श्रीरामपूजा
The prana pratishtha at the mula sthanam of the Rama Janma Bhumi at Ayodhya took place as a grand celebration on the current Svastishri Shobhana year Pausha Shukla Dvadashi, Soma Mrigashirsha Amrita Siddhi Yoga Punya Kala (2024 Jan 22).
This simple puja paddhati was published to help devotees to worship Bhagavan Shrirama in their individual places on this auspicious occasion. The pUjA can even be performed any time with slight modification. If not elaborate pUjA, this can be chanted while visiting Ayoddhya bAlarAma Mandir.
श्रीगणेशाय नमः ।
श्रीवेदव्यासाय नमः ।
ॐ
॥ प्रधानपूजा ॥
(आचम्य)
(प्राणान् आयम्य । विघ्नेश्वर-पूजां कृत्वा ।)
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षय-द्वारा श्री परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीय-परार्धे श्वेतवराह-कल्पे वैवस्वत मन्वन्तरे अष्टाविंशतितमे कलि-युगे प्रथमे पादे जम्बू-द्वीपे भारत-वर्षे भरत-खण्डे मेरोः दक्षिणे पार्श्वे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये शोभन-नाम-संवत्सरे उत्तरायणे सौर-मानेन मकर-मासे चान्द्र-मानेन पौष-मासे शुक्ल-पक्षे द्वादश्यां शुभ-तिथौ इन्दु-वासर-युक्तायां मृगशीर्ष-नक्षत्र-युक्तायां ब्राह्म-(०८ः४३, माहेन्द्र)-योग-बव-(०७ः३७, बालव)-करण-युक्तायां एवं गुण-विशेषण-विशिष्टायां अस्यां द्वादश्यां शुभ-तिथौ
-- अयोध्यायां प्रवर्तमानस्य भगवतः श्रीरामस्य जन्म भूमि-मन्दिरस्य मूल-स्थान-प्राण-प्रतिष्ठायाः निर्विघ्नतया परिपूर्ति-सिद्ध्यर्थं
-- मूल-स्थानं परितः महतः मन्दिर परिसरस्य सम्यग् अभिवृद्धि-व्यवस्थापन-सिद्ध्यर्थं
-- भक्त-कोटिभिः अयोध्यां गत्वा हर्षेण भगवतः श्रीरामस्य दर्शन-प्राप्त्यर्थं
-- वैदिकस्य अस्माकं सनातन धर्मस्य सर्वत्र अभिवृद्ध्यर्थं, तद्-विरोधिनां उपशमनार्थं, तदनुसारिणां सर्वविध-योग-क्षेम-अभिवृद्ध्यर्थं,
-- विभिन्न-सम्प्रदाय-स्थानां सनातन धर्मावलम्बिनां परस्परं समन्वयेन अविरोधेन साधन-अनुष्ठानेन फल-सिद्ध्यर्थं
-- अस्माकं सह-कुटुम्बानां क्षेम-स्थैर्य-धैर्य-वीर्य-विजय-आयुः-आरोग्य-ऐश्वर्याणां अभिवृद्ध्यर्थं धर्मार्थ-काम-मोक्ष-चतुर्विध पुरुषार्थ-सिद्ध्यर्थं
-- विशेषतः भारतीय-सत्-सन्तान-समृद्ध्यर्थं
-- सर्वत्र राम-नाम-महिम्नः राम-राज्यस्य च प्रसारार्थं
-- श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-प्रीत्यर्थं
अयोध्या रामजन्मभूमि-मूलस्थान-प्राण-प्रतिष्ठा-पुण्य-काले यथाशक्ति सम्पादितैः उपचारैः
श्री-रामचन्द्र-पूजां करिष्ये ।
विघ्नेश्वरं उद्वास्य
(कलशपूजां कृत्वा ।)
ध्यानं -
वैदेही-सहितं सुर-द्रुम-तले हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभञ्जन-सुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥
वामे भूमि-सुता पुरश्च हनुमान् पश्चात् सुमित्रा-सुतः
शत्रुघ्नो भरतश्च पार्श्व-दलयोर्-वाय्वादि-कोणेषु च ।
सुग्रीवश्च विभीषणश्च युवराट् तारा-सुतो जाम्बवान्
मध्ये नील-सरोज-कोमल-रुचिं रामं भजे श्यामलम् ॥
श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्रं ध्यायामि ।
आवाहयामि विश्वेशं वैदेही-वल्लभं विभुम् ।
कौसल्या-तनयं विष्णुं श्री-रामं प्रकृतेः परम् ॥
श्रीरामाय नमः -आवाहयामि ।
वामे सीतां आवाहयामि ।
पुरस्तात् हनुमन्तं आवाहयामि ।
पश्चात् लक्ष्मणं आवाहयामि ।
उत्तरस्यां शत्रुघ्नमवाहयामि ।
दक्षिणस्यां दिशि भरतं आवाहयामि ।
वायव्यायां सुग्रीवं आवाहयामि ।
ऐशान्यां विभीषणं आवाहयामि ।
आग्नेय्यां अङ्गदं आवाहयामि ।
नैरृत्यां जाम्बवन्तं आवाहयामि ॥
रत्न-सिंहासनारूढ सर्व-भूपाल -वन्दित ।
आसनं ते मया दत्तं प्रीतिं जनयतु प्रभो ॥
सपरिवाराय श्रीरामाय नमः-आसनं समर्पयामि ।
पादाङ्गुष्ठ-समुद्भूत-गङ्गा-पावित-विष्टप ।
पाद्यार्थमुदकं राम ददामि परिगृह्यताम् ॥
सपरिवाराय श्रीरामाय नमः-पाद्यं समर्पयामि ।
वालखिल्यादिभिर्-विप्रैस्-त्रिसन्ध्यं प्रयतात्मभिः ।
अर्घ्यैः आराधित विभो ममार्घ्यं राम गृह्यताम् ॥
सपरिवाराय श्रीरामाय नमः-अर्घ्यं समर्पयामि ।
आचान्ताम्भोधिना राम मुनिना परिसेवित ।
मया दत्तेन तोयेन कुर्वाचमनमीश्वर ॥
सपरिवाराय श्रीरामाय नमः-आचमनीयं समर्पयामि ।
नमः श्री-वासुदेवाय तत्त्व-ज्ञान-स्वरूपिणे ।
मधुपर्कं गृहाणेमं जानकीपतये नमः ॥
सपरिवाराय श्रीरामाय नमः-मधुपर्कं समर्पयामि ।
कामधेनु-समुद्भूत-क्षीरेणेन्द्रेण राघव।
अभिषिक्त अखिलार्थाप्त्यै स्नाहि मद्-दत्त-दुग्धतः ॥
सपरिवाराय श्रीरामाय नमः-क्षीराभिषेकं समर्पयामि ।
हनूमता मधुवोद्भुतेन मधुना प्रभो ।
प्रीत्याऽभिषेचित-तनो मधुना स्नाहि मेऽद्य भोः ॥
सपरिवाराय श्रीरामाय नमः-मध्वभिषेकं समर्पयामि ।
त्रैलोक्य-ताप-हरण-नाम-कीर्तन राघव ।
मधूत्थ-ताप-शान्त्यर्थं स्नाहि क्षीरेण वै पुनः ॥
सपरिवाराय श्रीरामाय नमः-
मध्वभिषेकान्ते पुनः क्षीराभिषेकं समर्पयामि ।
नदी-नद-समुद्रादि-तोयैर्-मन्त्राभिसंस्कृतैः ।
पट्टाभिषिक्त राजेन्द्र स्नाहि शुद्ध-जलेन मे ॥
सपरिवाराय श्रीरामाय नमः-शुद्धोदक स्नानं समर्पयामि ।
स्नानोत्तरं आचमनीयं समर्पयामि ।
हित्वा पीताम्बरं चीर-कृष्णाजिन-धराच्युत ।
परिधत्स्वाद्य मे वस्त्रं स्वर्ण-सूत्र-विनिर्मितम् ॥
सपरिवाराय श्रीरामाय नमः-वस्त्रं समर्पयामि ।
राजर्षि-वंश-तिलक रामचन्द्र नमोऽस्तु ते ।
यज्ञोपवीतं विधिना निर्मितं धत्स्व मे प्रभो ॥
सपरिवाराय श्रीरामाय नमः-उपवीतं समर्पयामि ।
किरीटादीनि राजेन्द्र हंसकान्तानि राघव ।
विभूषणानि धृत्वाऽद्य शोभस्व सह सीतया ॥
सपरिवाराय श्रीरामाय नमः-आभरणं समर्पयामि ।
सन्ध्या-समान-रुचिना नीलाभ्र-सम-विग्रह ।
लिम्पामि तेऽङ्गकं राम चन्दनेन मुदा हृदि ॥
सपरिवाराय श्रीरामाय नमः-गन्धान् धारयामि ।
गन्धस्योपरि हरिद्रा-कुङ्कुमं समर्पयामि ।
