षोडषरुद्रबीजामृतवन्दना

षोडषरुद्रबीजामृतवन्दना

(अभिनवगुप्तविरचितं ईश्वरप्रत्यभिज्ञाविवृतिविमर्शिन्यन्तर्गते) ॥ ॐ अं अमृतेश्वरभैरवाय नमः ॥ ॥ अ-वर्गः । शम्भुशक्ती ॥ अमृतमनन्तमनुत्तरमघोरषोडशकशक्तिचक्रगतम् । औन्मनसपदनिरूढिप्रथमोपोद्घातकं वन्दे ॥ अ - अमृतः ॥ १॥ आनन्दममृतपूर्णं सामनसे परपदे परं सत्यम् । घटितानुत्तरदृढतमनिरूढिभाजं शिवं वन्दे ॥ आ - अमृतपूर्णः ॥ २॥ इच्छाशक्तिसुनिर्भरममृताभमनन्तभुवनजननपटुम् । वन्दे स्वशक्तिलहरीबहलितभैरवपरानन्दम् ॥ इ - अमृताभः ॥ ३॥ ईश्वरमशेषतापप्रशमनममृतद्रवं सदा वन्दे । अप्रतिघातिस्वेच्छाविकासविश्रान्तममृतकरमौलिम् ॥ ई - अमृतद्रवः ॥ ४॥ यदनुत्तरसम्बोधादानन्दविकस्वरेच्छया पूर्णम् । ईश्वरमुन्मिषदमृतौघसुन्दरं तत्स्तुवे धाम ॥ उ - अमृतौघः ॥ ५॥ अहमानन्दघनेच्छाघटितेश्वरतोन्मिषत्समस्तोर्मिः । इत्युल्लासतरङ्गितममृतोर्मिमहं चिदर्णवं वन्दे ॥ ऊ - अमृतोर्मिः ॥ ६॥ स्वप्रसरप्रेङ्खितविलसदूर्मिसंक्षुभितचिद्रसापूरम् । अमृतस्यन्दनसारं भैरवसंविन्महार्णवं वन्दे ॥ ऋ - अमृतस्यन्दनः ॥ ७॥ पूर्वं यदनुत्तरममृतभूमिमासाद्य सप्तमीं कलनाम् । विश्राम्यति तत्प्रणमाम्यमृताङ्गदं परानन्दि ॥ ॠ - अमृताङ्गः ॥ ८॥ शिवममृतवपुषममृतकलाचतुष्टयतृतीयभागजुषम् । प्रणमामि भासयन्तं क्रमरहितेऽपि क्रममनेकम् ॥ ऌ - अमृतवपुः ॥ ९॥ सञ्जीवनतुर्यकलाकलितविबोधं समस्तभावानाम् । दूषणविषशीर्णानाममृतोद्गारं शिवं वन्दे ॥ ॡ - अमृतोद्गारः ॥ १०॥ एकमनुत्तररूपात्प्रभृतित्रिकशक्तिपूरितानन्दम् । अमृतास्यमस्य जगतः प्रमाणभूतं शिवं वन्दे ॥ ए - अमृतास्यः ॥ ११॥ ऐक्यपरमार्थकलया त्रिशक्तियुगघटितवैश्वरूप्यमहम् । अमृततनुमतनुबोधप्रसरमहाकारणं स्मरामि हरम् ॥ ऐ - अमृततनुः ॥ १२॥ ओतप्रोतं सकलं विद्ध्वा स्वरसेन शिवमयीकुरुते । योऽनुत्तरधाम्न्युदयन्स्वयममृतनिषेचनं तमस्मि नतः ॥ ओ - अमृतसेचनः/अमृतनिषेचनः ॥ १३॥ औषधमाधिव्याधिषु पाशत्रयशातनं त्रिशूलकरम् । वन्देऽहममृतमूर्तिं पूर्णत्रिकशक्तिपरमार्थम् ॥ औ ॥ १४ - अमृतमूर्तिः ॥ बैन्दवममृतरसमयं वेद्यं योऽनुत्तरे निजे धाम्नि । पूर्णीभावयतितमाममृतेशं तं नमस्यामि ॥ अं ॥ १५ - अमृतेशः ॥ प्रसृतमनुत्तररूपादानन्दादिक्रमेण विश्वमदः । सर्वामृतधरमन्तर्बहिश्च विसृजन्तमभिवन्दे ॥ अः ॥ १६ - सर्वामृतधरः ॥ ॥ इति अभिनवगुप्तविरचितं ईश्वरप्रत्यभिज्ञाविवृतिविमर्शिन्यन्तर्गते षोडषरुद्रबीजामृतवन्दना सम्पूर्णा ॥ Notes: Abhinavagupta अभिनवगुप्त eulogizes each of the ṢoḍaṣaRudraBija-s षोडषरुद्रबीजाः sequentially in form of 16 Maṅgalaślokāḥ १६ मङ्गलश्लोकाः that he strategically positions in beginning of each of the 16 chapters respectively in his exposition called ĪśvaraPratyabhijñāVivṛitiVimarśinī ईश्वरप्रत्यभिज्ञाविवृतिविमर्शिनी on the composition by Utpaladeva उत्पलदेव known as ĪśvaraPratyabhijñāKārikā ईश्वरप्रत्यभिज्ञाकारिका. The collation of the 16 śloka-s १६ श्लोकाः is made for seamless reading and may have been named severally as interpreted by respective people and more so for convenience of understanding the concept. Here it is named as