ईश्वरप्रोक्तं रुद्रालक्षणवर्णनम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
मद्भक्ते यत्सदा दत्तं मयि दत्तं हि तद्ध्रुवम् ।
रुद्रास्त एव जगति रुद्राक्षवरकङ्कणाः ॥ १२३॥
ये रुद्राध्यायपारज्ञाः शिवनामार्थवेदिनः ।
त एव रुद्रा जगति भुवः पावनपावनाः ॥ १२४॥
ये पञ्चाक्षरपारीणाः पञ्चास्यध्यानमानसाः ।
पञ्चपातकनिर्मुक्तास्ते रुद्रा नात्र संशयः ॥ १२५॥
ये प्रदोषमहापूजा प्रवर्तनपरायणाः ।
बिल्वपत्रादिभिर्देवि पञ्चामृतनिषेचनैः ॥ १२६॥
त एव रुद्रा जगति नात्रकार्या विचारणा ।
ये सोमवारे नक्तेन भक्तै वर्तन्ति(?)नित्यशः ॥ १२७॥
त एव रुद्रा जगति नात्रकार्या विचारणा ।
ये चतुर्दशीपूजासु नियमान्नक्तभोजिनः ॥ १२८॥
त एव रुद्रा जगति नात्रकार्या विचारणा ।
ये वा कालाष्टमीष्वेवं शिवपूजापरायणाः ॥ १२९॥
त एव रुद्रा जगति नात्रकार्या विचारणा ।
ये पर्वपूजा निरताः शिवलिङ्गे शिवात्मके ॥ १३०॥
त एव रुद्रा जगति नात्र कार्या विचारणा ।
त्रिकालमप्रमादेन पूजयन्ति दृढव्रताः ॥ १३१॥
शिवभक्तेषु नियतं दानाच्छादनभोजनैः ।
पूजयन्ति नरा ये वै ते वै रुद्रा नसंशयः ॥ १३२॥
अशेषपापनिर्मुक्तः शिवलोके महीयते ।
शिवक्षेत्रेषु नियतं ये वसन्ति द्विजादयः ॥ १३३॥
ते वै रुद्रा इति प्रोक्ताः सदा शर्वार्चने रताः ।
आस्वेदमतियत्नेन ये प्रणामकराः शिवे ॥ १३९॥
त एव रुद्रा जगति नात्र कार्या विचारणा ।
प्रदक्षिणपरा ये वै नमस्कारं पदे पदे ॥ १४०॥
त एव रुद्रा जगति नात्र कार्या विचारणा ।
लिङ्गाग्रवर्तनपरास्त्रिकालं सावधानतः ॥ १४१॥
त एव रुद्रा जगति नात्र कार्या विचारणा ।
सदाशिवकथासक्ता सर्वदा नियमाद्द्विजाः ॥ १४२॥
त एव रुद्रा जगति नात्र कार्या विचारणा ।
ये मन्नामजपासक्ताः सर्वदा सावधानतः ॥ १४३॥
त एव रुद्रा जगति नात्र कार्या विचारणा ।
निवसन्ति सदा ये वै अविमुक्ते महेश्वरि ॥ १४४॥
नियता नियमोपेतास्ते रुद्रा नात्र संशयः ।
यः सर्वसाक्षिणं साम्बं महादेवं सनातनम् ॥ १४५॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं रुद्रालक्षणवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ५० भक्तिमहिमा । १२३-१४५॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 50 bhaktimahimA . 123-145..
Notes:
Śiva शिव speaks about indicators and significations of Rudrāḥ रुद्राः a.k.a. Raudrāḥ रौद्राः who are one of the various forms of worshippers of Śiva शिव.
In ŚivaRahasyam Amśa 8 - Bhīmākhyaḥ शिवरहस्यम् अंशः ८ - भीमाख्यः, Ṛṣi Kaśyapa ऋषि कश्यप speaks about indicators and significations of Śāṅkarāḥ शाङ्कराः a.k.a Hāraḥ हाराः, Śāmbhavāḥ शाम्भवाः, Sāṅgāḥ साङ्गाः, Māheśvarāḥ माहेश्वराः, Śaivāḥ शैवाः, Raudrāḥ रौद्राः - the various forms of worshippers of Śiva शिव.
The ṚṣiKaśyapaproktaṃ Śāṅkaralakṣaṇam ऋषिकश्यपप्रोक्तं शाङ्करलक्षणम् and the ṚṣiKaśyapaproktaṃ Śāmbhavalakṣaṇam ऋषिकश्यपप्रोक्तं शाम्भवलक्षणम् can be accessed of one of the links given below.
Proofread by Ruma Dewan