अक्षतान् कुङ्कुमोन्मिश्रान् अक्षय्य-फल-दायक ।
अर्पये तव पादाब्जे शालि-तण्डुल-सम्भवान् ॥
सपरिवाराय श्रीरामाय नमः-अक्षतान् समर्पयामि ।
चम्पकाशोक-पुन्नागैर्-जलजैस्-तुलसी-दलैः ।
पूजयामि रघूत्तंस पूज्यं त्वां सनकादिभिः ॥
सपरिवाराय श्रीरामाय नमः-पुष्पाणि समर्पयामि ।
अङ्ग-गुण-पूजा
अहल्या-उद्धारकाय नमः पाद-रजः पूजयामि
शरणागत-रक्षकाय नमः पाद-कान्तिं पूजयामि
गङ्गा-नदी-प्रवर्तन-पराय नमः पाद-नखान् पूजयामि
सीता-संवाहित-पदाय नमः पाद-तलं पूजयामि
दुन्दुभि-काय -विक्षेपकाय नमः पादाङ्गुष्ठं पूजयामि
विनत-कल्प-द्रुमाय नमः गुल्फौ पूजयामि
दण्डकारण्य-गमन-जङ्घालाय नमः जङ्घे पूजयामि
जानु-न्यस्त-कराम्बुजाय नमः जानुनी पूजयामि
वीरासन-अध्यासिने नमः ऊरू पूजयामि
पीताम्बर-अलङ्कृताय नमः कटिं पूजयामि
आकाश-मध्यगाय नमः मध्यं पूजयामि
अरि-निग्रह-पराय नमः कटि-लम्बितं असिं पूजयामि
अब्धि-मेखला-पतये नमः मध्य-लम्बित-मेखला-दाम पूजयामि
उदर-स्थित-ब्रह्माण्डाय नमः उदरं पूजयामि
जगत्-त्रय-गुरवे नमः वलि-त्रयं पूजयामि
सीतानुलेपित-काश्मीर-चन्दनाय नमः वक्षः पूजयामि
अभय-प्रदान-शौण्डाय नमः दक्षिण-बाहु-दण्डं पूजयामि
वितरण-जित-कल्पद्रुमाय नमः दक्षिण-कर-तलं पूजयामि
आशर-निरसन-पराय नमः दक्षिण-कर-स्थित-शरं पूजयामि
ज्ञान-विज्ञान-भासकाय नमः चिन्मुद्रां पूजयामि
मुनि-सङ्घार्पित -दिव्य-पदाय नमः वाम-भुज-दण्डं पूजयामि
दशानन-काल-रूपिणे नमः वाम -हस्त-स्थित-कोदण्डं पूजयामि
शत-मख-दत्त-शत-पुष्कर-स्रजे नमः अंसौ पूजयामि
कृत्त-दशानन-किरीट-कूटाय नमः अंस-लम्बित-निषङ्ग-द्वयं पूजयामि
सीता-बाहु-लतालिङ्गिताय नमः कण्ठं पूजयामि
स्मित-भाषिणे नमः स्मितं पूजयामि
नित्य-प्रसन्नाय नमः मुख-प्रसादं पूजयामि
सत्य-वाचे नमः वाचं पूजयामि
कपालि-पूजिताय नमः कपोलौ पूजयामि
चक्षुःश्रवः-प्रभु-पूजिताय नमः श्रोत्रे पूजयामि
अनासादित-पाप-गन्धाय नमः घ्राणं पूजयामि
पुण्डरीकाक्षाय नमः अक्षिणी पूजयामि
अपाङ्ग-स्यन्दि-करुणाय नमः अरुणापाङ्ग-द्वयं पूजयामि
विना-कृत-रुषे नमः अनाथ-रक्षक-कटाक्षं पूजयामि
कस्तूरी-तिलकाङ्किताय नमः फालं पूजयामि
राजाधिराज-वेषाय नमः किरीटं पूजयामि
मुनि-मण्डल-पूजिताय नमः जटा-मण्डलं पूजयामि
मोहित-मुनि-जनाय नमः पुंसां मोहनं रूपं पूजयामि
जानकी--व्यजन-वीजिताय नमः विद्युद्-विद्योतित-कालाभ्र-सदृश-कान्तिं पूजयामि
हनुमदर्पित-चूडामणये नमः करुणारस-उद्वेल्लित-कटाक्ष-धारां पूजयामि
सुमन्त्रानुग्रह-पराय नमः तेजोमयरूपं पूजयामि
कम्पिताम्भोधये नमः आहार्य-कोपं पूजयामि
तिरस्कृत-लङ्केश्वराय नमः धैर्यं पूजयामि
वन्दित-जनकाय नमः विनयं पूजयामि
सम्मानित-त्रिजटाय नमः अतिमानुष-सौलभ्यं पूजयामि
गन्धर्व-राज-प्रतिमाय नमः लोकोत्तर-सौन्दर्यं पूजयामि
असहाय-हत-खर-दूषणादि-चतुर्दश-सहस्र-राक्षसाय नमः पराक्रमं पूजयामि
आलिङ्गित आञ्जनेयाय नमः भक्त-वात्सल्यं पूजयामि
लब्ध-राज्य-परित्यत्रे नमः धर्मं पूजयामि
