षडाधारेषु आत्मनाथध्यानम्
मूलाधारे कन्दस्य दक्षिणे भागे - ईशाय ॐ ह्रीं श्रीं गं नमः
शिवाय इति, वामभागे ऐं ह्रीं श्रीं सौं ॐ ह्रीं नमः शिवायै इति
२७-३६-१०८ वारं जप्त्वा,
दशशतदलपद्मे संस्थमानन्दकन्दं
विधिहरिगिरिशैक्यं विद्युदुद्भासमानम् ।
प्रणवमयमतर्क्यं सूक्ष्मसूक्ष्मं महान्तं
शिवपुरनिलयं तं चिन्तयाम्यात्मनाथम् ॥
इति ध्यायेत् ।
स्वाधिष्ठाने - हसक्षमलवरयूं इति शिवं सहक्षमलवरयीं इति
शिवां च जप्त्वा दशशतदलपद्मे इति श्लोकेन ध्यायेत् ।
मणिपूरके -ॐ शिव शिव शरणं शिवानन्दं शिव शिव
शिवाय नमः इति ध्वनिमन्त्रं प्रथमं शतवारं चतुःशतवारं चतुः
सहस्रवारं वा जपन् शिवं तद्वामे शिवां च ध्यायन् --
ॐ भूः । ॐ भुवः । ॐ सुवः । ॐ महः । ॐ जनः । ॐ
तपः । ॐ सत्यम् । ॐ ह्रीं श्रीं तत्सवितुर्वरेण्यं क ए ई ल ह्रीं भर्गो
देवस्य धीमहि हसकहलह्रीं धियो यो नः प्रचोदयात् सकलह्रीं परो
रजसि सावदों क ए ई ल हसकहल सौः ऐं क्लीं ह्रीं श्रीं ओमापो-
ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरों इति, अथवा ।
ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ
सत्यं श्रीं सौः क्लीं ऐं ह्रीं ॐ सौः श्रीं तत्सवितुर्वरेण्यं क एईलह्रीं
भर्गो देवस्य धीमहि हसकहलह्रीं धियो यो नः प्रचोदयात् सकलह्रीं
परोरजसि सावदों श्रीं सौः क्लीं ऐं ह्रीं ॐ सौः श्रीं स्वाहा इति जपन्
दशशतदलपद्मे इति श्लोकेन ईशं भावयेत् ।
अनाहते - ॐ ह्रीं परं ज्योतिः हंस हंस व्योम व्योम्ना
शक्तिशिवस्वरूप ज्योतिरानन्द नृत्तप्रकाशानन्दनाथरक्त पादुकां
पूजयामि ह्रीं शिवायै नमः ह्रीं इति जपन् दशशतदलपद्मे इति श्लोकेन
भावयेत् ।
विशुद्धौ - ॐ ऐं क ए ई ल ह्रीं ॐ ह्रीं श्रीं नमः । ॐ ह्रीं परं
ज्योतिः हंस हंस व्योम व्योम व्योम्ना शक्ति क्लीं हसकहल ह्रीं श्रीं फ्रें
खं शिवस्वरूप ज्योतिरानन्द सौः सकलह्रीं श्रीं शं
नृत्तप्रकाशानन्दनाथ रक्तपादुकां पूजयामि श्रीं ह्रीं शिवायै नमः इति
जपन् ,
अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ।
इति दशशतदलपद्मे इति च भावयेत् ।
आज्ञाचक्रे च, ॐ श्रीं ह्रीं क्लीं ऐं सौः - ॐ ह्रीं श्रीं-ऐं-क
एई ल ह्रीं - सौः ऐं क्लीं ह्रीं श्रीं ॐ - नमः ॐ श्रीं ह्रीं क्लीं ऐं सौः -
ॐ ह्रीं परं ज्योतिः हंस हंस व्योम व्योम व्योम्ना शक्ति - सौः ऐं क्लीं
ह्रीं श्रीं ॐ - ॐ श्रीं ह्रीं क्लीं ऐं सौः -क्लीं - हसकहलह्रीं - सौः ऐं
क्लीं ह्रीं श्रीं ॐ - फ्रें खं -
ॐ श्रीं ह्रीं क्लीं ऐं सौः - सौः - सकलह्रीं -
सौः ऐं क्लीं ह्रीं श्रीं ॐ शं ॐ नृत्तात्मने प्रकाशानन्दनाथ रक्तपादुकां
पूजयामि - ॐ ह्रीं शिवायै नमः । इति जप्त्वा दशशत दलपद्मे इति
आत्मनाथं ब्रह्मरन्ध्रगतषोडशान्ते भावयेत् ।
तत्र तत्र लमित्यादिपञ्चपूजाः
आत्मसमर्पणं च कुर्यात् ।
-
(पुनर्निवेद्यते - कोशगतं मन्त्रस्वरूपं यथादृष्टं अत्र प्रदर्शितं,
गुरूपदेशं तेन योगक्रमे मार्गप्रदर्शनं च विना दुःसाधमेव ।)
॥ श्री गुरुचरणारविन्दार्पणमस्तु ॥
इति षडाधारेषु आत्मनाथध्यानं सम्पूर्णम् ।
Proofread by Aruna Narayanan