ईश्वरप्रोक्तं शिवलिङ्गार्चनविध्युपदेशम् १
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- शिवगौरीसंवादे -
ईश्वरः (उवाच)
विस्तरेण प्रवक्ष्यामि शिवलिङ्गार्चनक्रमम् ।
षडक्षरेण न्यासादि कृत्वा पूर्वोक्तमार्गतः ॥ १॥
लघुन्यासेन वा सम्यक् पञ्चाङ्गेन यथा विधि ।
पीठान्तं पूजनं कृत्वा पूजको भस्मभूषितः ॥ २॥
भूशुद्धिं भूतशुद्धिं च कृत्वा वाऽथ स्वशक्तितः ।
स्थावरे चेद्द्वारचण्डगणेशस्कन्दपूर्वकान् ॥ ३॥
अस्त्रेण दिग्बन्धनादि कृत्वा हुत्वा च पावके ।
भवाद्यैर्नामभिश्चावाहाहुतीः समिधश्चरुम् ॥ ४॥
स्वसूत्रोक्तेन मार्गेण स्थाप्य वह्निं पृथग्यजेत् ।
पञ्चत्वक्पल्लवोपेतमव्रणं कुम्भमेव हि ॥ ५॥
सम्पूर्य शुद्धैरम्भोभिरापूर्य विधिवत्तदा ।
तण्डुलेषु विधायैवं पुण्याहं वाचयेत्ततः ॥ ६॥
ततों वै प्रोक्ष्य मूलेन सास्त्रेण प्रणवेन हि ।
प्राक् पदद्वारपालांश्च पूज्य धूपादिभिः क्रमात् ॥ ७॥
अन्तर्गृहं प्रविश्यैवं लिङ्गं सम्पूजयेत्ततः ।
समुत्तार्य यदावासो निर्माल्यं तद्द्बहिस्त्यजेत् ॥ ८॥
चण्डेशायेति तदनु ॐनमेत्यादिपूर्वकम् ।
तिलतैलैः पञ्चगव्यैस्तथा पञ्चफलैरपि ॥ ९॥
शालिपिष्टैस्तथा कल्कैर्गन्धपुष्पोदकैरपि ।
बहिर्जप्तताम्रकुम्भरुद्रसूक्तोदकैरपि ॥ १०॥
अभिषिञ्चेच्च लिङ्गे हि यथाविभवमेव हि ।
स्नानकाले प्रकुर्वीत वाद्यारावं मनोहरम् ॥ ११॥
ततः शङ्खोदकेनेशं अभिषिञ्चेच्च मूलतः ।
वासोऽभिवेष्टयित्वेशं गन्धैर्लिप्येत लिङ्गकम् ॥ १२॥
त्रिपुण्ड्रं दापयेल्लिङ्गे घृतदीपावलीमपि ।
बिल्वपत्रैस्तथोत्तानैरुत्तराग्रैरथार्चयेत् ॥ १३॥
शताष्टनामसङ्ख्याभिः कुसुमैर्मालिकादिभिः ।
धूपं दीपं च नैवेद्यं ताम्बूलमुपचारकम् ॥ १४॥
छत्रचामरमायूरव्यजनादर्शकैरपि ।
प्रणवाद्येन मन्त्रेण तल्लिङ्गे चापि भक्तितः ॥ १५॥
नीराजनं नृत्तगीतं वाद्यं नत्वा प्रदक्षिणाः ।
स्तोत्रं चेति समासेन स्थावरेषु विधिः शिवे ॥ १६॥
ततो देवीं गणेशं च स्कन्दचण्डेश्वरादिकाः ।
तत्तन्मन्त्रेण मेधावी तल्लिङ्गैश्च नमोऽन्तकैः ॥ १७॥
(तत्तन्मन्त्रेण मेधावी तल्लिङ्गैः मन्त्रैः) ॥ १७॥
उपचारैश्च शिववत्पूज्यास्तेऽमी गणेश्वराः ।
मूलबेरं तु सम्पूज्यं प्रोक्षणं धातुबेरके ॥ १८॥
उपचारैर्यथापूर्वं कुर्यान्नीराजनं पृथक् ।
देव्यै पूर्वं गणेशं च स्कन्दं चण्डेश्वरं वृषम् ॥ १९॥
नृत्तेशं दक्षिणामूर्तिं सोमास्कन्दं समाचरेत् ।
शिवस्य सर्पिषा प्रोक्तं स्नानं वापि स्थिरे चरे ॥ २०॥
तावता मधुना चैव दध्ना क्षीरेण तावता ।
सहस्रधाराशतकं शङ्खैर्गोशृङ्गजैर्जलैः ॥ २१॥