दर्भ-शायिने नमः लोकानुवर्तनं पूजयामि
सर्वेश्वराय नमः सर्वाण्यङ्गानि सर्वांश्च गुणान् पूजयामि ॥
॥ अथ श्रीरामाष्टोत्तरशतनामावलिः ॥
रामाय नमः ।
रावण-संहार-कृत-मानुष-विग्रहाय नमः ।
कौसल्या-सुकृत-व्रात-फलाय नमः ।
दशरथात्मजाय नमः ।
लक्ष्मणार्चित-पादाब्जाय नमः ।
सर्व-लोक-प्रियङ्कराय नमः ।
साकेत-वासि-नेत्राब्ज-सम्प्रीणन-दिवाकराय नमः ।
विश्वामित्र-प्रियाय नमः ।
शान्ताय नमः ।
ताटका-ध्वान्त-भास्कराय नमः । १०
सुबाहु-राक्षस-रिपवे नमः ।
कौशिकाध्वर-पालकाय नमः ।
अहल्या-पाप-संहर्त्रे नमः ।
जनकेन्द्र-प्रियातिथये नमः ।
पुरारि-चाप-दलनाय नमः ।
वीर-लक्ष्मी-समाश्रयाय नमः ।
सीता-वरण-माल्याढ्याय नमः ।
जामदग्न्य-मदापहाय नमः ।
वैदेही-कृत-शृङ्गाराय नमः ।
पितृ-प्रीति-विवर्धनाय नमः । २०
ताताज्ञोत्सृष्ट-हस्त-स्थ-राज्याय नमः ।
सत्य-प्रतिश्रवाय नमः ।
तमसा-तीर-संवासिने नमः ।
गुहानुग्रह-तत्पराय नमः ।
सुमन्त्र-सेवित-पदाय नमः ।
भरद्वाज-प्रियातिथये नमः ।
चित्रकूट-प्रिय-स्थानाय नमः ।
पादुका-न्यस्त-भू-भराय नमः ।
अनसूया-अङ्गरागाङ्क-सीता-साहित्य-शोभिताय नमः ।
दण्डकारण्य-सञ्चारिणे नमः । ३०
विराध-स्वर्ग--दायकाय नमः ।
रक्षः-कालान्तकाय नमः ।
सर्व-मुनि-सङ्घ-मुदावहाय नमः ।
प्रतिज्ञात-आशर-वधाय नमः ।
शरभङ्ग-गति-प्रदाय नमः ।
अगस्त्यार्पित-बाणास-खड्ग-तूणीर-मण्डिताय नमः ।
प्राप्त-पञ्चवटी-वासाय नमः ।
गृध्रराज-सहायवते नमः ।
कामि-शूर्पणखा -कर्ण-नास-च्छेद-नियामकाय नमः ।
खरादि-राक्षस-त्रातखण्डनावितसञ्जनाय नमः । ४०
सीता-संश्लिष्ट-कायाभा-जित-विद्युद्-युताम्बुदाय नमः ।
मारीच-हन्त्रे नमः ।
मायाढ्याय नमः ।
जटायुर्-मोक्ष-दायकाय नमः ।
कबन्ध-बाहु-लवनाय नमः ।
शबरी-प्रार्थितातिथये नमः ।
हनुमद्-वन्दित-पदाय नमः ।
सुग्रीव-सुहृदेऽव्ययाय नमः ।
दैत्य-कङ्काल-विक्षेपिणे नमः ।
सप्त-साल-प्रभेदकाय नमः । ५०
एकेषु-हत-वालिने नमः ।
तारा-संस्तुत-सद्गुणाय नमः ।
कपीन्द्री-कृत-सुग्रीवाय नमः ।
सर्व-वानर-पूजिताय नमः ।
वायु-सूनु-समानीत-सीता-सन्देश-नन्दिताय नमः ।
जैत्र-यात्रोद्यताय नमः ।
जिष्णवे नमः ।
विष्णु-रूपाय नमः ।
निराकृतये नमः ।
कम्पिताम्भोनिधये नमः । ६०
सम्पत्-प्रदाय नमः ।
सेतु-निबन्धनाय नमः ।
लङ्का-विभेदन-पटवे नमः ।
निशाचर-विनाशकाय नमः ।
कुम्भकर्णाख्य-कुम्भीन्द्र-मृगराज-पराक्रमाय नमः ।
मेघनाद-वधोद्युक्त-लक्ष्मणास्त्र-बलप्रदाय नमः ।
दशग्रीवान्धतामिस्र-प्रमापण-प्रभाकराय नमः ।
इन्द्रादि-देवता-स्तुत्याय नमः ।
चन्द्राभ-मुख-मण्डलाय नमः ।
विभीषणार्पित-निशाचर-राज्याय नमः । ७०
वृष-प्रियाय नमः ।
वैश्वानर-स्तुत-गुणावनिपुत्री-समागताय नमः ।
पुष्पक-स्थान-सुभगाय नमः ।
पुण्यवत्-प्राप्य-दर्शनाय नमः ।
राज्याभिषिक्ताय नमः ।
राजेन्द्राय नमः ।
राजीव-सदृशेक्षणाय नमः ।
लोक-तापापहर्त्रे नमः ।
धर्म-संस्थापनोद्यताय नमः ।
शरण्याय नमः । ८०
कीर्तिमते नमः ।
