ऋषिकश्यपप्रोक्तं शाम्भवलक्षणम्
(शिवरहस्यान्तर्गते भीमाख्ये)
काश्यप उवाच ।
ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः ।
नैवेद्यं ये शिवे दद्युर्भुञ्ज्युर्वा शङ्करार्पितम् ॥ १०॥
ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः ।
ये धारयन्ति चिह्नानि देवदेवस्य शूलिनः ॥ ११॥
ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः ।
ये धारयन्ति रुद्राक्षान्त्सदा वै शाङ्करोत्तमाः ॥ १२॥
ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः ।
ये रुद्राध्यायजप्येन जपन्ति शिवतुष्टये ॥ १३॥
ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः ।
ये रुद्रैः स्वात्मकैर्नित्यमभिषेक्ष्यन्ति शङ्करम् ॥ १४॥
ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः ।
ये पञ्चाक्षरासक्ता तेन ये पूजयन्ति ते ॥ १५॥
ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः ।
ये वै बिल्वार्चनप्रीता ये वै बिल्वार्चनप्रियाः ॥ १६॥
ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः ।
बिल्वपत्रार्चका ये वै त्रिकालं लिङ्गमस्तके ॥ १७॥
ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः ।
ये लिङ्गार्चनव्यग्रा अग्रा उग्रार्चने रताः ॥ १८॥
ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः ।
ये पञ्चगव्यैर्नियतास्त्रिकालमभिषेचकाः ॥ १९॥
ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः ।
फलजालरसैः शम्भोरभिषेककराः सदा ॥ २०॥
ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः ।
पाटीरागरुकस्तूरीचन्द्रचन्दनलेपकाः ॥ २१॥
शम्भोर्लिङ्गे सदा तुङ्गे ह्यसङ्गाः सङ्गतत्पराः ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ २२॥
बिल्वपत्राम्बुजवरैः करवीरार्कचम्पकैः ।
मन्दार पारिजातादिमालापुष्पप्रदा हि ये ॥ २३॥
शम्भोर्लिङ्गे विशेषेण त्रिकालं च प्रदोषके ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ २४॥
दिव्यवस्त्रप्रदातारो महेशाय समुत्सदा ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ २५॥
ये शम्भो रत्नपुष्पप्रदातारो विशेषतः ।
शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ २६॥
सुवर्णरत्नपुष्पाद्यैर्बिल्वपत्रार्चका हि ये ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ २७॥
ये कृष्णागरुसाम्राणिगुग्गुलैर्धूपदायिनः ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ २८॥
घृततैलमहादीपं ये दद्युः श्रीशिवालये ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ २९॥
ये नैवेद्यप्रदातारो भक्ष्यभोज्यादिभिर्मुने ।
ये ताम्बूलप्रदातारो ह्यहर्निशमुमापतेः ॥ ३०॥
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ।
ये छत्रवृन्ददातारः सर्वदा शिवमस्तके ॥ ३१॥
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ।
ये वै चामरदातारो हंस पाण्डरमुत्तमम् ॥ ३२॥
ये पताकाप्रदातारः सर्वदा ये शिवाग्रतः ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ ३३॥
ये चादर्शप्रदातारो महादेवाग्रतः सदा ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ ३४॥
ये मृदङ्गमहावीणादुन्दुभीवादने रताः ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ ३५॥
तौर्यत्रिकादिकर्तारो नृत्तं स्त्रीणां प्रदायकाः ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ ३६॥
ये शिवालयकर्तारः प्रकारवरगोपुरम् ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ ३७॥
ये शिवारामकर्तारः सर्वपुष्पोपशोभितम् ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ ३८॥
ये रथोत्सवकर्तारो वृषवाहनमुत्तमम् ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ ३९॥
ये शाम्भवान्नदातारो यतीनामपि वा पुनः ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ ४०॥
ये प्रदोषार्चनरताः सर्वपूजाभरैः शिवे ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ ४१॥
ये सोमवासरे सायं शिवलिङ्गार्चने रताः ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ ४२॥
अष्टम्यामष्टमूर्तिं ये पूजयिष्यन्ति भक्तितः ।
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ ४३॥
ये भूतायां भूतनाथमर्चयन्ति दृढव्रताः ।
ये पर्वण्यपि वाभ्यर्च्य शर्वरीनाथधारिणम् ॥ ४४॥
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ।
ये नामनिरताः शम्भोः सर्वदा रसनोज्ज्वलाः ॥ ४५॥
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ।
ये भक्तार्चनतस्तुष्टाः सर्ववर्णेष्वपि ध्रुवम् ॥ ४६॥
महेशस्य विशेषेण शाम्भवाग्रेसरा हि ते ।
येऽर्चयन्ति महादेवं त्रिवारं भस्मधारिणः ॥ ४७॥
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ।
ये क्षेत्रनिरताः शम्भोर्विरक्ता विषयेष्वपि ॥ ४८॥
ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ।
ये रुद्राध्यायनिरताः सदा पञ्चाक्षरादराः ॥ ४९॥
शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः
येऽथर्वणशिखाजाप्यनिरता वेदपारगाः ॥ ५०॥
ये शाम्भवाः शशिकलाशकलोत्तमाङ्ग-
लिङ्गोत्तमाङ्गमनवद्यसुचन्दनाद्यैः ।
सम्पूजयन्ति किल पापमतङ्गभङ्गाः
शान्तास्त्वसङ्गहृदयाः शिवलिङ्गसङ्गाः ॥ ५३॥
॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं शाम्भवलक्षणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः १६ । १०-५०,५३॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 16 . 10-50,53..
Notes:
Ṛṣi Kaśyapa ऋषि कश्यप speaks in detail about indicators and significations of Śāmbhavāḥ शाम्भवाः - the worshippers of Śambhu शम्भु. Further description of the same is continued in Chapter 17.
In another Chapter, Ṛṣi Kaśyapa ऋषि कश्यप speaks in detail about indicators and significations of Śāṃbhavāḥ शाम्भवाः
In ŚivaRahasyam Amśa 12 - Mahādevākhyaḥ शिवरहस्यम् अंशः १२ - महादेवाख्यः, Śiva शिव speaks about indicators and significations of Rudrāḥ रुद्राः a.k.a. Raudrāḥ रौद्राः who are one of the various forms of worshippers of Śiva शिव.
The ṚṣiKaśyapaproktaṃ Śāmbhavalakṣaṇam ऋषिकश्यपप्रोक्तं शाम्भवलक्षणम् and the Īśvaraproktaṃ Rudrālakṣaṇavarṇanam ईश्वरप्रोक्तं रुद्रालक्षणवर्णनम् can be accessed of one of the links given below.
Proofread by Ruma Dewan