पञ्चविंशतिमूर्तीनामेवं पूजा त्रिमूर्तिषु ।
भैरवस्यान्तिमा पूजा कार्या रात्रौ दिवापि हि ॥ २२॥
नित्यादपि द्विगुणितां कुर्यात्पूजां तथोत्सवे ।
मासर्क्षायनयोरेवं ग्रहणे सोमसूर्ययोः ॥ २३॥
पर्वण्यपि विशेषेण चरेषूद्वर्तनं चरेत् ।
पञ्चामृतानां स्नपने चैवमभ्यङ्गके शिवे ॥ २४॥
स्नानं फलशतं ज्ञेयमभ्यङ्गे पञ्चविंशतिः ।
फलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम् ॥ २५॥
प्रतिष्ठासु महास्नानं स्थिरे चाभ्यङ्गकं शिवे ।
स्नापयीत विधानेन प्रतिष्ठासु च पर्वणि ॥ २६॥
प्रदोषे सोमवारे च चतुर्दश्यष्टमीषु च ।
पूजैवं द्विगुणा कार्या शिवरात्र्यां तु यामसु ॥ २७॥
षट्त्रिकालेष्वेवमेवं षट्काले काल उच्यते ।
प्रातः सङ्गवमध्याह्नः प्रदोषोऽथ निशीथिनी ॥ २८॥
अरुणोदयकालश्च षट्कालः स्थावरार्चने ।
प्रातर्मध्याह्नसायाह्ने पूजा स्याच्चरलिङ्गके ॥ २९॥
वर्जयित्वा निशीथं च माघकृष्णचतुर्दशीम् ।
प्रतिष्ठासु त्रिगुणितं स्थावरे पूजनं भवेत् ॥ ३०॥
दैवे चार्षे स्वयम्भूते भिन्ने भग्नेऽथ सन्धिते ।
पूजां माण्डलिकीं कुर्यात् त्रिगुणं होमतर्पणम् ॥ ३१॥
द्विजानां भोजनं चैव चतुर्गुणितमाचरेत् ।
स्थावरे जङ्गमे चैव एष सामान्यतो विधिः ॥ ३२॥
चरे वा स्थावरे वापि मूर्तीनां पूजनं भवेत् ।
सर्वोपचारैराराध्य मध्ये वत्स ततोऽर्चयेत् ॥ ३३॥
प्रथमेऽष्टदले मूर्तीः यजेत्तत्पुरुषादिकाः ।
दिक्पत्रेषु गणश्रेष्ठानीशं मध्ये समर्चयेत् ॥ ३४॥
पीतासितश्वेतरक्तपत्रभाश्चतुराननाः ।
वराभयमृगांश्चैव परशुं बिभ्रतीः करैः ॥ ३५॥
कोणपत्रेषु मध्ये च निवृत्याद्याः कला यजेत् ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ ३६॥
शान्त्यतीता कलाः प्रोक्तास्तेजोरूपाः क्रमात्तथा ।
आग्नेय्यां पूर्व वायव्यां मध्ये दिक्षु च पूजयेत् ॥ ३७॥
केसरेषु षडङ्गानि द्वितीयेऽष्टदले पुनः ।
अनेनाद्यन्तमनुना यजेद्देवान् प्रदक्षिणम् ॥ ३८॥
अनन्तसूक्ष्मनामानि शिवोत्तममनन्तरम् ।
एकनेत्रं चैकरुद्रं त्रिमूर्तिं तदनन्तरम् ॥ ३९॥
शितिकण्ठं गणश्रेष्ठं शिखण्डिनमिति क्रमात् ।
नीलपीतसितारक्तकृष्णधूसरसाञ्जनाः ॥ ४०॥
किरीटार्पितबालेन्दून् पद्मस्थान् नगभूषणान् ।
त्रिणेत्रान् शूलवज्रेषु चापहस्तान् मनोहरान् ॥ ४१॥
ततोऽर्चयेद्गणश्रेष्ठान् तृतीयेऽष्टदले पुनः ।
उमा चण्डेश्वरो नन्दी महाकालो गणेश्वरः ॥ ४२॥
वृषभो भृङ्गी च रिटिरित्येवं तान् च यथाक्रमम् ।
उत्तरं दलमारभ्य पीतनीलारुणासितान् ॥ ४३॥
उक्तान् हि वर्णतः श्वेतपाटलान् क्रमतः सुधीः ।
