ईश्वरप्रोक्तं ३ शिवार्चनोपदेशम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
लीयन्ते तानि लिङ्गे तु तस्माल्लिङ्गं प्रपूजयेत् ॥ १॥
तस्मात्सर्वत्र तीर्थेषु सर्वयज्ञेषु दीक्षितः ।
पूजयेच्च महालिङ्गं पुण्यं सर्वार्थसिद्धिदम् ॥ २॥
शतेन स्थापितं देवं सहस्रेण न चालयेत् ।
दुःस्थितं सुस्थितं वापि शिवलिङ्गं न चालयेत् ॥ ३॥
घृताभिषेकं यः कुर्यात् अहोरात्रं शिवस्य तु
पुण्यमासे समुद्युक्ते नियतं श्लक्ष्णधारया ॥ ४॥
गीतनृत्योपहारेण शङ्खवादित्रनिः स्वनैः ।
कुर्याज्जागरणं तत्र प्रदीपादिसमाकुलम् ॥ ५॥
समस्तपापनिर्मुक्तः समस्तगुणसंयुतः ।
समस्तकामसम्पूर्णः समस्तकुलसंयुतः ॥ ६॥
चलद्भिः सुमहायानैरसङ्ख्येयैरनूपमैः ।
युक्तः शिवपुरे नित्यं मोदते शिववत्सुखी ॥ ७॥
ग्रहणे विषुवे चैव पुण्येषु दिवसेषु च ।
घृताभिषेकं यः कुर्यात् महापुण्यमवाप्नुयात् ॥ ८॥
घृताभिषेकं यः पश्येदासमोप्तेरुपोषितः ।
विधूय सर्वपापानि शिवलोके महीयते ॥ ९॥
एकः पूजयते भक्त्या भक्त्या चान्यः प्रपश्यति ।
तुल्यमेव फलं ताभ्यां भक्तिरेवात्र कारणम् ॥ १०॥
यः कुर्यात्पर्वकालेषु महापूजाप्रवर्तनम् ।
शिवस्य रथयात्रां वा नगरान्तपरिभ्रमात् ॥ ११॥
महाचित्रध्वजैश्छन्त्रैः किङ्कणीरवकान्वितैः ।
वितानध्वजमालाभिर्घण्टाचामरदर्पणैः ॥ १२॥
शङ्खभेर्यादिनिर्घोषैर्गीतवादित्रसङ्कुलैः ।
लख्यदारुमयैर्यन्त्रैर्मातृयक्षमणादिभिः ॥ १३॥
उदगायनयन्त्रैश्च बह्वाश्चर्यैरनेकशः ।
स्त्रीडोलाचक्रयन्त्रैश्च रथमन्दिरशोभितैः ॥ १४॥
दध्यन्नपानकाद्यैश्च महासत्रसमाहितैः ।
महाजनसमाकीर्णं यथाविभवविस्तरम् ॥ १५॥
सर्वदानानि पुण्यानि सर्वयज्ञफलानि च ।
अत्युग्रतपसा पूर्णं सर्वतीर्थफलानि च ॥ १६॥
लब्ध्वा नरवरः श्रीमान् शिवयात्राप्रवर्तनात् ।
शिवलोके महाभागैः शिववन्मोदते चिरम् ॥ १७॥
तस्यान्ते देवराजत्वं स्थिरं कालमवाप्नुयात् ।
जम्बूद्वीपाधिपो भूत्वा तस्यान्ते च महीपतिः ॥ १८॥
त्रिलिङ्गवेदिपर्यन्तं यो दद्याद्घृतकम्बलम् ।
घृतधाराफलं तस्य माघे पूर्णे तु पर्वणि ॥ १९॥
जागरं गीतनृत्ताद्यैः सकृत्कृत्वा तु पर्वणि ।
मन्वन्तरशतं साग्रं शिवलोके महीयते ॥ २०॥
चित्राभिरामनाट्याढ्यं शिवस्यायतनाग्रतः ।
सम्यक् प्रेक्षणकं दत्वा रुद्रलोके महीयते ॥ २१॥
पौर्णमास्यां तु वैशाख्यां नीत्वा पात्रं शिवाग्रतः ।
प्रीयतां मे महादेवः सोममूर्तिर्जगत्पतिः ॥ ३७॥
इत्युक्त्वा वचनं ध्यायेद्देवदेवमुमापतिम् ।
तस्मै विप्राय तत्पात्रमर्पयेद्भक्तितः शनैः ॥ ३८॥
एतसोमव्रतं नाम कृत्वा रुद्रान्तिकं व्रजेत् ।
रुद्रलोकात्परिभ्रष्टो भवेज्जातिस्मरो नरः ॥ ३९॥
पूर्वाभ्यासेन तेनैव पुनः शिवपदं व्रजेत् ।
पूर्णिमायामवस्यां शिवं सम्पूज्य यत्नतः ॥ ४०॥
उपवीतं शिवे दद्यात् शिवभक्तांश्च पूजयेत् ।
पुनरेव तु कार्तिक्यां पूज्य शम्भुं क्षमापयेत् ॥ ४१॥
यतीनां दक्षिणां दद्यात्सूत्रवस्त्रादिपूर्विकाम् ।
यत्कुर्यात्सकृदप्येवं चातुर्मास्ये पवित्रकम् ॥ ४२॥
कल्पकोटिशतं दिव्यं रुद्रलोके महीयते ।
इच्छया वा भवेद्राजा गुणरूपसमन्वितः ॥ ४३॥
भूमिदानस्य यत्पुण्यं कन्यादानस्य यत्फलम् ।
मुखवाद्येन यत्पुण्यमुभयं लभते नरः ॥ ४४॥
तदेव पुण्यं गीतस्य नृत्तस्य च विशेषतः ।
तदेव जायते शब्दाद्धस्ततालध्वनेस्तथा ॥ ४५॥
यो गां पयस्विनीं दधात्तरुणीं वृषसंयुताम् ।
शिवाय तेन दत्तं स्याज्जगत्सर्वं चराचरम् ॥ ४६॥
वृषं च परिपूर्णाङ्गमुदारं च शशिप्रभम् ।
गोपतिं धूर्वहं वापि शिवाय विनिवेदयेत् ॥ ४७॥
यावन्ति देहे रोमाणि तत्प्रसूतिः कुलेषु च ।
तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ४८॥
सूत उवाच ।
यो धर्मवाहपरमेश्वरमीशितारं-
सम्पूजयेद्यदिह भूमिगतः सभक्त्या ।
तस्योत्तमायुरथ सौधकलत्रपुत्र-
मित्रातिरात्रकरणं लभते शिवेऽत्र ॥ ४९॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं ३ शिवार्चनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४४ शिवधर्मकथनम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 44 shivadharmakathanam . vAvRRittashlokAH ..
Notes:
Śivaशिव outlines the procedures for worshipping Him via the Śivaliṅga शिवलिङ्ग; including Ghṛtābhiṣekam घृताभिषेकम्, Śaṅkhavādana शङ्खवादन etc.; and especially during Grahaṇa ग्रहण, Viṣuva विषुव, Māgha Pūrṇimā माघ पूर्णिमा, Vaiśākha Pūrṇimā वैशाख पूर्णिमा, all Pūrṇimā-s पूर्णिमा and Amāvasyā-s अमावस्या etc.
Several other procedures are mentioned throughout the 12 Aṁśa- s १२ अंशाः of the ŚivaRahasyam शिवरहस्यम्.
Selected Śloka-s from the chapter are given on this page.
Proofread by Ruma Dewan