श्रीबोधायनमतादर्शः

श्रीबोधायनमतादर्शः

अथ जगद्गुरु श्रीपूर्णानन्दाचार्य सिद्धान्तसार्वभौम विरचितः श्रीबोधायनमतादर्शः । (प्रमिताक्षरावृत्तिसारः सहस्रश्लोकी) स्वशताब्दीमहोत्सवे श्रीपूर्णानन्दाचार्योपदिष्टो वेदान्तप्रबन्धः रामं बोधायनं नत्वा चिदानन्दं गुरुं तथा । बोधायनमतादर्शं कुर्वे सिद्धान्तबुद्धये ॥ १॥ यो ब्रह्माणं विदधाति इत्येतच्छ्रुतिमानतः । रामो विधि विधायादौ तस्मै वेदं हि दत्तवान् ॥ २॥ प्रधानक्षेत्रज्ञपतिर्गुणेश इति च श्रुतौ । प्रधानजीवब्रह्मेति तत्त्वत्रयं समीरितम् ॥ ३॥ अचेतनं प्रधानं हि तत्र च त्रिगुणं जडम् । ब्रह्मणाधिष्ठितं तच्च जगतः कारणं मतम् ॥ ४॥ अजडश्चेतनो जीवो, जगद्व्यापारवर्जितः । अजडं चेतनं ब्रह्म जगज्जन्मादिकारणम् ॥ ५॥ जीवश्च प्रकृतिर्ब्रह्मदेहत्वाद्धि विशेषणे । शरीरी चोभयोर्ब्रह्म विशिष्टं तद्द्वयेन च ॥ ६॥ ननु रामे शरीरित्वात् भोक्तृता सुखदुःखयोः । न ह वै सशरीरस्य प्रमाणं चात्र वर्त्तते ॥ ७॥ मैवं दुःखादिभोक्तृत्वे शरीरित्वं न कारणम् । किन्तु पापादिवैशिष्टयं भूपालचौरयोरिव ॥ ८॥ सूक्ष्माचिच्चिद्विशिष्टः श्रीरामो ब्रह्म हि कारणम् । स्थूलाचिञ्चिद्विशिष्टस्तु कार्यं ब्रह्म स भाषितः ॥ ९॥ द्वयोर्विशिष्टयोश्चाथ कार्यकारणरामयोः । ``सदेव सोम्येदमग्र आसादितिश्रुतौ यतः ॥ १०॥ ऐक्यमापादितं तस्माच्छ्रीमद्बोधायनो मुनिः । मेने च सुमतं श्रौतं विशिष्टाद्वैतसंज्ञकम् ॥ ११॥ अखिलाः श्रुतयो द्वैते चाद्वैते सङ्गता न हि । विशिष्टाद्वैतवादे तु सर्वास्ताः सङ्गतिं गताः ॥ १२॥ अद्वैतबोधिकाः काश्चित् काश्चिद् द्वैतावबोधिकाः । घटकश्रुतयः काश्चिदन्तर्यामिप्रबोधिकाः ॥ १३॥ अप्रामाण्यं भवेत् तासां विरोधेऽभिमते मिथः । विशिष्टाद्वैतिभिस्तासां क्रियतेऽतः समन्वयः ॥ १४॥ अद्वैतश्रुतयो बोध्या विशिष्टब्रह्मबोधिकाः । नान्यश्रुतिमतानां हि तत्वानां प्रतिषेधिकाः ॥ १५॥ परं ब्रह्म च तद्वाच्यं त्वद्वाच्यं त्वच्छरीरकम् । तत्त्वमसीतिवाक्येन तूक्तोऽभेदस्तयोर्द्वयोः ॥ १६॥ द्वैतश्रुतिसमूहस्तु विद्वद्भिः सम्मतः खलु । चिदचिदीशतत्त्वानां पार्थक्येनावबोधकः ॥ १७॥ आत्मत्वमीश्वरस्याथ चिदचितोश्च देहता । सर्वाभिर्विनिवेद्येते घटकश्रुतिभिः किल ॥ १८॥ वेदान्ततत्त्वविद्भिश्च कार्यकारणभेदतः । चिदचिद्भ्यां विशिष्टं तु ब्रह्म च द्विविधं मतम् ॥ १९॥ स्थूलाचिच्चिद्विशिष्टं हि ब्रह्मकार्यं प्रकीर्त्तितम् । सूक्ष्माचिच्चिद्विशिष्टं तु ब्रह्म कारणमुच्यते ॥ २०॥ अद्वैतं मन्यते प्राज्ञैर्ब्रह्मणोश्च विशिष्टयोः । विशिष्टाद्वैतसिद्धान्तस्तस्माच्छ्रुत्यनुमोदितः ॥ २१॥ अत एवास्मदाचार्यबोधायनादिसम्मतः । विशिष्टाद्वैतसिद्धान्तो लोके विजयतेतराम् ॥ २२॥ सर्वासां च श्रुतीनां हि श्रुतानन्देन धीमता । एवं समन्वयः प्रोक्तः सर्वश्रुतिसमन्वये ॥ २३॥ ईश्वरः अनित्यफलकं कर्म श्रुत्या ज्ञात्वा मुमुक्षुभिः । यन्नित्यफलकं तद्धि कर्त्तव्यं ब्रह्मवेदनम् ॥ २४॥ जगज्जन्मान्दिहेतुश्च ब्रह्म वेदान्तबोधितम् । बहु स्यामि तिसङ्कल्पकारको जानकीश्वरः ॥ २५॥ जगत्सृष्ट्यादिकर्त्ता श्रीरामो ब्रह्म परात्परम् । श्रीबोधायनगीतायामिति रामस्य ब्रह्मता ॥ २६॥ दृश्यमानं जगत् सर्वं चेतनाचेतनात्मकम् । अदृश्यरूपतां प्राप्य श्रीरामे कारणे स्थितम् ॥ २७॥ अक्षरं लीयते तावत् तमसीति श्रुत्तौ मतम् । तमश्च लोयते रामे श्रीरामो न च कुत्रचित् ॥ २८॥ रामात् परतरं तत्त्वं नान्यदस्ति हि किञ्चन । सर्वस्य प्रभवो रामो रामात् सर्वमिदं जगत् ॥ २९॥ नामरूपक्रियोभिश्च रामे सर्वं प्रतिष्ठितम् । दृश्यत्वेनोत्थितं सर्वं रामात् काष्ठाद् यथाऽनलः ॥ ३०॥ घटवती धरा पूर्वं घटशून्या प्रतीयते । पश्चाद् घटेन युक्ता सा सविशेषाऽनुभूयते ॥ ३१॥ तथा विकल्पशून्योऽपि सविकल्पो हि राघवः । सर्वावस्थास्थितस्यास्य ह्याधारश्चाखिलस्य सः ॥ ३२॥ सविकल्पाविकल्पत्वे ईक्षणीये च राघवे । वीक्ष्यते वटवीजे यद् वटो नापि हि वीक्ष्यते ॥ ३३॥ अव्यक्तं कारणे रामे सर्वं कार्ये च व्यज्यते । तथा न सकलं रामः सर्वमेव च राघवः ॥ ३४॥ सर्वाधारतया श्रीमदरामश्चैकोऽद्वयः परः । तदेकायनतो रामः सर्वं नैवात्र संशयः ॥ ३५॥ उपादानं निमित्तं च सर्वस्यैको हि राघवः । ऊर्णनाभिर्यथा तन्तोर्मन्यते कारणद्वयम् ॥ ३६॥ उपादानत्वमेतस्य विश्वस्य ब्रह्मणि किल । सदेव सोम्येदमग्र इत्यादिश्रुतिसम्मतम् ॥ ३७॥ न ब्रह्मा नाऽपि विष्णुश्च नो तदासीन्महेश्वरः । तदासीद् भगवान् रामः सूक्ष्मचिदचिच्छरीरकः ॥ ३८॥ उपादानतया रामे विकारः सम्भवेन्ननु । मैवं विशिष्टरामस्य मतः स च प्रकारयोः ॥ ३९॥ स्वभावे च स्वरूपे च विकारः प्रकृतेः खलु । विकारः सोऽथ जीवस्य स्वभाव एव मन्यते ॥ ४०॥ विशेष्यब्रह्मणः सोऽथ न स्वरूपस्वभावयोः । ब्रह्मोपादानतावादिश्रुतिकोपोऽपि नो भवेत् ॥ ४१॥ साङ्ख्यास्तु जगतो हेतुं मन्यन्ते प्रकृतिं किल । सुखदुःखात्मकं चाथ मोहात्मकं जगद् यतः ॥ ४२॥ वर्त्तते च जगत् तस्मात् सत्वादित्रिगुणात्मकम् । प्रधानं त्रिगुणं तस्मादुपादानं च तस्य हि ॥ ४३॥ मृदात्मकघटस्यात्रोपादानं च मृदेव हि । सद्वाच्यप्रकृतिज्ञानाद् विश्वज्ञानं भवेदपि ॥ ४४॥ इति चेद् युक्तता नास्य रचनानुपपत्तितः। अचेतनप्रधानस्योपादानावगमः कथम् ॥ ४५॥ वैषम्यं च कथं सृष्टेः कर्माज्ञानाच्च देहिनाम् । रजःसत्वसुयोगाच्च क्रियाज्ञानोभयं न हि ॥ ४६॥ चेतन एव तद्योगात् क्रियाज्ञानद्वयं यतः । अचिज्ज्ञानात् कथं ज्ञातं भवेच्चिदचिदात्मकम् ॥ ४७॥ नाचेतनं जगत् किन्तु चेतनाचेतनत्मकम् । अचेतनं प्रधानं स्याच्चेतनकारणं कथम् ॥ ४८॥ कथं नु चेतनं ब्रह्माचेतनकारणं भवेत् । मैवं चिताऽचिता यस्माद् विशिष्टं ब्रह्म सम्मतम् ॥ ४९॥ उपादानं मतं ब्रह्म चिदचिद्द्वारकं यतः । प्रकारांशे विकारस्तद् ब्रह्मणो निर्विकारता ॥ ५०॥ चेतनेनानधिष्ठाने प्रवृत्तिः प्रकृतौ कथम् । दधिस्वरूपतां याति चेश्वराधिष्ठितं पयः ॥ ५१॥ सर्वस्येशनियन्तृत्वं योऽप्स्वादिकश्रुतौ श्रुतम् । अचेतनगुणानां तु मिथश्चाङ्गाङ्गिता कथम् ॥ ५२॥ पुरुषसन्निधौ चेत् सा तदास्यात् सृष्टिनित्यता । पुंसः प्रवर्त्तकत्वे तस्यौदासीन्यं न सम्भवेत् ॥ ५३॥ न स्यात् साम्यदशा तेषा गुणानां च स्वतः च्युतौ । तदानीमितराभावाच्चेतरस्मान्न सा च्युतिः ॥ ५४॥ श्रुतं सर्वत्र वेदान्ते जगतो ब्रह्म कारणम् । सदवाच्ये लीयते चात्मा सद्वाच्या प्रकृतिर्न तत् ॥ ५५॥ तदैक्षते ति सद्वाच्य ईक्षणं हि यतः श्रुतम् । सद्वाच्या प्रकृतिस्तस्मादीक्षणाभावतो न हि ॥ ५६॥ चेतनस्य हि धर्मस्य सर्वसम्मतमीक्षणम् । कदाचिच्च कथञ्चिन्न प्रकृतौ तस्य सम्भवः ॥ ५७॥ तेजस्यचेतने चापि तत्तेज ऐक्षत इति । ईक्षणं च श्रुतं गौणं प्रकृतौ तद्वदेव नु ॥ ५८॥ मैवमुत्तरवाक्येषु चात्मशब्दः श्रुतो यतः । स चेतनस्ततस्तस्य चेक्षणं मुख्यमेव हि ॥ ५९॥ तेत्तेज ऐक्षत चादावन्तर्यामिण ईक्षणम् । मुख्यमेव तु तच्चापि तेजोऽन्तस्थो हि चेतनः ॥ ६०॥ सच्छब्दवाच्यनिष्ठस्य मोक्षस्य चोपदेशतः । जगद्धेतुः परब्रह्म सद्वाच्यं प्रकृतिर्न हि ॥ ६१॥ वदन्ति सृष्टिचर्चायां वैशेषिकानुयायिनः । क्षित्यप्तेजः समीराणां हेतवः परमाणवः ॥ ६२॥ न रम्यं कथनं तेषां विकल्पासहता यतः । सावयवा न वा तैश्च स्वीकृताः परमाणवः ॥ ६३॥ तेषामवयवानां च तथाभूतेऽनवस्थितिः । आद्यः पक्षो न तद् रम्यः समीचीनो न चान्तिमः ॥ ६४॥ तेषामवयवाभावे संयोगो न भवेन्मिथः । अंशं विना तु संयोगः कथञ्चित् सम्भवेन्न हि ॥ ६५॥ अन्यथा चैकदेशस्थैः स्वाधिकदेशवर्त्तिनः । न स्यात् कार्यस्य चारम्भः तैः परमाणुभिः खलु ॥ ६६॥ नास्पृष्टेऽवयवैर्देशे दृष्टाऽवयविनः स्थितिः । दिग्भेदात् परमाणूनां स्यात् सावयवतैव च ॥ ६७॥ तन्मते परमाणूनां स्पन्दे संयोगहेतुता । स्पन्दकारणता चाथ जीवादृष्टे हि मन्यते ॥ ६८॥ समवेतमदृष्टं तज्जीवे नो परमाणुषु । स्पन्दे हि परमाणूनां कथञ्चित् कारणं न तत् ॥ ६९॥ अन्यादृष्टमन्यथा स्याद् हेतुरन्यसुखादिके । अदृष्टे परमाणुस्थे सृष्टिश्च सर्वदा भवेत् ॥ ७०॥ क्षणिकान् परमाणूंश्च क्षित्यादीनां हि सौगताः । उपादानं वदन्त्यत्र बाह्यार्थास्तित्ववादिनः ॥ ७१॥ क्षित्यादयः प्रजायन्ते संहितैः परमाणुभिः । हेतुत्वे परमाणूनां प्रोक्तैर्दोषैर्वरं न तत् ॥ ७२॥ संहिताश्च कथङ्कारं क्षणिकाः परमाणवः । विज्ञानविषयत्वं च क्षणिकेषु न सम्भवेत् ॥ ७३॥ बाह्यार्थानां प्रकाशाय ज्ञानञ्चाभ्युपगम्यते । बाह्यार्थास्तु ततश्चैव योगाचारो न मन्यते ॥ ७४॥ ज्ञानस्य परिणामा हि बाह्यार्थास्तेन सम्मताः । प्रकाशते हि साकारो निराकारो न कर्हिचित् ॥ ७५॥ ज्ञानसत्त्वे च बाह्यार्था ज्ञानाभावे हि नो ततः । विज्ञानमेव मन्तव्यं बाह्यार्थास्तु कदापि न ॥ ७६॥ मैवं यतश्च बाह्यार्थो ज्ञानाद् भिन्नः प्रतीयते । घटाच्च घटविज्ञानं भिन्नं सर्वस्य सम्मतम् ॥ ७७॥ जैनैर्मता उपादानहेतवः परमाणवः । तेभ्यश्चैकस्वभावेभ्यो जायन्ते च धरादयः ॥ ७८॥ क्षित्यादेश्च मिथो भेदः परिणामकृतो मतः । मैवं नो चेद्धि मृत्पिण्डाज्जायतां घटवत् पटः ॥ ७९॥ हेतुत्वे परमाणूनां दोषाः पूर्वं समीरिताः । मतोपादानता तन्न वैदिकैः परमाणुषु ॥ ८०॥ कैश्चित् त्विह यथा शुक्तावध्यस्तं रजतं खलु । जगदेतत् तथाऽध्यस्तं ब्रह्मण्यविद्यया मतम् ॥ ८१॥ तदयुक्तं यतोऽविद्याऽऽश्रयस्यात्र न सम्भवः । परस्पराश्रयो दोषो जीवे तदाश्रये मते ॥ ८२॥ परस्परविरोधाच्च नैव ब्रह्म तदाश्रयः । आश्रयानुपपत्तेश्चाविद्यासिद्धिर्भवेन्न तत् ॥ ८३॥ जन्माद्यस्य यतश्चैवं व्यासेन सूत्रितं ततः । न तेन सूत्रितं तस्माद व्यासो जगतो यतः ॥ ८४॥ परिणामात् तु सूत्रेण मता परिणामिहेतुता । हेतुता ब्रह्मणस्तस्माद् विवर्त्तविधया ने हि ॥ ८५॥ उपादानं निमित्तं च जगतो राघवो मतः । श्रुतयो निर्विकारत्वं वदन्ति ब्रह्मणो ननु ॥ ८६॥ व्यकुप्येयुर्हि ताश्चैवं कुतश्चेदुच्यते यतः । विकारीति मतं सर्वैरुपादानं विचक्षणैः ॥ ८७॥ इति चेदुच्यते ह्यत्र नैवं वाच्यं कुतो यतः । प्रतिज्ञातं श्रुतौ सर्वज्ञानमेकस्य ज्ञानतः ॥ ८८॥ दृष्टान्तः कथितश्चापि मृत्कार्याणां मृदस्तथा । उपादानं घटादेर्हि मृत्तिका परिकीर्तिता ॥ ८९॥ परिणता यतो मृद्धि घटादिरूपतः खलु । उपादानस्य विज्ञानादुपादेयावबोधतः ॥ ९०॥ मृज्ज्ञानेन घटादीनां विज्ञानं सम्मतं यथा । एकस्य ब्रह्मणो ज्ञानाद् विज्ञानं जगतस्तथा ॥ ९१॥ उपादानं यतो ब्रह्म जगतोऽस्य मतं बुधैः । परिणतं यतो ब्रह्म जगद्रूपेण सम्मतम् ॥ ९२॥ व्यासेन ``प्रकृतिश्चे'' त्यादिकं हि सूत्रितं ततः । श्रीबोधायनवृत्तौ तद् व्यख्यातमेवमेव च ॥ ९३॥ ब्रह्मणः परिणामो हि प्रकारद्वारको जगत् । विकारित्वं ततो द्वारे प्रकृतिपुरुषद्वये ॥ ९४॥ स्वरूपे च स्वभावे च विकारः प्रकृतेः खलु । स्वभाव एव जीवस्य विकारः स्वीकृतो बुधैः ॥ ९५॥ ब्रह्मणस्तु विकारो यन्न स्वरूपस्वभावयोः । व्याकोपावसरः कश्चिच्छ्रुतीनां वर्त्तते न तत् ॥ ९६॥ परिणामविमर्शे हि द्वारानन्दार्यनिर्मिते । इत्येवं परिणामो हि विमृष्टो ब्रह्मणः सतः ॥ ९७॥ ईशे सृष्टिनिमित्तत्त्वे नैर्घृण्यं च भवेन्ननु । मैवं यद् दैवसापेक्षा सृष्टिदोषस्ततश्च न ॥ ९८॥ ततो वैषम्यनैर्घृण्ये इत्येवमादिरूपतः । भगवता हि व्यासेन सूत्रितं ब्रह्मदर्शने ॥ ९९॥ श्रीपुरुषोत्तमार्येण बोधायनमहर्षिणा । बोधायनमहावृत्तौ व्यख्यातञ्चैवमेव तत् ॥ १००॥ अस्मद्गुरुगुरोः श्रौतसिद्धान्तविन्दुनामके । प्रबन्धे खण्डिता चैषा शङ्का चैवमेव हि ॥ १०१॥ ईशस्य चानिमित्तत्त्वे विरोध ईक्षणश्रुतेः । उभयकारणत्वं तत् सिद्धान्ते ब्रह्मणो मतम् ॥ १०२॥ सिद्ध्येच्चैकस्य विज्ञानात् सर्वस्य ज्ञाततऽपि च । प्रकृतिश्च प्रतिज्ञे त्यादिकं हि सूत्रितं ततः ॥ १०३॥ इति चेत् सावधानेन श्रूयतामुच्यते मया । एक विज्ञानतः सर्वविज्ञानं सम्मतं श्रुतौ ॥ १०४॥ अद्वैतिनां मते तद्धि कथचिन्नोपपद्यते । ब्रह्मैव तन्मते सत्यं मिथ्या ब्रह्मेतरद् यतः ॥ १०५॥ शुक्तौ रजतवद् भाति ब्रह्मण्यारोपितं जगत् । ज्ञाते ब्रह्मप्यधिष्ठाने न भाति शुक्तिरौप्यवत् ॥ १०६॥ सत्यं च कारणं ब्रह्म मृत्तिकासदृशं खलु । कार्यभूतं जगन्मिथ्या मृद्विकारघटादिवत् ॥ १०७॥ कार्यं बुद्धं भवेदत्रोपादानस्य च बोधतः । सत्यत्वमुभयोर्यद्वा मिथ्यात्वं सम्भवेद् यदि ॥ १०८॥ ब्रह्मज्ञानाज्जगज्ज्ञानमत्र स्यान्न कदाचन । ब्रह्मणः सत्यता चाथ मिथ्यात्वं जगतश्च यत् ॥ १०९॥ वेदान्ताच्च विरुद्धं तदद्वैतिनां मतं ततः । दोषो न सम्भवत्येष विशिष्टाद्वैतिनां मते ॥ ११०॥ क्षरं प्रधानमित्यादिश्रुतौ तत्त्वत्रयं श्रुतम् । प्रधानं क्षरमित्येकं द्वितीयममृताक्षरम् ॥ १११॥ उक्तोभयोर्नियन्ता हि तृतीयं तत्त्वमुच्यते । यस्यात्मा यस्य पृथिवी इत्येवं चिदचित्तथा ॥ ११२॥ ईशस्य देहरूपत्वात् प्रकारौ सम्मतावुभौ । उभाभ्यां च विशिष्टो हि सर्वेशो रघुनायकः ॥ ११३॥ चिदचिद्भ्यां च सूक्ष्माभ्यां विशिष्टः प्रलये हि सः । उपादानं हि विश्वस्य सर्वेशो राघवो मतः ॥ ११४॥ सदेव सोम्येदमग्र श्रुतेस्तत्र प्रमाणता । अद्वितीयमित्युक्तेश्च निमित्तं च स एव हि ॥ ११५॥ स्थूलाभ्यां चिदचिद्भ्यां च विशिष्टे तत्र कार्यता । बहुत्वावस्थया युक्तस्तदा रामः प्रकीर्त्तितः ॥ ११६॥ सूक्ष्माचिच्चिद्विशिष्टं तद् ब्रह्म कारणमुच्यते । स्थूलाचिच्चिद्विशिष्टं च ब्रह्म कार्यं मतं बुधैः ॥ ११७॥ एतयोर्ब्रह्मणोरैक्यं विशिष्टाद्वैतमुच्यते । कारणब्रह्मबोधाच्च कार्यं ब्रह्म हि बुध्यते ॥ ११८॥ विकारो जायते चाथ चिदचितोः प्रकारयोः । अक्षता च भवेत् तस्माद् ब्रह्मणो निर्विकारता ॥ ११९॥ चिदचिद्भ्यां विशिष्टत्वात् सङ्कल्पवत्तया तथा । उपादानं निमित्तं च सद् ब्रह्मैवोर्णनाभिवत् ॥ १२०॥ तदैक्षतेतिसङ्कल्पाद् गुणेवैशिष्ट्यहेतुतः । ब्रह्मणः सविशेषत्वं साधितं च भवेदपि ॥ १२१॥ एवं समीरितं चापि श्रुतानन्देन धीमता । रामस्योभयहेतुत्वमुपेयोपायवर्णने ॥ १२२॥ कार्यस्य ब्रह्मणो हेतुः कारणं ब्रह्म सम्मतम् । परिणामादितिसूत्रं सङ्गतं च भवेत् ततः ॥ १२३॥ सङ्गतिर्नास्य सूत्रस्य विदर्त्तवादिनां मते । विवर्त्तः परिणामो न दुग्धस्य दधिवद् यतः ॥ १२४॥ नाकल्पं मुच्यते जीवो बद्धश्च प्राकृतैर्गुणैः । श्रीरामं च प्रपन्नः स मुच्यते निर्गुणश्च सन् ॥ १२५॥ स तिष्ठति प्रकारः सन् स्वाधारे परमात्मनि । राम एवाचिदंशोऽपि प्रकारः सन् हि तिष्ठति ॥ १२६॥ श्रीरामे तु लये चोभौ तिष्ठतः सूक्ष्मरूपतः । अभावौ न हि विद्येते प्रलये चोभयोस्तयोः ॥ १२७॥ प्रलयः प्रोच्यते प्राज्ञैरव्यक्तत्वेन संस्थितिः । विद्वद्भिरुच्यते व्यक्तं स्थूलभावेन तूद्गमः ॥ १२८॥ भोक्तृभोग्यतया चाथ शरीरात्मतया खलु । अचिच्चिदाख्यतत्त्वे च विभिन्ने परमात्मनः ॥ १२९॥ श्रीरामपरतन्त्रे ते स्वतन्त्रो राघवस्तथा । प्रकारत्वादभिन्ने ते श्रीरामान्न स्वरूपतः ॥ १३०॥ चिदचितोः प्रकारत्वे सम्बन्धश्चापृथक्स्थितिः । तेन ताभ्यां विशिष्टः श्रीरामः सर्वेश्वरो मतः ॥ १३१॥ ब्रह्मसत्त्वे प्रमाणं च शास्त्रमेव सुनिश्चितम् । तन्त्वौपनिषदञ्चैतच्छ्रतिवाक्यप्रमाणतः ॥ १३२॥ कार्यत्वात् कृतिजन्यं नु विश्वं क्षित्यङ्कुरादिकम् । घटवच्चानुमानेन विश्वेऽस्ति कृतिजन्यता ॥ १३३॥ तादृशकृतिशालित्वमस्माकं सम्भवेन्न तत् । तादृशक्कृतिमत्त्वेन सिद्धो रामोऽखिलेश्वरः ॥ १३४॥ मैवं न गृह्यते यस्माद् व्याप्तिः साधनसाध्ययोः । ईशस्य तत्कृतेश्चापि यस्मादध्यक्षता न हि ॥ १३५॥ तन्त्वौपनिषदं चैवं ब्रह्मणः शास्त्रवेद्यता । सूत्रं च शास्त्रयोनित्वात् ततो व्यासेन सूत्रितम् ॥ १३६॥ वृद्धासकृत् प्रयोगाद्धि बालो वेत्ति मुखादिकम् । उपासनेऽन्वितं सिद्धं ब्रह्म श्रुत्या च बोध्यते ॥ १३७॥ वेदान्तिनः प्रभाषन्ते वेदान्ता ब्रह्मवाचकाः । प्रमाणं वर्त्तत्ते तत्र तन्त्वौपनिषदं श्रुतिः ॥ १३८॥ प्राभाकरा न मन्यन्ते वेदान्तिनामिदं वचः । कस्माच्चेदुच्यते यस्मात् कार्यता ब्रह्मणो न हि ॥ १३९॥ सर्वे शब्दाश्च वर्त्तन्ते कार्यार्थप्रतिपादकाः । शब्दानां नास्ति तात्पर्यं सिद्धार्थप्रतिपादने ॥ १४०॥ सिद्धकार्यविभेदाद्धि द्विधा चार्थाः समीरिताः । यत्नासाध्याः पदार्थास्तु सिद्धार्थाः समुदीरिताः ॥ १४१॥ घटोऽस्तीत्यादिवाक्येषु सिद्धार्था हि घटादयः । भवत्यत्र न व्युत्पत्तिस्तेषामाकर्णनात् खलु ॥ १४२॥ यत्नसाध्याः पदार्थास्तु कार्यभूता हि सम्मताः । कार्यभूता मताः प्राज्ञैः क्रियाश्च गमनादयः ॥ १४३॥ कार्ये तात्पर्यवन्तो हि शब्दा लौकिकवैदिकाः । शब्दो हि यत्परश्चास्ति शब्दार्थः स च एव हि ॥ १४४॥ कार्यमेव हि शब्दार्थस्तत एव हि मन्यते । सिद्धार्थो न तु शब्दार्थो यत्नसाध्यो यतो न सः ॥ १४५॥ नित्यसिद्धं परब्रह्म यत्नसाध्यं च नो हि तत् । औपनिषदशब्दार्थः सिद्धं ब्रह्म ततो न हि ॥ १४६॥ विध्यर्थवादमन्त्रेतिभेदाद् वेदस्त्रिधा मतः । वेदस्येमे त्रयो भेदाः कार्यार्थप्रतिपादकाः ॥ १४७॥ यजेतेत्यादिवाक्यानि विधयोऽभिहिताश्च हि । कुर्वन्ति संविधानं वै स्वर्गायापूर्वयागयोः ॥ १४८॥ एतैश्च विहितो यागोऽपूर्वश्च फलदायकः । यत्नसाध्यौ ततश्चेतौ कार्यत्वेन मतौ बुधैः ॥ १४९॥ स्तुत्यादिकारकाश्चार्थवादास्तथा तदन्विताः । देवादिस्मारका मन्त्राः पर्यवस्यन्ति तत्र च ॥ १५०॥ प्रमाणं च ततो वेदः कार्यार्थप्रतिपादकः । मीमांसा ब्रह्मणस्तस्माद् वेदान्तिनां हि निष्फला ॥ १५१॥ मीमांसकवचः श्रुत्वा वेदान्तिनो वदन्ति हि । कार्यमेव हि शब्दार्थश्चैतत् प्रमाणिकं कथम् ॥ १५२॥ कुर्वन्त्यत्र समाधानं प्रभाकरानुयायिनः । गामानयेति वाक्यं हि श्रुत्वा प्रेरकवृद्धतः ॥ १५३॥ व्युत्पित्सुः प्रेर्यवृद्धेन ह्यानीतां गां च पश्यति । अश्वमानय नय गामिति प्रेरकवाक्यतः ॥ १५४॥ गोर्नयनमथाश्वस्यानयनं च विलोक्य हि । तत्तद्गवादिशब्दानां तत्तद्गवादिवस्तुषु ॥ १५५॥ शक्तिग्रहसमर्थो हि व्युत्पित्सुश्च भवेदिह । कार्यमेव हि शब्दार्थस्ततश्चास्माभिरुच्यते ॥ १५६॥ कुर्वन्त्यत्र समाधानं विशिष्टाद्वैतवादिनः । प्रवर्त्तकस्य वृद्धस्य वाक्यप्रयोगमात्रतः ॥ १५७॥ शक्तिग्रहो भवत्येतन्मन्यते न विचक्षणैः। चेष्टाकोशादितश्चापि शक्तिग्रहस्य दर्शनात् ॥ १५८॥ पूर्वं कार्यार्थत्र्युत्पत्तिर्बोधे जाते च त्यज्यते । शब्दार्थश्च मतोऽनन्यलभ्योऽर्थोऽत्र बुधैर्यतः ॥ १५९॥ श्रुतिवाक्यात् ततः सिद्धादर्थबोधो हि जायते । सिद्धशब्दार्थबोधस्य तस्मान्नानुपपन्नता ॥ १६०॥ किञ्च सिद्धपराच्चापि वाक्याद् बोधश्च जायते । सन्देहवाहकाच्छ्रुत्वा जातश्चैत्र तत्रात्मजः ॥ १६१॥ चैत्रहर्षं ततो दृष्ट्वा व्युत्पित्सुरवगच्छति । श्रुतैतद्वाक्यजा चात्र हर्षस्य कारणं मतिः ॥ १६२॥ एवञ्च ब्रह्मशब्दाद्धि श्रोतात्तु ब्रह्मणो मतिः । किञ्चोपायान्तरेणात्र शक्तिग्रहो भवत्यपि ॥ १६३॥ अव्युत्पन्नाँश्च बालान् हि व्युत्पन्नान् कर्तुमिच्छुकाः । जननीजनकाद्याश्च स्वाभिश्चाङ्गुलिभिः खलु ॥ १६४॥ दिशन्तस्तत्तदर्थंश्च तत्तच्छब्दैः पुनः पुनः । सिद्धेष्वर्थेषु शब्दानां शक्ति च ग्राहयन्ति हि ॥ १६५॥ कार्यार्थं एव शब्दानां शक्तिग्रहेऽपि सम्मते । सिद्धस्य ब्रह्मणो युक्ता मीमांसा ब्रह्मवादिनाम् ॥ १६६॥ कुतश्चेदुच्यते चात्र श्रोतव्यं सावधानतः। ब्रह्मविदाप्नेति परमित्यस्ति वैदिकं वचः ॥ १६७॥ तद्वाक्यमनुसृत्यात्र विधिरूपं भवत्यदः। ब्रह्मप्राप्तिकामः खलु ब्रह्मोपासीत मानवः ॥ १६८॥ पुमानत्राधिकारी हि ब्रह्मप्राप्तिसमिच्छुकः । ब्रह्मप्राप्तिसमिच्छा तत्राधिकारिविशेषणम् ॥ १६९॥ ब्रह्मावाप्तिश्च ब्रह्माथ कामनायां विशेषणे । प्राप्यं फलं परब्रह्म ब्रह्मोपासनकारिणः ॥ १७०॥ तद्विशेषान् स्वरूपं च वदच्छ्रौतवचांसि हि । कार्ये चापेक्षितार्थस्य वाचकानि भवन्ति वै ॥ १७१॥ उपासनफलब्रह्मस्वरूपे बोद्धुमीप्सिते । यतो वेत्यादिश्रौतानि वाक्यनि कथयन्ति तत् ॥ १७२॥ जगज्जन्मादिकृद् रामः सर्वात्मा सर्वधारकः । सर्वेश्वरः परब्रह्म सर्वाराध्यश्च सर्वदः ॥ १७३॥ सर्वशक्तिश्च सर्वस्योपादानं च निमित्तकम् । सवेदेहश्च सर्वज्ञः कल्याणगुणसागरः ॥ १७४॥ विभुर्ज्ञानस्वरूपश्च स्वभक्त्या नित्यमुक्तिदः । परव्यूहादिभेदैश्च पञ्चधा पुरुषोत्तमः ॥ १७५॥ चिदचिद्भ्यां विशिष्टश्च कार्यकारणरूपकः । भगवान् दिव्यदेहश्च विभूतिद्वयनायकः ॥ १७६॥ वेदनेनेति सम्बद्धः फलत्वेन हि राघवः । कार्येऽपि वेदतात्पर्ये रामो ब्रह्म च सिद्ध्यति ॥ १७७॥ व्युत्पत्त्यां च मतायां हि सिद्धे कार्येऽथवा खलु । वेदान्तिब्रह्मजिज्ञासा सफलैव न निष्फला ॥ १७८॥ प्राभाकरनिरासे हि श्यामानन्देन निर्मिते । सिद्धस्य ब्रह्मणश्चैवं बोध्यता सुनिरूपिता ॥ १७९॥ प्रधानं न हि सद्वाच्यं सदेवेतिश्रुतौ मतम् । तदैक्षतेतिसम्प्रोक्तमीक्षणं तत्र नो यतः ॥ १८०॥ आत्माऽऽन्दमयश्चात्र ब्रह्मानन्दमयो मतः । आनन्दमयशब्दस्य तत्रैवाभ्यासदर्शनात् ॥ १८१॥ य एषोऽन्तरादित्ये प्रोक्तः पुमान् हिरण्मयः । ब्रह्मधर्मोक्तितो ब्रह्मह्यादित्यान्तर्गतः स च ॥ १८२॥ शरीरित्वान्न जीवोऽयं कुतश्चेदुच्यते यतः । आदित्यादेर्नियन्ताऽयं बृहदारण्यके श्रुतः ॥ १८३॥ अस्य लोकस्य इत्यादावाकाशो ब्रह्म वै यतः । ब्रह्मणः सर्वभूतानां हेतुतालिङ्गदर्शनात् ॥ १८४॥ प्राण इति हो वाचात्र ब्रह्मणः प्राणवाच्यता । ब्रह्मणोऽखिलभूतानां हेतुत्वलिङ्गदर्शनात् ॥ १८५॥ अतः परो दिवो ज्योतिरत्र ज्योतिः पदेन हि । चरणोक्तेश्च सम्प्रोक्तं ब्रह्मैवेतिविनिश्चयः ॥ १८६॥ स होवाच प्राणोऽस्मीतिप्राणो ब्रह्मेति सम्मतः । यतोऽत्र ब्रह्मणः सर्वेश्वरत्वादिर्हि दृश्यते ॥ १८७॥ उपास्यो राघवो ब्रह्म छन्दोग्ये हि मनोमयः । यतो मनोमयत्वाद्या गुणास्तस्य श्रुतिश्रुताः ॥ १८८॥ यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । अत्र चात्ता परब्रह्म सर्वस्यादनता यतः ॥ १८९॥ सह जीवात्मना रामः प्रविष्टो हृद्गुहामिह । अङ्गुष्ठप्रमितश्चाथ भूतभव्यनियामकः ॥ १९०॥ पाययितरि रामे च पातृत्वस्योपचारतः । उभावृतं पिबन्तौ च श्रुतौ हि परिकीर्त्तितौ ॥ १९१॥ अन्तरक्षिणि पुरुषो श्रीमद्राम उदीरितः । अमृतत्वाभयत्वादि गुणानामुपपत्तितः ॥ १९२॥ अन्तर्याम्यधिदैवादावन्तर्यामितया श्रुतः । सर्वात्मत्वनियन्तृत्वादेरुक्तत्वाद्धि राघवः ॥ १९३॥ अथ परा ययेत्यस्यामादृश्यत्वादिधर्मकः । सर्वज्ञतादिधर्माणामुक्त्या रामोऽखिलेश्वरः ॥ १९४॥ इमं वैश्वानरं चात्र रामो वैश्वानरो मतः । वैश्वानरस्य मूर्धैव सुतेजा इतिरूपतः ॥ १९५॥ साधारणैश्च धर्मैर्यद्वैश्वानरो विशेषितः । द्युमूर्धत्वादिधर्माणां श्रीरामे सम्भवोऽपि च ॥ १९६॥ यस्मिन् द्यौः पृथिवीत्यत्र रामो ह्यात्मतया श्रुतः । प्रोक्ताश्च हेतवो यस्मादमृतसेतुतादयः ॥ १९७॥ सर्वोत्कृष्टगुणो रामो यो वै भूमेत्युदीरितः । जीवादूर्ध्वोपदेशो हि कारणं तत्र मन्यते ॥ १९८॥ तदक्षरं गार्ग्येतस्मिन् वाक्येऽक्षरं हि राघवः । अम्बरान्तधृतिश्चैतन्मन्तव्यस्य तु कारणम् ॥ १९९॥ परमः पुरुषो रामः त्रिमात्रेणोमिति श्रुतौ । ईक्षणविषयत्वेन व्यपदेशश्च तस्य यत् ॥ २००॥ अस्मिन् ब्रह्मपुरे चैतच्छ्रुतिवाक्ये समीरितः । श्रीरामो दहराकाशो वाक्यशेषगहेतुतः ॥ २०१॥ अङ्गुष्ठमात्र इत्यादावङ्गुष्ठप्रमितो मतः । भूतभव्यस्य चेशानः श्रीरामः परमेश्वरः ॥ २०२॥ प्राण एजति वाक्ये च प्राणवाच्यश्च राघवः । प्राणस्य प्राणमित्युक्त्या सर्वस्य कम्पनात् तथा ॥ २०३॥ परं ज्योतिरूपं चात्र रामो ज्योतिष्पदेरितः । ज्योतिषां ज्योतिरित्यत्र ज्योतिर्वाच्यत्वदर्शनात् ॥ २०४॥ आकाशो हेति छान्दोग्ये ह्याकाशो रामवाचकः । नाम रूपेतरत्वेन ब्रह्मत्वव्यपदेशतः ॥ २०५॥ राम एवं परं ब्रह्म राम एव परं तपः । राम एव परं तत्त्वं श्रीरामो ब्रह्मतारकम् ॥ २०६॥ रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि । इति रामपदेनासौ परब्रह्माभिधीयते ॥ २०७॥ अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघवः । रामः सत्यं परं ब्रह्म रामात् किञ्चिन्न विद्यते ॥ २०८॥ श्रुतिस्मृत्योरिति ब्रह्मश्रीरामो विभुचेतनः । सकृदेव प्रपत्त्या यः सर्वाभयप्रदायकः ॥ २०९॥ गुणाब्धिः सत्यसङ्कल्पो जगजन्मादिकारणम् । सच्चिदानन्दरूपश्च रामो ब्रह्म श्रुतीरितम् ॥ २१०॥ गुणैश्चाथ स्वरूपेण बृहत्वं परमं गतः । ब्रह्मवाच्यस्ततो रामः सर्वावस्थासु सम्मतः ॥ २११॥ आत्मत्वाच्च परत्वात् स परमात्मेति कीर्त्तितः । वेवेष्टि यज्जगत् सर्वं तत् स विष्णुतयेरितः ॥ २१२॥ अणोरणीयान् महतो महीयान् राघवो मतः । द्वन्द्वशून्योऽनवच्छिन्नरचानादिनिधनः प्रभुः ॥ २१३॥ यत्र नायं भवेत् तादृग् देशो नास्ति हि कुत्रचित् । अतो देशपरिच्छेदः श्रीरामस्य न विद्यते ॥ २१४॥ यत्र नायं भवेत् तादृग् कालो नास्ति हि कुत्रचित् । अतः कालपरिच्छेदः श्रीरामस्य न विद्यते ॥ २१५॥ येन चास्य परिच्छेदस्तादृग् वस्तु न कुत्रचित् । अतो वस्तुपरिच्छेदः श्रीरामस्य न विद्यते ॥ २१६॥ अयं निराश्रयो यस्माच्चाश्रयो नास्य कोऽपि तत् । निराश्रयाश्रयः किन्तु कश्चिन्नास्तिं हि रामवत् ॥ २१७॥ विश्वप्रवर्त्तको रामो नास्य कश्चित् प्रवर्त्तकः । रामः सर्वेश्वरः कश्चिद् रामस्य चेश्वरो न हि ॥ २१८॥ सर्वात्मा हि मतो रामो रास्यात्मा न कोऽपि च । रामदेहो जगत् सर्वं रामो देहो न कस्यचित् ॥ २१९॥ सर्वशेषी मतो रामो रामशेषी न कोऽपि हि । रामशेषो जगत् सर्वं रामः शेषो न कस्यचित् ॥ २२०॥ सर्वेभ्यश्च परो रामो रामात् तत्त्वं परं न हि । रामश्चादिर्हि सर्वेषां रामस्यादिर्न कस्यचित् ॥ २२१॥ विश्वस्य कारणं रामो रामस्य कारणं न हि । सर्वेषां शरणं रामो रामस्य शरणं न च ॥ २२२॥ सर्वाराध्यश्च रामो हि रामः सर्वफलप्रदः । स्वस्य भक्त्या प्रपत्त्या च श्रीरामो मुक्तिकारकः ॥ २२३॥ दिव्याकारयुतो रामः साकारः सम्मतस्ततः । प्राकृताकारशून्यत्वान्निराकारश्च कीर्त्तितः ॥ २२४॥ कल्याणगुणवत्त्वेन श्रीरामः सगुणो मतः । प्राकृतगुणशून्यत्वान्निर्गुणश्च प्रकीर्त्तितः ॥ २२५॥ भर्त्ता भोक्ता च सर्वेषां भास्करादेश्च भासकः । रामश्चैको हि सर्वेषु स्थितः काष्ठेषु वह्निवत् ॥ २२६॥ भावयेद् वैष्णवो वृन्दामालोर्ध्वपुण्ड्रधारकः । दीक्षितो राममन्त्रेण रामं साध्यं च साधनम् ॥ २२७॥ प्राप्यो मुमुक्षुभी रामो भक्तितश्च प्रपत्तितः । नित्यैर्मुक्तैश्च नित्यं हि स्तुतोऽर्चितश्च सेवितः ॥ २२८॥ विच्छेदरहिता प्रीत्या भक्ती रामस्य संस्मृतिः । या बोधायनसम्प्रोक्ताज्जाता साधनसप्तकात् ॥ २२९॥ श्रीरामस्यानवच्छिन्नं स्मरणं प्रीतिपूर्वकम् । श्रीमद्वैष्णवाचार्यैभक्तियोगतया मतम् ॥ २३०॥ अङ्गमष्टाङ्गयोगोऽङ्गी भक्तियोगः प्रकीर्तितः । लभ्यते भगवान् रामो भक्तियोगेन नान्यथा ॥ २३१॥ भक्तिर्बोधायनप्रोक्तैर्विवेकादिकसाधनैः । ध्यानध्रुवस्मृतीत्यादिशब्दवाच्या प्रजायते ॥ २३२॥ संसारिता मताऽभक्त्या भक्त्या मुक्तिरुदीरिता । आमृत्युसमयं भक्तेरावृत्तिश्च मता श्रुतौ ॥ २३३॥ प्रारब्धान्ते मता भक्तिर्मुक्तिदा चार्चिरादिना । अङ्गिनी च मता भक्तिरङ्गे च ज्ञानकर्मणी ॥ २३४॥ श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ २३५॥ एवं महापुराणे श्रीभागवते हि मुक्तिदा । भक्तेश्च नवधा भेदाः प्रह्लादेन प्रकीर्त्तिताः ॥ २३६॥ एभिराराधितो रामो भक्ते परं प्रसीदति । योगक्षेमं वहँल्लोके चान्ते मुक्तिं प्रयच्छति ॥ २३७॥ घृतं जलात् तथा तैलं सिकतातश्च निःसरेत् । तथाऽपि भगवद्भक्तिं विना मुक्तेर्न सम्भवः ॥ २३८॥ पूर्वाघनाशिनी चाथ पराघश्लेषवर्जिनी । भक्तिरेव ततः सैव पुसां संसारनाशिनी ॥ २३९॥ एवं भक्तिः समाख्याता प्रबन्धे योगपञ्चके । श्रीप्रमिताक्षराकारदेवानन्दार्यनिर्मिते ॥ २४०॥ रामस्य ब्रह्मणोऽनन्यभक्त्यैव मुक्तिराप्यते । भक्तिर्ध्रुवा स्मृतिः सा च विवेकादिकसप्तकात् ॥ २४१॥ जात्याश्रयनिमित्तैर्यद् दुष्टमन्नं भवेन्न हि । तस्माद् देहस्य संशुद्धिर्विवेकः कथ्यते बुधैः ॥ २४२॥ शब्दरूपरसंस्पर्शगन्धेषु विषयेषु यः । अनादरः स तत्त्वज्ञैर्विमोकः परिकीर्त्तितः ॥ २४३॥ शुभाश्रयस्य यच्चात्र संशीलनं पुनः पुनः । अभ्यासः साधनं तद्धि योगव्यानोपकारकम् ॥ २४४॥ यथाशक्ति हि पञ्चानां यज्ञानां महतां तथा । आश्रमान्तरधर्माणामनुष्ठानं क्रिया मता ॥ २४५॥ अहिंसा चानभिध्या च सत्यार्जवे तथा दया । दानं चैतानि कल्याणतयाम्नातानि सूरिभिः ॥ २४६॥ शोकभीतिनिमित्तेनावसादश्चित्तदीनता । तदभावो हि सम्प्रोक्तोऽनवसादो महात्मभिः ॥ २४७॥ उद्धर्षः खलु सन्तोषोऽनुद्धर्षस्तद्विपर्ययः । शोकवच्चातिसन्तोषे मनःशैथिल्यहेतुता ॥ २४८॥ साधनदीपिकायां चैतादृक् साधनसप्तकम् । श्रीबोधायनवृत्तिस्थं गङ्गाधरेण वर्णितम् ॥ २४९॥ अनन्यचेतसा सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ २५०॥ तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिः स्पृहा । तद्ध्यानं प्रथमैः षड्भिरङ्गैर्निष्पाद्यते तथा ॥ २५१॥ उपासनस्य चावृत्तिं वदन्ति स्मृतयास्त्विति । उपास्यः स्वात्मरूपेण रामस्तूपासकैः सदा ॥ २५२॥ चित्तस्यैकाग्रता यत्र तत्रोपास्यस्तु राघवः । उपासनं च कर्त्तव्यमासीनेन जनेन हि ॥ २५३॥ यथाक्रतुनयाद भक्तो ज्ञातृत्वरूपतामिव । अपहताघतां चापि स्वस्वरूपस्य चिन्तेयत् ॥ २५४॥ ससीताय च रामाय यच्च स्वात्मसमर्पणम् । तत् प्रपत्तितया प्रोक्तमाचार्यवासवैः शुभम् ॥ २५५॥ नावाप्यते परं धाम तपोयोगसमाधिभिः । सकृद्रामप्रपत्त्यैव प्राणिभिः प्राप्यते हि तत् ॥ २५६॥ तापत्रयाभितप्तेन गतिशून्यजनेन हि । पुरुषोत्तमरामस्य दयाब्धेः सन्निधौ कृता ॥ २५७॥ त्वमेवोपायभूतो में भवेति प्रार्थना च या । तत्पूर्वकात्मनिक्षेपः प्रपत्तित्वेन सम्मतः ॥ २५८॥ विशेषणांशमादाय स एव शरणागतिः । अथादृत्य विशेष्यांश न्यासवाच्यः स एव हि ॥ २५९॥ उक्तं च न्यासतत्त्वज्ञैर्न्यासस्यास्याङ्गपञ्चकम् । अनायासेन बोधाय सङ्क्षेपेण तदुच्यते ॥ २६०॥ आनुकूल्यस्य सङ्कल्पस्तत्र चाद्याङ्गमुच्यते । आश्रयस्यानुवृत्तौ हि सङ्कल्पोऽत्र विधीयते ॥ २६१॥ उक्तमङ्गं द्वितीयं हि प्रातिकूल्यस्य वर्जनम् । क्रियते न प्रपन्नेन यत्र शास्त्रेण वर्जितम् ॥ २६२॥ रक्षिष्यतीति विश्वासो न्यासाङ्गं हि तृतीयकम् । स्वरक्षासंशयो यत्र सर्वथा परिवर्जितः ॥ २६३॥ न्यासस्याङ्गं चतुर्थं तु गोप्तृत्ववरणं मतम् । तत् त्राता मे त्वमेव स्याः इत्येवं प्रार्थनात्मकम् ॥ २६४॥ उदारः सर्वविच्चाथ सर्वशक्तिश्च राघवः । रक्षणे रक्षणीयस्य रक्षापेक्षामपेक्षते ॥ २६५॥ न्यासस्य पञ्चमं त्वङ्ग कार्पण्यं समुदीरितम् । प्रपन्नस्यान्वयो यत्रोपायान्तरेषु वर्जितः ॥ २६६॥ श्रीमद्रामं प्रपन्नाश्च ध्यानयोगं विनाऽपि वै । मृत्युसिन्धुमतिक्रम्य चामृतत्वं प्रयान्ति हि ॥ २६७॥ सरलः सुगमश्चाथ सकृत् कार्योऽनपेक्षकः । यतस्ततोऽयमन्यस्मान्न्यासः श्रेष्ठतमो मतः ॥ २६८॥ त्यक्त्वोपायान्तरं मुक्त्यै कार्यो न्याससमाश्रयः । सर्वेभ्यो चाभयं दत्ते रामः सकृत् प्रपत्तितः ॥ २६९॥ सर्वेषां प्राणिनां चात्र प्रपत्तावधिकारिता । जनाश्चेशं प्रपद्यैव मायां तरन्ति दुस्तराम् ॥ २७०॥ न्यासो दृप्तप्रपन्नानां देहान्तरनिवारकः । आर्त्तानां च स एवाशु मुक्तिदो हि सकृत् कृतः ॥ २७१॥ अस्मद्गुरुवरैश्चैवं श्रीचिदानन्ददेशिकैः । प्रपत्तेः सत्स्वरूपं हि प्रोक्तं न्यासकलानिधौ ॥ २७२॥ रामायत्तस्थितित्वाच्च सर्वस्मिन् रामदेहता । सामानाधिकरण्यं तद् रामे सर्वस्य भासते ॥ २७३॥ प्रमाणलक्षणाभ्यां च वस्तुसिद्धिर्हि मन्यते । निर्विशेषे द्वयाभावात् तादृग् ब्रह्म न सिद्ध्यति ॥ २७४॥ रामः प्रकृतिभिन्नोऽस्ति सत्वादिरहितो यतः । चेतनत्वाजडत्वाभ्यां सर्वदेहितया तथा ॥ २७५॥ चेतनत्वाजडत्वाभ्यां रामेऽस्ति कालभिन्नता । प्रत्यक्त्वाच्चेतनत्वाच्च शुद्धसत्वं न राघवः ॥ २७६॥ तत एव च श्रीरामो ज्ञानभिन्नो मतो बुधैः । रामश्चाद्रव्यभिन्नोऽस्ति तत्रस्ति द्रव्यता यतः ॥ २७७॥ सर्वेशत्वाद् विभुत्वाच्चाकर्माधीनतया तथा । जगज्जन्मादिहेतुत्वाद् रामे जीवविभिन्नता ॥ २७८॥ ईशानो भूतभव्यस्य श्रुतौ रामोऽखिलेश्वरः । जीवभिन्नतथा चोक्तौ गीतायां पुरुषोत्तमः ॥ २७९॥ शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते । कर्मानधीनता चेशे गीतायामिति भाषिता ॥ २८०॥ प्रमाणाभावतो रामस्येश्वरत्वं न मायिकम् । मायिकी न तथा रामे जगजन्मादि हेतुता ॥ २८१॥ परो व्यूहश्च विभवोऽन्तर्याम्यर्चावतारकः । पञ्चधावस्थितः चैवं श्रीरामः सकलेश्वरः ॥ २८२॥ अप्राकृतेऽजडे नित्येऽव्यये च तमसः परे । यद् गत्वा न निवर्त्तन्ते तस्मिन् श्रीरामधामनि ॥ २८३॥ मुक्तात्मनां च नित्यानां तथा श्रीरामसीतयोः । भोगस्थाने च भोग्ये च भोगोपकरणात्मके ॥ २८१॥ राघवस्य प्रपत्त्या वा भक्त्या प्राप्येऽर्चिरादिना । रम्यकल्पद्रुमारामप्रमोदवनभूषिते ॥ २८५॥ सरयूमणिशैलाभ्यां शोभिते नित्यधामनि । शुद्धसत्वमये दिव्ये साकेते च परात्परे ॥ २८६॥ दिव्यैश्च द्वारपालैश्च मण्डिते चाङ्गदादिभिः । अयोध्यानगरेऽयोध्ये सर्वभीतिविवर्जिते ॥ २८७॥ ब्रह्महर्म्याङ्गणे रम्येऽनन्तसूर्यप्रभान्विते । कल्पतरुतले दिव्यपुष्पास्तीर्णे मनोहरे ॥ २८८॥ चन्द्रोपमवितानस्याधस्ताद्धैमे धरातले । दिव्यमाणिक्यवेद्यां च रत्नसिंहासने शुभे ॥ २८९॥ सेवितश्चाञ्जनेयाद्यैर्नित्यैर्मुक्तैश्च संस्तुतः । पालकः सर्वलोकानां सर्वलोकैककारणम् ॥ २९०॥ परिपूर्णतमं ब्रह्म कलेशः क्लेशवर्जितः । अंशी सर्वावतारी च सर्वेशः श्रुतिदर्शितः ॥ २९१॥ दिव्यसुवर्णसद्दण्डच्छत्रचामरधारिभिः । वस्त्रभूषाऽऽवृतैर्भव्यैरावृतो नित्यपार्षदैः ॥ २९२॥ नीलम्बुजसमः श्यामो कुञ्चितश्यामकुन्तलः । कप्यासपुण्डरीकाक्षः शारदेन्दुनिभाननः ॥ २९३॥ दिव्यपरिच्छदो दिव्यो दिव्यशस्त्रास्त्रधारकः । सच्चिदानन्ददेहश्च दिव्यभूषणभूषितः ॥ २९४॥ मुक्तिदश्च मुमुक्षूणां ध्यानार्चावन्दनादिभिः । पादपद्माश्रयात् सर्वदुःखहृत् सुखकृत् तथा ॥ २९५॥ सर्वज्ञः सर्वछक्तिश्च सर्वदेहश्च सर्वगः । सर्वविद्यासु चाराध्यः सर्वस्य जगतो गुरुः ॥ २९६॥ दिव्यगन्धानुलिप्ताङ्गो कल्याणगुणवारिधिः । अभिरामः परो रामः शोभितः सीतया सह ॥ २९७॥ सर्वावतारमूलं स दीपोत्पादकदीपवत् । उपास्यश्चाश्रयश्चाथ सर्वेषामभिरक्षकः ॥ २९८॥ स्वानुरूपश्च नित्यश्च श्रीमद्रामस्य विग्रहः । अवयवैरनारब्धो वृद्धिक्षयादिवर्जितः ॥ २९९॥ माणिक्यपेटिकावत् स स्वरूपस्य प्रकाशकः । शुद्धसत्वमयो दिव्यो प्राकृतत्वं न तस्य हि ॥ ३००॥ सर्वातिशायितेजस्वी श्रेयोगुणगणार्णवः । नित्यमुक्तानुभाव्यः सोऽनुसन्धेयश्च योगिनाम् ॥ ३०१॥ मोहकः स च सर्वेषां दिव्यमण्डनमण्डितः । दिव्यरूपविशिष्टः स दिव्यवस्त्रास्त्रशोभितः ॥ ३०२॥ राम एवं परं ब्रह्म राम एवं परं तपः । परता ब्रह्मता चेति रामे हनुमतेरिता ॥ ३०३॥ व्याप्तिक्रान्तिप्रवेशेच्छास्तत्तद्वातुनिबन्धनाः । परत्वद्योतिकाः विष्णोर्देवस्य परमात्मनः ॥ ३०४॥ व्याप्नोति देशकालाम्यां सर्वं यद् रूपतोऽपि च । तत्परं गदितं सद्भिर्विषेर्धातोर्निरूपणात् ॥ ३०५॥ कान्तिर्नाम गुणोत्कर्षो गुणा ज्ञानबलादयः । अतिवेलं प्रकृष्यन्ते यत्र कान्तः स ईरितः ॥ ३०६॥ अकान्ताश्चेतनाः सर्वे कान्तः स पुरुषः परः । कान्तिर्नाम गुणः सोऽयं वदेर्धातोनिरूपणात् ॥ ३०७॥ चेतनाचेतनाः सर्वे विशन्त्येव यतः स्वयम् । महीयांस विशत्येव योऽणीयानणुषु स्वयम् ॥ ३०८॥ स परो गदितः सद्भिर्विषेर्धातोर्निरूपणात्। य इष्यते सदा सर्वैरात्मभावेन चेतनैः ॥ ३०९॥ स परो गदितः सद्भिरिषेर्धातोर्निरूपणात् । अहिर्बुध्न्यसंहितायामीशस्य परतात्विति ॥ ३१०॥ जगत्पूज्या जगद्वन्द्या मुक्तिदा जगदीश्वरी । जगद्देहा जगन्माता जगद्धेतुश्च भूमिजा ॥ ३११॥ विद्युदाभा दयाम्भोधिः सञ्च्चिदानन्दविग्रहा । नित्यमुक्तसमाराध्या दिव्यवस्त्रैरलङ्कृता ॥ ३१२॥ विभ्वी सर्वेश्वरी सीता दिव्यभूषणभूषिता । रामाभिन्नाऽतिरम्या चार्चनीया रामवल्लभा ॥ ३१३॥ ममापराधवृन्दाँश्च रामचन्द्रस्वतन्त्रताम् । संविनाश्य च सीताम्बा प्राप्याथ स्वामिनी परा ॥ ३१४॥ कारुण्यसिन्धुरामस्य कारुण्यादींश्च सद्गुणान् । समुद्बोध्य च सम्प्राप्तां मम पुरुषकारताम् ॥ ३१५॥ अनुग्रहमयीं देवीं निग्रहेण च वर्जिताम् । श्रीसीतां चिन्तयेदेवं श्रीरामशरणागतः'' ॥ ३१६॥ इत्येवं नवरत्न्यां हि श्रीसीताम्बा निरूपिता । सिद्धान्तभूषणेन श्रीश्यामानन्देन धीमता ॥ ३१७॥ वेदवेद्यौ च सद्वन्द्यौ सीतारामौ परात्परौ । अनन्यभक्तिसम्प्राप्यो प्रपन्नजनरक्षकौ ॥ ३१८॥ ईश्वरः सर्वभूतानामादिकारणमुच्यते । सर्वज्ञ ज्ञानशक्त्यादिकल्याणगुणभूषितः ॥ ३१९॥ धर्मार्थकाममोक्षाणां प्रदाता रघुनन्दनः । दिव्यविग्रहसंयुक्तोऽनन्तानन्दोजगत्पतिः ॥ ३२०॥ यद्यप्यार्त्तिहरो रामो ह्यन्तर्यामी महाप्रभुः । तथाप्यात्मकृतैः कार्यैर्न कदापि स बध्यते ॥ ३२१॥ यथा बाल्याद्यवस्थाभिर्न जीवो दूष्यते क्वचित् । तथाऽन्तश्चरमाणोऽपि न भवेद् दूषितो हरिः ॥ ३२२॥ परव्यूहादिभेदेन विज्ञेयः स च पञ्चधा । बहुभिर्द्वारपालैश्च कोट्टपालैश्च संयुतः ॥ ३२३॥ महामणिसमाकीर्णे मण्डपे च विराजितः । शोभया परया युक्तः किरीटमुकुटादिभिः ॥ ३२४॥ महाराज्ञ्या च जानक्या भूनीलाभ्यां च सेवितः । सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्ध इति भेदतः ॥ ३२५॥ विज्ञेयश्च तथा व्यूहो जगत्सृष्ट्यादिकारकः । पूर्णो ज्ञानबलाभ्यां च सङ्कर्षणः इति स्मृतः ॥ ३२६॥ वीर्यैश्वर्ययुतस्तत्र प्रद्युम्न इति कथ्यते । शक्तितेजो विशिष्टस्तु ह्यनुरुद्ध इतीरितः ॥ ३२७॥ तत्तत्साजात्यरूपेण ह्याविर्भावः परस्य वै । विभवः स च विज्ञेयो मुख्यो गौणश्च स द्विधा ॥ ३२८॥ उपास्यः पुरुषैर्मुख्यो न च गौणः कदाचन । सर्वत्र सर्वदा यस्तु जीवाँस्त्यक्तुं न च क्षमः ॥ ३२९॥ अन्तर्यामी स विज्ञेयो जीवदोषैरदूषितः । देशकालादिनियमै रहितः स सहाप्रभुः ॥ ३३०॥ धातुपाषाणकाष्ठादिकृतविग्रहमाश्रितः । श्रीरामः स परं ब्रह्म जानक्या सहितः प्रभुः ॥ ३३१॥ अर्चावतारो विज्ञेयः कृपाशीलो गुणाम्बुधिः । एवं पञ्चप्रकारेण ह्येकोऽपि स महाप्रभुः ॥ ३३२॥ विभक्तो भगवान् रामः सर्वलोकैकरक्षकः । सेवितः परया भक्त्या सन्तुष्टः स हरिस्तदा ॥ ३३३॥ स्वाश्रितेभ्यश्च दासेभ्यः सायुज्यं सम्प्रयच्छति । श्रीवाल्मीकिसंहितायामेवं रामो हि पञ्चधा ॥ ३३४॥ व्यूहस्वरूपं ः व्यक्तं च पूर्णषाड्गुण्यं वर्त्तते यत्र सर्वदा । परिपूर्णः स विज्ञेयो ब्रह्म रामः परात्परः ॥ ३३५॥ श्रीरामाद्धि चतुर्व्यूहाः प्रादुर्भूता भवन्ति हि । वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ ३३६॥ व्यूह्यात्मानं चतुर्धा च वासुदेवादि मूर्तिभिः । सृष्ट्यादीन् प्रकरोत्येष विशुद्धात्मा जनार्दनः ॥ ३३७॥ एवं विष्णुपुराणेऽपि सृष्ट्यादिसंविधायकाः । ब्रह्मणो रामचन्द्राद्धि चतुर्व्यूहाः प्रकीर्त्तिताः ॥ ३३८॥ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । इत्याद्यन्यतमः शास्त्रे व्यूहो हि सम्प्रकीर्त्तितः ॥ ३३९॥ तेष्वाद्यो वासुदेवो हि हीनः स प्राकृतैर्गुणैः । ततोऽसौ निर्गुणः प्रोक्तः षड्गुणैः सगुणोऽपि सः ॥ ३४०॥ प्रधानक्षेत्रज्ञपतिर्वासुदेवः श्रुतौ श्रतः । स गुणानामधिष्ठाता बन्धमुक्तिप्रदो मतः ॥ ३४१॥ ततो जीवाभिमानी हि सङ्कर्षणः प्रजायते । सङ्कर्षणस्तदाऽऽश्रित्य प्राकृतं हि तमोगुणम् ॥ ३४२॥ संहरते जगत् सर्वं शिवो भूत्वा बलेन सः । स्वस्य ज्ञानगुणेनाथ सच्छास्त्रं वितनोत्यपि ॥ ३४३॥ ततो मनोभिमानी हि प्रद्युम्नः सम्प्रजायते । समाश्रित्य तदाऽयं तु प्राकृतं च रजोगुणम् ॥ ३४४॥ विश्वकृद् ब्रह्मतां गत्वा स्वस्यैश्वर्यगुणेन हि । प्रवर्त्तयति धर्मांश्च वीर्येण सात्विकानथ ॥ ३४५॥ अहङ्काराभिमानी चानिरुद्धो जायते ततः । तदानीं स समाश्रित्य सत्वं च प्राकृतं गुणम् ॥ ३४६॥ विष्णुर्भूत्वाऽखिलं विश्वं शक्त्या पाति विभर्त्ति च । स्वतत्त्वं स्वगुणेनाथ तेजसा ज्ञापयत्यसौ ॥ ३४७॥ वासुदेवात् सङ्घर्षण इत्याद्यागमवाक्षु हि । सङ्कर्षणे न जीवत्वं किन्तु जीवाभिमानिता ॥ ३४८॥ स ह्यनादिरनन्तश्च परमार्थेन निश्चितः । इति तस्यां संहितायां जीवोत्पत्तेर्निषेधनात् ॥ ३४९॥ सङ्कर्षणात् प्रद्युम्नसंज्ञं मनश्चेतिवाचि च । प्रद्युम्नो न मनः किन्तु तत्र मनोऽभिमानिता ॥ ३५०॥ करणात्मकं मनो यस्मात् कर्तुर्नोत्पद्यते खलु । प्रद्युम्ननादनिरुद्धसंज्ञकोऽहङ्कार इत्यपि ॥ ३५१॥ अहङ्काराभिमानीत्यनिरुद्धं सम्ब्रवीति हि । कदापि मनसश्चात्र नाहङ्कारसमुद्भवः ॥ ३५२॥ ततः सङ्कर्षणादीनां न जीवाद्यभिधायिता । किन्तु जीवाद्यधिष्ठातृतत्तद्द्व्यूह्स्वरूपता ॥ ३५३॥ तत्र ज्ञानबलद्वन्द्वाद् रूपं साङ्कर्षणं हरेः । भगवानच्युतोऽपीत्थं षाड्गुण्येन समेधितः ॥ ३५४॥ बलज्ञाने गुणौ तस्य स्फुटौ कार्यवशान्मुने । बलेन हरतीदं स गुणेन निखिलं मुने ॥ ३५५॥ ज्ञानेन तनुते शास्त्रं सर्वसिद्धान्तगोचरम् । वेदशास्त्रमितिख्यातं पाञ्चरात्रं विशेषतः ॥ ३५६॥ ऐश्वर्यवीर्यसम्भेदाद् रूपं प्रायुम्नमुच्यते । ऐश्वर्येण गुणेनासौ सृजते तच्चराचरम् ॥ ३५७॥ वीर्येण सर्वधर्मांश्च प्रवर्त्तयति सर्वशः । शक्तितेजःसमुत्कर्षादनिरुद्धतनुर्हरेः ॥ ३५८॥ शक्त्या जगदिदं सर्वमनन्ताण्डं निरन्तरम् । विभर्त्ति पाति च हरिर्मणिसानुरिवाणुकम् ॥ ३५९॥ तेजसा निखिलं तत्त्वं ज्ञापयत्यात्मनो मुने । विष्वक्सेनसंहितायामेवं व्यूहा हि वर्णिताः ॥ ३६०॥ वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् । अनिरुद्ध इति ब्रह्मन् मूर्त्तिर्व्यूहोऽभिधीयते ॥ ३६१॥ स विश्वस्तैजसः प्राज्ञस्तुरीय इतिवृत्तिभिः । अथेन्द्रियाशयज्ञानैर्भगवान् परिभाष्यते ॥ ३६२॥ अङ्गोपाङ्गायुधाकल्पैर्भगवान् तच्चतुष्टयम् । विभर्त्ति स चतुर्मूर्त्तिर्भगवान् हरिरीएश्वरः ॥ ३६३॥ श्रीमद्भागवते चैवं चतुर्व्यूहाः प्रकीर्त्तिताः । जाग्रदादिनिवृत्त्यर्थमुपास्या व्यूहमूर्त्तयः ॥ ३६४॥ वासुदेवादयश्चाथ चत्वारस्तच्चतुष्टयात् । अष्टावथ च सञ्जाता व्यूहास्तेभ्यश्चतुष्टयात् ॥ ३६५॥ अच्युतोऽधोक्षजश्चाथ नृसिंहः पुरुषोत्तमः । उपेन्द्रश्च हरिश्चाथ कृष्णश्चाथ जनार्दनः ॥ ३६६॥ सञ्जाताश्च त्रयो व्यूहा व्यूहाच्छ्रीवासुदेवतः । केशवसंज्ञश्चाथ नारायणाश्च माधवः ॥ ३६७॥ त्रयो व्यूहाश्च सञ्जाता व्यूहात् सङ्कर्षणादथ । गोविन्दसंज्ञकश्चाथ विष्णुश्च मधूसूदनः ॥ ३६८॥ व्यूहा जातास्त्रयश्चाथ व्यूहात् प्रद्युम्नतः किल । श्री त्रिविक्रमसंज्ञश्च वामनः श्रीधरस्तदा ॥ ३६९॥ अनिरुद्धाच्च सञ्जातास्त्रयो व्यूहास्तथैव च । पद्मनामो हृषीकेशः श्रीमद्दामोदरस्तथा ॥ ३७०॥ व्यूहस्य चैकसंज्ञस्य विभिन्नसंहितासु च । कल्पभेदेन निर्वाह्या विभिन्नकारणादयः ॥ ३७१॥ शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः । अजितः खड्गधृग् विष्णुः कृष्णश्चैव वृहद्बलः ॥ ३७२॥ सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः । प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ॥ ३७३॥ प्रभवश्चाप्ययश्च त्वं पद्मनाभो रणान्तकृत् । श्रीमद्रामायणे चैवं व्यूहा रामात् प्रकीर्तिताः ॥ ३७४॥ ``ज्ञानादिगुणसामान्ये वासुदेवः प्रकीर्त्तितः । सङ्कर्षणो वासुदेवात् तस्मात् प्रद्युम्नसंज्ञितः ॥ ३७५॥ प्रद्युम्नादनिरुद्धोऽभूत् सर्व एते चतुर्भुजाः । मूर्तिभ्यश्च चतुर्भ्यश्च चतुर्विंशतिमूर्त्तयः ॥ ३७६॥ जायन्ते क्रमशो ब्रह्मन् दीपाद् दीपान्तरं यथा । सर्वेचतुर्भुजाः पद्मशङ्खचक्रगदाधराः ॥ ३७७॥ वासुदेवादादिदेवात् प्रथमात् केशवस्तथा । नारायणो माधवश्च जज्ञिरे भूसुरोत्तम ॥ ३७८॥ सङ्कर्षणाच्च गोविन्दो विष्णुश्च मधुसूदनः । त्रयस्ते समजायन्त प्रद्युम्नाच्च त्रिविक्रमः ॥ ३७९॥ वामनः श्रीधरश्चैते जज्ञिरे मुनिसत्तम । अनिरुद्धाद् हृषीकेशः पद्मनाभश्च सुव्रत ॥ ३८०॥ दामोदरश्च तेनेत्थं द्वादशांशाः प्रजज्ञिरे । इति पद्मसंहितायां व्यूहा द्वादश कीर्त्तिताः ॥ ३८१॥ केशवस्तु सुवर्णाभः शङ्खचक्रगदाधरः । शुक्लाम्बरधरः सौम्यो मुक्ताभरणभूषितः ॥ ३८२॥ नारायणो घनश्यामः शङ्खचक्रगदाऽसिभृत् । पीतवासा मणिमयैर्भूषणैरुपशोभितः ॥ ३८३॥ माधवश्चोत्पलप्रख्यश्चक्रशार्ङ्गगदाऽसिभृत् । चित्रमाल्याम्बरधरः पुण्डरीकनिभेक्षणः ॥ ३८४॥ गोविन्दः शाशिवर्णः स्यात् पद्मशङ्खगदाऽसिभृत् । रक्तारविन्दपादाब्जस्तप्त काञ्चनभूषणः ॥ ३८५॥ गौरवर्णो भवेद्विष्णुश्चक्रशङ्खहलासिभृत् । क्षौमाम्बरधरः स्त्रीग्वी केयूराङ्गदभूषितः ॥ ३८६॥ अरविन्दनिभः श्रीमान् मधुजित् कमलासनः । चक्रं शार्ङ्ग च मुशलं पद्मं दोर्भिर्विभर्त्यसौ ॥ ३८७॥ त्रिविक्रमो रक्तवर्णः शङ्खचक्रगदासिभृत् । किरीटहारकेयूरकुण्डलैश्च विराजितः ॥ ३८८॥ श्रीवामनः कुन्दवर्णः पुण्डरीकायतेक्षणः । दोर्भिर्वज्रं गदां चक्रं पद्मं हैमं विभर्त्त्यसौ ॥ ३८९॥ श्रीधरः पुण्डरीकाख्यश्चक्रशार्ङ्गी च पद्मधृक् । रक्तारविन्दनयनो मुक्तादामविभूषितः ॥ ३९०॥ विद्युद्वर्णो हृषीकेशश्चक्रशार्ङ्गहलासिभृत् । रक्तमाल्याम्बरधरः पुण्डरीकावतंसकः ॥ ३९१॥ इन्द्रनीलनिभश्चक्रशङ्खपद्मगदाधरः । पद्मनाभः पीतवासाश्चित्रमाल्यानुलेपनः ॥ ३९२॥ दामोदरः सार्वभौमः पद्मशार्ङ्गासिशङ्खभृत् । पीतवासा विशालाक्षो नानारत्नविभूषितः ॥ ३९३॥ व्यूहा द्वादशधा चैवं हारीतस्मृतिवर्णिताः । बोद्धव्या हि जनैर्दिव्या व्यूहतत्त्वबुभुत्सुभिः ॥ ३९४॥ (गुणयुग्मत्रयाद् व्यूहत्रयाविर्भावः) तत्र ज्ञानबलद्वन्द्वाद् रूपं साङ्कर्षणं हरेः । ऐश्वर्यवीर्यसम्भेदाद् रूपं प्राद्युम्नमुच्यते ॥ ३९५॥ शक्तितेजः समुत्कर्षादानिरुद्धो तनुर्हरेः । एते शक्तिमयाव्यूहा गुणोन्मेषस्वलक्षणाः ॥ ३९६॥ (व्यूह्त्रयेऽपि षाड्गुण्यानुवृत्तिः) षाड्गुण्यविग्रहा देवाः पुरुषाः पुष्करेक्षणाः । तत्र तत्रावशिष्टं यद्गुणानां द्वियुगं मुने ॥ ३९७॥ (त्रिधा चातुरात्म्यस्थितिः) अनुवृत्तिं भजत्येव तत्र तत्र यथायथम् । व्याप्तिमात्रं गुणोन्मेषो मूर्तिकार इति त्रिधा ॥ ३९८॥ (सङ्कर्षणस्य कृत्यम्) चातुरात्म्य स्थितिर्विष्णोर्गुणव्यतिकरोद्भवा । तत्र ज्ञानमयत्वेन देवः सङ्कर्षणो बली ॥ ३९९॥ प्रद्युम्नस्य कृत्यं ः व्यनक्त्यैकान्तिकं मार्गं भगवत्प्राप्तिसाधनम् । वीर्यैश्वर्यमयो देवः प्रद्युम्नः पुरुषोत्तमः ॥ ४००॥ (अनिरुद्धस्य कृत्यम्) स्थितः शास्त्रार्थभावेन भगवत्प्राप्तिवर्त्मना । शास्त्रार्थस्य फलं यत् तद् भगवत्प्राप्तिलक्षणम् ॥ ४०१॥ प्रापयत्यनिरुद्धः सन् साधकान् पुरुषोत्तमः । शास्त्रशास्त्रार्थतत्साध्यफलनिर्वाहका इमे ॥ ४०२॥ (परवासुदेवेन सह व्यूहस्य चातुरात्म्यम्) पुरुषाः पुण्डरीकाक्षा व्यूहाः शक्तिमया हरेः । भगवान् वासुदेवश्च व्यूहाश्चैते त्रयो मुने ॥ ४०३॥ (गुणोन्मेषस्वरूपप्रदर्शनम्) चातुरात्म्यमिदं विद्धि व्यक्ताव्यक्तस्वलक्षणम् । गुणाः शक्तिमया ये ते ज्ञानैश्वर्यबलादयः ॥ ४०४॥ तेषां युगपदुन्मेषः स्तैमित्यविरहात्मकः । सङ्कल्पकल्पितो विष्णोर्यः स तद्व्यक्तिलक्षणः ॥ ४०५॥ भगवान् वासुदेवः स परमा प्रकृतिश्च सा । शक्तिर्या व्यापिनो विष्णोः सा जगत्प्रकृतिः परा ॥ ४०६॥ (सिसृक्षोर्वासुदेवात् सङ्कर्षणाविर्भावः) शक्तेः शक्तिमतो भेदाद् वासुदेव इतीर्यते । सर्वशक्तिमयो देवो वासुदेवः सिसृक्षया ॥ ४०७॥ (तत्र दृष्टान्तः) विभजत्यात्मनाऽऽत्मानं यः स सङ्कर्षणः स्मृतः । भावानुदयशैलस्थे प्रभा यदवद् विजृम्भते ॥ ४०८॥ (तस्य षोडशशतवर्षप्रतीक्षणम्) उदयस्थे तथा देवे प्रभा सङ्कर्षणात्मिका । अव्यापृता शतान्येषा शक्तिस्तिष्ठति षोडश ॥ ४०९॥ सङ्कर्षणात्मिका साक्षाद विज्ञानबलवारिधिः । अनन्तो भगवान् विष्णुः शक्तिमान् पुरुषोत्तमः ॥ ४१०॥ पूर्णस्तिमितषाड्गुण्यो निस्तरङ्गार्णवोपमः । षण्णां युगपदुन्मेषाद् गुणानां स्वप्रचोदितात् ॥ ४११॥ अनन्त एव भगवान् वासुदेवः सनातनः । तत्र ज्ञानबलोन्मेषात् स्वसङ्कल्पप्रचोदितात् ॥ ४१२॥ (प्रद्युम्नाविर्भावः) अनन्त एव भगवान् देवः सङ्कर्षणोऽच्युतः । स्थित्वा षोडशवर्षाणि देवः शक्तिमयोऽच्युतः ॥ ४१३॥ अनन्त एव भगवान् प्रद्युम्नः पुरुषोत्तमः । अंशांशेनोदिता शक्तिः प्राद्युम्नी भगवत्प्रभा ॥ ४१४॥ (अनिरुद्धाविर्भावः) अव्यापृता शतान्येषा तुष्णीं तिष्ठति षोडश । ततः शक्तिमयो देवः प्रद्युम्नः पुरुषोत्तमः ॥ ४१५॥ शतानि षोडश स्थित्वा स्वसङ्कल्पप्रचोदितः । अनन्त एव भगवाननिरुद्धो भवत्युत ॥ ४१६॥ अंशांशेनोदिता शक्तिरानिरुद्धी हरेः प्रभा । अव्यापृता शतान्येषा तुष्णीं तिष्ठति षोडश ॥ ४१७॥ (व्यूहस्य षोडशशतवर्षानन्तरं सृष्टौ व्यापृतिः) शतानि षोडश स्थित्वाऽनिरुद्धः शक्तिमानसौ । तदा व्याप्रियते सृष्टौ पूर्वाभ्यां सह नारद ॥ ४१८॥ (व्यूहानां हेयप्रतिभटत्वमनादित्वं च) व्यूहा एते विशालाक्षाश्चत्वारः पुरुषोत्तमाः । निर्दोषा निरनिष्ठाश्च निरवद्याः सनातनाः ॥ ४१९॥ अनन्तरमक्षरं चैतच्चातुरात्म्यं महामुने । निस्तरङ्गदशायां ते निःसक्ताः सक्तचिन्मयाः ॥ ४२०॥ शक्त्यात्मका गुणोन्मेषदशायां ते व्यवस्थिताः । तत्र स्थूलदशायां ते व्यक्तिभावमुपागताः ॥ ४२१॥ (चातुरात्म्यस्य मनालम्बनार्थत्वम्) जगतामुपकाराय सच्चिदानन्दलक्षणाः । मनालम्बनायैषा चातुरात्म्यव्यवस्थितिः ॥ ४२२॥ (व्यूहाद् व्यूहान्तराविर्भावः) आम्नासिषुरमुष्याश्च रहस्याम्नायवेदिनः । व्यूहान्तरविभवादीन् भेदान् सङ्कल्पकल्पितान् ॥ ४२३॥ (द्वादश व्यूहान्तराणि)(वासुदेवादेः केशवादयः) व्यूहान्तरं दश द्वे च केशवाद्याः प्रकीर्तिताः । केशवादित्रयं तत्र वासुदेवाद् विभाव्यते ॥ ४२४॥ सङ्कर्षणाच्च गोविन्दपूर्वं त्रितयमद्भुतम् । त्रिविक्रमाद्यं त्रितयं प्रधुम्नादुदितं मुने ॥ ४२५॥ (व्यूहान्तरस्य त्रैविध्यम्) हृषीकेशादिकं तद्वदनिरुद्धान् महामुने । पराः स्वकारणान्तस्थाः सूक्ष्मास्ते द्विभुजाः स्मृताः ॥ ४२६॥ चतुर्भुजास्ते विज्ञेयाः स्थूलास्त्रिभुवनेश्वराः । चक्राद्यायुधविन्यासो यन्त्रतन्त्रेऽभिधारयते ॥ ४२७॥ (अथ केशवादिस्वरूपवर्णनम्) तप्तजाम्बूनदप्रख्यं पुण्डरीकायतेक्षणम् । अपारकरुणं पद्मशङ्खचक्रगदाधरम् ॥ ४२८॥ पीताम्बरधरं देवं वनमालाविभूषितम् । हारकेयूरकटककुण्डलैरूपशोभितम् ॥ ४२९॥ चतुर्बाहुसदाराङ्गं प्रसन्नवदनं विभुम् । प्रागादि विन्यसेद् देवं केशवं क्लेशनाशनम् ॥ ४३०॥ शङ्खपद्मचक्रगदाधरं नीलाम्बुदच्छविम् । सर्वालङ्कारसंयुक्तं कुर्यान्नारायणं ततः ॥ ४३१॥ पद्मकौमोदकीशङ्खचक्र धारिणमव्ययम् । देवमिन्दीवरश्यामं माधवं भावयेत् ततः ॥ ४३२॥ चक्रकौमोदकीशङ्खपद्मायुधविराजितम् । इन्दुबिम्बनिभं कुर्यात् गोविन्दममितैजसम् ॥ ४३३॥ गदाब्जशङ्खचक्रास्त्रधरं परमभूषितम् । विष्णुं विश्वपतिं कुर्यात् पद्मकिञ्जल्कसन्निभम् ॥ ४३४॥ चक्रशङ्खाम्बुजगदाधारिणं करुणानिधिम् । रक्तपद्मदलप्रख्यं तं कुर्वीत त्रिविक्रमम् ॥ ४३५॥ शङ्खचक्रगदापद्मधरं परमभूषितम् । तरुणादित्यसङ्काशं वामनं भावयेत् ततः ॥ ४३६॥ पद्मचक्रगदाशङ्खधरं सद्गुणसागरम् । पुण्डरीकनिभं देवं श्रीधरं परिकल्पयेत् ॥ ४३७॥ गदासुदर्शनयुते शङ्खपद्मे च विभ्रतम् । विद्युत्प्रभं हृषीकेशं कुर्वीत कमलेक्षणम् ॥ ४३८॥ शङ्खपद्मे गदाचक्रे तथा विभ्राणमुज्वलम् । सहस्रादित्यसङ्काशं पद्मनाभं तु कारयेत् ॥ ४३९॥ पद्मशङ्खगदाचक्रधरं बन्धूकसन्निभम् । भक्त्येकसुलभं देवं दामोदरमथ स्मरेत् ॥ ४४०॥ केशवादेश्च रूपाणि चेत्येवं दर्शितानि हि । अहिर्बुध्न्यसंहितायां बोध्यान्येतानि यत्नतः ॥ ४४१॥ (अथ व्यूहलोकाः) श्रीसाकेतादधःस्थश्च श्रीगोलोको हि संस्थितः । श्रीनारायणलोकश्च तदधस्ताद् विराजितः ॥ ४४२॥ तदधस्ताद् वासुदेवव्यूहलोको हि वर्त्तते । भगवान् वासुदेवो हि सङ्कर्षणादिकारणम् ॥ ४४३॥ विराजते चतुर्भुजः शङ्खचक्रगदाधरः । वासुदेवादधःस्थश्च लोकः सङ्कर्षणस्य हि ॥ ४४४॥ यत्र नीलाम्बरधरो व्यूहः सङ्कर्षणः स्थितः । शुद्धस्फटिकतुल्योऽसौ रक्तपद्मनिभेक्षणः ॥ ४४५॥ दिव्यगन्धानुलिप्ताङ्गो हलहस्तश्चतुर्भुजः । वासुदेवस्य शेषश्च ह्यनन्तोऽनन्तविक्रमः ॥ ४४६॥ कालरुद्रयमादीनामन्तःस्थो लयकारकः । धारयति धरां चासौ ज्ञानबलसमन्वितः ॥ ४४७॥ प्रद्युम्नव्यूहलोकस्तु स्थितः सङ्कर्षणादधः । प्रद्युम्नो राजते यत्र किशोरो रक्तलोचनः ॥ ४४८॥ जगतो मोहकश्चासौ दिव्यभूषणभूषितः । ब्रह्मान्तःस्थो जगत्कर्त्ता वीर्यैश्वर्यसमन्वितः ॥ ४४९॥ अधोलोकस्तु प्रद्युम्नादनिरुद्धस्य कीर्तितः । शक्तितेजोयुतो व्यूहो यत्रानिरुद्धसंज्ञकः ॥ ४५०॥ अन्तर्यामी स मन्वादेर्जगतः पालको मतः । वशिष्ठसंहितायां हि व्यूहलोका मता इति ॥ ४५१॥ एवं तत्तद्व्यूहलोकास्तत्तल्लोकादधस्तनाः । स्वस्वाचार्यैश्च विज्ञेया अलं पल्लवितेन तत् ॥ ४५२॥ विभवस्वरूपम् । देवादिकविभूत्यां च तत्तत्साजात्यवत्तया । भक्ताँश्च रक्षितुं रामाविर्भावो विभवो मतः ॥ ४५३॥ अजायमानो बहुधा श्रुतेरत्रप्रमाणता । न कर्मफलभोगार्थः स त्वैच्छिकस्तनुग्रहः ॥ ४५४॥ अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ४५५॥ यदा यदा हि धर्मग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४५६॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ४५७॥ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ४५८॥ श्रीमद्भगवद्गीतायामेवमभिहितं यतः । प्राकृतजन्मभिन्नं तद् भगवज्जन्म सम्मतम् ॥ ४५९॥ यथार्थज्ञानतः स्वस्य दिव्यं जन्म तदैश्वरम् । परमोपायभूतं तद् सन्तारकं भवाम्बुधेः ॥ ४६०॥ अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम ॥ ४६१॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ४६२॥ तानहं द्विषतः क्रूरान संसारेषु नराधमान् । क्षिपाभ्यजस्त्रमशुभानासुरीष्वेव योनिषु ॥ ४६३॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ! ततो यान्त्यधमां गतिम् ॥ ४६४॥ अव्यक्तं व्यक्तिमान्नं मन्यन्ते मामबुद्धयः । परं भावमजान्तो ममाव्ययमनुत्तमम् ॥ ४६५॥ नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ ४६६॥ अवतारस्य चावज्ञां कुर्वन्त्यासुरबुद्धयः । तेषां भगवता प्रोक्ता गीतायामधमा गतिः ॥ ४६७॥ अवतारचरित्राणि तारकाणि भवार्णवात् । वैराग्यं जनयित्वा च भक्तेः संवर्धकानि हि ॥ ४६८॥ ब्रह्मणो ननु रामस्य निराकारावतारिणः । कथङ्कारं भवेदत्र साकारात्मावतारता ॥ ४६९॥ इति चेन्न कुतो यस्मात् काष्ठव्याप्तोऽनलः खलु । काष्ठस्याकारतां याति प्राकट्ये हि यथा तथा ॥ १७०॥ अग्निर्यथैक इत्यादेः श्रुतेरत्र प्रमाणता । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी ॥ ४७१॥ आप्रणखात् सर्व एव सुवर्णश्चेति वाक्यतः । रामे ब्रह्मणि किञ्चैवं दिव्या साकारता श्रुता ॥ ४७२॥ अचक्षुश्चेतिबाधस्तु प्राकृतस्यैव चक्षुषः । तस्य यथा श्रुतेर्मानान्नतु दिव्यस्य चक्षुषः ॥ ४७३॥ तदभावो न तल्लोके ह्यवतारग्रहेऽपि च । रामस्य ब्रह्मणो यस्मात् सर्वत्र परिपूर्णता ॥ ४७४॥ कदापि प्रकृतेः सङ्गो रामस्य मोहको न हि । भवतो राघवादेव स्मृतिज्ञानव्यपोहने ॥ ४७५॥ स्वरूपेण स्वभावेन शरीरेणापि निर्मलः । सर्वावस्थासु रामो हि मालिन्यं समुपैति न ॥ ४७६॥ रामांशोऽपि प्रकारत्वाज्जीवो बद्धः स्वकर्मभिः । जीवसंसारमालिन्यं भासते कर्मबन्धनात् ॥ ४७७॥ उपैति ब्रह्मसादृश्यं ब्रह्माहमिति भावयन् । विमुक्तः कर्मणा जीवस्तदा भवति निर्मलः ॥ ४७८॥ संसारो भासते जीवे रामांशे मोहतः खलु । अवतारस्वरूपे तु लोकदृष्ट्या न मोहतः ॥ ४७९॥ अनंशे राघवे पूर्णे ब्रह्मणि सर्वशेषिणि । मालिन्यं न स्वभावेन शेषयोस्तत्त्वतो न हि ॥ ४८०॥ उम्भावंशौ तरङ्गौ च ह्यतरङ्गस्तु राघवः । निराकुलः स संसारादवतारी परेश्वरः ॥ ४८१॥ प्रकृतेः सङ्गतो जीवो सत्वादित्रिगुणोऽस्ति हि । मुक्तौ तु निर्गुणः सोऽथ गुणत्रयविमोचनात् ॥ ४८२॥ स्वप्रपन्नस्य रामो हि गुणत्रयविमोचकः । रामस्तु निर्गुणो नित्यं प्रकृतिसङ्गवर्जितः ॥ ४८३॥ सगुणश्च परो रामो दिव्यानन्तगुणार्णवः । अंशव्यावर्त्तकं रामे निर्गुणेति विशेषणम् ॥ ४८४॥ रामांशस्य तु जीवस्य गुणमोहाद्धि संसृतिः । अवतारेऽन्यदृष्ट्या तु भासितं बन्धनं नहि ॥ ४८५॥ रामस्य सगुणांशम्य सगुणत्व निवृत्तये । निर्गुणश्चापि रामांशोऽवतारो गुणवानिव ॥ ४८६॥ दिव्यादिव्यविभूत्योश्च स्वामी रामोऽखिलेश्वरः । सर्वशक्तिः स एवाथ तद्द्वयं च विभर्त्ति हि ॥ ४८७॥ समष्टिव्यष्टिदेहत्वाद् रामे मानं हि भासते । उभ्योरात्मभूतस्तु रामोऽनन्तश्च निर्गुणः ॥ ४८८॥ अगम्यश्चाथ गम्यश्च श्रीमद्रामः प्रकीर्त्तितः । भक्तिशून्यैरगम्यः स गम्यो भक्तैर्मुमुक्षुभिः ॥ ४८९॥ गुरुशास्त्रोपदेशाच्च संशयस्य च सङ्क्षयात् । तस्मिन् न्यस्तधियो भक्तास्तद्गतिं प्राप्नुवन्ति हि ॥ ४९०॥ वदन्ति मलिनं रामं मलिना राममायया । भवन्ति निर्मला भक्त्या राम विज्ञाय निर्मलम् ॥ ४९१॥ निर्मलं हि स्वभावेन सद्गुरोः कृपया जनाः। लीलार्थमनुकर्त्तारं रामं विदन्ति तित्वतः ॥ ४९२॥ मत्स्यः पाणोश्रुतावस्यां मत्स्यः शतपथे श्रुतः । स यत्कूर्मः श्रुतावेवं कूर्मः शतपथे मतः ॥ ४९३॥ वराहो भूत्वाऽहरच्चे व तैत्तिरीये वराहकः । नृसिंहस्तैत्तिरीये हि तन्नो नरसिंहस्त्विति ॥ ४९४॥ ऋग्वेदे वामनः प्रोक्त इदं विष्णुर्विचक्रमे । विप्रस्तरति चेत्येवं जामदग्न्य उदीरितः ॥ ४९५॥ अभिराममस्थादिति श्रीरामश्चाभिभाषितः । कृष्णन्त एम इत्येवं श्रीकृष्णश्चापि व्याहृतः ॥ ४९६॥ एवञ्चैशावतारत्वे प्रोक्ता वेदप्रमाणता । अवैदिकी ततो ज्ञेया ह्यवताराप्रमाणता ॥ ४९७॥ मत्स्याः कूर्मो वराहश्च कपिलर्षिस्तथा नरः। नारद ऋषभो यज्ञो दत्तात्रेयोऽथ मोहिनी ॥ ४९८॥ नृसिंहो वामनो व्यासो जामदग्न्यश्च राघवः । बलरामोऽथ कृष्णश्च पर धन्वन्तरिर्हरिस्तथा ॥ ४९९॥ हंसः सनत्कुमारश्च कल्किर्बुद्धः पृथुस्तथा । चतुर्विंशतिसङ्ख्याका विभवाः सम्प्रकीर्तिताः ॥ ५००॥ श्रीमद्भागवते चैषां वेद्यं वृत्तं विशेषतः । वृत्तं रामायणेवेद्यं श्रीरामस्यावतारिणः ॥ ५०१॥ श्रीभगवच्चरित्राणां कथनाच्छ्रवणादपि । नरो याति हि तद्धाम यद् गत्वा न निवर्त्तते ॥ ५०२॥ मुक्तये मुक्तिकामैश्च श्रीरामस्यावतारिणः । प्रधाना विभवा एषु वेद्या मत्स्यादयो दश ॥ ५०३॥ रामो हि चैत्रशुक्लस्य चादिमायां तिथौ खलु । अन् श्रीमत्स्यरूपः सन् दैत्यं वेदापहारकम् ॥ ५०४॥ रामो हि ज्येष्ठशुक्लस्य द्वितीयायां तिथौ खलु । कूर्मावताररूपः सन् महाधीरो ह्यजायत ॥ ५०५॥ रामो हि माघशुक्लस्य सप्तम्यां च तिथाविह । श्रीमद्वराहरूपः सन् हिरण्याक्ष जघान हि ॥ ५०६॥ रामो वैशाखशुक्लस्य चतुर्दश्यां तिथौ खलु । श्रीमन्नृसिंहरूपः सन् हिरण्यकशिपुं व्यहन् ॥ ५०७॥ रामो हि शुक्लद्वादश्यां मासे भाद्रपदे शुभे । श्रीमद्वामनरूपः सन् पातालं प्रापयद् बलिम् ॥ ५०८॥ रामो वैशाखशुक्लस्य तृतीयायां तिथौ खलु । श्रीमत्परशुरामः सन् जघान दुष्टक्षत्रियान् ॥ ५०९॥ रामो हि चैत्रशुक्लायां नवम्यां च परः पुमान् । श्रीयुतरामरूपः सन् रावणं हतवानिह ॥ ५१०॥ रामो भाद्रपदस्याथ कृष्णाष्टम्यां तिथाविह । श्रीयुतकृष्णरूपः सन् कंसादिकं जघान हि ॥ ५११॥ रामश्चाषाढ शुक्लस्य दशम्यां च तिथौ किल । श्रीमद्बुद्धस्वरूपः सन् वञ्चयामास चासुरान् ॥ ५१२॥ रामः शुक्लद्वितीयायां मासे च मार्गशीर्षके । श्रीयुतकल्किरूपःसन् दुष्टनाशं करिष्यति ॥ ५१३॥ मुख्यामुख्यादिभेदाच्च कलाद्यावेशभेदतः । नानाविभवभेदा हि पाञ्चरात्रे प्रकीर्तिताः ॥ ५१४॥ भवान् नारायणो देवः श्रीमाँश्चक्रायुधः प्रभुः । एकश‍ृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ॥ ५१५॥ लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः । त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैविक्रमैस्त्रिभिः ॥ ५१६॥ महेन्द्रश्च कृतो राजा बलिं बध्वा सुदारुणम् । श्रीमदरामायणे चैवं श्रीरामाद विभवा मताः ॥ ५१७॥ रामः सर्वावताराणामवतारी समीरितः । परित्राणं च साधूनामवतारप्रयोजनम् ॥ ५१८॥ सर्वेभ्यश्चाभयं दत्ते रामः सकृत्प्रपत्तितः । स्वाश्रितस्यापराधांश्च रामः स्मरति नैव हि ॥ ५१९॥ साक्षाद गौणस्तथाऽऽवेश इत्येवं विभवात्रयः । मुख्यमुख्यतरत्वादिभेदात् साक्षात् त्रिधा मतः ॥ ५२०॥ नृसिंहवामनभेदाद द्विधा मुख्यः प्रकीर्त्तितः । मुख्यतरश्च श्रीकृष्णो रामो मुख्यतमस्तथा ॥ ५२१॥ मत्स्यकूर्मादिभेदैश्च मतो गौणस्त्वनेकधा । कलास्वरूपशक्तीनामावेशात् त्रिविधोऽन्तिमः ॥ ५२२॥ विभवाश्च कलावेशात् पृथुधन्वन्तरादयः । शुद्धावेशस्तथाऽशुद्धावेशो द्विधा च मध्यमः ॥ ५२३॥ शुद्धावेशाश्च विज्ञेयाः श्रीव्यासकपिलादयः । मता परशुरामादावशुद्धावेशता बुधैः ॥ ५२४॥ शक्त्यावेशो द्विधा शुद्धाशुद्धत्वभेदतो मतः । आदिमोऽपि द्विधा मुख्यगौणभेदात प्रकीर्त्तितः ॥ ५२५॥ हंसादयो मता मुख्या गौणा बुद्धादयो मताः । अन्तिमोऽपि द्विधा मुख्यगौणभेदादुदीरितः ॥ ५२६॥ तत्र ब्रह्मादयो मुख्या गौणा मन्वादयो मताः । संरक्षकाश्च साधूनां धर्मसंस्थापकास्तथा ॥ ५२७॥ इत्येवं विभवाः प्रोक्ताः प्रमेयोद्देशभास्करे । वशिष्ठसंहितावच्छ्रीचिदानन्देन भाषिते ॥ ५२८॥ रामोऽखिलावताराणामवतारी पराशर । साधुधर्मान् परित्रातुमाविर्भवति सोऽत्र हि ॥ ५२९॥ रामः सकृत् प्रपत्यैव सर्वभीतिहरोऽस्ति च । नैव पश्यति भक्तानामपराधं दयार्णवः ॥ ५३०॥ साक्षाद् गौणस्तथाऽऽवेशो विभवास्त्रिविधा इति । मुख्यमुख्यतरत्वादिभेदात् साक्षान्मतस्त्रिधा ॥ ५३१॥ नृसिंहवामनश्चेति द्विधा मुख्य उदीरितः । कृष्णो मुख्यतरस्तत्र रामो मुख्यतमस्तथा ॥ ५३२॥ मत्स्यकूर्मादिभिर्भेदैर्गौणोऽनेकविधः स्मृतः । कलास्वरूपशक्तीनामावेशादन्तिमस्त्रिधा ॥ ५३३॥ विभवाश्च कलावेशात् पृथुधन्वन्तरादयः । मध्यमस्तु द्विधा शुद्धाशुद्धावेशाद्धि सम्मतः ॥ ५३४॥ शुद्धावेशाश्चच बौद्धव्याः श्रीव्यासकपिलादिकाः । श्रीमत्परशुरामादावशुद्धावेशता मता ॥ ५३५॥ शुद्धाशुद्धत्वभेदाच्च शक्त्यावेशः स्मृतो द्विधा । मुख्यगौणविभेदाच्च द्विधैव चान्तिमः स्मृतः ॥ ५३६॥ मुख्या ब्रह्मादयस्तत्र गौणा मन्वादयोऽथ च । श्रीवशिष्ठसंहितायामुक्ताश्च विभवा इति ॥ ५३७॥ मुख्या रामावतारास्तु दीपादुत्पन्नदीपवत् । श्रीरामेण समाः किन्तु रामस्यैवावतारिता ॥ ५३८॥ ऐश्वर्यस्य हि प्राकट्ये चाविश्य क्वचिदात्मनि । श्रीरामगौणता बोध्या तद्वतां चानुपास्यता ॥ ५३९॥ अप्राकृतस्य रूपस्य प्राकट्येऽद्वारके खलु । श्रीरामे मुख्यता तद्वानुपास्यः स मुमुक्षुभिः ॥ ५४०॥ ब्रह्मविष्णुमहेशाद्या यस्यांशा लोकसाधकाः । तमादिदेवं श्रीरामं विशुद्धं परमं भजे ॥ ५४१॥ ब्रह्मविष्णुमहेशादेरंशिता सकलेश्वरे । श्रीरामायणमाहात्म्ये रामे व्यासेन कीर्त्तिता ॥ ५४२॥ षाड्गुण्यस्य च रामस्य साकल्ये पूर्णता मता । कलात्वं षोडशे भागे चतुर्थांशे तदंशता ॥ ५४३॥ उत्तरेण चरित्रेण श्रीरामस्यावतारिणः । वर्णितं पूर्णरूपेण चावतारस्य कारणम् ॥ ५४४॥ श्रीबोधायनगीतायामित्यवतार कारणम् । साधुसंरक्षणं प्रोक्तं धर्मसंस्थापनं तथा ॥ ५४५॥ अवतारा अनन्ताश्च रामस्य परमात्मनः । सर्वश्रेष्ठो मतस्तेषु राघवः सकलेश्वरः ॥ ५४६॥ अन्तःस्थत्वे च सर्वस्य रामे रक्षाविधातृता । तत्सृष्ट्वेति श्रुतावुक्ता रामान्तर्यामिता हि सा ॥ ५४७॥ गुहाहितं गह्वरेष्ठमिति श्रुतिप्रमाणतः । ध्यानाय विग्रेहेणापि सर्वान्तःस्थो हि राघवः ॥ ५४८॥ वैराग्याभ्यासयुक्तानां योगसंस्कृतचेतसाम् । निष्पन्नभक्तियोगानामेव ग्राह्यो भवेद्धि सः ॥ ५४९॥ अन्तः प्रविष्टः शास्तेति श्रीरामेऽन्तःस्थता श्रुता । जगत् सर्वं शरीरं ते सर्वात्मतेति राघवे ॥ ५५०॥ योऽन्तरात्मा हि सर्वेषां श्रीरामः शरणं मम । इत्याद्यागमवाक्येऽपि रामस्योक्ताऽन्तरात्मता ॥ ५५१॥ ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन सर्वभूतानि यन्त्रारूढानि मायया ॥ ५५२॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य विभक्त्त्र्यव्यय ईश्वरः ॥ ५५३॥ श्रीरामश्चेति गीतायां लोकान्तःस्थो नियामकः । सर्वं सृष्ट्वा प्रविष्टोऽन्तर्जीवेन चात्मना स्वयम् ॥ ५५४॥ निर्लिप्तश्च स्वतन्त्रश्च भोगवर्ज्यश्च भोगदः । विलक्षणश्च सर्वेभ्यः सर्वजगच्छरीरकः ॥ ५५५॥ सर्वशक्तिश्च सर्वेषां शक्तिदः सर्वरक्षकः । भक्तैश्च योगिभिर्ध्येयः प्रीतः सन् मार्गदर्शकः ॥ ५५६॥ साक्षी च समदर्शी च श्रितदोषान् न पश्यति । सकृदेव प्रपन्ननां सर्वभीतिनिवारकः ॥ ५५७॥ सर्वत्र रमते रामः सर्वे च रमयत्यपि । परमात्मा ततो रामः सर्वात्मेतिमतं बुधैः ॥ ५५८॥ रामे विश्वं च विश्वस्मिन् व्याप्य रामो हि संस्थितः । अन्तर्यामितया सर्वः सर्वेषां प्रेरकस्तथा ॥ ५५९॥ रामो हि पुरुषः सर्वदेहेषु निरुपाधिकः । उत्तमश्च महान् रामः सर्वेषु पुरुषेषु तत् ॥ ५६०॥ अन्तर्बहिर्जगत् सर्वं व्याप्य रामो हि संस्थितः । अनेन संवृतं ह्यन्तर्बहिः सर्वं तथाऽऽवृतम् ॥ ५६१॥ प्रत्येकं हृदयं राम एकोऽपि बहुरूपतः । तत्तद्देहविशिष्टः सन्नाविर्भवति वै विभुः ॥ ५६२॥ संस्थितो हृद्गुहायां स राघवो देहतः श्रुतः । सृष्टिमनुप्रविष्टः स ह्यन्तर्यामितया तथा ॥ ५६३॥ दृश्यसे सर्वभूतेषु गोषु च ब्राह्मणेषु च । दिक्षु सर्वासु गगने पर्वतेषु नदीषु च ॥ ५६४॥ सहस्रचरणः श्रीमाञ्शतशीर्षः सहस्रदृक् । त्वं धारयसि भूतानि पृथिवीं सर्वपर्वतान् ॥ ५६५॥ जगत् सर्व शरीरं ते स्थैर्यं ते वसुधातलम् । इति रामायणे प्रोक्ता रामान्तर्यामिता किल ॥ ५६६॥ नराणां च समूहस्तु विश्रुतो नारसंज्ञकः । तन्नारमयनं यस्य नारायणः स राघवः ॥ ५६७॥ रमन्तेयोगिनोऽनन्ते नित्यानन्दे चिदात्मनि । इति रामपदेनासौ परब्रह्माभिधीयते ॥ ५६८॥ रमयति जगत् सर्वं रामश्चिदचिदात्मकम् । जगत्सृष्ट्यादिलीलाभी रामो हि रमते सदा ॥ ५६९॥ चिदचित्प्रकृतौ रामश्चान्तरात्मतया स्थितः । हेययोगोऽथ चात्मनि यौवनादिवत् ॥ ५७०॥ श्रीरामः सर्वभूतस्थो दारुस्थानलवद्धि यः । सदोपास्यः स सद्भिश्च श्रद्धया मोक्षमिच्छुभिः ॥ ५७१॥ स्वान्तःस्थं च परेशं तं समुपास्य मुमुक्षवः । सायुज्यं ब्रह्मणो यान्ति देहं त्यक्त्वाऽर्चिरादिना ॥ ५७२॥ अर्चावतार ः स्वीकृतश्च तनुत्वेन येन मण्यादिविग्रहः । रामस्यार्चावतारः स रामाश्रितजनेप्सितः ॥ ५७३॥ विराजतेऽतिरम्योऽसौ शैलतीर्थगृहादिषु । सर्वथा लोककल्याणं कुर्वाणोऽमोघपूजया ॥ ५७४॥ दिव्यदेह विशिष्टः श्रीरामो बिम्बेऽनुकम्पया । सर्वातिशायिषाड्गुण्यं राममूर्तौ हि वर्त्तते ॥ ५७५॥ सर्वातिशायिषाड्गुण्यं संस्थितं मन्त्रबिम्बयोः । मन्त्रे वाच्यात्मना बिम्बे कृपया समुपस्थितम् ॥ ५७६॥ तेनार्च्यो भगवान् साक्षान्नोपचारधिया क्वचित् । विष्वक्सेनसंहितायामित्येवं परिकीर्त्तितम् ॥ ५७७॥ रामो मूर्त्तावुपास्यो हि स्थापितः श्रुतिभिः श्रितैः । अर्चितव्यः प्रणम्यश्च द्रष्टव्यश्च मुमुक्षुभिः ॥ ५७८॥ अमोघसंस्तवो रामो ह्यमोघं रामदर्शनम् । अमोघमरणो रामश्चामोघं रामवन्दनम् ॥ ५७९॥ सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् । कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः ॥ ५८०॥ तस्यां ब्रह्म समारोप्य मनसा तन्मयो भवेत् । तामर्चयेत् तां प्रणमेत् तां भजेत् तां विचिन्तयेत् ॥ ५८१॥ विशत्यापास्तदोषस्तु तामेव ब्रह्मरूपिणीम् । विष्णुधर्मोत्तरे चैवमीशमूर्त्तिर्हि वर्णिता ॥ ५८२॥ मूर्तौ तत्स्थस्य रामस्य दिव्यदेहोऽस्ति मूर्त्तिवत् । प्रतिमायां भज्यमानायां तद्देहो भज्यते न हि ॥ ५८३॥ मूर्तिर्भवति साकारा साकारो राघवो यतः । प्राकृताकारशून्यत्वान्निराकारः श्रुतः क्वचित् ॥ ५८४॥ तच्छ्रुयतामनाधारा धारणा नोपपद्यते । प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम् ॥ ५८५॥ सुकपोलं सुविस्तीर्णललाटफलकोज्वलम् । समकर्णान्तविन्यस्त चारुकुण्डलभूषणम् ॥ ५८६॥ कम्बुग्रीवं सुविस्तीर्ण श्रीवत्साङ्कितवक्षसम् । बालत्रिभङ्गिनामग्ननाभिना ह्युदरेण च ॥ ५८७॥ प्रलम्बाष्टभुजं विष्णुमथवापि चतुर्भुजम् । समस्थितोरुजङ्घं च सुस्थितान्घ्रिवराम्बुजम् ॥ ५८८॥ चिन्तयेद् ब्रह्मभूतं तं पीतनिर्मलवाससम् । किरीटहारकेयूरकण्टकादि विभूषितम् ॥ ५८९॥ शार्ङ्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् । वरदाभयहस्तं च मुद्रिकारत्नभूषितम् ॥ ५९०॥ चिन्तयेत् तन्मयो योगी समाधायात्ममानसम् । इति विष्णुपुराणे हि प्रोक्ता साकारता हरेः ॥ ५९१॥ रामस्यार्चावतारे न नियमो देशकालयोः । सुलभो मूर्त्तिवन्नेशः स्वरूपेषु परादिषु ॥ ५९२॥ तद्युगस्थावतारैश्च तत्स्था भक्ता हि रक्षिताः । अन्ययुगावतारैश्चेतरस्था रक्षिता न तु ॥ ५९३॥ रक्षिताः सर्वकालस्था भक्ता रामस्य मूर्त्तिभिः । स्थापितः सुलभो रामो मूर्त्तौ मन्त्रैश्च वैदिकैः ॥ ५९४॥ मूर्त्तयो विमुखानां च स्वरूपोदारतादिभिः । जनयन्ति रुचिं रामे वैमुख्यमपसार्य हि ॥ ५९५॥ गुणाः पूर्णाश्च मूर्त्तौ हि रामानुभाव्यतादयः । ततोऽतिसुलभो रामो स्वमूर्त्तावुच्यते बुधैः ॥ ५९६॥ स्वस्वामिभावव्यत्यासं कुर्वन्नज्ञ इव स्थितः । मूर्त्तौ शक्तोऽप्यशक्तश्च स्वतन्त्रोऽप्यस्वतन्त्रवत् ॥ ५९७॥ यथालब्धोपचारैश्च सन्तुष्टः पूजया परम् । अपारकरुणाधीनो रामश्चेष्टं प्रयच्छति ॥ ५९८॥ स्नात्वा सन्ध्यादिकं कृत्वा देवाभ्यर्चनकारकः । श्रीवशिष्ठसंहितायामिति देवार्चनं मतम् ॥ ५९९॥ अर्चावतारः सर्वेषां बान्धवो भक्तवत्सलः । स्वतन्त्रः स जगन्नाथोऽप्यस्वतन्त्रो यथा तथा ॥ ६००॥ सर्वशक्तिर्जगद्धाताऽप्यशक्त इव चेष्टते । सर्वान् कामान् दधत् स्वाम्यप्यशक्त इव लक्ष्यते ॥ ६०१॥ अपराधानमिज्ञः सन् सदैव कुरुते दयाम् । विष्वक्सेनसंहितायामित्युक्ता प्रतिमागुणाः ॥ ६०२॥ अतः श्रद्धान्वितो भूत्वा कुर्याच्छ्रीराघवार्चनम् । इतिशिवसंहितायां श्रीराघवार्चनं मतम् ॥ ६०३॥ न तस्य प्रतिमेत्येवमीशोपमैव बाधिता । रामस्य प्रतिमावत्वे श्रुतिस्मृतिप्रमाणतः ॥ ६०४॥ एह्यश्मानमातिष्ठाश्मा भवतु ते तनुः । कृण्वन्तु विश्वेदेवा आयुष्टे शरदः शतम् ॥ ६०५॥ अथर्ववेदवाक्येऽत्र सर्वेशप्रतिमा मता। सहस्रस्य प्रतिमाऽसि यजुर्वेदे मतेति च ॥ ६०६॥ काऽऽसीत् प्रमा प्रतिमा ऋग्वेदेऽपि तथैव च । अहं सन्निहितस्तत्र पाषाणप्रतिमादिषु ॥ ६०७॥ श्रीरामोत्तरतापिन्यां पाषाणप्रतिमा इति । भगवद्विग्रहार्चेति सीतोपनिषदि तथा ॥ ६०८॥ लब्धानुग्रह आचार्यात् तेन सन्दर्शितागमः । महापुरुषमभ्यर्चेन् मूर्त्त्याभिमतयाऽऽत्मनः'' ॥ ६०९॥ अर्चायामेव हरये पूजां यः श्रद्धयेहते । व्यरुदन् देवलिङ्गानि श्रीमद्भागवतेऽपि च ॥ ६१०॥ मङ्गलालपनैर्होमैः शोभिताः क्षौमवाससः । देवतायतायतनान्याशु सर्वाः ताः प्रत्यपूजयन् ॥ ६११॥ क्वचिच्चैत्यशतैर्जुष्टः सुनिविष्टजनाकुलः । देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥ ६१२॥ कच्चिद् गुरूँश्च वृद्धाँश्च तापसान् देवतातिथीन् । चैत्याँश्च सर्वान् सिद्धार्थान् ब्राह्मणाँश्च नमस्यसि ॥ ६१३॥ ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे । वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ॥ ६१४॥ श्रीमत्यायतने विष्णोः शिश्ये नरववरात्मजः । इति रामायणे चापि प्रतिमापूजनं मतम् ॥ ६१५॥ अनन्यशरणाः सर्वे कलौ सम्पूज्य केशवम् । पराशरधर्मशास्त्रे चैवं केशवपूजनम् ॥ ६१६॥ अर्चावतारा देवस्य वैभवाः परमात्मनः । इति पद्मपुराणेऽपि देवस्यार्चावतारता ॥ ६१७॥ शालग्रामशिलायां च तुलसीदलकल्पिता । पूजा श्रीरामचन्द्रस्य कोटिकोटिगुणाधिका ॥ ६१८॥ तुलसीपत्रमात्रेण योऽर्चयेद् राममन्वहम् । स याति शाश्वतं ब्रह्म पुनरावृत्तिवर्जितम् ॥ ६१९॥ इत्यगस्यसंहितायां राममूर्त्तिर्हि सम्मता । अहोरात्रं हरेर्नाम कीर्त्तयन्ति च ये नराः ॥ ६२०॥ कुर्वन्ति हरिपूजां वा न कलिर्वाधते च तान् । नारदीयपुराणे च भगवत्पूजनं त्विति ॥ ६२१॥ प्रतिमाभङ्गकारी च ह्यप्रतिष्ठः प्राजायते । प्रतिमा सम्मता चैवं शातातपस्मृतावपि ॥ ६२२॥ सङ्क्रमध्वजयष्टीनां प्रतिमानां च भेदकः । इति मनुस्मृतौ चापि प्रतिमा सम्मता खलु ॥ ६२३॥ परित्राणाय भक्तानां प्रादुर्भावः कृतो मया । प्रादुर्भावाकृतिः काचिदर्चयेत् तां युधिष्ठिर ॥ ६२४॥ तेनैव परितुष्टोऽहं भविष्यामि न संशयः । वैष्णवधर्मशास्त्रे च गौतमीयेऽर्चनं त्विति ॥ ६२५॥ तस्मिन् शुभ्राश्रये देवमर्चयेद रमया सह । श्रीवशिष्ठस्मृतौ चैवं देवार्चनं प्रकीर्त्तितम् ॥ ६२६॥ षट्स्वेतेषु हरेः सम्यगर्चनं मुनिभिः स्मृतम् । अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च ॥ ६२७॥ विष्णोरभ्यर्चनं यत्तु नित्यं नैमित्तिकं नृप । स्वस्मृताविति सम्प्रोक्तं हारीतेनार्चनं हरेः ॥ ६२८॥ यथालाभमर्चयेच्च कृत्वा प्रतिकृतिं तथा । श्रीबोधायनकल्पे च प्रोक्तः पूजाविधिर्हरेः ॥ ६२९॥ सीतापतेश्च रामस्य सम्प्रोक्तं विग्रहार्चनम् । श्रीमद्गङ्गाधरोक्ते चानन्यताऽऽवेदने तथा ॥ ६३०॥ समस्तैरुपचारैश्च या पूजा तु मया कृता । सा सर्वा पूर्णतां यातु ह्यपराधं क्षमस्व मे ॥ ६३१॥ सदानन्देन चेत्येवं श्रीरामयज्ञपद्धतौ । स्वीकृतं श्रद्धया श्रीमद्रामाख्यब्रह्मपूजनम् ॥ ६३२॥ श्रीरामस्यार्चया भत्त्या नमस्कृत्या तथैव च । रामे चेतो निवेशेन रामप्राप्तिर्भवेद ध्रुवम् ॥ ६३३॥ रामेश्वरार्यसम्प्रोक्ते सत्प्रबोधामृते तथा । एवमुक्ता हि रामस्य विग्रहस्य शुभार्चनम् ॥ ६३४॥ अर्चनीयौ जनैः कौ च सीतारामौ परात्परौ । सीतारामार्चनं चैवं द्वारानन्दार्यसम्मतम् ॥ ६३५॥ षोडशविधिना यत्र राममूर्त्तिर्हि पूज्यते । इत्थं हि पूजनं मूर्त्तेर्देवानन्दार्यसम्मतम् ॥ ६३६॥ अथातः सम्प्रक्ष्यामि प्रतिमा विधिमुत्तमम् । शिलामयी लोहमयी तथा रत्नमयीति च ॥ ६३७॥ तथा काष्ठमयी चेति मृन्मयी चेति पञ्चधा । सनत्कुमारसम्प्रोक्तमेवं हि मूर्त्तिपञ्चकम् ॥ ६३८॥ शैली दारुमयी लौही लेप्या लेख्या च सैकती । मणिमयी मनोमयी प्रतिमाष्टविधा स्मृता ॥ ६३९॥ चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् । श्रीमद्भागवते चेत्थं प्रतिमा चाष्टविधा मता ॥ ६४०॥ स्वयंव्यक्तश्च देवश्च सैद्धश्च मानुषः खलु । मूर्त्तिभेदाश्चतुर्धैवं प्रमेयोद्देशभास्करे ॥ ६४१॥ गुणलीलास्वरूपैश्चमितिर्यस्य न विद्यते । अतो वाङ्मनसावेद्यः श्रीरामः शरणं मम ॥ ६४२॥ कर्ता सर्वस्य जगतो भर्ता सर्वस्य सर्वगः । आहर्त्ता कार्यजातस्य श्रीरामः शरणं मम ॥ ६४३॥ वासुदेवादिमूत्तनां चतुर्णां कारणं परम् । चतुर्विंशतिमूर्त्तीनामाश्रयः शरणं मम ॥ ६४४॥ नित्यमुक्तजनैर्जुष्टो निविष्टः परमे पदे । परं परमभक्तानां श्रीरामः शरणं मम ॥ ६४५॥ महदादिस्वरूपेण संस्थितः प्राकृते पदे । ब्रह्मादिदेवरूपैश्च श्रीरामः शरणं मम ॥ ६४६॥ मन्वादिनृपरूपेण श्रुतिमार्गं विभर्त्ति च । प्रजापतिस्वरूपेण श्रीरामः शरणं मम ॥ ६४७॥ ऋषिरूपेण यो देवो वन्यवृत्तिमपालयत् । योऽन्तरात्मा हि सर्वेषां श्रीरामः शरणं मम ॥ ६४८॥ योऽसौ सर्वतनुः सर्वः सर्वनामा सनातनः । अलिप्तः सर्वभावेषु श्रीरामः शरणं मम ॥ ६४९॥ बहिर्मर्त्त्यादिरूपेण सद्धर्ममनुपालयन् । परिपाति जनान् दीनान् श्रीरामः शरणं मम ॥ ६५०॥ यश्चात्मानं पृथक् कृत्य भक्तप्रेमवशं गतः । अर्चायामास्थितो देवः श्रीरामः शरणं मम ॥ ६५१॥ अर्चावताररूपेण दर्शनस्पर्शनादिभिः । दीनानुद्धरते योऽसौ श्रीरामः शरणं मम ॥ ६५२॥ इति ब्रह्मसंहितायां नारायणाभिभाषितः । परिपूर्णतमं ब्रह्म श्रीरामः पञ्चधा स्थितः ॥ ६५३॥ पञ्चधाऽवस्थितो रामः परव्यूहादिभेदतः । तस्मै परस्वरूपाय श्रीरामाय नमो नमः ॥ ६५४॥ स परः परधामस्थः सर्वावतारकारणम् । तस्मै परस्वरूपाय श्रीरामाय नमो नमः ॥ ६५५॥ दिव्यपरिकरायाथ दिव्यभूषणहेतये । दिव्यदेहगुणायाथ श्रीरामाय नमो नमः ॥ ६५६॥ श्रोसीतया हि युक्ताय नित्यमुक्तस्तुताय च । नित्यमुक्तैकभोग्याय श्रीरामाय नमो नमः ॥ ६५७॥ वेदवेद्यः परब्रह्म नित्यधामाधिनायकः । मुक्तप्राप्यश्च यस्तस्मै श्रीरामाय नमो नमः ॥ ६५८॥ सृष्टचाद्यर्थं हि लोकानां स्वभक्तानुग्रहाय च । चतुर्व्यूहस्वरूपाय श्रीरामाय नमो नमः ॥ ६५९॥ उद्भूतषड्गुणः पूर्णो व्यूहः शान्ताब्धिवद्धि यः । वासुदेवात्मने तस्मै श्रीरामाय नमो नमः ॥ ६६०॥ व्यूहो यः कुरुते शास्त्रं ज्ञानाद् बलाच्च संहतिम् । सङ्कर्षणात्मने तस्मै श्रीरामाय नमो नमः ॥ ६६१॥ सृष्टिमैश्वर्यतो व्यूहो यो वीर्याद् धर्ममातनोत् । तस्मै प्रद्युम्नरूपाय श्रीरामाय नमो नमः ॥ ६६२॥ शक्त्या रक्षति यो व्यूहो ज्ञानं ददाति तेजसा । अनिरुद्धात्मने तस्मै श्रीरामाय नमो नमः ॥ ६६३॥ एभ्यो द्वादशसङ्ख्याका व्यूहाश्च सम्भवन्ति हि । तत्तद्द्व्यूहस्वरूपाय श्रीरामाय नमो नमः ॥ ६६४॥ चतुश्चक्रधरस्तत्र स्वर्णकान्तिर्हि केशवः । केशवव्यूहरूपाय श्रीरामाय नमो नमः ॥ ६६५॥ चतुःशङ्खधरः श्यामो व्यूहो नारायणः स्मृतः । नारायणस्वरूपाय श्रीरामाय नमो नमः ॥ ६६६॥ चतुर्गदाधरो व्यूहो मणिकान्तश्च माधवः । माधवव्यूहरूपाय श्रीरामाय नमो नमः ॥ ६६७॥ चतुःशार्ङ्गधरो व्यूहो गोविन्दश्च शशाङ्कवत् । गोविन्दव्यूहरूपाय श्रीरामाय नमो नमः ॥ ६६८॥ पथकेसरवद् विष्णुरचतुर्लाङ्गलधारकः । विष्णुव्यूहस्वरूपाय श्रीरामाय नमो नमः ॥ ६६९॥ चतुर्मुशलधर्त्ता हि पद्मवन्मधुसूदनः । मधुसूदनरूपाय श्रीरामाय नमो नमः ॥ ६७०॥ चतुःखड्गधरो व्यूहो वह्निवद्धि त्रिविक्रमः । त्रिविक्रमस्वरूपाय श्रीरामाय नमो नमः ॥ ६७१॥ चतुर्वज्रधरो व्यूह वामनो बालसूर्यवत् । वामनव्यूहरूपाय श्रीरामाय नमो नमः ॥ ६७२॥ चतुःपदॄशधर्त्ता हि श्रीधरः पुण्डरीकवत् । श्रीधरव्यूहरूपाय श्रीरामाय नमो नमः ॥ ६७३॥ हृषीकेशस्वरूपाय श्री रामाय नमो नमः ॥ ६७४॥ विद्युत् कान्तिहृषीकेशश्चतुर्मुद्गरधारकः । पञ्चायुधधरो व्यूहो पद्मनाभश्च सूर्यवत् । पद्मनाभस्वरूपाय श्रीरामाय नमो नमः ॥ ६७५॥ चतुःपाशधरो दामोदरश्चाथेन्द्रगोपवत् । दामोदरस्वरूपाय श्रीरामाय नमो नमः ॥ ६७६॥ द्वादशादित्यदेवा हि चैते भालादिवृत्तयः । एतद्द्वादशरूपाय श्रीरामाय नमो नमः ॥ ६७७॥ तत्तद्देवादिरूपेण प्रादुर्भवति राघवः । तस्मै हि विभवाख्याय श्रीरामाय नमो नमः ॥ ६७८॥ शङ्खासुरमहन् रामो मत्स्यरूपं विधाय हि । तस्मै मत्स्यावताराय श्रीरामाय नमो नमः ॥ ६७९॥ मन्दरं धृतवान् रामो कूर्मरूपं विधाय हि । तस्मै कूर्मावताराय श्रीरामाय नमो नमः ॥ ६८०॥ हतो वाराहरूपेण हिरण्याक्षश्च शार्ङ्गिणा । तस्मै वराहरूपाय श्रीरामाय नमो नमः ॥ ६८१॥ हिरण्यकशिपुं चाहन् रामो नृसिंहरूपधृत् । तस्मै नृसिंहरूपाय श्रीरामाय नमो नमः ॥ ६८२॥ वामनरूपरामेण पातालं प्रापितो बलिः । तस्मै वामनरूपाय श्रीरामाय नमो नमः ॥ ६८३॥ अजयत् क्षत्रियान् रामः परशुरामरूपधृत् । तस्मै परशुरामाय श्रीरामाय नमो नमः ॥ ६८४॥ दाशरथितया रामो रावणं हतवानिह । तस्मै श्रीरामरूपाय श्रीरामाय नमो नमः ॥ ६८५॥ वासुदेवतया रामो कंसादीनवधीत् खलु । तस्मै श्रीकृष्णरूपाय श्रीरामाय नमो नमः ॥ ६८६॥ रामेण बुद्धरूपेण वञ्चितास्तामसा जनाः । तस्मै बुद्धस्वरूपाय श्रीरामाय नमो नमः ॥ ६८७॥ रामेण कल्किरूपेण शासिताः कलिशासकाः । तस्मै कल्किस्वरूपाय श्रीरामाय नमो नमः ॥ ६८८॥ रामो विभवरूपाणि बहूनि घृतवानिह । सर्वविभवरूपाय श्रीरामाय नमो नमः ॥ ६८९॥ हेतुरिच्छावतारे साधुत्राणादित्रयं फलम् । सर्वावतारिरूपाय श्रीरामाय नमो नमः ॥ ६९०॥ प्रविश्यान्तर्नियन्तृत्वं रामान्तर्यामिता मता । अन्तर्यामिस्वरूपाय श्रीरामाय नमो नमः ॥ ६९१॥ अङ्गीकृत्यतनुत्वेन हेमादिकं हि राघवः । भवत्यर्चातनुस्तस्मै श्रीरामाय नमो नमः ॥ ६९२॥ अमोघदर्शनो यश्च ह्यमोघस्तवनोऽपि यः । यश्चामोघार्चनस्तस्मै श्रीरामाय नमो नमः ॥ ६९३॥ सुलभो राघवो मूर्त्तौ सन्निधानादिहेतुतः । तस्मै चार्चावताराय श्रीरामाय नमो नमः ॥ ६९४॥ तुष्यति मेधया यो न तपसा नो न कर्मणा । भक्त्यैव तुष्यते तस्मै श्रीरामाय नमो नमः ॥ ६९५॥ भक्त्या योऽथ प्रपत्त्या च सन्तोषितो मुमुक्षुभिः । मोक्षप्रदायकस्तस्मै श्रीरामाय नमो नमः ॥ ६९६॥ यश्च सकृत्प्रपत्त्यैव सर्वेभ्यश्चाभयप्रदः । तस्मै श्रेष्ठशरण्याय श्रीरामाय नमो नमः ॥ ६९७॥ सम्प्राप्य राघवं मुक्तो जीवनावर्त्तते ततः । हारिणे सर्वभीतीनां श्रीरामाय नमो नमः ॥ ६९८॥ स्तवे वेदान्तसाराख्ये श्री सदानन्दनिर्मिते । एवं निरूपिता चास्ति पञ्चधा रामसंस्थितिः ॥ ६९९॥ श्रीरामोपासने पञ्चाधिकाराः शास्त्रसम्मताः । उपासितुश्च तत्रार्चोपासने चादिमो मतः ॥ ७००॥ विभवोपासने तस्य द्वितीयाधिकृतिः खलु । तृतीयश्चाधिकारो हि व्यूहस्योपासने मतः ॥ ७०१॥ उपासने तुरीयस्तु परस्य राघवस्य हि । अन्तःस्थस्य च रामस्योपासने पञ्चमो मतः ॥ ७०२॥ प्रकृति ः प्रमाया विषयो यत् तत् प्रमेयं सम्मतं बुधैः । द्रव्याद्रव्यत्वभेदेन प्रमेयं द्विविधं मतम् ॥ ७०३॥ द्रव्यत्वेन मतं प्राज्ञैः प्रमेयं हि गुणाश्रयः । रूपीघटः प्रतीतेश्च द्रव्यं निर्धर्मकं न हि ॥ ७०४॥ आगन्तुकापृथक्सिद्धधर्माश्रयस्य द्रव्यता । जीवब्रह्मप्रधानादिभेदाद द्रव्यं च षड्विधम् ॥ ७०५॥ जडाजडत्वभेदेन द्विधा तच्च प्रकीर्त्तितम् । शून्यं रजस्तमोभ्यां यत् सत्वं तद्रहितं जडम् ॥ ७०६॥ प्रकृतिकालभेदेन जडं द्विधा समीरितम् । चैतन्यरहितं द्रव्यं प्रकृतिः सा गुणत्रया ॥ ७०७॥ सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबन्धाति महाबाहो ! देहे देहिनमव्ययम् ॥ ७०८॥ तत्र सत्वं निर्मलत्वात् प्रकाशकमनामयम् । सुखसङ्गेन तन्निबध्नाति बन्धाति ज्ञानसङ्गेन चानघ ॥ ७०९॥ रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७१०॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ७११॥ सत्वं सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ ७१२॥ सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद् विवृद्धं सत्वमित्युत ॥ ७१३॥ लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भारतर्षभ ॥ ७१४॥ अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ ७१५॥ त्रयः सत्वादयश्चैवं गीतायां प्रकृतेर्गुणाः । एतेषां च गुणानां हि साम्यं प्रकृतिलक्षणम् ॥ ७१६॥ अवैषम्यं मतं साम्यं वैषम्यं विकृतौ मतम् । विकाराँश्च करीत्यस्या ईशस्तत् प्रकृतिर्हि सा ॥ ७१७॥ विकृतित्वं विना तत्र प्रकृतित्वं हि वर्त्तते । क्षरं प्रधानमित्युत्तया क्षरं सा क्षरणान्मता ॥ ७१८॥ विचित्रसृष्टिहेतुत्वादियं मायेति कथ्यते । अविद्यापदवाच्येयं विद्याविरोधिताऽत्र यत् ॥ ७१९॥ महदादितयाऽव्यक्ता ततोऽव्यक्ततया मता । प्रथमश्च विकारोऽस्या महत्तत्त्वतया मतः ॥ ७२०॥ अव्यक्तदेहिरामस्य चावस्था स प्रकीर्तितः । सत्वादिगुणभेदात् स त्रिविधः समुदीरितः ॥ ७२१॥ बुद्धावध्यवसायेऽस्य साङ्ख्यैः पर्यायता मता । आत्मधर्मौ च तौ तस्मादुपपन्ना न सा खलु ॥ ७२२॥ प्रथमश्च विकारोऽस्याहङ्कारस्त्रिविधस्तथा । महच्छरीरिरामस्यावस्था सङ्कल्पतो हि सा ॥ ७२३॥ तस्याभिमानता नो यज् ज्ञानत्वं नास्ति तत्र हि । देहाहम्भावहेतुत्वादस्याहङ्कारवाच्यता ॥ ७२४॥ शास्त्रे चैते प्रसिद्धाश्चाहङ्काराः सात्विकादयः । वैकारिकस्तैजसश्च भूतादिरितिसंज्ञा ॥ ७२५॥ तैजससहकाराच्च भूतादेः समजायत । शब्दतन्मात्रकं तस्माद् भूतमाकाशसंज्ञकम् ॥ ७२६॥ भूताव्यवहितं पूर्वं द्रव्यं तन्मात्रसंज्ञकम् । तन्मात्राव्यवधानेन जातं द्रव्यं यदुत्तरम् ॥ ७२७॥ महाभूतं हि तत्प्रोक्तं प्राज्ञैः तत्त्वोपदेशकैः । उपादानं हि तन्मात्रं भूते तन्मात्र कार्यता ॥ ७२८॥ त्रिविधोऽयमहङ्कारो महत्तत्त्वादजायत् । भूतेन्द्रियाणां हेतुस्स त्रिगुणत्वान्महामुने ॥ ७२९॥ यथा प्रधानेन महान् महता स तथावृतः । भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ॥ ७३०॥ ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् । शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् ॥ ७३१॥ आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह । बलवानभवद् वायुस्तस्य स्पर्शो गुणो मतः ॥ ७३२॥ आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् । ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह् ॥ ७३३॥ ज्योतिरुत्पद्यते वायोस्तद् रूपगुणमुच्यते । स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् ॥ ७३४॥ ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह । सम्भवन्ति ततोऽम्भांसि रसाधाराणि तानि च ॥ ७३५॥ रसमात्राणि चाम्भांसि रूपमात्र समावृणोत् । विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे ॥ ७३६॥ सङ्घाते जायते तस्मात् तस्य गन्धो गुणो मतः । तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता ॥ ७३७॥ तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते । न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः ॥ ७३८॥ भूततन्मात्र सर्गोऽयमहङ्कारात्तु तामसात् । एवं विष्णुपुराणोक्तं भूततन्मात्रपञ्चकम् ॥ ७३९॥ शब्दस्पर्शादिभेदैश्च तन्मात्रं पञ्चधा मतम् । आकाशादिविभेदैश्च महाभूतं हि पञ्चधा ॥ ७४०॥ अनुद्भूताश्च तन्मात्रे शब्दादयो गुणा मताः । महाभूतेषु तद्भूताः सन्ति शब्दादिका गुणाः ॥ ७४१॥ स्पर्शेन रहितं द्रव्यमुद्भूतशब्दवन्नभः । पतगपतनाधाररूपेण खं हि चाक्षुषम् ॥ ७४२॥ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुरितिप्रामाण्यादनित्यत्वं च खस्य हि ॥ ७४३॥ खस्य सावयवत्वं हि पञ्चीकरणतो मतम् । तत एव तथाऽऽकाशे नीलरूपं हि दृश्यते ॥ ७४४॥ इन्द्रियाणां न भूतानि हेतवः पोषकानि तु । दिग्व्यवहारहेतुश्च श्रोत्रस्याप्यायकं हि खम् ॥ ७४५॥ आकाशात् स्पर्शतन्मात्रं ततों वायुरजायत । आकाशवायुमध्यस्थं तन्मात्रं स्पर्शसंज्ञकम् ॥ ७४६॥ अनुद्भूतो मतः स्पर्शस्तन्मात्रे स्पर्शसंज्ञके । उदभूतस्पर्शवान् वायू रूपेण रहितः स च ॥ ७४७॥ त्वङ्मात्रग्राह्यता वायौ शब्दस्पर्शो गुणौ तथा । स्पर्शो वायुपृथिव्योश्चानुष्णाशीतो हि वर्त्तते ॥ ७४८॥ नीरादियोगतो वायौ। शीतादिप्रत्ययस्तथा । आप्यायकस्त्वचो वायुर्विद्वद्भिः सम्प्रकीर्त्तितः ॥ ७४९॥ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुरितिप्रामाण्याद् वायोरनित्यता मता ॥ ७५०॥ उक्तश्रुतौ पृथग् वायोः प्राणस्य चोपदेशतः । जीवधारणसामर्थ्यात् प्राणो वायुर्विलक्षणः ॥ ७५१॥ जीवोपकरणं प्राणः सहोक्तेर्मनादिभिः । अणुश्चोत्क्रान्तितः प्राणो न विभुः सूत्रकृन्मते ॥ ७५२॥ इन्द्रियाणां च सत्तासु या प्राणाधीनता ततः । विद्भिः सम्मता तेषु प्राणशब्दाभिधेयता ॥ ७५३॥ इन्द्रियापरतन्त्रत्वात् प्राणे नेन्द्रियवाच्यता । शरीरमध्यसञ्चारी वायुः प्राणतया मतः ॥ ७५४॥ हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥ ७५५॥ स्थानपञ्चकसंस्थश्च प्राणस्त्वेवं प्रकीर्त्तितः । ततश्च पञ्चवृत्त्यादि सूत्रकारेण सूत्रितम् ॥ ७५६॥ तन्मात्रं रूपसंज्ञं हि मध्यगं वायुतेजसोः । तेजो भूतं ततो जातं पोषकं तद्धि चक्षुषः ॥ ७५७॥ उष्णस्पर्शवत्तेजः पाचकोऽर्कादिरूपतः । आलोकादिकरूपेण चाक्षुषे सहकारकम् ॥ ७५८॥ चतुर्धा भौमदिव्यौदर्याकरजविभेदतः । भौमं दीपादिकं दिव्यं वारिमात्रेन्धनं तथा ॥ ७५९॥ आकरजं सुवर्णादि चौदर्यं जठरानलः । प्रभाप्रभाविशिष्टेतिभेदात् तेजो द्विधा पुनः ॥ ७६०॥ द्रव्यगुणस्वरूपाथ सावयवा मता प्रभा । शब्दः स्पर्शश्च रूपं च तेजोगुणाः प्रकीर्त्तिताः ॥ ७६१॥ तन्मात्रं रससंज्ञं हि मध्यगं जलतेजसोः । शीतस्पर्गविशिष्टं च तस्माज्जलमजायत ॥ ७६२॥ बहुधाऽब्ध्यादिरूपं च पिण्डादिकारकं हि तत् । शब्दोऽभास्वरशुक्लं च रूपं च मधुरो रसः ॥ ७६३॥ जलाच्च गन्धतन्मात्रं ततो जाता वसुन्धरा । उद्भूतगन्धवत्त्वं हि पृथिव्या लक्षणं मतम् ॥ ७६५॥ शब्दः स्पर्शश्च रूपं च रसो गन्धो गुणाः क्षितौ । घ्राणस्य मनसश्चाथ पोषिका पृथिवी मता ॥ ७६६॥ मृदादिभेदतोऽनेकप्रकारशालिनी क्षितिः । स्पर्शादयस्तु चत्वारः पृथिव्यां पाकजा गुणाः ॥ ७६७॥ अन्तर्भावो पृथिव्यां हि तमसो मन्यते बुधैः । क्षिते रूपं तथाऽवस्था यतस्तमसि दृश्यते ॥ ७६८॥ रामेण सर्वभूतानां कृत्वा भागद्वयं समम् । अर्धभागचतुर्थांशाः स्वभिन्नार्धेषु योजिताः ॥ ७६९॥ पञ्चीकृतं हि रामेण भूतं जगत्सिसृक्षुणा । स्वभागस्याधिकत्वाच्च स्वनाम्ना व्यपदिश्यते ॥ ७७०॥ पञ्चीकृतैश्च भूतैश्च रामश्चाण्डं चकार हि । ततश्चोत्पाद्य ब्रह्माणं तद्वारा कृतवाञ् जगत् ॥ ७७१॥ ततो लीलार्थमात्मानं बहकल्पयदीश्वरः । अथ प्रधानमसृजत् पुरुषाधिष्ठितं स्वतः ॥ ७७२॥ ततो महान्तमव्यक्ताज्जनयामास नारद । गुणत्रयात्मकं तस्मादहङ्कारमतः परम् ॥ ७७३॥ इन्द्रियाणि दशैतानि ज्ञानकर्मात्मकानि वै । मनश्च सात्विकात् तस्मादहङ्कारादजीजनत् ॥ ७७४॥ भूतानि भूतसूक्ष्माणि दशैतानि महामुने । असृजत्तामसात् तस्मादहङ्कारराज्जनार्दनः ॥ ७७५॥ महदादिविशेषान्तरेतैरण्डमजीजनत् । दशोत्तरैरावरणैः सप्तभिः परिवेष्टितम् ॥ ७७६॥ तस्मिन्नण्डे स्वयं विष्णुः प्रजापतिमथाकरोत् । उच्चावचानां भूतानां कर्त्तारं निजशक्तिभिः ॥ ७७७॥ हरिः स्वशक्तिरूपेण कालेन च समन्वितः । महदादिषु सृज्येषु सृष्टि चक्रे जगन्मयः ॥ ७७८॥ विष्णुर्ब्रह्मापदेशेन चिदचिन्मिश्रितं जगत् । विचित्रं जनयामास तत्तच्छक्तिसमन्वितः ॥ ७७९॥ वेदानालोच्य भूतानां देवादीनां यमः प्रभुः । नामरूपे च विविधे यथापूर्वमकल्पयत् ॥ ७८०॥ सर्वेदावप्तसकलकामोऽपि परमेश्वरः । जन्तुभिर्निजसृष्टैश्च लीलारसमथान्वभूत् ॥ ७८१॥ अनालोच्यैव जगतां त्रातारमपरं हरिः । स्वयमेवांशरूपेण पालयत्यखिलं जगत् ॥ ७८२॥ अहिर्बुध्न्यसंहितायां सृष्टिरेवं प्रदर्शिता । समष्टिसृष्टिरण्डान्ता रामेणाद्वारका कृता ॥ ७८३॥ ब्रह्मादिद्वारका चाथ व्यष्टिसृष्टिर्विनिर्मिता । असन्दिग्धो जगत्स्रष्टा श्रीरामस्तद् बुधैर्मतः ॥ ७८४॥ नियमेन नियाम्यं यद् द्रव्यं तु चेतनेन हि । चेतनस्य तु तस्यात्र शरीर तत् प्रकीर्त्तितम् ॥ ७८५॥ द्रव्यमीशेशबुद्धिभ्यां भिन्नं शरीरमीरितम् । तटस्थं लक्षण चैतच्छरीरस्य मतं बुधैः ॥ ७८६॥ नित्यानित्यत्वभेदेन शरीरं द्विविधं मतम् । प्रकृतिश्च तथा कालो जीवो शुभाश्रयस्तथा ॥ ७८७॥ एतानीशशराणि नित्यत्वेन मतानि हि । कर्माकर्मकृतत्वाभ्यामनित्यं द्विविधं स्मृतम् ॥ ७८८॥ आद्यं च द्विविधं कर्मसङ्कल्पजं च कर्मजम् । सौभरिप्रभृतेश्चाद्यमन्त्यमन्यशरीरिणाम् ॥ ७८९॥ अन्त्यं सर्वेश्वरस्यात्र मदादिकमीरितम् । यानि च नित्यमुक्तैस्तु स्वेच्छया स्वीकृतानि हि ॥ ७९०॥ स्थावरं जङ्गमं चेतिभेदाच्च द्विविधं पुनः । शिलावृक्षादयस्तत्र चादिमं सम्मतं बुधैः ॥ ७९१॥ अन्तिमं तु चतुर्धाऽथ विद्वद्भिः सम्प्रकीर्त्तितम् । नरनारकिभेदाच्च तिर्यग्देवविभेदतः ॥ ७९२॥ योनिजायोनिजत्वाभ्यां शरीरं द्विविधं पुनः । योनिजमस्मदादीनां द्रौपद्यादेरयोनिजम् ॥ ७९३॥ उद्भिज्जादिविभेदाच्च शरीरं हि चतुर्विधम् । उद्भिज्जं शाखिनां तत्र यूकादीनां तु स्वेदजम् ॥ ७९४॥ अण्डजं भुजगादीनामस्मदादेर्जरायुजम् । शरीरं वेदितत्र्यं हि देहतत्त्वबुभुत्सुभिः ॥ ७९५॥ पञ्चतन्मात्रसाहाय्यादहङ्काराच्च सात्विकात् । श्रोत्रादिकं समुत्पन्नं ज्ञानेन्द्रियं तु पञ्च हि ॥ ७९६॥ द्रव्यं तदिन्द्रियं बोध्यं देहप्राणेतरच्च यत् । आत्मप्रयत्नजातस्य व्यापारस्याश्रयस्तथा ॥ ७९७॥ प्राकृताप्राकृतत्वाभ्यमिन्द्रियं द्विविधं मतम् । शून्यं रजस्तमोभ्यां यच्चाप्राकृतं तदिन्द्रियम् ॥ ७९८॥ तद्भिन्नं प्राकृतं वेद्यमिन्द्रियं हि बुभुत्सुभिः । ज्ञानकर्मेन्द्रियत्वाभ्यामिन्द्रियं द्विविधं पुनः ॥ ७९९॥ मनःसृष्टिस्तु जाता हि केवलात् सात्विकादिह् । प्रोक्तं ज्ञानेन्द्रियत्वं च मनसस्तत्त्ववेदिभिः ॥ ८००॥ यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । ज्ञानेन्द्रियं मनश्चैवं पाठाज् ज्ञानेन्द्रियैः सह ॥ ८०१॥ ज्ञानप्रसरणे शक्तमिन्द्रियं ज्ञानसंज्ञकम् । हृदयस्थं मनस्तत्र श्रोत्रं कर्णविहायसि ॥ ८०२॥ भुजगानां तु नेत्रे तत् सर्वदेहे त्वगिन्द्रियम् । चक्षुस्तु कृष्णाताराग्रे जिह्वाग्रे रसनं स्थितम् ॥ ८०३॥ घ्राणेन्द्रियं तु नासाया अग्रभागे हि तिष्ठति । एवं ज्ञानेन्द्रियं षोढा सम्प्रोक्तं तत्वचिन्तकैः ॥ ८०४॥ ग्राह्या अर्थास्त्विन्द्रियाणां विषया सम्मता बुधैः । एषां संयोगतश्चाथ संयुक्ताश्रयणाद् ग्रहः ॥ ८०५॥ शब्दः श्रोत्रं तथा खादित्रयमाकाशसम्भवम् । वायोः स्पर्शस्तथा चेष्टा त्वक्चैव तृतयं स्मृतम् ॥ ८०६॥ इत्यादौत्विन्द्रियाणां च भौतिकत्वं न सम्मतम् । किन्तु भूतेषु तेषां हि पोषकता समीरिता ॥ ८०७॥ श्रुतावापोमयः प्राणः एवं पोषकता जले । प्राणस्य जलकार्यत्वमन्यथा सम्भवेदिह ॥ ८०८॥ आप्यायन्ते च ते नित्यं तद्रवस्थैस्तु पञ्चभिः । भूतेषु पोषकत्वं हि मोक्षधर्मे ततस्त्विति ॥ ८०९॥ श्रोत्रादीन्द्रियसाहाय्यादहङ्काराच्च सात्विकात् । वागादिकं समुत्पन्नं कर्मेन्द्रियं च पञ्च हि ॥ ८१०॥ उच्चारणादिहेतुस्तु कर्मेन्द्रियं मतं बुधैः । अङ्गुल्यग्रे स्थितः पाणिः शुण्डवृत्तिः स हस्तिनः ॥ ८११॥ पक्ष्यादेरथ पक्षादौ पादे पादेन्द्रियं स्थितम् । मेहनादावुपस्थश्च पायुर्गुदे हि संस्थितः ॥ ८१२॥ मान्थालादेर्मुखादौ हि पायुश्च संस्थितस्तथा । एकादशेन्द्रियाण्यस्मत्सिद्धान्ते सम्मतानि वै ॥ ८१३॥ आन्तरबाह्यभेदाभ्यामिन्द्रियं द्विविधं पुनः । आन्तरं तु मनस्तत्र बाह्यानि चेतराणि हि ॥ ८१४॥ इन्द्रियाणां च कथ्यन्ते विषया देवतास्तथा । अन्तःकरणभेदाच्च चत्वारो मन आदयः ॥ ८१५॥ सङ्कल्पो विषयश्चेन्द्रो देवो हि मनसो मतः । निश्चयो विषयो देवो बुद्धेर्मतो बृहस्पतिः ॥ ८१६॥ चिन्तनं विषयो देवो वासुदेवो हि चेतसः । विषयोऽहङ्कृतेर्गर्वो देवो रुद्रः प्रकीर्त्तितः ॥ ८१७॥ श्रोत्रस्य विषयः शब्दो देवता दिक् प्रभाषिता । त्वचश्च विषयः स्पर्शो देवश्चोक्तः समीरणः ॥ ८१८॥ चक्षुषो विषयो रूपं देवो सूर्यः समीरितः । विषयो रसनाया हि रसश्च वरुणः सुरः ॥ ८१९॥ गन्धाश्विनीकुमारौ च घ्राणस्य विषयामरौ । भाषणं विषयो वाचो देवोऽनलः प्रकीर्त्तितः ॥ ८२०॥ ग्रहणं विषयः पाणेर्विष्णुर्देवः प्रभाषितः । गमनं विषयश्चाथ पादस्येन्द्रः सुरो मतः ॥ ८२१॥ पायोः प्रजापतिर्देवो विषयो मलमुञ्चनम् । उपस्थस्य यमो देवो मैथुनं विषयो मतः ॥ ८२२॥ दशेमे पुरुषे प्राणा आत्मैकादश च श्रुतौ । एकादशेन्द्रियं प्रोक्तं ततो न्यूनं न चाधिकम् ॥ ८२३॥ इन्द्रियं प्राणवाच्यं चात्रात्मवाच्यं मनस्तथा । उत्क्रमणात् समे प्राणाश्चाणवो गतिशालिनः ॥ ८२४॥ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । इत्येतत्कथनात् प्राणा अनित्या एव सम्मताः ॥ ८२५॥ काल ः गुणत्रयेण हीनो यद् द्रव्यं कालो जडः स च । प्राकृतेषु च कार्येषु रामः कालमपेक्षते ॥ ८२६॥ नित्यधाम्नि स सर्वेशः कालं नैवावलम्बते । कालश्च द्विविधो ज्ञेयः खण्डाखण्डविभेदतः ॥ ८२७॥ अन्त्यो विभुश्च भूतादिव्यवहारस्य कारणम् । सामान्यस्य तु कार्यस्यायं सहकारिकारणम् ॥ ८२८॥ नित्यश्चायं स्वकार्यस्योपादानकारणं मतम् । नित्यस्यास्य विकारस्तु नामान्तरग्रहार्हता ॥ ८२९॥ अखण्डकालकार्यस्तु खण्डकालो बुधैर्मतः । स चानित्यो निमेषादितत्तन्नाम्ना प्रकीर्त्तितः ॥ ८३०॥ पञ्चदशनिमेषैश्च ह्येकाकाष्ठा मता बुधैः । त्रिंशता चाथ काष्ठाभिः कला चैका मता तथा ॥ ८३१॥ त्रिंशता च कलाभिस्तु मुहूर्त्तं सम्मतं बुधैः । त्रिंशता च मुहूर्तैस्तु दिवसो मानवो मतः ॥ ८३२॥ पञ्चदशदिनैः पक्षो मासः पक्षद्वयं स्मृतः । मासद्वयमृतुश्चैकश्चायनमृतवस्त्रयः ॥ ८३३॥ अयनाभ्यां तथा द्वाभ्यां चैकः संवत्सरो मतः । पितॄणां च दिनं चैकं मासद्वयं हि मानवम् ॥ ८३४॥ संवत्सरं मनुष्याणां देवानां हि दिनं स्मृतम् । अयनमुत्तरं तेषामहश्च सम्प्रकीर्त्तितम् ॥ ८३५॥ दक्षिणमयनं चाथ तेषां रात्रिः समीरिता । द्वादशवर्षसहस्रं देवानां तु चतुर्युगम् ॥ ८३६॥ चतुःसहस्रवर्षाणां तत्र कृतयुगं मतम् । त्रयं सहस्रवर्षाणां त्रेतायुगं समीरितम् ॥ ८३७॥ द्विसहस्रमितं वर्षं द्वापरं कथयन्ति हि । सहस्रवर्षसङ्ख्याकं मतं कलयुगं तथा ॥ ८३८॥ पूर्णो धर्मः कृते युगे त्रेतायां तु त्रिपात् स्मृतः । द्वापरे सार्धपादोऽथ चैकपादः कलौ तु सः ॥ ८३९॥ द्विसहस्रमितं वर्षं सन्धिश्चैषां प्रकीर्त्तिता । चतुर्युगसहस्रं हि ब्रह्मणो दिवसो मतः ॥ ८४०॥ तावत्प्रमाणिकी रात्रिर्विद्वद्भर्व्याहृतां तथा । चतुर्दशमिताः कल्पे मनवो ब्रह्मणो दिने ॥ ८४१॥ इन्द्राः सप्तर्षयश्चाथ तावन्तः परिभाषिताः । ब्रह्मा चापि स्वमानेन शतं वर्षाणि जीवति ॥ ८४२॥ कालाधीनमदः सर्वं तथा च प्रलयत्रयम् । योऽयं सन्दृश्यते नूनं नित्यं लोके क्षयस्त्विह ॥ ८४३॥ नित्यः सङ्कीर्त्यते नाम्ना मुनिभिः प्रतिसञ्चरः । ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भविष्यति ॥ ८४४॥ त्रैलोक्यस्यास्यः कथितः प्रतिसर्गौ मनीषिभिः । महदादिविशेषान्तं यदा संयाति सङ्क्षयम् ॥ ८४५॥ प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः । एवं कूर्मपुराणे हि सम्प्रोक्तं प्रलयत्रयम् ॥ ८४६॥ नित्यधामेतरज् ज्ञानमजडद्रव्यमचेतनम् । घटाद्यर्थप्रकाशानामसाधारणकारणम् ॥ ८४७॥ प्रसृत्य चेद्रियद्वारा द्रव्येण युज्यते ततः । गुणक्रियाविशिष्टत्वाज् ज्ञानस्य द्रव्यता मता ॥ ८४८॥ अहं जानामि चेत्येषा प्रतीतिर्जायते ततः । अपृथक्सिद्धधर्मश्च ज्ञानं जीवपरात्मनोः ॥ ८४९॥ सङ्कोचं च विकासं च तदाप्नोति यथा प्रभा । नष्टोत्पन्नप्रतीतिस्तु जायते तत एव च ॥ ८५०॥ ज्ञानं सङ्कुचितं बद्धे विभु मुक्तपरेशयोः । ज्ञाने दैवेन सङ्कोचो दैवाभावे विकासिता ॥ ८५१॥ प्रसृतत्वं च प्रज्ञायाः श्वेताश्वतरसम्मतम् । ज्ञानावृतिश्च गीतायामावृतं ज्ञानमित्यथ ॥ ८५२॥ सुखरूपं च नित्यं च कालभिन्नं पराक् तथा । नित्यात्मनो गुणो ज्ञानं स्वरूपस्य निरूपकः ॥ ८५३॥ सुषुप्तौ तमसाच्छन्नं तद् भवेत्तु तिरोहितम् । सङ्कोचश्च विकासश्च सर्पकुण्डलवत् खलु ॥ ८५४॥ ज्ञाने स्वतश्च प्रामाण्यमप्रामाण्यं परेण तु । धारावाहिकविज्ञानमेकमेव हि सम्मतम् ॥ ८५५॥ उपाधिभेदतो बुद्धिः सुखदुःखादिरूपिणी । ज्ञानावस्थाविशेषाश्च भक्त्तयादयः प्रकीर्त्तिताः ॥ ८५६॥ भक्तेश्चाथ प्रपत्तेश्च मुक्तिसाधनता मता । मोक्षे नैव प्रवर्त्तन्ते शरीरात्मत्ववादिनः ॥ ८५७॥ आत्मत्वे क्षणिकज्ञाने मते मुक्तौ तिश्च न । कथं मुक्तौ प्रवृत्ताश्च स्युरनेकान्तवादिनः ॥ ८५८॥ मोक्षे पाषाणकल्पे च प्रवृत्तिः स्यान्न कस्यचित् । साङ्ख्यमुक्तौ प्रवृत्तिर्न मुक्तिसम्बन्धिसंशयात् ॥ ८५९॥ व्यावहारिकवाक्याच्च सत्याभेदमतिर्न यत् । प्रवृत्तिर्न भवेन्मुक्तौ मायिनां च मते ततः ॥ ८६०॥ एषोणुरात्मैष द्रष्टा इत्यादिश्रुतिमानतः । अणुश्च चेतनो जीवो द्रव्यरूपो मतो बुधैः ॥ ८६१॥ आत्मा निष्क्रामतीत्येवमुत्क्रान्तिश्चात्मनः श्रुताम् । गमनाच्चन्द्रलोके च जीवे गतिः समीरिता ॥ ८६२॥ तस्माल्लोकात् पुनःश्चैवमागतिस्त्वात्मनः श्रुतौ । एवमुत्क्रान्तिगत्यादेजीवोऽणुर्मन्यते बुधैः ॥ ८६३॥ जीवोत्क्रान्त्यादयो न स्युर्विभुत्वे सम्मते खलु । उत्क्रान्तिगत्यागतीनां व्यासेन सूत्रितं ततः ॥ ८६४॥ ज्ञानस्यानन्त्यतश्चैव ह्यानन्त्यश्रुतिसङ्गतिः । ज्ञानेन धर्मभूतेन भोगश्च सर्ववर्ष्मणि ॥ ८६५॥ प्रभाया भित्तिसम्बद्धाया यथा दीपधर्मता । ज्ञाने भालादिसम्बद्धेऽप्यात्मसम्बद्धता तथा ॥ ८६६॥ योगिनां बहुदेहानां ज्ञानेनैव च धारणम् । तत्कारणं तु बोद्धव्यं योगबलं हि योगिनाम् ॥ ८६७॥ विलक्षणं हि संयोगः ज्ञानप्रसरणं मतम् । सुषुप्तावनपायत्वात् तत्तद्देहधृतिस्ततः ॥ ८६८॥ विप्रकृष्टे प्रदेशे तु भोगोत्पादः कथं ननु । मैवं यतः स उत्पादो रामेच्छा दैवसत्तया ॥ ८६९॥ चेतसा वेदितव्यः इत्येतच्छ्रुतेः प्रमाणतः । अणोर्मानसप्रत्यक्षं जीवस्य चोपपद्यते ॥ ८७०॥ आत्मसुखादिकाध्यक्षे महत्त्वं कारणं न तत् । आत्माणुत्वे ततः काचिदापत्तिर्विद्यते न हि ॥ ८७१॥ हृद्यन्तर्ज्योतिरित्येवं हृत्स्थो जीवोऽजडः श्रुतौ । भालादिसुखदुःखे च जीवश्चात्रावगच्छति ॥ ८७२॥ शरीरपरिमाणस्तज्जीवः सर्वशरीरगः । जैना इति वदन्त्यत्र तद् वरं न कुतो यतः ॥ ८७३॥ अल्पदेहे बृहद्देहात् प्रवेशेऽपूर्णताऽऽत्मनः । योगिनं परकाये च प्रवेशः सम्भवेन्न हि ॥ ८७४॥ सङ्कोचे च विकासे तु स्यादात्मनो विकारिता । विकारित्वादनित्यत्वं घटवदात्मनो भवेत् ॥ ८७५॥ तथात्वे कृतनाशश्चाकृतस्याभ्यागमस्तथा । भालादिसुखदुःखादिभानं ज्ञानान्मतं ततः ॥ ८७६॥ स्थूलश्चाहं हि गच्छामि प्रत्ययाच्चेतनस्तनुः । मृते देहे तु चैतन्यं प्राणनिर्गमनान्न हि ॥ ८७७॥ इति चेन्न वरं चैतद् विकल्पासहता यतः । देहस्यावयवे तच्चैकस्मिन् सर्वेषु वाऽस्ति हि ॥ ८७८॥ नाद्यः प्रतीयते यस्माच्चैतन्यमितरत्र च । बहुचेतनवत्त्वं स्यादन्त्ये चैकतनावथ ॥ ८७९॥ उच्छेदो व्यहारस्य वैमत्ये च मिथो भवेत् । हस्ताद्यन्यतमोच्छेदे स्मृतेश्चानुपपन्नता ॥ ८८०॥ सङ्घातरूपवत्त्वान्नत्वात्मा तनुर्यथा घटः । देहस्यानात्मता सिद्धा चेत्येवमनुमानतः ॥ ८८१॥ मम देहः प्रतीतेश्च नात्मता मन्यते तनोः । अनित्यत्वाज्जडत्वाच्च शरीरस्यात्मता न हि ॥ ८८२॥ इन्द्रियस्य न चात्मत्वं ममेन्द्रियं प्रतीतितः । जीवत्वं न च नेत्रादेस्तच्छून्ये जीव्यते यतः ॥ ८८३॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । भोगोपकरणं चैवं तस्मादात्मा मनो न हि ॥ ८८४॥ मम प्राणः प्रतीतेश्च प्राणस्य चात्मता न हि । प्राणोऽस्मीति श्रुतौ चोक्तः प्राणदेही परेश्वरः ॥ ८८५॥ अहं जानामि चेत्यत्राहमर्थस्यात्मता खलु । तस्य धर्मतया ज्ञाते ज्ञाने सा न कथञ्चन ॥ ८८६॥ अजडजीवजीवत्वं प्रकृत्यादौ जडे न च । अणुजीवस्य जीवत्वं विभावीशे न सिध्यति ॥ ८८७॥ तनु जीवत्वमापन्नं विभु ब्रह्म ह्यविद्यया । इति चेन्न यतो जीवोऽजन्मा नित्यः श्रुतौ श्रुतः ॥ ८८८॥ जन्ममृत्यू कथं स्यातामात्मनो नित्यता यदि । समीचीनं न चैतद्धि कुतश्चेदुच्यते यतः ॥ ८८९॥ देहात्मनोश्च संयोगवियोगौ कर्मयोगतः । जन्मात्मनः स संयोगो वियोगो मृत्युसंज्ञकः ॥ ८९०॥ जीवदोषा न चैवं तु ब्रह्मणि सम्भवन्ति हि । जीवब्रह्मविभेदे न भेदश्रुतिविरोधिता ॥ ८९१॥ मुक्तावपि च जीवात्मा जगद्व्यापारवर्जितः । ततो न शक्यते वक्तुमभेदो ब्रह्मजीवयोः ॥ ८९२॥ जीवब्रह्मविभेदे नाभेदश्रुतिविरोधिता । जीवो ब्रह्मापृथक्सिद्धस्ततोऽभेदस्तयोर्यतः ॥ ८९३॥ कपिलस्य मते जीवे स्वीकृता ज्ञानमात्रता । अङ्गीकर्त्तुमशक्या सा कुतश्चेत् तन्मते यतः ॥ ८९४॥ इन्द्रियाणां च वैयर्थ्य स्वापे ज्ञानं प्रसज्यते । तार्किकैस्तन् मतो जीवोऽचिदागन्तुकबुद्धिमान् ॥ ८९५॥ तच्च श्रुतिविरुद्धं हि विज्ञानात्मा श्रुतिर्यतः । स्वेन रूपेण किञ्चैवं मुक्तौ स्वंरूपमाप्यते ॥ ८९६॥ मोक्षे तत् कः प्रवर्तेत तेषां पाषाणसन्निभे । ततो ज्ञानस्वरूपात्मा विभुज्ञान च तद्गुणः ॥ ८९७॥ ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः । एवं विष्णुपुराणे हि ज्ञानस्वरूपतात्मनः ॥ ८९८॥ मन्ता बोद्धेति प्रामाण्याज् ज्ञाता जीवो बुधैर्मतः । ज्ञोऽत एवेति सूत्रं हि ततो व्यासेन सूत्रितम् ॥ ८९९॥ विज्ञान यज्ञं तनुते ज्ञानोक्तिश्चेति याऽऽत्मनः । विज्ञानगुणसारत्वात् सूत्रे सा प्राज्ञवन् मता ॥ ९००॥ नाना जीवा हि लोकेऽस्मिन् रामस्यांशाः सनातनाः । ममैवांशो जीवलोके जीवभूतः सनातनः ॥ ९०१॥ जीवे नित्ये निजांशत्वमेवं गीताकृतेरितम् । प्रभावतः प्रभावद्धि जीवेंऽशत्वं हि ब्रह्मणः ॥ ९०२॥ प्रभावानिव ब्रह्मांशी जीवानां मन्यते बुधैः । उच्यते चैकदेशत्वाद् विशिष्टांशो विशेषणम् ॥ ९०३॥ ब्रह्मणस्तु शरीरत्वाज्जीवो ब्रह्मविशेषणम् । प्राधान्यान्न विशेष्यांशे चांशता प्राज्ञसम्मता ॥ ९०४॥ न जायते श्रुतौ चैवं नित्यत्वमात्मनः श्रुतम् । स्तन्यपानप्रवृत्तिर्न जीवे चानित्यता यदि ॥ ९०५॥ जीवानां सृष्टिवादस्तु देहयोगेन नान्यथा । जीवानां मृत्युवादोऽपि जीव देह वियोगतः ॥ ९०६॥ अनादिकालतो बद्धा जीवा दैवाख्यकर्मणा । अत्र कर्माणि कुर्वन्ति भुञ्जन्ति तत्फलानि च ॥ ९०७॥ बद्धाश्च गुणमय्या ते दैव्या श्रीराममायया । ज्ञानप्रकाशसङ्कोचं प्राप्ताश्च प्राकृता नराः ॥ ९०८॥ वदन्ति मलिना स्वाँरच संसारिणोऽज्ञतायुतान् । नानायोनिषु सञ्जाता देहात्मभ्रमकारिणः ॥ ९०९॥ रामाधीनत्वशून्यस्व स्वातन्त्र्यमतिशालिनः । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवानिति ॥ ९१०॥ आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्ये इत्यज्ञानविमोहिताः'' ॥ ९११॥ स्वकर्मणः फलस्याथ स्वतन्त्रं च फलप्रदम् । रामतुल्यं हि मन्यन्ते रामभिन्नं सुरासुरम् ॥ ९१२॥ तापत्रयेण सन्तप्ता अनाथा दुःखिनस्ततः । रामानुकम्पया जाताः सत्सङ्गरुचयस्तथा ॥ ९१३॥ सद्गुरुं च प्रपन्ना ये राममन्त्रेण दीक्षिताः । स्मरन्तो ब्रह्म रामं ते देहं त्यक्त्वाऽर्चिरादिना ॥ ९१४॥ रामधाम्नि गताश्चाथ श्रीरामगुणसंयुताः । नित्यानन्तसुखं प्राप्ता दुःखमूलविवर्जिताः ॥ ९१५॥ रामानुभवकतीरो भोगसाम्यं गतास्तथा । ज्ञानसङ्कोचशून्याश्च जगदव्यापारवर्जिताः ॥ ९१६॥ सर्वलोक सुश्वारा रामकैकर्यकारका । तेषां मुक्तिमवाप्तानां कर्मबन्धः पुनर्न हि ॥ ९१७॥ दुःखार्ण वे निमज्जन्तं दृष्ट्वा जीवमहेतुकः । करुणासिन्धुरामस्य जायते कोऽप्यनुग्रहः ॥ ९१८॥ पुण्यं भवति चाज्ञातं रामस्यानुग्रहेण हि । अभावो जायते तस्माद् विद्वेषप्रतियोगिकः ॥ ९१९॥ श्रीरामरामभक्तानामाभिमुख्यस्य कारणम् । तज्जन्यादाभिमुख्याद्धि जिज्ञासा समुदेति च ॥ ९२०॥ सम्बन्धिनी विभागस्य सङ्ग्रहासङ्ग्रहाईयो । श्रीमद्रामस्य भक्तानां संवादो जायते ततः ॥ ९२१॥ भवत्यनन्तरं तस्मात् सदाचार्यसमाश्रयः । सदाचार्याश्रयेणाथ हेयोपादेयनिश्चयः ॥ ९२२॥ रामेतराच्च वैराग्यं रामे प्रीतिश्च जायते । निवृत्ते रामभिन्नानां रामप्राप्तेश्च कारणम् ॥ ९२३॥ अङ्गीकरोति तत्पश्चात् सिद्धोपायश्च चेतनः । श्रीरामप्राप्तये सोऽथ त्वरते भृशमुत्सुकः ॥ ९२४॥ रामः स्मरति तं चाथ स्वसम्प्राप्तिसमुत्सुकम् । यथा स्वाप्त्युस्सुकं वत्सं धेनुर्वात्सत्न्यवारिधिः ॥ ९२५॥ आश्लिष्टे च विनष्टे स्तस्ततस्तत्पुण्यपापके । भागेनाथ विनष्टे स्तस्तत्प्रारब्धात्मके च ते ॥ ९२६॥ मनश्चेन्द्रियसंयुक्तं प्राणेन तस्य युज्यते । प्राणो जीवेन संयुक्तो भूतसूक्ष्मैस्तु युज्यते ॥ ९२७॥ सर्वेश्वरस्य रामस्य संसर्गो जायते ततः । तन्मार्गस्य प्रकाशोऽथ हार्दरामानुकम्पया ॥ ९२८॥ नाड्या मूर्धन्यया चाथोकामति हृदयात् किल । शरोरान्निर्गतो भक्त ऊध्ये याव्यर्क रश्मिभिः ॥ ९२९॥ निदाघे चोष्मतासत्त्वान्निशायाञ्चापि रश्मयः । अचर्यन्त्यचिंरादिस्थं पुमांसमातिवाहिकाः ॥ ९३०॥ दिनं तत्रार्चिषोऽह्वश्च शुक्लं पक्षं च गच्छति । समेति शुरूपक्षात स उत्तरायणमेव हि ॥ ९३१॥ तस्मात् संवत्सरं तस्माद् वायुं वायोश्च भास्करम् । सूर्याद् विघुं विधोश्चाथ विद्युतं वरुणं ततः ॥ ९३२॥ ततश्चेन्द्रं ततो धातृलोकं गच्छत्युपासकः । अतिक्रामति पश्चाद भूम्याबावरणसप्तकम् ॥ ९३३॥ उल्लङ्ग्य प्रकृतिं सोऽथ विरजामवगाहते । ततः सूक्ष्माच्छरीराद्धि विश्लष्टश्च भवत्यसौ ॥ ९३४॥ प्रादुर्भवत्यथो चास्यानघत्वादिगुणाष्टकम् । अमानव करस्पर्शो भवत्यस्य ततः परम् ॥ ९३५॥ श्रीमदरामस्य सङ्कल्पाद् दिव्यदेहो भवत्यसौ । कालकाल्येतरे दिव्ये देशे प्राप्तो भवत्यथ ॥ ९३६॥ सरस्यैरम्मदोयेऽथ दिव्ये स्नानं करोति सः । भवत्यनन्तरं चासौ दिव्यभूषणभूषितः ॥ ९३७॥ दिव्यं चाथ विमानं हि समारूढो भवत्ययम् । तिल्यारण्यप्रवेशोऽस्य विमानारोहणादनु ॥ ९३८॥ अप्सरोभिश्च दिव्यैर्हि भव्या चास्य सुसत्कृतिः । तिल्यगन्धप्रवेशोऽस्य तादृश्याः सत्कृतेः परम् ॥ ९३९॥ तिल्यगन्धं प्रविश्याथ ब्रह्मगन्धं विशत्ययम् । सम्प्राप्नोति ततश्चायं प्राकृतेतरगोपुरम् ॥ ९४०॥ वैकुण्ठनगरस्याप्तिर्भवत्यस्य ततः परम् । भवत्ययं च तत्र श्रीनारायणाभिनन्दितः ॥ ९४१॥ गोलोकस्याथ सम्प्राप्तिर्भवत्यस्य महात्मनः । भवत्यसौ हि तत्राथ श्रीकृष्णेनानुमोदितः ॥ ९४२॥ ततः साकेतलोकस्य प्राप्नोत्ययं च गोपुरम् । ब्रह्मविष्णुमहेशाद्यैर्देवैः स्तुतं च वन्दितम् ॥ ९४३॥ वेदैर्निवेदितं चाथ श्रीरामेणाभिनन्दितम् । समृद्धं परमं दीप्तं सर्वथा चाथ सर्वदा ॥ ९४४॥ परात्परमयोध्यं च सुषमासागरं शुभम् । अयोध्यानगरं चासौ सम्प्राप्नोति ततः परम् ॥ ९४५॥ यत्रास्ति सरयू रम्या प्रमोदाख्यं च काननम् । लीलास्पदं च रामस्य रत्नाचलः सुशोभितः ॥ ९४६॥ पूर्वद्वारे च यस्यास्ति सुग्रीवो हि कपीश्वरः । द्वारे तु पश्चिमे श्रीमान् राक्षसेन्द्रो विभीषणः ॥ ९४७॥ उत्तरे तु महावीरो, बालिपुत्रस्तथाङ्गदः । दक्षिणे करुणा-सिन्धुर्मारुतिश्च महाबलः ॥ ९४८॥ दिव्यसूरिसदः प्रत्युद्गच्छत्ययं समुत्सुकः । राजमार्ग ततो याति ब्रह्मतेजो विशत्यथ ॥ ९४९॥ दिव्यस्य गोपुरस्याथ प्राप्तिर्भवति चास्य हि । ब्रह्मवेश्म प्रवेशोऽथ भवत्यस्य महात्मनः ॥ ९५०॥ कल्पवृक्षतले चास्ति साकेते ब्रह्मवेश्मनि । सुवर्णमण्डपे यत्र भासुरा रत्नवेदिका ॥ ९५१॥ रत्नसिंहासनं यत्र वर्त्तते सूर्यसन्निभम् । विशालं कमलं दिव्यं सहस्रदलशोभितम् ॥ ९५२॥ अघःस्थिते वितानस्य तत्र सिंहासने वरे । आसीनं परमं रम्यं श्रीरामं सीतया सह ॥ ९५३॥ दिव्यायुधान्वितं चाथ दिव्यपार्षदसंयुतम् । दिव्यभूषणवस्त्रैश्च भूषितं वीक्षते ह्यसौ ॥ ९५४॥ नमस्करोति साष्टाङ्गमभ्यासं समुपैति च । कोऽसि त्वमि ति पृष्टोऽथ श्रीरामेण परात्मना ॥ ९५५॥ शेषोऽहं शेषिणो नाथ तन्दैव सकलेशितुः । इत्येवं निगदन्तं च श्रीरामः करुणार्णवः ॥ ९५६॥ स्वीयोत्सङ्गसमारूढमालिङ्ग्य विदधाति हि । सर्वान् कामानवाप्नोति चायं रामेण सह ततः ॥ ९५७॥ गुणानां विग्रहादेश्च स्वरूपरूपयोस्तथा । प्रत्यक्षाज्जायते प्रीतेः प्रकर्षो हि ततः परम् ॥ ९५८॥ अनेक विग्रहाणां च जायतेऽथ परिग्रहः । कामचारे च लोकानां समर्थोऽपि भवत्ययम् ॥ ९५९॥ अवस्थासु च सर्वासु सर्वयोर्देशकालयोः । केङ्कर्येषु च सर्वेषु याति चायं प्रसन्नताम् ॥ ९६०॥ छान्दोग्ये मुक्तजीवस्य पुनरावृत्तिवर्जनात् । भगवताऽपि गीतायां बोधयता धनञ्जयम् ॥ ९६१॥ भगवन्तमुपेतस्य पुनर्जन्मनिषेधनात् । श्रीरामं समवाप्तोऽयं कर्मयोनि न गच्छति ॥ ९६२॥ आनन्दी नाथ जीवोऽयं रामं प्राप्य रसात्मकम् । समिच्छति पुनर्जन्म दुःखालयमशाश्वतम् ॥ ९६३॥ सत्यसन्धः प्रतिश्रुत्य प्रपन्नायाभयं स्वयम् । निवर्त्तयेद् भये नैनं श्रीरामः श्रितवत्सलः ॥ ९६४॥ श्रीरामपद्धतौ चैवमर्चिरादिकपद्धतिः । श्रीमद्रामेश्वरार्येण सङ्क्षेपेण हिः वर्णिता ॥ ९६५॥ बद्धमुक्तत्वभेदाभ्यां जीवा चैवं द्विधा मताः । मुक्ताश्च कर्मणा मुक्ता बद्धा बद्धाश्च तेन हि ॥ ९६६॥ कादाचित्काश्च नित्याश्च मुक्तभेदो द्विधा मतः । आदिमाः पूर्वमुक्ताश्चान्तिमा बद्धाः कदापि न ॥ ९६७॥ अणुजीवो मतो ज्ञाता ``एष ह द्रष्टे'' तिश्रुतेः । ज्ञातेतिकथनाज्जीवे कर्त्तृत्वमपि सिद्धयति ॥ ९६८॥ सामानाधिकरण्येन ज्ञानकर्तृत्वयोस्ततः । चेतनोऽहं करोमी तिप्रतीतिरुपपद्यते ॥ ९६९॥ कर्त्तृत्वमात्मनो धर्मो भोक्ताभोग्यमि तिश्रुतेः । चेतनस्यात्र कर्तृत्वं भोक्तृत्वे हि प्रयोजकम् ॥ ९७०॥ अन्यः करोति भुङ्क्तेऽन्यः कथञ्चिन्नोपपद्यते । प्राज्ञैः कर्मकर्तेहिं सम्मतं कर्मणः फलम् ॥ ९७१॥ आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । इतिश्रुतिप्रमाणत्वात् कर्त्तृत्वं नात्मनो ननु ॥ ९७२॥ किन्त्वन्तःकरणस्थं तदभ्यस्तमात्मनीति नु । मैवं प्रतीयतेचात्र कर्तृता मनसो न यत् ॥ ९७३॥ किन्तूपकरणत्वं वै भोक्तृत्वे चात्मनो मतम् । अन्यथा चेन्द्रियादेश्च कर्त्तत्वं सम्भवेत् खलु ॥ ९७४॥ कर्त्तृत्वमात्मनस्तस्मान्नैषा श्रुतिर्निषेधति । कर्त्ता शास्त्रार्थवत्त्वाद् वै व्यासेन सूत्रितं ततः ॥ ९७५॥ ततश्चा हं करोमी तिप्रतीतिरुपपद्यते । यद्यात्मनो न कर्तृत्वं शास्त्राणां व्यर्थता भवेत् ॥ ९७६॥ हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ ९७७॥ नन्वेवं प्रतिषिद्धा च ह्यात्मनो हन्तृता श्रुतौ । इति चेन्नात्मनित्यत्वाद् हन्तृता वर्जिता यतः ॥ ९७८॥ प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमुढात्मा कर्त्ताऽहमिति मन्यते ॥ ९७९॥ इत्येवं ननु गीतायां निषिद्धा कर्त्तृतात्मनः । मैवं जीवस्य कर्तृत्वं सांसारिकप्रवृत्तिषु ॥ ९८०॥ न स्वरूपप्रयुक्तं हि गुणसंसर्गतो यतः । उदीरितश्च गीतायामुत्तरत्रायमाशयः ॥ ९८१॥ पञ्चैतानि महाबाहो कारणानि निबोध मे । अधिष्ठानं तथा कर्त्ता करणं च पृथग्विधम् ॥ ९८२॥ विविधा च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् । शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः ॥ ९८३॥ न्याय्यं वा विपरीत वा पञ्चैते तस्य हेतवः । तत्रवं सति कर्त्तारमात्मानं केवलं तु यः ॥ ९८४॥ पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः । प्रश्नोपषिदि कर्त्ता स्पष्टं जीवः समीरितः ॥ ९८५॥ ग्रहणस्य विहारस्य चात्मनः कथनान्तच्छ्रुतौ । आत्मनश्चैव कर्तृत्वं बादरायणसम्मतम् ॥ ९८६॥ विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । तैत्तरीयेऽपि चेत्येवं कर्त्तत्वमात्मनः श्रुतम् ॥ ९८७॥ बुद्धेरेव हि कत्र्त्तत्वं साङ्ख्यास्तु प्रवदन्ति हि । सम्भवेच्च तथात्वे तु बुद्धेरेव हि भोक्तृता ॥ ९८८॥ कर्तृत्वे च मते बुद्धेः समाधिश्च भवेन्न हि । आत्मनः कर्तॄता तस्मात् सिद्धान्ते स्वीकृत ख ॥ ९८९॥ तक्षावत् स्वेच्छया चात्मा करोति न करोति च । जडबुद्धेस्तु कर्तृत्वे व्यवस्थैषा न सम्भवेत् ॥ ९९०॥ त्वायत्तं राघवायत्तं वा कर्तृत्वं किमात्मनः । जीवस्य भोक्तृता तस्मात् पक्षश्चाद्यो मनोहरः ॥ ९९१॥ विधिनिषेधशास्त्राणां वैयर्थ्य चान्यथा भवेत् । पिप्पलं स्वादु चात्तीति जीवस्य भोक्तृता श्रुतौ ॥ ९९२॥ इति चेन्न यतो जीवे राघवाधीनकर्तॄता । अन्तः प्रविष्टः शास्ते'' ति श्रुतौ रामो हि शासकः ॥ ९९३॥ विधिनिषेधशास्त्राणां वैयर्थ्य हि तथा ननु । मैवं जीवस्य यत्नं यद् वीक्ष्य स्वानुमतिं खलु ॥ ९९४॥ रामो दत्ते ततो जीवो योग्यो विधिनिषेधयोः । तथा प्रवर्त्तते चाथ फलदाने तु चात्मनः ॥ ९९५॥ वैषम्यं चाथ नैर्घृण्यं मन्येते राघवे न तु । अवोचद् भगवाँश्चैवं गीतायां स्वयमेव हि ॥ ९९६॥ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ ९९७॥ तानहं द्विषतः कूरान् संसारेषु नराधमान् । क्षिपाम्यजत्रमशुभानासुरीष्वेव योनिषु ॥ ९९८॥ एष एव साधुकर्मे त्यादिश्रुतिप्रमाणतः । अखिलं चात्मकर्त्तृत्वं रामाधीनं हि मन्यते ॥ ९९९॥ कर्त्तृत्वं राघवाधीनं निर्दोषं श्रुतिसम्मतम् । विशिष्टाद्वैतसिद्धान्ते जीवस्य मन्यते ततः ॥ १०००॥ श्रीचिदानन्दशिष्येण पूर्णानन्देन धीमता । श्रीप्रमिताक्षराख्याया वृत्तेः सारो विनिर्मितः ॥ १००१॥ इति जगद्गुरु श्रीपूर्णानन्दाचार्य सिद्धान्तसार्वभौम विरचितः श्रीबोधायनमतादर्शः सम्पूर्णः । Authored by Swami Purnanandacharya, within this essay, the complete elucidation of concepts such as Arthapanchak, Tattvatraya, and Rahasyatraya in the Sri Sampradaya is undertaken by Sri Acharya. It refutes the views of various non-theistic philosophies like Buddhism, Jainism, Prabhakara, and Charvaka. Critiques of some theistic philosophies, including Advaita, are also presented. The nature of surrender (Prapatti) is investigated, and there is an in-depth discussion on the aspects of Bhagavan according to the Pancha Vyuhavada and their various activities. The essay also explores the transcendental nature of Shri Ram and provides a clear understanding of the concept of Prameya (subject of knowledge) and Pramana (means of knowledge). It delves into the distinctions between the inert and the sentient, discusses the qualities of Sattva, and provides a detailed analysis of Mahat Tatva, Ahamkara, Tanmatras, Mahabhuta, Akasha, Sharira, Indriya, Kala, and more. Proofread by Parashara Ranganathan
% Text title            : Bodhayanamatadarshah
% File name             : bodhAyanamatAdarshaH.itx
% itxtitle              : bodhAyanamatAdarshaH (pUrNAnandAchAryavirachitaH)
% engtitle              : bodhAyanamatAdarshaH
% Category              : raama, rAmAnanda, upadesha, advice, major_works
% Location              : doc_raama
% Sublocation           : raama
% SubDeity              : major_works
% Author                : pUrNAnandAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Parashara Ranganathan
% Indexextra            : (Scan)
% Latest update         : January 23, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org