भगवद्रूपवर्णनम्
यत्ते परं वरदरूपमतीतमेव
मार्गं गिरां तदिह कः क्षमते गृणातुम् ।
अग्राहि यत्तु नतलोकमनुग्रहीतुं
बालेन्दुलक्ष्म भवता तदिदं गृणामि ॥ १॥
आस्तां परं यदपरं तदपि स्वकीयं
दिव्यं वपुर्नहि महेश विमर्शयोग्यम् ।
यत्किञ्चिदेव तु विकल्पविकल्प्यमान-
मानन्दधाम तदपीह भवार्तिभाजाम् (भवार्द्दितानाम्) ॥ २॥
मूर्त्तिर्ध्रुवं तव शिवामृतवर्तिरेना-
मासाद्य यत्कतिचिदश्रुलवाः पतन्ति ।
नश्यत्यघौघपटलं तिमिरं व्यपैति
रागः प्रशाम्यति दृशः प्रथते प्रसादः ॥ ३॥
सत्यं महार्घगुणरत्न निधानमेत-
दालम्बनं तव वपुर्विपदर्दितानाम् ।
नो चेन्नखांशुभरकेसरितं किमत्र
पादाभिधं युगपदुद्गतमब्जयुग्मम् ॥ ४॥
पादद्वयं तव भव प्रणतिप्रकर्ष-
हर्षाश्रुबिन्दुभरदन्तुरिताङ्गुलीकम् ।
नीहारशीकरपरिष्कृतपत्रपङ्क्ति-
पङ्केरुहद्वितयकान्ति भजन्ति धन्याः ॥ ५॥
भस्मोज्ज्वलं त्रिदशशेखरपद्मराग-
दीप्रप्रभारुणितमङ्घ्रिसरोजयुग्मम् ।
वन्दामहे घुसृणरेणुपरागगर्भ-
कर्पूरपांसुभिरिवच्छुरितं स्मरारेः ॥ ६॥
जङ्घालतायुगलमाश्रितगुल्फमूल-
भोगीन्द्रभोगसुभगाभिनवालवालम् ।
शम्भोरभीष्टफलदं भवतापतान्ति-
शान्तिक्षमं शमयितुं विपदं श्रयामि ॥ ७॥
वन्दे युगान्तसमयोषितसप्तलोकं
लोकोत्तरं जठरमीश्वरभैरवस्य ।
यत्रैति नाभिकुहरं जगदादिसर्ग-
निर्यज्जनौघनवनिर्गममार्गभङ्गिम् ॥ ८॥
सिन्दूरिताऽमरमतङ्गजकुम्भशोभि
सन्ध्याभिताम्रशरदम्बुधरानुकारि ।
वन्दे फणीन्द्रफणरत्नरुचारुणाभं
भस्मौघभास्वरमुरः पुर(स्मर)शासनस्य ॥ ९॥
स्वामिन्नमी तव भुजा भुजगाधिराज-
भोगोपगूढवपुषो हृदयं मदीयम् ।
आनन्दयन्ति बत भीमभवोपताप-
निर्वापणेन विटपा इव चन्दनस्य ॥ १०॥
मध्यस्थितेरुभयपार्श्वगता चकास्ति
हस्तस्य मेरुपरिमर्शविनाकृतेयम् ।
अव्याहतग्रहवशाहितयोगसिद्धि-
र्नक्षत्रपङ्क्तिरिव देव तवाऽक्षमाला ॥ ११॥
त्वं कालभैरववपुर्ज्वलिताऽनलाश्रि
लोलाङ्गुलीवलनमण्डलितं दधानः ।
संहाररात्रिषु निनर्तिषुरीश शूलं
बालार्कचुम्बितनवाम्बुदभङ्गिमेषि ॥ १२॥
शाणोपलोत्कषणशुद्धनवेन्द्रनील-
नीलद्युतिर्जयति ते शितिकण्ठ कण्ठः ।
यस्मिन्घनाञ्जनरुचिर्भुजगः कलिन्द-
कन्याहृदान्तरितकालियभङ्गिमेति ॥ १३॥
कण्ठो वहन्नपि विषं विषमं तवैषः
सद्यः श्रियं सृजति यद्वचसाश्रितेषु ।
स्वामिन्नतस्त्रिभुवनप्रथितप्रतिष्ठं
श्रीकण्ठ इत्युचितमेव तवाभिधानम् ॥ १४॥
अन्तर्विमृश्य गरलेन गले सलील-
मालिङ्गितं विमलमाननमिन्दुमौलेः ।
हृष्यामि हन्त मुहुरम्बुरुहभ्रमाप्त-
रोलम्बडम्बरविडम्बनपण्डितेन ॥ १५॥
यद्वद्विषं सदमृतं शिरसि प्रसिद्ध-
मम्भस्तवेश विशदं सुमनःस्रवन्त्याः ।
मन्ये तथैव भगवन् भवतो गलस्थं
सम्पद्यतेऽमृतमिदं नतसान्त्वनेषु ॥ १६॥
तद्युक्तमीश वदनाद्भवतः सुधाच्छ-
कान्तेर्यदग्निरपतद्वपुषि स्मरस्य ।
यो लङ्घनं त्रिभुवनैकगुरोर्विधित्सु-
रुल्का न किं पतति चन्द्रमसोऽपि तस्य ॥ १७॥
