैव च ॥ ४९॥
मण्डलं चेति सम्प्रोच्य हिरण्यगर्भकं तथा ।
तथैव परमात्मानं ततोऽपि च सरस्वतीम् ॥ ५०॥
वेदमातरमेवात्र सङ्कृतिं तद्वदेव च ।
सन्ध्यां वृद्धां तथा विष्णुरूपिणीमुषसीं तथा ॥ ५१॥
निर्मृजीं च तथा सर्वसिद्धीनां कारिणीं तथा ।
सर्वमन्त्राधिपतिकां भूर्भुवः स्वश्च पूरुषम् ॥ ५२॥
इत्येवं तर्पणं कार्यं सन्ध्यायाः श्रुतिसम्मतम् ।
सायं सन्ध्याविधानं च कथितं पापनाशनम् ॥ ५३॥
सर्वदुःखहरं व्याधिनाशकं मोक्षदं तथा ।
सदाचारेषु सन्ध्यायाः प्राधान्यं मुनिपुङ्गव ।
सन्ध्याचरणतो देवी भक्ताभीष्टं प्रयच्छति ॥ ५४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
ब्रह्मयज्ञादिकीर्तनं नाम विंशोऽध्यायः ॥ ११.२०॥
११.२१ एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां ब्रह्मन् गायत्र्या पापनाशनम् ।
पुरश्चरणकं पुण्यं यथैष्टफलदायकम् ॥ १॥
पर्वताग्रे नदीतीरे बिल्वमूले जलाशये ।
गोष्ठे देवालयेऽश्वत्थे उद्याने तुलसीवने ॥ २॥
पुण्यक्षेत्रे गुरोः पार्श्वे चित्तैकाग्र्यस्थलेऽपि च ।
पुरश्चरणकृन्मन्त्री सिध्यत्येव न संशयः ॥ ३॥
यस्य कस्यापि मन्त्रस्य पुरश्चरणमारभेत् ।
व्याहृतित्रयसंयुक्तां गायत्रीं चायुतं जपेत् ॥ ४॥
नृसिंहार्कवराहाणां तान्त्रिकं वैदिकं तथा ।
विना जप्त्वा तु गायत्रीं तत्सर्वं निष्कलं भवेत् ॥ ५॥
सर्वे शाक्ता द्विजाः प्रोक्ता न शैवा न च वैष्णवाः ।
आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम् ॥ ६॥
मन्त्रं संशोध्य यत्नेन पुरश्चरणतत्परः ।
मन्त्रशोधनपूर्वाङ्गमात्मशोधनमुत्तमम् ॥ ७॥
आत्मतत्त्वशोधनाय त्रिलक्षं प्रजपेद्बुधः ।
अथवा चैकलक्षं तु श्रुतिप्रोक्तेन वर्त्मना ॥ ८॥
आत्मशुद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः ।
निष्फलास्तास्तु विज्ञेयाः कारणं श्रुतिचोदितम् ॥ ९॥
तपसा तापयेद्देहं पितृदेवांश्च तर्पयेत् ।
तपसा स्वर्गमाप्नोति तपसा विन्दते महत् ॥ १०॥
क्षत्रियो बाहुवीर्येण तरेदापद आत्मनः ।
धनेन वैश्यः शूद्रस्तु जपहोमैर्द्विजोत्तमः ॥ ११
अतएव तु विप्रेन्द्र तपः कुर्यात्प्रयत्नतः ।
शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥ १२
शोधयेद्विधिमार्गेण कृच्छ्रचान्द्रायणादिभिः ।
अथान्नशुद्धिकरणं वक्ष्यामि शृणु नारद ॥ १३
अयाचितोञ्छशुक्लाख्यभिक्षावृत्तिचतुष्टयम् ।
तान्त्रिकैर्वैदिकैश्चैवं प्रोक्तान्नस्य विशुद्धता ॥ १४
भिक्षान्नं शुद्धमानीय कृत्वा भागचतुष्टयम् ।
एकं भागं द्विजेभ्यस्तु गोग्रासस्तु द्वितीयकः ॥ १५
अतिथिभ्यस्तृतीयस्तु तदूर्ध्वं तु स्वभार्ययोः ।
आश्रमस्य यथा यस्य कृत्वा ग्रासविधिं क्रमात् ॥ १६
आदौ क्षिप्त्वा तु गोमूत्रं यथाशक्ति यथाक्रमम् ।
तदूर्ध्वं ग्राससङ्ख्या स्याद्वानप्रस्थगृहस्थयोः ॥ १७
कुक्कुटाण्डप्रमाणं तु ग्रासमानं विधीयते ।
अष्टौ ग्रासा गृहस्थस्य वनस्थस्य तदर्धकम् ॥ १८
ब्रह्मचारी यथेष्टं च गोमूत्रं विधिपूर्वकम् ।
प्रोक्षणं नववारं च षड्वारं च त्रिवारकम् ॥ १९
निश्छिद्रं च करं कृत्वा सावित्रीं च तदित्यृचम् ।
मन्त्रमुच्चार्य मनसा प्रोक्षणे विधिरुच्यते ॥ २०
चौरो वा यदि चाण्डालो वैश्यः क्षत्रस्तथैव च ।
अन्नं दद्यात्तु यः कश्चिदधमो विधिरुच्यते ॥ २१
शूद्रान्नं शूद्रसम्पर्कं शूद्रेण च सहाशनम् ।
ते यान्ति नरकं घोरं यावच्चन्द्रदिवाकरौ ॥ २२
गायत्रीच्छन्दो मन्त्रस्य यथासङ्ख्याक्षराणि च ।
तावल्लक्षाणि कर्तव्यं पुरश्चरणकं तथा ॥ २३
द्वात्रिंशल्लक्षमानं तु विश्वामित्रमतं तथा ।
जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ॥ २४
पुरश्चरणहीनस्तु तथा मन्त्रः प्रकीर्तितः ।
ज्येष्ठाषाढौ भाद्रपदं पौषं तु मलमासकम् ॥ २५
अङ्गारं शनिवारं च व्यतीपातं च वैधृतिम् ।
अष्टमीं नवमीं षष्ठीं चतुर्थीं च त्रयोदशीम् ॥ २६
चतुर्दशीममावास्यां प्रदोषं च तथा निशाम् ।
यमाग्निरुद्रसर्पेन्द्रवसुश्रवणजन्मभम् ॥ २७
मेषकर्कतुलाकुम्भान्मकरं चैव वर्जयेत् ।
सर्वाण्येतानि वर्ज्यानि पुरश्चरणकर्मणि ॥ २८