नित्याय वदान्याय नमः ।
करुणार्णवाय नमः ।
संसार-सिन्धु-सम्मग्न-तारकाख्या-महोज्ज्वलाय नमः ।
मधुराय नमः ।
मधुरोक्तये नमः ।
मधुरा-नायकाग्रजाय नमः ।
शम्बूक-दत्त-स्वर्लोकाय नमः ।
शम्बराराति-सुन्दराय नमः ।
अश्वमेध-महायाजिने नमः । ९०
वाल्मीकि-प्रीतिमते नमः ।
वशिने नमः ।
स्वयं रामायण-श्रोत्रे नमः ।
पुत्र-प्राप्ति-प्रमोदिताय नमः ।
ब्रह्मादि-स्तुत-माहात्म्याय नमः ।
ब्रह्मर्षि-गण-पूजिताय नमः ।
वर्णाश्रम-रताय नमः ।
वर्णाश्रम-धर्म-नियामकाय नमः ।
रक्षा-पराय नमः ।
राज-वंश-प्रतिष्ठापन-तत्पराय नमः । १००
गन्धर्व-हिंसा-संहारिणे नमः ।
धृतिमते नमः ।
दीन-वत्सलाय नमः ।
ज्ञानोपदेष्ट्रे नमः ।
वेदान्त-वेद्याय नमः ।
भक्त-प्रियङ्कराय नमः ।
वैकुण्ठ-वासिने नमः ।
चराचर-विमुक्ति-दाय नमः । १०८
॥ इति ब्रह्मयामले रामरहस्ये प्रोक्ता श्री-राम-अष्टोत्तरशत-नामावलिः सम्पूर्णा ।
॥ अथ श्री सीताष्टोत्तरशत-नामावलिः ॥
सीतायै नमः ।
सीर-ध्वज-सुतायै नमः ।
सीमातीत-गुणोज्ज्वलायै नमः ।
सौन्दर्य-सार-सर्वस्व भूतायै नमः ।
सौभाग्य-दायिन्यै नमः ।
देव्यै नमः ।
देवार्चित-पदायै नमः ।
दिव्यायै नमः ।
दशरथ-स्नुषायै नमः ।
रामायै नमः ।
राम-प्रियायै नमः ।
रम्यायै नमः ।
राकेन्दु-वदनोज्ज्वलायै नमः ।
वीर्य-शुल्कायै नमः ।
वीर-पत्न्यै नमः ।
वियन्मध्यायै नमः ।
वर-प्रदायै नमः ।
पति-व्रतायै नमः ।
पङ्क्ति-कण्ठ-नाशिन्यै नमः ।
पावन-स्मृतये नमः ।
वन्दारु-वत्सलायै नमः ।
वीर-मात्रे नमः ।
वृत-रघूत्तमायै नमः ।
सम्पत्-कर्यै नमः ।
सदा-तुष्टायै नमः ।
साक्षिण्यै नमः ।
साधु-सम्मतायै नमः ।
नित्यायै नमः ।
नियत-संस्थानायै नमः ।
नित्यानन्दायै नमः ।
नुति-प्रियायै नमः ।
पृथ्व्यै नमः ।
पृथ्वी सुतायै नमः ।
पुत्र-दायिन्यै नमः ।
प्रकृत्यै परस्यै नमः ।
हनूमत्-स्वामिन्यै नमः ।
हृद्यायै नमः ।
हृदय-स्थायै नमः ।
हताशुभायै नमः ।
हंस-युक्तायै नमः ।
हंस-गतये नमः ।
हर्ष-युक्तायै नमः ।
हताशरायै नमः ।
सार-रूपायै नमः ।
सार-वचसे नमः ।
साध्व्यै नमः ।
सरमा-प्रियायै नमः ।
त्रिलोक-वन्द्यायै नमः ।
त्रिजटा-सेव्यायै नमः ।
त्रिपथ-गार्चिन्यै नमः ।
त्राण-प्रदायै नमः ।
त्रात-काकायै नमः ।
तृणी-कृत-दशाननायै नमः ।
अनसूया-अङ्गरागाङ्कायै नमः ।
अनसूयायै नमः ।
सूरि-वन्दितायै नमः ।
अशोक-वनिका-स्थानायै नमः ।
अशोकायै नमः ।
शोक-विनाशिन्यै नमः ।
सूर्य-वंश-स्नुषायै नमः ।
सूर्य-मण्डलान्तस्स्थ-वल्लभायै नमः ।
श्रुत-मात्राघ-हरणायै नमः ।
श्रुति-सन्निहितेक्षणायै नमः ।
पुष्प-प्रियायै नमः ।
पुष्पक-स्थायै नमः ।
पुण्य-लभ्यायै नमः ।
पुरातनायै नमः ।
पुरुषार्थ-प्रदायै नमः ।
पूज्यायै नमः ।
पूत-नाम्ने नमः ।
परन्तपायै नमः ।
पद्म-प्रियायै नमः ।
पद्म-हस्तायै नमः ।
पद्मायै नमः ।
पद्म-मुख्यै नमः ।
शुभायै नमः ।
जन-शोक-हरायै नमः ।
जन्म-मृत्यु-शोक-विनाशिन्यै नमः ।
जगद्-रूपायै नमः ।
जगद्-वन्द्यायै नमः ।
जय-दायै नमः ।
