ऋषिकश्यपप्रोक्तं शाङ्करलक्षणम्
(शिवरहस्यान्तर्गते भीमाख्ये)
काश्यप उवाच ।
स्तुवन्ति महादेवं ते वै हाराः प्रकीर्तिताः ।
येऽर्चयन्ति महादेवं ते वै शाम्भवसत्तमाः ॥ १॥
ये ध्यायन्ति महेशानचरणाम्बुजमुत्तमम् ।
ये वै क्षेत्रेषु निरता विरताश्चन्यवस्तुषु ॥ २॥
आनन्दवनवासेन सर्वदानन्दमेदुराः ।
शिवलिङ्गार्चका एव ते वै साङ्गाः प्रकीर्तिताः ॥ ३॥
ये वै नैवेद्यभोक्तारस्ते वै भावाः प्रकीर्तिताः ।
ये नामनिरताः शम्भोरन्यनामपराङ्मुखाः ॥ ४॥
ते वै माहेश्वराः प्रोक्ताः पात्रभूताघहारिणः ।
शिवभक्तार्चका ये वै धनधान्यादिभिर्मुदा ॥ ५॥
शाङ्करास्ते सदाज्ञेया दृष्टास्स्पृष्टाः प्रकादिनः ।
ये भस्मोद्धूलोद्युक्तास्ते वै शैवाः प्रकीर्तिताः ॥ ६॥
अग्निरित्यादिभिर्मन्त्रैः सर्वदा येऽनिशं मुदा ।
दग्धपापास्त एवेति विज्ञेयाः शाम्भवोत्तमाः ॥ ७॥
त्र्यायुषं त्रिपुण्ड्रैश्च तथा च त्र्यम्बकैरपि ।
त्रिपुण्ड्रधारिणः सर्वे ते रुद्रा (रौद्रा) नात्र संशयः ॥ ८॥
अघोरमन्त्रतो ये वै सदा रुद्राक्षधारिणः ।
कण्ठकर्णगलाद्यङ्गबाहुमस्तककेष्वपि ॥ ९॥
॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं शाङ्करलक्षणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः १६ । १-९॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 16 . 1-9..
Notes:
Ṛṣi Kaśyapa ऋषि कश्यप speaks about indicators and significations of Śāṅkarāḥ शाङ्कराः a.k.a Hāraḥ हाराः, Śāmbhavāḥ शाम्भवाः, Sāṅgāḥ साङ्गाः, Māheśvarāḥ माहेश्वराः, Śaivāḥ शैवाः, Raudrāḥ रौद्राः - the various forms of worshippers of Śiva शिव.
In another Chapter, Ṛṣi Kaśyapa ऋषि कश्यप speaks in detail about indicators and significations of Śāṃbhavāḥ शाम्भवाः.
In ŚivaRahasyam Amśa 12 - Mahādevākhyaḥ शिवरहस्यम् अंशः १२ - महादेवाख्यः, Śiva शिव speaks about indicators and significations of Rudrāḥ रुद्राः a.k.a. Raudrāḥ रौद्राः who are one of the various forms of worshippers of Śiva शिव.
The ṚṣiKaśyapaproktaṃ Śāmbhavalakṣaṇam ऋषिकश्यपप्रोक्तं शाम्भवलक्षणम् and the Īśvaraproktaṃ Rudrālakṣaṇavarṇanam ईश्वरप्रोक्तं रुद्रालक्षणवर्णनम् can be accessed of one of the links given below.
Proofread by Ruma Dewan