चन्द्रतारानुकूले च शुक्लपक्षे विशेषतः ।
पुरश्चरणकं कुर्यान्मन्त्रसिद्धिः प्रजायते ॥ २९
स्वस्तिवाचनकं कुर्यान्नान्दीश्राद्धं यथाविधि ।
विप्रान्सन्तर्प्य यत्नेन भोजनाच्छादनादिभिः ॥ ३०
आरभेत्तु ततः पश्चादनुज्ञानपुरःसरम् ।
प्रत्यङ्मुखः शिवस्थाने द्विजश्चान्यतमे जपेत् ॥ ३१
काशीपुरी च केदारो महाकालोऽथ नासिकम् ।
त्र्यम्बकं च महाक्षेत्रं पञ्च दीपा इमे भुवि ॥ ३२
सर्वत्रैव हि दीपस्तु कूर्मासनमिति स्मृतम् ।
प्रारम्भदिनमारभ्य समाप्तिदिवसावधि ॥ ३३
न न्यूनं नातिरिक्तं च जपं कुर्याद्दिने दिने ।
नैरन्तर्येण कुर्वन्ति पुरश्चर्यां मुनीश्वराः ॥ ३४
प्रातरारभ्य विधिवज्जपेन्मध्यदिनावधि ।
मनःसंहरणं शौचं ध्यानं मन्त्रार्थचिन्तनम् ॥ ३५
गायत्रीच्छन्दो मन्त्रस्य यथासङ्ख्याक्षराणि च ।
तावल्लक्षाणि कर्तव्यं पुरश्चरणकं तथा ॥ ३६
जुहुयात्तद्दशांशेन सघृतेन पयोऽन्धसा ।
तिलैः पत्रैः प्रसूनैश्च यवैश्च मधुरान्वितैः ॥ ३७
कुर्याद्दशांशतो होमं ततः सिद्धो भवेन्मनुः ।
गायत्री चैव संसेव्या धर्मकामार्थमोक्षदा ॥ ३८
नित्ये नैमित्तिके काम्ये त्रितये तु परायणः ।
गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥ ३९
मध्याह्नमितभुङ् मौनी त्रिःस्नानार्चनतत्परः ।
जले लक्षत्रयं धीमाननन्यमानसक्रियः ॥ ४०
कर्मणा यो जपेत्पश्चात्कर्मभिः स्वेच्छयापि वा ।
यावत्कार्यं न सिध्येत्तु तावत्कुर्याज्जपादिकम् ॥ ४१
सामान्यकाम्यकर्मादौ यथावद्विधिरुच्यते ।
आदित्यस्योदये स्नात्वा सहस्रं प्रत्यहं जपेत् ॥ ४२
आयुरारोग्यमैश्वर्यं धनं च लभते ध्रुवम् ।
षण्मासं वा त्रिमासं वा वर्षान्ते सिद्धिमाप्नुयात् ॥ ४३
पद्मानां लक्षहोमेन घृताक्तानां हुताशने ।
प्राप्नोति निखिलं मोक्षं सिध्यत्येव न संशयः ॥ ४४
मन्त्रसिद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः ।
काम्यं वा यदि वा मोक्षः सर्वं तनिष्फलं भवेत् ॥ ४५
पञ्चविंशतिलक्षेण दध्ना क्षीरेण वा हुतात् ।
स्वदेहे सिध्यते जन्तुर्महर्षीणां मतं तथा ॥ ४६
अष्टाङ्गयोगसिद्ध्या च नरः प्राप्नोति यत्फलम् ।
तत्फलं सिद्धिमाप्नोति नात्र कार्या विचारणा ॥ ४७
शक्तो वापि त्वशक्तो वा आहारं नियतं चरेत् ।
षण्मासात्तस्य सिद्धिः स्याद्गुरुभक्तिरतः सदा ॥ ४८
एकाहं पञ्चगव्याशी चैकाहं मारुताशनः ।
एकाहं ब्राह्मणान्नाशी गायत्रीजपकृद्भवेत् ॥ ४९
स्नात्वा गङ्गादितीर्थेषु शतमन्तर्जले जपेत् ।
शतेनापस्ततः पीत्वा सर्वपापैः प्रमुच्यते ॥ ५०
चान्द्रायणादिकृच्छ्रस्य फलं प्राप्नोति निश्चितम् ।
राजा वा यदि वा विप्रस्तपः कुर्यात्स्वके गृहे ॥ ५१
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथवापि च ।
अधिकारपरत्वेन फलं यज्ञादिपूर्वकम् ॥ ५२
श्रौतस्मार्तादिकं कर्म क्रियते मोक्षकाङ्क्षिभिः ।
साग्निकश्च सदाचारो विद्वद्भिश्च सुशिक्षितः ॥ ५३
ततः कुर्यात्प्रयत्नेन फलमूलोदकादिभिः ।
भिक्षान्नं शुद्धमश्नीयादष्टौ ग्रासान्स्वयं भुजेत् ॥ ५४
एवं पुरश्चरणकं कृत्वा मन्त्रसिद्धिमवाप्नुयात् ।
देवर्षे यदनुष्ठानाद्दारिद्र्यं विलयं व्रजेत् ।
यच्छ्रुत्वापि च पुण्यानां महतीं सिद्धिमाप्नुयात् ॥ ५५
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
गायत्रीपुरश्चरणविधिकथनं नामैएकविंशोऽध्यायः ॥ ११.२१॥
११.२२ द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां ब्रह्मन् वैश्वदेवविधानकम् ।
पुरश्चर्याप्रसङ्गेन ममापि स्मृतिमागतम् ॥ १॥
देवयज्ञो ब्रह्मयज्ञो भूतयज्ञस्तथैव च ।
पितृयज्ञो मनुष्यस्य यज्ञश्चैव तु पञ्चमः ॥ २॥
पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।
कण्डणी चोदकुम्भश्च तेषां पापस्य शान्तये ॥ ३॥
न चुल्ल्यां नायसे पात्रे न भूमौ न च खर्परे ।
वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा ॥ ४॥
न पाणिना न शूर्पेण न च मेध्याजिनादिभिः ।
मुखेनोपधमेदग्निं मुखादेव व्यजायत ॥ ५॥
पटकेन भवेद्व्याधिः शूर्पेण धननाशनम् ।
पाणिना मृत्युमाप्नोति कर्मसिद्धिर्मुखेन तु ॥ ६॥