चतुरश्रे गणश्रेष्ठ पूर्वदिक्क्रमतो यजेत् ॥ ४४॥
इन्द्रं सुराधिपं पीतं वज्रहस्तं सवाहनम् ।
अग्निं तेजोऽधिपं रक्तं शक्तिहस्तं सुभूषितम् ॥ ४५॥
यमं प्रेताधिपं कृष्णं दण्डहस्तं समर्चयेत् ।
रक्षोऽधिपं निरृतिं खड्गहस्तं बलोन्नतम् ॥ ४६॥
पाशहस्तं सुशुभ्राङ्गं वरुणं यादसां पतिम् ।
वायुं प्राणाधिपं धूम्रं अङ्कुशाढ्यकरं यजेत् ॥ ४७॥
यक्षाधिपं कुबेरं च शुक्लवर्णं गदाधरम् ।
विद्याधिपं तथेशानं श्वेतं शूलकरं यजेत् ॥ ४८॥
नागाधिपं तथानन्तं गौरं च श्रीगलं यजेत् ।
लोकाधिपं विधातारं रक्तपद्मासनं यजेत् ॥ ४९॥
अङ्कुशं रक्तवर्णं च शुक्लवर्णां गदां यजेत् ।
त्रिशूलं नीलवर्णं च यजेदग्रे समाहितः ॥ ५०॥
रथाङ्गं कुरुविन्दाभं पद्मं रक्तं समर्चयेत् ।
लोकपालायुधान्येवं कथितानि तवानध ॥ ५१॥
य एवं पूजयेद्देवं स सद्यः शिवतां व्रजेत् ।
यद्यशक्तश्चरे वापि स्थावरे वा गणेश्वर ॥ ५२॥
केवलं पञ्चमनुभिः पाद्यार्ध्याचमनीयकम् ।
मूलेन त्र्यम्बकेनापि शिवमावाह्य पूजयेत् ॥ ५३॥
शताष्टोत्तरसङ्ख्याकं जपेत्तत्र षडक्षरम् ।
भवायेति तथैवाष्टनामभिः पूजयेत्ततः ॥ ५४॥
मूलेन धूपदीपादिनैवेद्यं च विसर्जनम् ।
स्त्रीशूद्राणां नमोऽन्तेन पूजनं परिकीर्तितम् ॥ ५५॥
प्रणवाद्यन्तवर्णेन यतिः पञ्चाक्षरेण हि ।
पूजयेल्लिङ्गमीशानमन्येषां च यथाविधि ॥ ५६॥
नास्ति लिङ्गार्चनसमं तपस्त्रिभुवनेश्वरि ।
यद्याचरत्येवमेवमाप्राणान्तं गणोत्तम ॥ ५७॥
स एव रुद्रगणपः स रुद्रः स च शाम्भवः ।
तदेकस्मिन् दिने त्यक्त्वा पञ्चाब्दं नरकं व्रजेत् ।
यद्येकस्मिन् दिने त्यक्ता पञ्चाब्दं नरकं व्रजेत् ॥ ५८॥
एवं स्थिराचारपरो हि लिङ्गं
सम्पूजयन् भुवि मुने वरभोगभाक् स्यात् ।
दैवीं तथा स च गतिं लभतेऽनुरूपां
मुक्तोऽथ भक्तिपरमो मयि सत्यमेव ॥ ५९॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवलिङ्गार्चनविध्युपदेशं १ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ४५ चरस्थावरलिङ्गार्चा । १-५९॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 45 charasthAvarali~NgArchA . 1-59..
Notes:
Śiva शिव describes the procedures of worshipping Him through Śivaliṅga शिवलिङ्ग wrt moveable i.e. a Caraliṅga चरलिङ्ग or Stationary i.e. a Sthāvaraliṅga स्थावरलिङ्ग. He mentions about the worship especially during Parva पर्व, Pradoṣa प्रदोष, Somavāra सोमवार, Caturdashī चतुर्दशी, Aṣṭami अष्टमी, Śivarātri शिवरात्रि, Śaṭkāla षट्काल etc.
Proofread by Ruma Dewan