जनकात्मजायै नमः ।
नाथनीय-कटाक्षायै नमः ।
नाथायै नमः ।
नाथैक-तत्परायै नमः ।
नक्षत्र-नाथ-वदनायै नमः ।
नष्ट-दोषायै नमः ।
नयावहायै नमः ।
वह्नि-पाप-हरायै नमः ।
वह्नि-शैत्य-कृते नमः ।
वृद्धि-दायिन्यै नमः ।
वाल्मीकि-गीत-विभवायै नमः ।
वचोतीतायै नमः ।
वराङ्गनायै नमः ।
भक्ति-गम्यायै नमः ।
भव्य-गुणायै नमः ।
भात्र्यै नमः ।
भरत-वन्दितायै नमः ।
सुवर्णाङ्ग्यै नमः ।
सुखकर्यै नमः ।
सुग्रीवाङ्गद-सेवितायै नमः ।
वैदेह्यै नमः ।
विनताघौघ-नाशिन्यै नमः ।
विधि-वन्दितायै नमः ।
लोक-मात्रे नमः ।
लोचनान्त-स्थित-कारुण्य-सागरायै नमः ।
कृताकृत-जगद्धेतवे नमः ।
कृत-राज्याभिषेककायै नमः । १०८
इदं अष्टोत्तर शतं सीता -नाम्नां तु या वधूः ।
भक्ति-युक्ता पठेत् सा तु पुत्र-पौत्रादि-नन्दिता ॥
धन-धान्य-समृद्धा च दीर्घ-सौभाग्य-दर्शिनी ।
पुंसां अपि स्तोत्रं इदं पठनात् सर्व-सिद्धि-दम् ॥
॥ इति ब्रह्मयामले रामरहस्ये प्रोक्ता श्री-सीता-अष्टोत्तरशत-नामावलिः सम्पूर्णा ॥
॥ अथ श्रीहनुमदष्टोत्तरशत-नामावलिः ॥
हनुमते नमः ।
अञ्जना-सूनवे नमः ।
धीमते नमः ।
केसरि-नन्दनाय नमः ।
वातात्मजाय नमः ।
वर-गुणाय नमः ।
वानरेन्द्राय नमः ।
विरोचनाय नमः ।
सुग्रीव-सचिवाय नमः ।
श्रीमते नमः । १०
सूर्य-शिष्याय नमः ।
सुख-प्रदाय नमः ।
ब्रह्म-दत्त-वराय नमः ।
ब्रह्म-भूताय नमः ।
ब्रह्मर्षि-सन्नुताय नमः ।
जितेन्द्रियाय नमः ।
जितारातये नमः ।
राम-दूताय नमः ।
रणोत्कटाय नमः ।
सञ्जीवनी-समाहर्त्रे नमः । २०
सर्व-सैन्य -प्रहर्षकाय नमः ।
रावणाकम्प्य-सौमित्रि-नयन-स्फुट-भक्तिमते नमः ।
अशोक-वनिका-च्छेदिने नमः ।
सीता-वात्सल्य-भाजनाय नमः ।
विषीदद्-भूमि-तनयार्पित-रामाङ्गुलीयकाय नमः ।
चूडामणि-समानेत्रे नमः ।
राम-दुःखापहारकाय नमः ।
अक्ष-हन्त्रे नमः ।
विक्षतारये नमः ।
तृणीकृत-दशाननाय नमः । ३०
कुल्या-कल्प-महाम्भोधये नमः ।
सिंहिका-प्राण-नाशनाय नमः ।
सुरसा-विजयोपाय-वेत्त्रे नमः ।
सुर-वरार्चिताय नमः ।
जाम्बवन्नुत-माहात्म्याय नमः ।
जीविताहत-लक्ष्मणाय नमः ।
जम्बुमालि-रिपवे नमः ।
जम्भ-वैरि-साध्वस-नाशनाय नमः ।
अस्त्रावध्याय नमः ।
राक्षसारये नमः । ४०
सेनापति-विनाशनाय नमः ।
लङ्कापुर-प्रदग्ध्रे नमः ।
वालानल-सुशीतलाय नमः ।
वानर-प्राण-सन्दात्रे नमः ।
वालि-सूनु-प्रियङ्कराय नमः ।
महारूप-धराय नमः ।
मान्याय नमः ।
भीमाय नमः ।
भीम-पराक्रमाय नमः ।
भीम-दर्प-हराय नमः । ५०
भक्त-वत्सलाय नमः ।
भत्सिताशराय नमः ।
रघु-वंश-प्रिय-कराय नमः ।
रण-धीराय नमः ।
रयाकराय नमः ।
भरतार्पित-सन्देशाय नमः ।
भगवच्छिलष्ट-विग्रहाय नमः ।
अर्जुन-ध्वज-वासिने नमः ।
तर्जिताशर-नायकाय नमः ।
महते नमः । ६०
महा-मधुर-वाचे नमः ।
महात्मने नमः ।
मातरिश्व-जाय नमः ।
मरुन्नुताय नमः ।
महोदार-गुणाय नमः ।
मधु-वन-प्रियाय नमः ।
महा-धैर्याय नमः ।
महा-वीर्याय नमः ।
मिहिराधिक-कान्तिमते नमः ।
अन्नदाय नमः । ७०
वसुदाय नमः ।