फलैर्दधिघृतैः कुर्यान्मूलशाकोदकादिभिः ।
अलाभे येन केनापि काष्ठमूलतृणादिभिः ॥ ७॥
जुहुयात्सर्पिषाभ्यक्तं तैलक्षारविवर्जितम् ।
दध्यक्तं वा पायसाक्तं तदभावेऽम्भसापि वा ॥ ८॥
शुष्कैः पर्युषितैः कुष्ठी उच्छिष्टेन द्विषां वशी ।
रुक्षैर्द्ररिद्रतां याति क्षारं हुत्वा व्रजत्यधः ॥ ९॥
अङ्गारान्भस्ममिश्रांस्तु निर्हृत्योत्तरतोऽनलात् ।
जुहुयाद्वैश्वदेवं तु न क्षारादिविमिश्रितम् ॥ १०॥
अकृत्वा वैश्वदेवं तु यो भुङ्क्ते मूढधीर्द्विजः ।
स मूढो नरकं याति कालसूत्रमवाक्शिराः ॥ ११॥
शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् ।
सङ्कल्पयेद्यदाहारं तेनाग्नौ जुहुयादपि ॥ १२॥
अकृते वैश्वदेवे तु भिक्षौ भिक्षार्थमागते ।
उद्धृत्य वैश्वदेवार्थं भिक्षां दत्त्वा विसर्जयेत् ॥ १३॥
वैश्वदेवकृतं दोषं शक्तो भिक्षुर्व्यपोहितुम् ।
न तु भिक्षुकृतं दोषं वैश्वदेवो व्यपोहति ॥ १४॥
यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ ।
तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ १५॥
वैश्वदेवानन्तरं च गोग्रासं प्रतिपादयेत् ।
तद्विधानं प्रवक्ष्यामि शृणु देवर्षिपूजित ॥ १६॥
सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता ।
गोग्रासं च मया दत्तं सुरभे प्रतिगृह्यताम् ॥ १७॥
गोभ्यश्च नम इत्येव पूजां कृत्वा गवेऽर्पयेत् ।
गोग्रासेन तु गोमाता सुरभिः सम्प्रसीदति ॥ १८॥
ततो गोदोहनं कालं तिष्ठेच्चैव गृहाङ्गणे ।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥ १९॥
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ।
माता पिता गुरुर्भ्राता प्रजा दासः समाश्रितः ॥ २०॥
अभ्यागतोऽतिथिश्चाग्निरेते पोष्या उदाहृताः ।
एवं ज्ञात्वा तु यो मोहान्न करोति गृहाश्रमम् ॥ २१॥
तस्य नायं तु न परो लोको भवति धर्मतः ।
यत्फलं सोमयागेन प्राप्नोति धनवान्द्विजः ॥ २२॥
सम्यक् पञ्चमहायज्ञैर्दरिद्रस्तेन चाप्नुयात् ।
अथ प्राणाग्निहोत्रं तु वक्ष्यामि मुनिपुङ्गव ॥ २३॥
यज्ज्ञात्वा मुच्यते जन्तुर्जन्ममृत्युजरादिभिः ।
परिज्ञानेन मुच्यन्ते नराः पातककिल्बिषैः ॥ २४॥
विधिना भुज्यते येन मुच्येत स ऋणत्रयात् ।
कुलान्युद्धरते विप्रो नरकानेकविंशतिम् ॥ २५॥
सर्वयज्ञफलप्राप्तिः सर्वलोकेषु गच्छति ।
हृत्पुण्डरीकमरणिर्मनो मन्धानसंज्ञकम् ॥ २६॥
वायुरज्ज्वा मथेदग्निं चक्षुरध्वर्युरेव च ।
तर्जनीमध्यमाङ्गुष्ठैः प्राणस्यैवाहुतिं क्षिपेत् ॥ २७॥
मध्यमानामिकाङ्गुष्ठैरपानस्याहुतिं क्षिपेत् ।
कनिष्ठानामिकाङ्गुष्ठैर्व्यानस्य तदनन्तरम् ॥ २८॥
कनिष्ठातर्जन्यङ्गुष्ठैरुदानस्याहुतिं क्षिपेत् ।
सर्वाङ्गुलैर्गृहीत्वान्नं समानस्याहुतिं क्षिपेत् ॥ २९॥
स्वाहान्तान्प्रणवाद्यांश्च नाममन्त्रांश्च वै पठेत् ।
मुखे चाहवनीयस्तु हृदये गार्हपत्यकः ॥ ३०॥
नाभौ च दक्षिणाग्निः स्यादधः सभ्यावसथ्यकौ ।
वाग्घोता प्राण उद्गाता चक्षुरध्वर्युरेव च ॥ ३१॥
मनो ब्रह्मा भवेच्छ्रोत्रमाग्नीध्रस्थान एव च ।
अहङ्कारः पशुश्चात्र प्रणवः पय ईरितम् ॥ ३२॥
बुद्धिश्च पत्नी सम्प्रोक्ता यदधीनो गृहाश्रमी ।
उरो वेदिस्तु रोमाणि दर्भाः स्युः स्रुक्स्रुवौ करौ ॥ ३३॥
प्राणमन्त्रस्य च ऋषी रुक्मवर्णः क्षुधाग्निकः ।
देवतादित्य एवात्र गायत्रीच्छन्द उच्यते ॥ ३४॥
प्राणाय च तथा स्वाहा मन्त्रान्ते कीर्तयेदपि ।
इदमादित्यदेवाय न ममेति वदेदपि ॥ ३५॥
अपानमन्त्रस्य तथा गोक्षीरधवलाकृतिः ।
श्रद्धाग्निऋषिरेवात्र सोमो वै देवता स्मृता ॥ ३६॥
उष्णिक्छन्दस्तथापानाय स्वाहेत्यपि कीर्तयेत् ।
सोमायेदं च न ममेत्यत्रोहः परिकीर्तितः ॥ ३७॥
व्यानमन्त्रस्य चाख्यातोऽम्बुजवर्णहुताशनः ।
ऋषिरुक्तो देवताग्निरनुष्टुप् छन्द ईरितम् ॥ ३८॥
व्यानाय च तथा स्वाहाग्नयेदं न ममेत्यपि ।
उदानमन्त्रस्य तथा शक्रगोपसवर्णकः ॥ ३९॥
ऋषिरग्निः समाख्यातो वायुर्वै देवता स्मृता ।
बृहतीच्छन्द आख्यातमुदानाय च पूर्ववत् ॥ ४०॥
वायवे चेदं न मम एवं चैवोच्चरेद् द्विजः ।
