नामार्थविवेकः

नामार्थविवेकः

स्वाविद्यापदतत्कार्यजातारोपापवादधीः । यस्मिन् विराममगमत् तत्त्रिपादस्मि रामचित् ॥ १॥ गुरुं नत्वा ब्रह्ममात्रावशेषसुत्वमिच्छताम् । तत्प्राप्त्युपायदिव्यश्रीरामनामार्थ उच्यते ॥ २॥ देदीप्यमानरूपत्वाद् दिव्यश्रीर्मुक्तिरीरिता । तद्रूपतो राजमानं महः श्रीराम ईरितम् ॥ ३॥ श्रीराम एव नाम स्यान्नाभिधानमुपेयतः । उपेयरूपावस्थानं नामार्थ इति विश्रुतम् ॥ ४॥ विषयः स्वेतरग्राससत्तासामान्यमीरितः । प्रयोजनं ब्रह्ममात्रावशेषणतया स्थितिः ॥ ५॥ सम्बन्धः प्रतिपाद्यादिः शास्त्रचिन्मात्रयोर्मिथः । विकलेबरकैवल्यानन्दकामोऽधिकार्यसौ ॥। ६॥ उक्ताधिकारसम्पन्नयोगिनोपेयनामचित् । स्वावशेषतयावाप्तुं शक्या स्यात् स्वस्वरूपतः ॥ ७॥ आप्तिः स्वमात्रावशेषो न हि ग्रामान्तराप्तिवत् । निर्बीजब्रह्मविज्ञानान्निर्वाजाप्तिः श्रुतीरिता ॥ ८॥ अनादिकालमारभ्य स्वाविद्यापल्ल्यावधि । नामरूपभिदाशोभि नानाब्रह्माण्डगर्भितम् ॥ ९॥ विराड्ढिरण्यगर्भेशचित्सामान्यैरधिष्ठितम् । तत्तदण्डोचितब्रह्मविष्णुरुद्रायुतान्वित्तम् ॥ १०॥ विचित्रकर्मावरणपुण्यपापभ्रमोज्ज्वलम् । नानाविधप्राणिजातजुष्टमाविद्यकं पदम् ॥ ११॥ विशेषसामान्ययुक्तं सत्यत्वेनानुभूयते । तथा सति कथं निर्विशेषज्ञानं नृणां न तत् ॥ १२॥ उपेयोपायभेदेन नामचिद् द्विविघेरिता । तत्रोपेयनाम सत्तासामान्यमभिधीयते ॥ १३॥ नामाभिधानं नामि चिदभिधेयं तयोर्न भित् । एवं ज्ञानविभातं यदुपायाभिधनाम तत् ॥ १४॥ न ह्युपायं विनोपेवमाप्तुं शक्यं मनीषिभिः । तस्मादुपायसर्वस्वं ज्ञात्वानुष्ठानतः परम् ॥ १५॥ यज्जन्म चरमं तत्रोपेयनाम चिदात्मकम् । उपेयश्रीरामनामतया विद्वान् विशिष्यते ॥ १६॥ स्वाविद्यापदतत्कार्यभ्रमारूढाधिकारिणाम् । स्वान्तःकरणमालिन्यदोषेणोपायनामचित् ॥ १७॥ चतुर्धा भिद्यते स्थूलसूक्ष्मबीजतुरीयतः । यस्यान्तःकरणं भूरिपापेन कबलीकृतम् ॥ १८॥ स चोपायस्थूलनाम स्मरेदघविमुक्तये । स्वाविद्यापदवीनाशयोगवैराजरूपतः ॥ १९॥ राजमानं महो रामनाम स्थूलचिदुच्यते । सत्त्वसत्ततमोपाधिं सर्वतः पाणिमस्तकम् ॥ २०॥ रामं वैश्वानरं ध्यात्वा रामरामेति सर्वदा । लज्जां हित्वा स्मरणतः सर्वपापक्षयो भवेत् ॥ २१॥ सदा रामेति नामैव स्मरतामघसञ्चयम् । निःशेषं नाशयित्वाथ क्रममुक्ति विधास्यति ॥ २२॥ स्वान्तःकरणसम्भूतसञ्चिताघनिवृत्तये । सर्ववर्णैराश्रमिभिः स्मर्तव्यं नाम सर्वदा ॥ २३॥ नाम कीर्तयतः पुंसो नास्ति पातकमण्वपि । गृह्णामि तप्तायःपिण्डमहिभाण्डे करें क्षिपे ॥ २४॥ नामस्मर्तुरपापित्वादकार्ये न भवेन्मतिः । नामापराधदशकं तं द्रष्टुं वा कथं शकम् ॥ २५॥ यदि स्पृशेत् प्रमादेन नाम तन्नाशयेत्तराम् । गाणपत्यशैवशाक्तसौरवैष्णवनामसु ॥ २६॥ रामनान्नः फलाधिक्यमाहुस्तारकरूपतः । राम एव परं ब्रह्म राम एव परं तपः ॥ २७॥ राम एव परं तत्त्वं श्रीरामो ब्रह्म तारकम् । इति श्रुतेस्तच्छ्रीरामनामतुल्यं न विद्यते ॥ २८॥ नारायणाष्टाक्षरे तु रामनामाद्यवर्णकम् । न योजितं यदि तदा नायनाय मनुर्भवेत् ॥ २९॥ दिव्यश्रीशिवपञ्चार्णे रामनामान्त्यवर्णकम् । न योजितं यदि तदा न शिवाय भवेन्मनुः ॥ ३०॥ मनुद्वयं यदा रामनामद्वथक्षरयोजितम् । तदा शिवायायनाय भवत्येव न संशयः ॥ ३१॥ शिवनारायणमनुमुक्तिदापनशक्तिदम् । तस्मात् प्राधान्यतो नाम स्मरतां मुक्तिदायने ॥ ३२॥ शक्तिरस्तीति किं चित्रं स्मर्तृटन् नामोद्धरेत् क्षणात् । हृद्देशे येन सततं स्मृतं तेन महात्मना ॥ ३३॥ साधितं भगवत्तत्त्वं तस्य किं दुर्लभं भवेत् । चरमश्वासवेलायां राम रामेति यः स्मरेत् ॥ ३४॥ स निर्धूताघनिचयो सुक्तिमेति न संशयः । रामचन्द्रेत्येकवारमनिच्छास्मृतिमात्रतः ॥ ३५॥ यावन्नश्येत् पापबृन्दं कल्पकोटिशतैः कृतम् । तावत् कर्तव्यमित्येव दृढनिश्चयपूर्वकम् ॥ ३६॥ कोटिकोटिकोटिजन्मशतेनापि प्रयत्नतः । तावत् कर्तुं समर्थः कः सर्वज्ञ वद सोऽस्ति चेत् ॥ ३७॥ अस्तीत्येवं वदसि चेन्नाम ते पापघातुकम् । न भवेद्दुर्वलत्यात् तत् तदा भवतु मे जनिः ॥ ३८॥ नास्तीत्येवं यदि मतं सफलो मम निश्चयः । तस्मादहं कोटिजन्मपापबृन्दापनुत्तये ॥ ३९॥ श्रीरामचन्द्र ते नाम बुद्धिपूर्वं जपन् स्थितः । त्रिवारं रामनामाशु स्मृत्वा कर्मत्रयान्विताम् ॥ ४०॥ आवृतित्रयतद्धेतुस्वाविद्यां नाशयाम्यहम् । अस्मिन्नर्थे प्रमाणानि श्रुतयः सन्ति कोटिशः ॥ ४१॥ स्मृतयश्च तथा भूरि निश्चयं यान्तु भूसुराः । कृतं दिने यद्दुरितं पक्षमासर्तुवर्षजम् ॥ ४२॥ सर्वं दहति निःशेषं तूलाचलमिवानलः ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च ॥ ४३॥ स्वर्णस्तेयसुरापानगुरुतल्पायुतानि च । कोटिकोटिसहस्राणि उपपातकजान्यपि ॥ ४४॥ सर्वाण्यपि प्रणश्यन्ति रामनामानुक्रीर्तनातू । यत् प्रयागादितीर्थाक्तप्रायश्चित्तशतैरपि ॥ ४५॥ नैवापनोद्यते पापं तदप्याशु विनाशयेत् । पुण्यक्षेत्रेषु सर्वेषु कुरुक्षेत्रादिषु स्वयम् ॥ ४६॥ बुद्धिपूर्वमधं कृत्वा तदप्याशु विनाशयेत् । कृच्छ्रैस्तप्तपराकाद्यैर्नानाचान्द्रायणैरपि ॥ ४७॥ पापं च नापनोद्यं यत् तदप्याशु विनाशयेत् । आत्मतुल्यसुवर्णादिदानैर्बहुविधैरपि ॥ ४८॥ किञ्चिदप्यपरिक्षीणं तदप्याशु विनाशयेत् । सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये ॥ ४९॥ न ते संसारिणो नूनं राम एव न संशयः । चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ॥ ५०॥ ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ ५१॥ सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ ५२॥ तेषामहं समुद्धर्ते त्येवमादिश्रुतेः स्मृतेः । विवशेन प्रयत्नेन ज्ञानेनाज्ञानतोऽपि वा ॥ ५३॥ नामस्मरणतोऽपापो विद्वानसृतमश्नुते । मयोक्तं सकलं नार्थवादः सत्यं न संशयः ॥ ५४॥ श्रीरामनाम्न्यर्थवादं सम्भावयति यो नरः । स महापातकिभ्योऽपि वरिष्ठ इति कीर्तितः ॥ ५५॥ तत्पापशान्तये नाम विनान्पन्न हि विद्यते । इति श्रुतिस्मृतिशतप्रमाणज्ञानवान् मुनिः ॥ ५६॥ श्रीरामसारूप्यमुक्तिं सायुज्यं वैति नान्यथा । यावत् पश्यति वैराजरूपं सर्वत्र सर्वदा ॥ ५७॥ तावदित्थं स्मरेन्नाम मनसा वचसाथवा । ततस्तूपायसूक्ष्मांशनामस्मरणधीर्भवेत् ॥ ५८॥ स्वाविद्यापदसूक्ष्मांशयोगसूत्रस्वरूपतः । राजमानं महो रामनाम सूक्ष्मचिदुच्यते ॥ ५९॥ सत्तवसत्त्वरजोपाधिं सर्वलिङ्गाभिमानिनम् । स्वविकल्पितवैराजतत्कार्यग्रासपूर्वकम् ॥ ६०॥ सूत्रात्मभावमापन्नं श्रीरामं करुणानिधिम् । ध्यात्वा पूर्वोक्तविधया रामनाम सदा स्मरेत् ॥ ६१॥ यावद्धदि बहिर्देशे चान्तराले तयोरपि । सूत्राख्यश्रीरामनाम स्वरूपेण प्रकाशते ॥ ६२॥ तावच्छ्रीरामरामेति मनसा नाम संस्मरेत् । ततस्तूपायबीजांशनामस्मरणधीर्भवेत् ॥ ६३॥ स्वाविद्यापदबीजांशयोगबीजस्वरूपतः । राजमानं महो रामनामबीजचिदुच्यते ॥ ६४॥ सत्त्वसात्तिवकसत्तवाङ्गं सार्वज्ञ्यादिगुणैर्युतम् । स्वकल्पितविराट्सूत्रप्रपञ्चग्रासपूर्वकम् ॥ ६५॥ बीजमात्रतया शिष्टं सर्वकारणवैभवम् । निर्हेतुकदयासिन्धुं रामं ध्यात्वा दिवानिशम् ॥ ६६॥ पूर्वपर्यायगदितरामनाम सदा स्मरेत् । यावच्छ्रीरामनामार्थः प्रत्यक्परविभागतः ॥ ६७॥ भवेत् करामलकवत् तावन्नाम स्मरेद् बुधः । तदर्थों रेफ आम्नातस्त्वमर्थो मार्ण उच्यते ॥ ६८॥ रार्णेन मार्णसंयोगो भवेदसिपदार्थकः । रवाच्यमीशचैतन्यं रलक्ष्यं सत्यचित्सुखम् ॥ ६९॥ मवाच्यं जीवचैतन्यं मलक्ष्यं प्रत्यगीरितम् । विषमोपाधितो रामवाच्ययोर्नैक्यमिष्यते ॥ ७०॥ रामार्णवाच्यापवादाधारलक्ष्यचिदात्मनोः । सामानाधिकरण्येन तयोरैक्यं श्रुतीरितम् ॥ ७१॥ आद्यो रा तत्पदार्थः स्यान्मकारस्त्वम्पदार्थवान् । तयोः संयोजनमसीत्यर्थे तत्वविदो विदुः ॥ ७२॥ ब्रह्मात्मैव भवेदात्मा ब्रह्मैवात्मा न संशयः । एवं विचार्य नामार्थं श्रुत्याचार्यप्रसादतः ॥ ७३॥ ततस्तूपायतुर्यांशनामानुष्ठानधीर्भवेत् । स्वाविद्यापदतुर्यांशयोगसाक्षिस्वरूपतः ॥ ७४॥ राजमानं महो रामनाम तुर्यचिदुच्यते चित्सामान्योपाधिलब्धसर्वसाक्षिस्वरूपकम् ॥ ७५॥ स्वकल्पितविराट्सूत्रबीजतत्कार्यविश्रमम् । कबलीकृत्य तत्सर्वाधारत्वेनावशेपितम् ॥ ७६॥ सर्वोदासीनचैतन्यमपि भक्तावनोत्सुकम् । श्रीरामनामसाम्राज्यं स्वाभेदेनैव भावयेत् ॥ ७७॥ यावत् समस्ताधिष्ठानसाक्ष्यस्मीति दृढा मतिः । सरूपविलयं याति तावदेवं विभावयेत् ॥ ७८॥ शास्त्रजज्ञानविज्ञानसम्यग्ज्ञानप्रभावतः । कर्मत्रयत्र्यावरणभागत्रयलयोद्भवम् ॥ ७९॥ वित्त्वं वरत्वं वर्यत्वमेत्य साक्षी भवेन्मुनिः । सर्वाधारतया शिष्टसाक्ष्याप्तिर्यदि रोचते ॥ ८०॥ तदा तद्रूपेण तिष्ठ सर्वाधिष्ठानसाक्षिणः । सत्तासामान्याप्तिकाले यास्यसि त्वं पराद्वयम् ॥ ८१॥ इदानीमिति - इदानीं ते यद्युपेयनामब्रह्मावशेषधीः । भवेत् तदोपायनामचतुर्भागसमन्वितम् ॥ ८२॥ स्वाविद्यापदतत्कार्यजातं शशविषाणवत् । ज्ञात्वात्यन्तासत्त्वमिति नित्यभावस्वरूपकम् ॥ ८३॥ विकलेबरकैवल्योपेयनामस्वरूपतः । परमाद्वैतरूपेण शिष्यसे नात्र संशयः ॥ ८४॥ निर्बीजब्रह्मविज्ञानसमकालं महामुनिः । निर्बीजसत्तासामान्यब्रह्मैव भवति श्रुतेः ॥ ८५॥ श्रीवासुदेवेन्द्रशिष्यरामचन्द्रेन्द्रयोगिना । उपेयश्रीरामनामपरमार्थो निरूपितः ॥ ८६॥ य इत्थं रामनामार्थं ज्ञात्वा नाम स्मरेत् सदा । स याति परमाद्वैतमहासाम्राज्यवैभवम् । सप्ताशीतिग्रन्थयुता श्रीनामार्थविवेकचित् ॥ ८७॥ इति उपनिषद्ब्रह्मयोगिविरचितः नामार्थविवेकः सम्पूर्णः । Upanishadbrahmayogin उपनिषद्ब्रह्मयोगिन् composed nAmArthavivekaH नामार्थविवेकः in verses as well as its prose commentary व्याख्या Upeya-nama-viveka उपेयनामविवेकः (reference link is below). The Upeya-nama-viveka is a good and authoritative treatise on Nämasiddhānta. It is a manual (prakarana) dealing with the subject (vişaya) of the glory of the recitation of Rama-naman or the name of Rama who is one of the incarnations of the Supreme. Its aim (prayojana) is to aid the devotee to realize identity with Rāma and it has relation (sambandha) to the subject of the Supreme as it portrays it. And one who desires to experience the pleasures of the Supreme Bliss is entitled to study it is an adhikarin. The treatise points out that the recitation of God's name is a means (upāya) for realizing God (upeya) and declares that the name itself is the Supreme Being. In the course of its exposition, it defines and explains terms like upāya, upeya, sattā and Rāma-cit and builds the Nämasiddhānta doctrines on a sound and logical basis. It not only establishes the identity between Rama and Brahman on the basis of statements made in Śruti and Smrti texts but also relates the name of Rama with the state ment 'tat tvam asi'. It finally teaches that the recita-tion of the Lord's name removes from the devotee all traces of sin and prepares his mind for cultivating the sense of identity (advaita-bhāvanā) between him-self and the Supreme: Rāmo ham aham eva Rama iti bhāvayet'. Encoded and proofread by Mrityunjay Pandey
% Text title            : Namarthavivekah by Upanishadbrahmayogi
% File name             : nAmArthavivekaH.itx
% itxtitle              : nAmArthavivekaH (upaniShadbrahmayogivirahitaH)
% engtitle              : nAmArthavivekaH by Upanishadbrahmayogi
% Category              : raama, rAma
% Location              : doc_raama
% Sublocation           : raama
% Author                : Upanishad Brahmayogin
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Indexextra            : (Scans upeyanAmavivekaH vyAkhyAsahitaH 1, 2)
% Latest update         : October 21, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org