ब्रह्माप्रोक्तं शमाप्तुं शङ्करार्चनोपदेशम्

ब्रह्माप्रोक्तं शमाप्तुं शङ्करार्चनोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) - ब्रह्मा इन्द्र संवादे - ब्रह्मोवाच इन्द्राद्य न त्वया सम्यक् पूजितः पार्वतीपतिः । तेनैव व्याकुलं जातं तव चित्तमनाकुलम् ॥ १३५॥ येन न क्रियते नित्यं यथाविधि शिवार्चनम् । तेन दुःखानि सर्वाणि प्राप्यन्ते नात्र संशयः ॥ १३६॥ दुःखालया भवन्त्येव सर्वे त्यक्त शिवार्चनाः । त्यक्तेशपूजनैरेव प्राप्यते दुःखमन्वहम् ॥ १३७॥ शङ्करं शङ्करं नित्यं यो नार्चयति सादरम् । न तस्य सुखलेशोऽपि सत्यं सत्यं न संशयः ॥ १३८॥ यथा दुःखवशं यान्ति शङ्करेतरपूजकाः । तथा दुःखवशं यन्ति त्यक्तशङ्करपूजनाः ॥ १३९॥ शङ्करं सम्यगाराध्य प्राप्नुवन्तीशमन्वहम् । शङ्कराराधने त्यक्ते कथं शमुपलभ्यते ॥ १४०॥ शङ्करार्चनमेवैकं परमानन्दसाधनम् । तदन्यन्न श्रुतं वज्रिन्परमानन्दसाधनम् ॥ १४१॥ देवेष्वन्येषु वा वज्रिन् शङ्करान्यो न शङ्करः । ततः शमाप्तुं कुर्वन्ति शङ्कराराधनं द्विजाः ॥ १४२॥ शमाप्तुं यतते यस्तु विना शङ्करपूजनम् । स मूर्ख इति विज्ञेयो नेतरो मूर्ख उच्यते ॥ १४३॥ कायेन मनसा वाचा ये शङ्करमुपासते । ते पण्डिता इति ज्ञेयाः पूज्यास्ते धनिभिर्धनैः ॥ १४४॥ शङ्करासक्तचित्तानां न दूरे शं ततः सदा । शङ्कराराधनं कार्यं शमर्थिभिरहनिशम् ॥ १४५॥ स्वर्गापवर्गफलदं शङ्करं लोकशङ्करम् । ये पूजयन्ति सततं धन्यास्ते नात्र संशयः ॥ १४६॥ भगवान्पार्वतीनाथः सर्वाभीष्टफलप्रदः । स एव पूज्यते नित्यं तस्य दुःखं न सर्वथा ॥ १४७॥ बहवो मुनयः पूर्वमुमाकान्तस्य पूजया । दुःखपाशविनिर्मुक्ताः शङ्करं समुपाययुः ॥ १४८॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं शमाप्तुं शङ्करार्चनोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २५। १३५-१४८॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 25 . 135-148.. Proofread by Ruma Dewan
% Text title            : Brahmaproktam Shamaptum Shankararchanopadesham
% File name             : brahmAproktaMshamAptuMshankarArchanopadesham.itx
% itxtitle              : shamAptuM shaNkarArchanopadesham brahmAproktaM (shivarahasyAntargatam)
% engtitle              : brahmAproktaM shamAptuM shankarArchanopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 25| 135-148||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org