समानवायुमन्त्रस्य विद्युद्वर्णो विरूपकः ॥ ४१॥
ऋषिरग्निः समाख्यातः पर्जन्यो देवता मता ।
पङ्क्तिश्छन्दः समाख्यातं समानाय च पूर्ववत् ॥ ४२॥
पर्जन्यायेदमित्युक्त्वा षष्ठीं चैवाहुतिं क्षिपेत् ।
वैश्वानरो महानग्निरृषिर्वै परिकीर्तितः ॥ ४३॥
गायत्रीच्छन्द आख्यातं देवस्त्वात्मा भवेदपि ।
स्वाहान्तो मन्त्र आख्यातः परमात्मन उच्चरेत् ॥ ४४॥
इदं न मम चेत्येवं जातं प्राणाग्निहोत्रकम् ।
एतज्ज्ञात्वा विधिं कृत्वा ब्रह्मभूयाय कल्पते ।
प्राणाग्निहोत्रविद्येयं सङ्क्षेपात्कथिता हि ते ॥ ४५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
वैश्वदेवादिविधिनिरूपणं नाम द्वाविंशोऽध्यायः ॥ ११.२२॥
११.२३ त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।
श्रीनारायण उवाच ।
अमृतापिधानमित्येवमुच्चार्य साधकोत्तमः ।
उच्छिष्टभाग्भ्यः पात्रान्नं दद्यादन्ते विचक्षणः ॥ १॥
ये के चास्मत्कुले जाता दासदास्योऽनकाङ्क्षिणः ।
ते सर्वे तृप्तिमायान्तु मया दत्तेन भूतले ॥ २॥
रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् ।
अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु ॥ ३॥
पवित्रग्रन्थिमुत्सृज्य मण्डले भुवि निक्षिपेत् ।
पात्रे तु निक्षिपेद्यस्तु स विप्रः पङ्क्तिदूषकः ॥ ४॥
उच्छिष्टस्तेन संस्पृष्टः शुना शूद्रेण च द्विजः ।
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ ५॥
अनुच्छिष्टेन संस्पृष्टैः स्नानमेव विधीयते ।
एकाहुतिप्रदानेन कोटियज्ञफलं लभेत् ॥ ६॥
पञ्चभिः पञ्चकोटीनां तदनन्तफलं स्मृतम् ।
प्राणाग्निहोत्रवेत्रे यो ह्यन्नदानं करोति च ॥ ७॥
दातुश्चैव तु यत्पुण्यं भोक्तुश्चैव तु यत्फलम् ।
प्राप्नुतस्तौ तदेव द्वावुभौ तौ स्वर्गगामिनौ ॥ ८॥
सपवित्रकरो भुङ्क्ते यस्तु विप्रो विधानतः ।
ग्रासे ग्रासे फलं तस्य पञ्चगव्यसमं भवेत् ॥ ९॥
पूजाकालत्रये नित्यं जपस्तर्पणमेव च ।
होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ १०॥
अधःशयानो धर्मात्मा जितक्रोधो जितेन्द्रियः ।
लघुमिष्टहिताशी च विनीतः शान्तचेतसा ॥ ११॥
नित्यं त्रिषवणस्नायी नित्यं स शुभभाषणः ।
स्त्रीशूद्रपतितत्व्रात्यनास्तिकोच्छिष्टभाषणम् ॥ १२॥
चाण्डालभाषणं चैव न कुर्यान्मुनिसत्तम ।
नत्वा नैव च भाषेत जपहोमार्चनादिषु ॥ १३॥
मैथुनस्य तथालापं तद्गोष्ठीमपि वर्जयेत् ।
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ १४॥
सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते ।
राज्ञश्चैव गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ १५॥
ऋतुस्तातेषु दारेषु सङ्गतिर्या विधानतः ।
संस्कृतायां सवर्णायामृतुं दृष्ट्वा प्रयत्नतः ॥ १६॥
रात्रौ तु गमनं कार्यं ब्रह्मचर्यं हरेन्न तत् ।
ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि ॥ १७॥
तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः ।
अजागलस्य यज्जन्म तज्जन्म श्रुतिचोदितम् ॥ १८॥
अतः कार्यं तु विप्रेन्द्र ऋणत्रयविशोधनम् ।
ते देवानामृषीणां च पितॄणामृणिनस्तथा ॥ १९॥
ऋषिभ्यो ब्रह्मचर्येण पितृभ्यस्तु तिलोदकैः ।
मुच्येद्यज्ञेन देवेभ्यः स्वाश्रमं धर्ममाचरेत् ॥ २०॥
क्षीराहारी फलाशी वा शाकाशी वा हविष्यभुक् ।
भिक्षाशी वा जपेद्विद्वान्कृच्छ्रचान्द्रायणादिकृत् ॥ २१॥
लवणं क्षारमम्लं च गृञ्जनं कांस्यभोजनम् ।
ताम्बूलं च द्विभुक्तं च दुष्टवासः प्रमत्तनम् ॥ २२॥
श्रुतिस्मृतिविरोधं च जपं रात्रौ विवर्जयेत् ।
वृथा न कालं गमयेद्द्यूतस्त्रीस्वापवादतः ॥ २३॥
गमयेद्देवतापूजास्तोत्रागमविलोकनैः ।
भूशय्या ब्रह्मचारित्वं मौनचर्या तथैव च ॥ २४॥
नित्यं त्रिषवणस्नानं शूद्रकर्मविवर्जनम् ।
नित्यपूजा नित्यदानमानन्दस्तुतिकीर्तनम् ॥ २५॥
नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ।
जपनिष्ठस्य धर्मा ये द्वादशैते सुसिद्धिदाः ॥ २६॥
नित्यं सूर्यमुपस्थाय तस्य चाभिमुखो जपेत् ।
देवताप्रतिमादौ वा वह्नौ वाभ्यर्च्य तन्मुखः ॥ २७॥