वाग्मिने नमः ।
ज्ञान-दाय नमः ।
वत्सलाय नमः ।
वशिने नमः ।
वशीकृताखिल-जगते नमः ।
वरदाय नमः ।
वानराकृतये नमः ।
भिक्षु-रूप-प्रतिच्छन्नाय नमः ।
अभीति-दाय नमः । ८०
भीति-वर्जिताय नमः ।
भूमी-धर-हराय नमः ।
भूति-दायकाय नमः ।
भूत-सन्नुताय नमः ।
भुक्ति-मुक्ति-प्रदाय नमः ।
भूम्ने नमः ।
भुज-निर्जित-राक्षसाय नमः ।
वाल्मीकि-स्तुत-माहात्म्याय नमः ।
विभीषण-सुहृदे नमः ।
विभवे नमः । ९०
अनुकम्पा-निधये नमः ।
पम्पा-तीर-चारिणे नमः ।
प्रतापवते नमः ।
ब्रह्मास्त्र-हत-रामादि-जीवनाय नमः ।
ब्रह्म-वत्सलाय नमः ।
जय-वार्ताहराय नमः ।
जेत्रे नमः ।
जानकी-शोक-नाशनाय नमः ।
जानकी-राम-साहित्य-कारिणे नमः ।
जन-सुख-प्रदाय नमः ।
बहु-योजन-गन्त्रे नमः ।
बल-वीर्य-गुणाधिकाय नमः ।
रावणालय-मर्दिने नमः ।
राम-पादाब्ज-वाहकाय नमः ।
राम-नाम-लसद्-वक्त्राय नमः ।
रामायण-कथादृताय नमः ।
राम-स्वरूप-विलसन्मानसाय नमः ।
राम-वल्लभाय नमः । १०८
इत्थं अष्टोत्तर-शतं नाम्नां वातात्मजस्य यः ।
अनुसन्ध्यं पठेत् तस्य मारुतिः सम्प्रसीदति ।
प्रसन्ने मारुतौ रामो भुक्ति-मुक्ती प्रयच्छति ॥
॥ इति ब्रह्मयामले रामरहस्ये प्रोक्ता
श्री हनुमद्-अष्टोत्तरशतनामावलिः सम्पूर्णा ॥
वनस्पति-रसोद्भूतो गन्धाढ्यो धूप उत्तमः ।
रामचन्द्र महीपाल धूपोऽयं प्रतिगृह्यताम् ॥
सपरिवाराय श्रीरामाय नमः-धूपं आघ्रापयामि ।
ज्योतिषां पतये तुभ्यं नमो रामाय वेधसे ।
गृहाण मङ्गलं दीपं त्रैलोक्य-तिमिरापहम् ॥
सपरिवाराय श्रीरामाय नमः-अलङ्कारदीपं सन्दर्शयामि ।
ॐ भूर्भुवस्सुवः इत्यादि ब्रह्मणे स्वाहा ।
इदं दिव्यान्नं अमृतं रसैः षद्भिः समन्वितम् ।
रामचन्द्रेश नैवेद्यं सीतेश प्रतिगृह्यताम् ॥
सपरिवाराय श्रीरामाय नमः-नैवेद्यं निवेदयामि ।
मध्ये मध्ये पानीयं समर्पयामि ।
निवेदनोत्तरं आचमनीयं समर्पयामि ।
नागवल्ली-दलै-र्युक्तं पूगी-फल-समन्वितम् ।
ताम्बूलं गृह्यतां राम कर्पूरादि-समन्वितम् ॥
सपरिवाराय श्रीरामाय नमः-कर्पूरताम्बूलं समर्पयामि ।
मङ्गलार्थं महीपाल नीराजनमिदं हरे ।
सङ्गृहाण जगन्नाथ रामचन्द्र नमोऽस्तु ते ॥
सपरिवाराय श्रीरामाय नमः ।
समस्त-अपराध क्षमापणार्थं समस्त-दुरित-उपशान्त्यर्थं
समस्त-सन्मङ्गल-अवाप्त्यर्थं कर्पूर-नीराजनं दर्शयामि
रक्षां धारयामि ।
कल्पवृक्ष समुद्भुतैः पुरुहूतादिभिः सुमैः ।
पुष्पाञ्जलिं ददाम्यद्य पूजिताय आशर-द्विषे ॥
सपरिवाराय श्रीरामाय नमः-मन्त्र-पुष्पं समर्पयामि ।
मन्दाकिनी-समुद्भूत-काञ्चनाब्ज-स्रजा विभो ।
सम्मानिताय शक्रेण स्वर्ण-पुष्पं ददामि ते ॥
सपरिवाराय श्रीरामाय नमः-स्वर्ण-पुष्पं समर्पयामि ।
चराचरं व्याप्नुवन्तं अपि त्वां रघु-नन्दन ।
प्रदक्षिणं करोम्यद्य मद मूर्ति-संयुतम् ॥
सपरिवाराय श्रीरामाय नमः-प्रदक्षिणं करोमि ।
ध्येयं सदा परिभव-घ्नं अभीष्ट-दोहं
तीर्थास्पदं शिव-विरिञ्चि-नुतं शरण्यम् ।
भृत्यार्ति-हं प्रणत-पाल-भवाब्धि-पोतं
वन्दे महापुरुष ते चरणारविन्दम् ॥
