आपदुद्धारकबटुकभैरवाष्टोत्तरशतनामस्तोत्रम्

आपदुद्धारकबटुकभैरवाष्टोत्तरशतनामस्तोत्रम्

(रुद्रयामलेतन्त्रेविश्वसारोद्धारे) अथ मूलनामावलीपाठः - ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः । क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रदः क्षत्रियो विराट् ॥ १॥ श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः । रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ २॥ कङ्कालः कालशमनः कलाकाष्ठातनुः कविः । त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ ३॥ शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः । अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥ ४॥ धनदोऽधनहारी च धनवान् प्रतिभानवान् । नागहारो नागपाशो व्योमकेशः कपालभृत् ॥ ५॥ कालः कपालमाली च कमनीयः कलानिधिः । त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपः ॥ ६॥ त्रिनेत्रतनयो डिम्भशान्तः शान्तजनप्रियः । बटुको बहुवेषश्च खट्वाङ्गवरधारकः ॥ ७॥ भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः । धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः ॥ ८॥ प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः । अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥ ९॥ अष्टाधारः षडाधारः सर्पयुक्त शिखीसखः । भूधरो भूधराधीशो भूपतिर्भूधरात्मजः ॥ १०॥ कङ्कालधारी मण्डी च आन्त्रयज्ञोपवीतवान् । जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ ११॥ शुद्धनीलाञ्जनप्रख्यो दैत्यहा मुण्डभूषितः । बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः ॥ १२॥ सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः । कामी कलानिधिकान्तः कामिनीवशकृद् वशी ॥ १३॥ जगद्रक्षाकरोऽनन्तो मायामन्त्रौषधीमयः । सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव ह्रि ह्रीं ॐ ॥ १४ (सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुः करोतु शम्) ॥ १४॥ फलश्रुतिपाठः - (शिवपार्वतीसंवादे) अष्टोत्तरशतं नाम्ना भैरवस्य महात्मनः । मया ते कथितं देवि रहस्यं सर्वकामदम् ॥ य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् । न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं भवेत् ॥ न च मारीभयं किञ्चिन्न च भूतभयं क्वचित् । न शत्रुभ्यो भयं किञ्चित् प्राप्नुयान्मानवः क्वचित् ॥ पातकेभ्यो भयं नैव यः पठेत् स्तोत्रमुत्तमम् । मारीभये राजभये तथा चौराग्निजे भये ॥ औत्पातिके महाघोरे तथा दुःस्वप्नदर्शने । बन्धने च तथा घोरे पठेत् स्तोत्रमनुत्तमम् ॥ सर्व प्रशममायाति भयं भैरवकीर्तनात् । एकादशसहस्रन्तु पुरश्चरणमुच्यते ॥ यस्त्रिसन्ध्यं पठेद्देवि संवत्सरमतन्द्रितः । स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानवः ॥ षण्मासं भूमिकामस्तु जपित्वा प्राप्नुयान्महीम् । राजशत्रुविनाशार्थं पठेन्मासाष्टकं पुनः ॥ रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् । जपेन्मासत्रयं मर्त्यो राजान वशमानयेत् ॥ धनार्थी च सुतार्थी च दारार्थी चापि मानवः । पठेन्मासत्रयं देवि वारमेकं तथा निशि ॥ धनं पुत्रं तथा दारान् प्राप्नुयान्नात्र संशयः । रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् । भीतो भयात् प्रमुच्येत तत्तदापन्न आपदः ॥ निगडैश्चापि बद्धो यः कारागृहनिपातितः । श‍ृङ्खलाबन्धनं प्राप्तः पठेच्चैव दिवानिशम् ॥ यान् यान् समीहते कामाँस्ताँस्तानाप्नोति मानवः । अप्रकाश्यं परं गुह्यं न देयं यस्य कस्यचित् ॥ सुकुलीनाय शान्ताय ऋजव दम्भवर्जिते(ने) । दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम् ॥ य इदं पठते नित्यं धनधान्यमवाप्नुयात् । ॥ इति श्रीरुद्रयामलेतन्त्रेविश्वसारोद्धारे श्रीमदापदुद्धारकबटुकभैरवस्तोत्रं सम्पूर्णम् ॥ Notes: The Āpaduddhāraka Baṭuka Bhairava Aṣṭottaraśatanāma StotraM आपदुद्धारक बटुक भैरव अष्टोत्तरशतनामस्तोत्रम् from the RudrayāmalaTantraM रुद्रयामलतन्त्रम् and ViśvasāroddhāraTantraM विश्वसारोद्धारतन्त्रम् given here comprises of the simpler procedure of MūlaPāṭha मूलपाठ and Phalaśruti फलश्रुति. The Āpaduddhāraka Baṭuka Bhairava DhyānaM आपदुद्धारक बटुक भैरव ध्यानम् that precedes this StotraM स्तोत्रम् and the Nāmāvaliḥ नामावलिः derived from the same (ĀpaduddhārakaBaṭukaBhairavĀṣṭottaraśataNāmāvaliḥ आपदुद्धारकबटुकभैरवाष्टोत्तरशतनामावलिः)can be accessed from the respective links given below. There are other ways in which the pāṭha पाठ of the StotraM स्तोत्रम् can be conducted -- that include Sṛṣṭi-Sthiti-Saṁhāra Krama Pāṭha सृष्टि-संहार-स्थिति क्रम पाठ, VilomaGarbha BaṭukaMantra Sampuṭita Pāṭha विलोमगर्भ बटुकमन्त्र सम्पुटित पाठ. These types of pāṭha पाठ, and the details about the procedure (of Nyāsa न्यास etc.)are mentioned in the referenced source publication. Proofread by Ruma Dewan
% Text title            : Apaduddharakabatukabhairav Ashtottarashata Nama Stotram
% File name             : ApaduddhArakabaTukabhairavAShTottarashatanAmastotraM.itx
% itxtitle              : ApaduddhArakabaTukabhairavAShTottarashatanAmastotram (rudrayAmaletantrevishvasAroddhAre OM hrIM bhairavo bhUtanAthashcha bhUtAtmA bhUtabhAvanaH)
% engtitle              : ApaduddhArakabaTukabhairavAShTottarashatanAmastotraM
% Category              : shiva, aShTottarashatanAma, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : From rudrayAmaletantra and vishvasAroddhAratantra, See corresponding nAmAvalI
% Indexextra            : (Scans 1, 2, 3, 4, 5, nAmAvalI, dhyAnam)
% Latest update         : October 13, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org