स्नानपूजाजपध्यानहोमतर्पणतत्परः ।
निष्कामो देवतायां च सर्वकर्मनिवेदकः ॥ २८॥
एवमादींश्च नियमान्पुरश्चरणकृच्चरेत् ।
तस्माद्द्विजः प्रसन्नात्मा जपहोमपरायणः ॥ २९॥
तपस्यध्ययने युक्तो भवेद्भूतानुकम्पकः ।
तपसा स्वर्गमाप्नोति तपसा विन्दते महत् ॥ ३०॥
तपोयुक्तस्य सिध्यन्ति कर्माणि नियतात्मनः ।
विद्वेषणं संहरणं मारणं रोगनाशनम् ॥ ३१॥
येन येनाथ ऋषिणा यदर्थं देवताः स्तुताः ।
स स कामः समृद्ध्येत तेषां तेषां तथा तथा ॥ ३२॥
तानि कर्माणि वक्ष्यामि विधानानि च कर्मणाम् ।
पुरश्चरणमादौ च कर्मणां सिद्धिकारकम् ॥ ३३॥
स्वाध्यायाभ्यसनस्यादौ प्राजापत्यं चरेद्द्विजः ।
केशश्मश्रुलोमनखान् वापयित्वा ततः शुचिः ॥ ३४॥
तिष्ठेदहनि रात्रौ तु शुचिरासीत वाग्यतः ।
सत्यवादी पवित्राणि जपेद्व्याहृतयस्तथा ॥ ३५॥
ज्येकाराद्यास्तु ता जप्त्वा सावित्रीं च तदित्यृचम् ।
आपो हि ष्ठेति सूक्तं च पवित्रं पापनाशनम् ॥ ३६॥
पुनन्त्यः स्वस्तिमत्यश्च पावमान्यस्तथैव च ।
सर्वत्रैतत्प्रयोक्तव्यमादावन्ते च कर्मणाम् ॥ ३७॥
आसहस्रादाशताद्वाप्यादशादथवा जपेत् ।
अकारं व्याहृतीस्तिस्रः सावित्रीमथवायुतम् ॥ ३८॥
तर्पयित्वाद्भिराचार्यानृषींश्छन्दांसि देवताः ।
अनार्येण न भाषेत शूद्रेणापि न गर्हितैः ॥ ३९॥
नापि चोदक्यया वध्वा पतितैर्नान्त्यजैर्नृभिः ।
न देवब्राह्मणद्विष्टैर्नाचार्यगुरुनिन्दकैः ॥ ४०॥
न मातृपितृविद्विष्टैर्नावमन्येत कञ्चन ।
कृच्छ्राणामेष सर्वेषां विधिरुक्तोऽनुपूर्वशः ॥ ४१॥
प्राजापत्यस्य कृच्छ्रस्य तथा सान्तपनस्य च ।
पराकस्य च कृच्छ्रस्य विधिश्चान्द्रायणस्य च ॥ ४२॥
पञ्चभिः पातकैः सर्वैर्दुष्कृतैश्च प्रमुच्यते ।
तप्तकृच्छ्रेण सर्वाणि पापानि दहति क्षणात् ॥ ४३॥
त्रिभिश्चान्द्रायणैः पूतो ब्रह्मलोकं समश्नुते ।
अष्टभिर्देवताः साक्षात्पश्येत वरदास्तदा ॥ ४४॥
छन्दांसि दशभिर्ज्ञात्वा सर्वान्कामान्समश्नुते ।
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ॥ ४५॥
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरेद्द्विजः ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ ४६॥
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ।
एकैकं ग्रासमश्नीयादहानि त्रीणि पूर्ववत् ॥ ४७॥
त्र्यहं चोपवसेदित्थमतिकृच्छ्रं चरेद्द्विजः ।
एवमेव त्रिभिर्युक्तं महासान्तपनं स्मृतम् ॥ ४८॥
तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् ।
प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ॥ ४९॥
नियतस्तु पिबेदापः प्राजापत्यविधिः स्मृतः ।
यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ॥ ५०॥
पराको नाम कृच्छ्रोऽयं सर्वपापप्रणोदनः ।
एकैकं तु ग्रसेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् ॥ ५१॥
अमावास्यां न भुञ्जीत एवं चान्द्रायणे विधिः ।
उपस्पृश्य त्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥ ५२॥
चतुरः प्रातरश्नीयाद्विप्रः पिण्डात्कृताह्निकः ।
चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ ५३॥
अष्टावष्टौ समश्नीयात्पिण्डान्मध्यन्दिने स्थिते ।
नियतात्मा हविष्यस्य यतिचान्द्रायणं व्रतम् ॥ ५४॥
एतद्रुद्रास्तथादित्या वसवश्च चरन्ति हि ।
सर्वे कुशलिनो देवा मरुतश्च भुवा सह ॥ ५५॥
एकैकं सप्तरात्रेण पुनाति विधिवत्कृतम् ।
त्वगसृक्पिशितास्थीनि मेदोमज्जावसास्तथा ॥ ५६॥
एकैकं सप्तरात्रेण शुध्यत्येव न संशयः ।
एभिर्व्रतैर्विपूतात्मा कर्म कुर्वीत नित्यशः ॥ ५७॥
एवं शुद्धस्य कर्माणि सिध्यन्त्येव न संशयः ।
शुद्धात्मा कर्म कुर्वीत सत्यवादी जितेन्द्रियः ॥ ५८॥
इष्टान्कामांस्ततः सर्वान्सम्प्राप्नोति न संशयः ।
त्रिरात्रमेवोपवसेद्रहितः सर्वकर्मणा ॥ ५९॥
त्रीणि नक्तानि वा कुर्यात्ततः कर्म समारभेत् ।
एवं विधानं कथितं पुरश्चर्याफलप्रदम् ॥ ६०॥
गायत्र्याश्च पुरश्चर्यां सर्वकामप्रदायिनी ।
कथिता तव देवर्षे महापापविनाशिनी ॥ ६१॥
आदौ कुर्याद्व्रतं मन्त्री देहशोधनकारकम् ।