दिष्ट्या विरुद्धजनता दमयन्त्यपीयं
दृष्टिस्तवेश्वर बिभर्त्यनलाश्रितत्वम् ।
दिष्ट्या वनैकरतिरप्यवनैकसक्ति-
रेकस्त्वमद्भुतनिधे भगवन्नमस्ते ॥ १८॥
धन्यस्य यस्य वपुषि ग्लपिते तपोभिः
स्वामिन् पतन्ति विषमाणि तवेक्षणानि ।
मुष्णन्ति मुग्धमृगशावदृशां न धैर्य-
सर्वस्वमस्य विषमाणि विलोचनानि ॥ १९॥
सत्येव दृग्विलसिते करुणामृतौघ-
शीते जरामरणहारिणि तावकीने ।
नाथ व्यधायि विबुधैरबुधैर्मुधैव
दुग्धोदधिप्रमथनेऽनवधिः प्रयासः ॥ २०॥
श्वेतेऽमृतं यदसृजद्रविजे च वह्नि-
मेकैव दृक्तव तयोः स निजः प्रभावः ।
इक्षौ सुधा विषमुषाणफले च सार्धं
यद्वर्धते किमपराध्यति तत्र वृष्टिः ॥ २१॥
नूनं पयोधिमथनावसरे परेश
पीतं त्वया तदमृतं न तु कालकूटम् ।
अद्यापि यद्वसति ते वचनक्रमे च
दृग्विभ्रमे च तरुणे करुणारसे च ॥ २२॥
सत्यं प्रसादसमये चपलत्वमेति
धत्तेऽधिकं च कुटिलत्वमियं तव भ्रूः ।
एतां विना पुनरनर्गलकालपाश-
पाते परास्ति न गतिर्भयविह्वलानाम् ॥ २३॥
आपूरितः सुरसरित्पयसाऽमृताय
जूटः प्रतप्ततपनीयपिशङ्गकान्तिः ।
स्वामिन्नसौ तव नवातपताम्रवेला-
शैलोपगूढ इव दुग्धनिधिर्न कस्य ॥ २४॥
स्वामिन्सुधावदवदातरुचिस्तवेय-
माभाति हन्त मुकुटे नृकपालमाला ।
जूटान्तरालविलसत्सुरसिन्धुतीर-
लीलाविहाररसिकेव मरालमाला ॥ २५॥
ब्रह्मादिभिस्तव जगद्गुरुभिः शिरांसि
यान्यर्पितानि परमेश्वर पादपीठे ।
तान्येव मूर्धनि यदाभरणीकरोषि
स प्रौढिमा जयति कोऽपि कृतज्ञतायाः ॥ २६॥
निर्वाणमेति न जलैरपि यत्र वह्नि-
र्यत्रैष नो पचति तानि महाशिखोऽपि ।
मान्द्यं न विन्दति तमीरमणः कृशोऽपि
ताभ्यामसौ विजयते शितिकण्ठ जूटः ॥ २७॥
भालस्थले हुतवहं वहतो जलं च
चन्द्रं च मूर्ध्नि विकटं च कपालखण्डम् ।
एकत्र मुण्डमपरत्र सुधाघटं च
हस्ते चकास्ति भवतोऽद्भुत एष वेषः ॥ २८॥
दाने नदीनमुपकल्पयतः सहर्ष-
माक्रम्य गामनुपमां गतिमास्थितस्य ।
नागेन्द्रसम्भृतमहाकटकस्य कस्य
शस्यं विना त्वदिह राजशिरोमणित्वम् ॥ २९॥
कण्ठे विषं विषभृतोऽपि विभूषणानि
गात्रेषु मूर्धनि विषं विबुधस्रवन्त्याः ।
इत्थं विषैकवसतेरपि ते चकास्ति
कर्णामृतं सुकृतिनाममृतेशनाम ॥ ३०॥
क्षतविभवविशेषाः प्राणमात्रावशेषा
विपदमनुभवामः कर्मपाको हि वामः ।
तदिह भुजगहारः कॢप्तमोहापहारः
स भवति गतिरेकः कृत्तशोकातिरेकः ॥ ३१॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``भगवद्रूपवर्णनं'' नामैकोनविंशं स्तोत्रं सम्पूर्णम् ।
Notes:
Stutikusumāñjaliḥ स्तुतिकुसुमाङ्जलिः is a composition by Kāśmīra Mahākavi काश्मीर महाकवि Jagaddhara Bhaṭṭa जगद्धरभट्ट who belongs to the lineage of Ratnadhara रत्नधर (father) and Gauradhara गौरधर (grandfather).
The complete composition of Stutikusumāñjaliḥ स्तुतिकुसुमाङ्जलिः can be accessed from one of the links given below.
Proofread by Ruma Dewan