ŚoḍaśaRudraBijāmṛtaVandanā षोडषरुद्रबीजामृतवन्दना. The ṢoḍaṣaRudraBija-s षोडषरुद्रबीजाः correspond to the ṢodaṣaSvarāḥ षोडशस्वराः (16 vowels) i.e. BījaVarṇāḥ बीजवर्णाः of the Varṇamālā वर्णमाला (pertaining to the Mātṛkā मातृका and Mālini मालिनि scheme) as outlined in the MālinivijayottaraTantram मालिनिविजयोत्तरतन्त्रम् addressing aspects pertaining to Amṛta अमृत as can be gleaned from the following Śloka-s श्लोकाः : अमृतोऽमृतपूर्णश्च अमृताभोऽमृतद्रवः । अमृतौघोऽमृतोर्मिश्च अमृतस्यन्दनोऽपरः ॥ अमृताङ्गोऽमृतवपुरमृतोद्गार एव च । अमृतास्योऽमृततनुस्तथा चामृतसेचनः ॥ तन्मूर्तिरमृतेशश्च सर्वामृतधरोऽपरः । षोडशैते समाख्याता रुद्रबीजसमुद्भवाः ॥ - मालिनिविजयोत्तरतन्त्रम् ॥ ३ । १७-१९॥. The 34 Rudrāḥ चतुस्त्रिंशत्रुद्राः and their respective Śaktiḥ (शक्तिः) corresponding to the CatustriṁśatVyañjanāni चतुस्त्रिंशत्व्यञ्जनानि (34 consonants) of the Varṇamālā वर्णमाला (pertaining to the Mātṛkā मातृका and Mālini मालिनि scheme) are extolled by Jayaratha जयरथ in Tantrālokavivekaḥ तन्त्रालोकविवेकः in his exposition on Tantrālokaḥ (T0) तन्त्रालोकः (त०) composed by Abhinavagupta अभिनवगुप्त, and are collated for seamless reading as CatustriṁśatRudraStavaḥ चतुस्त्रिंशत्रुद्रस्तवः, that can be accessed from one of the links below. The RudraŚatārdhaVarṇaNāmāvaliḥ रुद्रशतार्धवर्णनामावलिः that outlines the RudraŚakti-s रुद्रशक्तिः that each Akṣara अक्षर is imbibed with; and the ŚivaŚaktiVargatmakaNāmāvaliḥ शिवशक्तिवर्गात्मकनामावलिः that outlines the PuruśaBhāva पुरुषभाव and ŚaktiBhāva शक्तिभाव Saṁjñā-s संज्ञा that rule each Vargaḥ वर्गः - both derived from the ŚrīMālinivijayottaraTantram श्रीमालिनिविजयोत्तरतन्त्रम् of the Varṇamālā वर्णमाला (pertaining to the Mātṛkā मातृका and Mālini मालिनि scheme), can be accessed from one of the links below. See numbered Links to the related texts in the HTML file 1. ŚivaŚaktiVargatmakaNāmāvaliḥ शिवशक्तिवर्गात्मकनामावलिः 2. CatustriṁśatRudraStavaḥ चतुस्त्रिंशत्व्यञ्जनानि 3. RudraŚatārdhaVarṇaNāmāvaliḥ रुद्रशतार्धवर्णनामावलिः Encoded and proofread by Ruma Dewan
% Text title            : Shodasha Rudra Bijamritavandana
% File name             : ShoDaSharudrabIjAmRRitavandanA.itx
% itxtitle              : ShoDaSharudrabIjAmRRitavandanA (abhinavaguptavirachitaM IshvarapratyabhijnAvivRitivimarshinyantargate)
% engtitle              : ShoDaSharudrabIjAmRRitavandanA 
% Category              : shiva, abhinavagupta, kAshmIrashaivadarshanam
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Abhinavagupta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Indexextra            : (text, Scans 1, 2, 3, 4, 5, Links 1, 2, 3)
% Latest update         : October 21, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org