पुरश्चर्यां ततः कुर्यात्समस्तफलभाग्भवेत् ॥ ६२॥
इति ते कथितं गुह्यं पुरश्चर्याविधानकम् ।
एतत्परस्मै नो वाच्यं श्रुतिसारं यतः स्मृतम् ॥ ६३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
तप्तकृच्छ्रादिलक्षणवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ११.२३॥
११.२४ चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।
नारद उवाच ।
नारायण महाभाग गायत्र्यास्तु समासतः ।
शान्त्यादिकान्प्रयोगांस्तु वदस्व करुणानिधे ॥ १॥
श्रीनारायण उवाच ।
अतिगुह्यमिदं पृष्टं त्वया ब्रह्यतनूद्भव ।
न कस्यापि च वक्तव्यं दुष्टाय पिशुनाय च ॥ २॥
अथ शान्तिः पयोऽक्ताभिः समिद्भिर्जुहुयाद् द्विजः ।
शमीसमिद्भिः शाम्यन्ति भूतरोगग्रहादयः ॥ ३॥
आर्द्राभिः क्षीरवृक्षस्य समिद्भिर्जुहुयाद् द्विजः ।
जुहुयाच्छकलैर्वापि भूतरोगादिशान्तये ॥ ४॥
जलेन तर्पयेत्सूर्यं पाणिभ्यां शान्तिमाप्नुयात् ।
जानुदघ्ने जले जप्त्वा सर्वान्दोषाञ्छमं नयेत् ॥ ५॥
कण्ठदघ्ने जले जप्त्वा मुच्येत्प्राणान्तिकाद्भयात् ।
सर्वेभ्यः शान्तिकर्मभ्यो निमज्याप्सु जपः स्मृतः ॥ ६॥
सौवर्णे राजते वापि पात्रे ताम्रमयेऽपि वा ।
क्षीरवृक्षमये वापि निर्व्रणे मृण्मयेऽपि वा ॥ ७॥
सहस्रं पञ्चगव्येन हुत्वा सुज्वलितेऽनले ।
क्षीरवृक्षमयैः काष्ठैः शेषं सम्पादयेच्छनैः ॥ ८॥
प्रत्याहुतिं स्पृशञ्जप्त्वा सहस्रं पात्रसंस्थितम् ।
तेन तं प्रोक्षयेद्देशं कुशैर्मन्त्रमनुस्मरन् ॥ ९॥
बलिं किरंस्ततस्तस्मिन्ध्यायेत्तु परदेवताम् ।
अभिचारसमुत्पन्ना कृत्या पापं च नश्यति ॥ १०॥
देवभूतपिशाचाद्यान् यद्येवं कुरुते वशे ।
गृहं ग्रामं पुरं राष्ट्रं सर्वं तेभ्यो विमुच्यते ॥ ११॥
निखने मुच्यते तेभ्यो लिखने मध्यतोऽपि च ।
मण्डले शूलमालिख्य पूर्वोक्ते च क्रमेऽपि वा ॥ १२॥
अभिमन्त्र्य सहस्रं तन्निखनेत्सर्वशान्तये ।
सौवर्णं राजतं वापि कुम्भं ताम्रमयं च वा ॥ १३॥
मृण्मयं वा नवं दिव्यं सूत्रवेष्टितमव्रणम् ।
स्थण्डिले सैकते स्थाप्य पूरयेन्मन्त्रविज्जलैः ॥ १४॥
दिग्भ्य आहृत्य तीर्थानि चतसृभ्यो द्विजोत्तमैः ।
एलाचन्दनकर्पूरजातीपाटलमल्लिकाः ॥ १५॥
बिल्वपत्रं तथा क्रान्तां देवीं व्रीहियवांस्तिलान् ।
सर्षपान्क्षीरवृक्षाणां प्रवालानि च निक्षिपेत् ॥ १६॥
सर्वाण्यभिविधायैव कुशकूर्चसमन्वितम् ।
स्नातः समाहितो विप्रः सहस्रं मन्त्रयेद् बुधः ॥ १७॥
दिक्षु सौरानधीयीरन्मन्त्रान्विप्रास्त्रयीविदः ।
प्रोक्षयेत्पाययेदेनं नीरं तेनाभिषिञ्चयेत् ॥ १८॥
भूतरोगाभिचारेभ्यः स निर्मुक्तः सुखी भवेत् ।
अभिषेकेण मुच्येत मृत्योरास्यगतो नरः ॥ १९॥
अवश्यं कारयेद्विद्वान्राजा दीर्घं जिजीविषुः ।
गावो देयाश्च ऋत्विग्भ्य अभिषेके शतं मुने ॥ २०॥
दक्षिणा येन वा तुष्टिर्यथाशक्त्याथवा भवेत् ।
जपेदश्वत्थमालभ्य मन्दवारे शतं द्विजः ॥ २१॥
भूतरोगाभिचारेभ्यो मुच्यते महतो भयात् ।
गुडूच्याः पर्वविच्छिन्नाः पयोऽक्ता जुहुयाद् द्विजः ॥ २२॥
एवं मृत्युञ्जयो होमः सर्वव्याधिविनाशनः ।
आम्रस्य जुहुयात्पत्रैः पयोऽक्तैर्ज्वरशान्तये ॥ २३॥
वचाभिः पयसाक्ताभिः क्षयं हुत्वा विनाशयेत् ।
मधुत्रितयहोमेन राजयक्ष्मा विनश्यति ॥ २४॥
निवेद्य भास्करायान्नं पायसं होमपूर्वकम् ।
राजयक्ष्माभिभूतं च प्राशयेच्छान्तिमाप्नुयात् ॥ २५॥
लताः पर्वसु विच्छिद्य सोमस्य जुहुयाद् द्विजः ।
सोमे सूर्येण संयुक्ते पयोऽक्ताः क्षयशान्तये ॥ २६॥
कुसुमैः शङ्खवृक्षस्य हुत्वा कुष्ठं विनाशयेत् ।
अपस्मारविनाशः स्यादपामार्गस्य तण्डुलैः ॥ २७॥
क्षीरवृक्षसमिद्धोमादुन्मादोऽपि विनश्यति ।
औदुम्बरसमिद्धोमादतिमेहः क्षयं व्रजेत् ॥ २८॥
प्रमेहं शमयेद्धुत्वा मधुनेक्षुरसेन वा ।
मधुत्रितयहोमेन नयेच्छान्तिं मसूरिकाम् ॥ २९॥
कपिलासर्पिषा हुत्वा नयेच्छान्तिं मसूरिकाम् ।
उदुम्बरवटाश्वत्थैर्गोगजाश्वामयं हरेत् ॥ ३०॥
पिपीलिमधुवल्मीके गृहे जाते शतं शतम् ।
शमीसमिद्भिरन्नेन सर्पिषा जुहुयाद् द्विजः ॥ ३१॥
तदुत्थं शान्तिमायाति शेषैस्तत्र बलिं हरेत् ।