त्यक्त्वा सुदुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं
धर्मिष्ठ आर्य-वचसा यदगादरण्यम् ।
माया-मृगं दयितयेप्सितं अन्वधावत्
वन्दे महापुरुष ते चरणारविन्दम् ॥
साङ्गोपाङ्गाय साराय जगतां सनकादिभिः ।
वन्दिताय वरेण्याय राघवाय नमो नमः ॥
सपरिवाराय श्रीरामाय नमः-नमस्कारान् समर्पयामि ।
त्वमक्षरोऽसि भगवन् व्यक्ताव्यक्त-स्वरूप-धृत् ।
यथा त्वं रावणं हत्वा यज्ञ -विघ्न-करं खलम् ।
लोकान् रक्षितवान् राम तथा मन्मानसाश्रयम् ॥ १॥
रजस्तमश्च निर्हत्य त्वत्पूजालस्य-कारकम् ।
सत्त्वं उद्रेचय विभो त्वत्पूजादर-सिद्धये ॥ २॥
विभूतिं वर्षय गृहे पुत्रपौत्राभिवृद्धिकृत् ।
कल्याणं कुरु मे नित्यं कैवल्यं दिश चान्ततः ॥ ३॥
विधितोऽविधितो वाऽपि या पूजा क्रियते मया ।
तां त्वं सन्तुष्टहृदयो यथावद्विहितामिव ॥ ४॥
स्वीकृत्य परमेशान मात्रा मे सह सीतया ।
लक्ष्मणादिभिरप्यत्र प्रसादं कुरु मे सदा ॥ ५॥
प्रार्थनाः समर्पयामि ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥
अनया पूजया श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-
श्री-रामचन्द्रः प्रीयताम् ।
तत्सद्ब्रह्मार्पणमस्तु ।
श्रीमत् हनुमत्कृतं श्री-सीता-राम-स्तोत्रम्
अयोध्या-पुर-नेतारं मिथिला-पुर-नायिकाम् ।
इक्ष्वाकूणां अलङ्कारं वैदेहानां अलङ्क्रियाम् ॥ १॥
रघूणां कुल-दीपं च निमीनां कुल-दीपिकाम् ।
सूर्य वंश-समुद्भुतं सोमवंश-समुद्भवाम् ॥ २॥
पुत्रं दशरथस्यापि पुत्रीं जनक-भूपतेः ।
वसिष्ठ-अनुमताचारं शतानन्द-मतानुगाम् ॥ ३॥
कौसल्या-गर्भ-सम्भूतं वेदि-गर्भोदितां स्वयम् ।
पुण्डरीक-विशालाक्षं स्फुरद्-इन्दीवरेक्षणाम् ॥ ४॥
चन्द्र-कान्त-आननाम्भोजं चन्द्रबिम्ब-उपमाननाम् ।
मत्त-मातङ्ग-गमनं मत्त-सारस-गामिनीम् ॥ ५॥
चन्दनार्द्र-भुजा-मध्यं कुङ्कुमाक्त-कुच-स्थलीम् ।
चापालङ्कृत-हस्ताब्जं पद्मालङ्कृत-पाणिकाम् ॥ ६॥
शरणागतगोप्तारं प्रणिपातप्रसादिकाम् ।
ताली-दल-श्यामलाङ्गं तप्त-चामीकर-प्रभाम् ॥ ७॥
दिव्य-सिंहासनारूढं दिव्य-स्रग्-वस्त्र-भूषणाम् ।
अनुक्षणं कटाक्षाभ्यां अन्योन्य-ईक्षण-काङ्क्षिणौ ॥ ८॥
अन्योन्य-सदृशाकारौ त्रैलोक्य-गृह-दम्पती ।
इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ ९॥
अनया स्तोति यः स्तुत्या रामं सीतां च भक्तितः ।
तस्य तौ तनुतां प्रीतौ सम्पदः सकला अपि ॥ १०॥
इतीदं रामचन्द्रस्य जानक्याश्च विशेषतः ।
कृतं हनुमता पुण्यं स्तोत्रं सद्यो विमुक्ति-दम् ।
यः पठेत्प्रातरुत्थाय सर्वान् कामानवाप्नुयात् ॥ ११॥
इति श्रीमत् हनुमत्कृतं श्री-सीता-राम-स्तोत्रम् सम्पूर्णम् ।
This is based on Rama Bhakti Kalpa Lata published in Kalyabda 5026 (1924)by
Valangaiman Subrahmanya Shastrigal, with some parts supplemented froM
Rama Navami Puja of Vrata Raja published by Khemraj Krishnadas, Mumbai
in Kalyabda 5085 (1984).
Proofread by Rajesh Tyagarajan