अभ्रस्तनितभूकम्पालक्ष्यादौ वनवेतसः ॥ ३२॥
सप्ताहं जुहुयादेवं राष्ट्रे राज्यं सुखी भवेत् ।
यां दिशं शतजप्तेन लोष्ठेनाभिप्रताडयेत् ॥ ३३॥
ततोऽग्निमारुतारिभ्यो भयं तस्य विनश्यति ।
मनसैव जपेदेनां बद्धो मुच्येत बन्धनात् ॥ ३४॥
भूतरोगविषादिभ्यः स्पृशञ्जप्त्वा विमोचयेत् ।
भूतादिभ्यो विमुच्येत जलं पीत्वाभिमन्त्रितम् ॥ ३५॥
अभिमन्त्र्य शतं भस्म न्यसेद्भूतादिशान्तये ।
शिरसा धारयेद्भस्म मन्त्रयित्वा तदित्यृचा ॥ ३६॥
सर्वव्याधिविनिर्मुक्तः सुखी जीवेच्छतं समाः ।
अशक्तः कारयेच्छान्तिं विप्रं दत्त्वा तु दक्षिणाम् ॥ ३७॥
अथ पुष्टिं श्रियं लक्ष्मीं पुष्पैर्हुत्वाप्नुयाद् द्विजः ।
श्रीकामो जुहुयात्पद्मै रक्तैः श्रियमवाप्नुयात् ॥ ३८॥
हुत्वा श्रियमवाप्नोति जातीपुष्पैर्नवैः शुभैः ।
शालितण्डुलहोमेन श्रियमाप्नोति पुष्कलाम् ॥ ३९॥
समिद्भिर्बिल्ववृक्षस्य हुत्वा श्रियमवाप्नुयात् ।
बिल्वस्य शकलैर्हुत्वा पत्रैः पुष्पैः फलैरपि ॥ ४०॥
श्रियमाप्नोति परमां मूलस्य शकलैरपि ।
समिद्भिर्बिल्ववृक्षस्य पायसेन च सर्पिषा ॥ ४१॥
शतं शतं च सप्ताहं हुत्वा श्रियमवाप्नुयात् ।
लाजैस्त्रिमधुरोपेतैर्होमे कन्यामवाप्नुयात् ॥ ४२॥
अनेन विधिना कन्या वरमाप्नोति वाञ्छितम् ।
रक्तोत्पलशतं हुत्वा सप्ताहं हेम चाप्नुयात् ॥ ४३॥
सूर्यबिम्बे जलं हुत्वा जलस्थं हेम चाप्नुयात् ।
अन्नं हुत्वाप्नुयादन्नं व्रीहीन्व्रीहिपतिर्भवेत् ॥ ४४॥
करीषचूर्णैर्वत्सस्य हुत्वा पशुमवाप्नुयात् ।
प्रियङ्गुपायसाज्यैश्च भवेद्धोमादिभिः प्रजा ॥ ४५॥
निवेद्य भास्करायान्नं पायसं होमपूर्वकम् ।
भोजयेत्तदृतुस्नातां पुत्रं परमवाप्नुयात् ॥ ४६॥
सप्ररोहाभिरार्द्राभिरायुर्हुत्वा समाप्नुयात् ।
समिद्भिः क्षीरवृक्षस्य हुत्वायुषमवाप्नुयात् ॥ ४७॥
सप्ररोहाभिरार्द्राभी रक्ताभिर्मधुरत्रयैः ।
व्रीहीणां च शतं हुत्वा हेम चायुरवाप्नुयात् ॥ ४८॥
सुवर्णकुड्मलं हुत्वा शतमायुरवाप्नुयात् ।
दूर्वाभिः पयसा वापि मधुना सर्पिषापि वा ॥ ४९॥
शतं शतं च सप्ताहमपमृत्युं व्यपोहति ।
शमीसमिद्भिरन्नेन पयसा वा च सर्पिषा ॥ ५०॥
शतं शतं च सप्ताहमपमृत्युं व्यपोहति ।
न्यग्रोधसमिधो हुत्वा पायसं होमयेत्ततः ॥ ५१॥
शतं शतं च सप्ताहमपमृत्युं व्यपोहति ।
क्षीराहारो जपेन्मृत्योः सप्ताहाद्विजयी भवेत् ॥ ५२॥
अनश्नन्वाग्यतो जप्त्वा त्रिरात्रं मुच्यते यमात् ।
निमज्ज्याप्सु जपेदेवं सद्यो मृत्योर्विमुच्यते ॥ ५३॥
जपेद् बिल्वं समाश्रित्य मासं राज्यमवाप्नुयात् ।
बिल्वं हुत्वाप्नुयाद्राज्यं समूलफलपल्लवम् ॥ ५४॥
हुत्वा पद्मशतं मासं राज्यमाप्नोत्यकण्टकम् ।
यवागूं ग्राममाप्नोति हुत्वा शालिसमन्वितम् ॥ ५५॥
अश्वत्थसमिधो हुत्वा युद्धादौ जयमाप्नुयात् ।
अर्कस्य समिधो हुत्वा सर्वत्र विजयी भवेत् ॥ ५६॥
संयुक्तैः पयसा पत्रैः पुष्पैर्वा वेतसस्य च ।
पायसेन शतं हुत्वा सप्ताहं वृष्टिमाप्नुयात् ॥ ५७॥
नाभिदघ्ने जले जप्त्वा सप्ताहं वृष्टिमाप्नुयात् ।
जले भस्मशतं हुत्वा महावृष्टिं निवारयेत् ॥ ५८॥
पालाशाभिरवाप्नोति समिद्भिर्ब्रह्मवर्चसम् ।
पलाशकुसुमैर्हुत्वा सर्वमिष्टमवाप्नुयात् ॥ ५९॥
पयो हुत्वाऽऽप्नुयान्मेधामाज्यं बुद्धिमवाप्नुयात् ।
अभिमन्त्र्य पिबेद् ब्राह्मं रसं मेधामवाप्नुयात् ॥ ६०॥
पुष्पहोमे भवेद्वासस्तन्तुभिस्तद्विधं पटम् ।
लवणं मधुसम्मिश्रं हुत्वेष्टं वशमानयेत् ॥ ६१॥
नयेदिष्टं वशं हुत्वा लक्ष्मीपुष्पैर्मधुप्लुतैः ।
नित्यमञ्जलिनाऽऽत्मानमभिषिञ्चेज्जले स्थितः ॥ ६२॥
मतिमारोग्यमायुष्यमग्र्यं स्वास्थ्यमवाप्नुयात् ।
कुर्याद्विप्रोऽन्यमुद्दिश्य सोऽपि पुष्टिमवाप्नुयात् ॥ ६३॥
अथ चारुविधिर्मासं सहस्रं प्रत्यहं जपेत् ।
आयुष्कामः शुचौ देशे प्राप्नुयादायुरूत्तमम् ॥ ६४॥
आयुरारोग्यकामस्तु जपेन्मासद्वयं द्विजः ।
भवेदायुष्यमारोग्यं श्रियै मासत्रयं जपेत् ॥ ६५॥
आयुः श्रीपुत्रदाराद्याश्चतुर्भिश्च यशो जपात् ।
पुत्रदारायुरारोग्यं श्रियं विद्यां च पञ्चभिः ॥ ६६॥
एवमेवोत्तरान्कामान् मासैरेवोत्तरैर्व्रजेत् ।
एकपादो जपेदूर्ध्वबाहुः स्थित्वा निराश्रयः ॥ ६७॥
मासं शतत्रयं विप्रः सर्वान्कामानवाप्नुयात् ।
एवं शतोत्तरं जप्त्वा सहस्रं सर्वमाप्नुयात् ॥ ६८॥
रुद्ध्वा प्राणमपानं च जपेन्मासं शतत्रयम् ।
यदिच्छेत्तदवाप्नोति सहस्रात्परमाप्नुयात् ॥ ६९॥
एकपादो जपेदूर्ध्वबाहू रुद्ध्वानिलं वशः ।
मासं शतमवाप्नोति यदिच्छेदिति कौशिकः ॥ ७०॥
एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् ।
निमज्ज्याप्सु जपेन्मासं शतमिष्टमवाप्नुयात् ॥ ७१॥
एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् ।
एकपादो जपेदूर्ध्वबाहू रुद्ध्वा निराश्रयः ॥ ७२॥
नक्तमश्नन् हविष्यान्नं वत्सरादृषितामियात् ।
गीरमोघा भवेदेवं जप्त्वा संवत्सरद्वयम् ॥ ७३॥
त्रिवत्सरं जपेदेवं भवेत्त्रैकालदर्शनम् ।
आयाति भगवान्देवश्चतुःसंवत्सरं जपेत् ॥ ७४॥
पञ्चभिर्वत्सरैरेवमणिमादिगुणो भवेत् ।
एवं षड्वत्सरं जप्त्वा कामरूपित्वमाप्नुयात् ॥ ७५॥
सप्तिभिर्वत्सरैरेवममरत्वमवाप्नुयात् ।
मनुत्वं नवभिः सिद्धमिन्द्रत्वं दशभिर्भवेत् ॥ ७६॥
एकादशभिराप्नोति प्राजापत्यं सुवत्सरैः ।
बह्मत्वं प्राप्नुयादेवं जप्त्वा द्वादशवत्सरान् ॥ ७७॥
एतेनैव जिता लोकास्तपसा नारदादिभिः ।
शाकमन्ये परे मूलं फलमन्ये पयः परे ॥ ७८॥
घृतमन्ये परे सोममपरे चरुवृत्तयः ।
ऋषयः पक्षमश्नन्ति केचिद्भैक्ष्याशिनोऽहनि ॥ ७९॥
हविष्यमपरेऽश्नन्तः कुर्वन्त्येव परं तपः ।
अथ शुद्ध्यै रहस्यानां त्रिसहस्रं जपेद् द्विजः ॥ ८०॥
मासं शुद्धो भवेत्स्तेयात्सुवर्णस्य द्विजोत्तमः ।
जपेन्मासं त्रिसाहस्रं सुरापः शुद्धिमाप्नुयात् ॥ ८१॥
मासं जपेत् त्रिसाहस्रं शुचिः स्याद् गुरुतल्पगः ।
त्रिसहस्रं जपेन्मासं कुटीं कृत्वा वने वसन् ॥ ८२॥
ब्रह्महा मुच्यते पापादिति कौशिकभाषितम् ।
द्वादशाहं निमज्ज्याप्सु सहस्रं प्रत्यहं जपेत् ॥ ८३॥
मुच्येरन्नंहसः सर्वे महापातकिनो द्विजाः ।
त्रिसाहस्रं जपेन्मासं प्राणानायम्य वाग्यतः ॥ ८४॥
महापातकयुक्तो वा मुच्यते महतो भयात् ।
प्राणायामसहस्रेण ब्रह्महापि विशुध्यति ॥ ८५॥
षट्कृत्वस्त्वभ्यसेदूर्ध्वं प्राणापानौ समाहितः ।
प्राणायामो भवेदेष सर्वपापप्रणाशनः ॥ ८६॥
सहस्रमभ्यसेन्मासं क्षितिपः शुचितामियात् ।
द्वादशाहं त्रिसाहस्रं जपेद्धि गोवधे द्विजः ॥ ८७॥
अगम्यागमनस्तेयहननाभक्ष्यभक्षणे ।
दशसाहस्रमभ्यस्ता गायत्री शोधयेद् द्विजम् ॥ ८८॥
प्राणायामशतं कृत्वा मुच्यते सर्वकिल्विषात् ।
सर्वेषामेव पापानां सङ्करे सति शुद्धये ॥ ८९॥
सहस्रमभ्यसेन्मासं नित्यजापी वने वसन् ।
उपवाससमं जप्यं त्रिसहस्रं तदित्यृचम् ॥ ९०॥
चतुर्विंशतिसाहस्रमभ्यस्तात्कृच्छ्रसंज्ञिता ।
चतुःषष्टिसहस्राणि चान्द्रायणसमानि तु ॥ ९१॥
शतकृत्वोऽभ्यसेन्नित्यं प्राणानायम्य सन्ध्ययोः ।
तदित्यृचमवाप्नोति सर्वपापक्षयं परम् ॥ ९२॥
निमज्ज्याप्सु जपेन्नित्यं शतकृत्वस्तदित्यृचम् ।
ध्यायन्देवीं सूर्यरूपां सर्वपापैः प्रमुच्यते ॥ ९३॥
इति ते सम्यगाख्याताः शान्तिशुद्ध्यादिकल्पनाः ।
रहस्यातिरहस्याश्च गोपनीयास्त्वया सदा ॥ ९४॥
इति सङ्क्षेपतः प्रोक्तः सदाचारस्य सङ्ग्रहः ।
विधिनाऽऽचरणादस्य माया दुर्गा प्रसीदति ॥ ९५॥
नैमित्तिकं च नित्यं च काम्यं कर्म यथाविधि ।
आचरेन्मनुजः सोऽयं भुक्तिमुक्तिफलाप्तिभाक् ॥ ९६॥
आचारः प्रथमो धर्मो धर्मस्य प्रभुरीश्वरी ।
इत्युक्तं सर्वशास्त्रेषु सदाचारफलं महत् ॥ ९७॥
आचारवान्सदा पूतः सदैवाचारवान्मसुखी ।
आचारवान्सदा धन्यः सत्यं सत्यं च नारद ॥ ९८॥
देवीप्रसादजनकं सदाचारविधानकम् ।
यदपि शृणुयान्मर्त्यो महासम्पत्तिसौख्यभाक् ॥ ९९॥
सदाचारेण सिद्धेच्च ऐहिकामुष्मिकं सुखम् ।
तदेव ते मया प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ १००॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामेकादशस्कन्धे
सदाचारनिरूपणं नाम चतुर्विंशोऽध्यायः ॥ ११.२४॥
॥ इति श्रीमद्देवीभागवते महापुराणे एकादशस्कन्धः समाप्तः ॥
Encoded and proofread by Vishwas Bhide