मार्गशीर्षमासकृते शिवशताष्टनामावलिः मास ९
- शिवरहस्यव्युत्पन्नम् -
ॐ विश्वेशाय नमः ।
ॐ खण्डपरशवे नमः ।
ॐ शिवाय नमः ।
ॐ शीतांशुभूषणाय नमः ।
ॐ अखण्डनगकोदण्डाय नमः ।
ॐ चण्डिकेशप्रियाय नमः ।
ॐ हराय नमः ।
ॐ गम्भीराय नमः ।
ॐ गगनान्तस्थाय नमः ।
ॐ स्थाणवे नमः । १० ॥
ॐ सर्वशरीरगाय नमः ।
ॐ ऊर्ध्वरेताय नमः ।
ॐ महावीर्याय नमः ।
ॐ गणनाथाय नमः ।
ॐ अम्बिकाप्रियाय नमः ।
ॐ जटाधराय नमः ।
ॐ अन्धकहराय नमः ।
ॐ त्रिशूलिने नमः ।
ॐ नीललोहिताय नमः ।
ॐ गरादनाय नमः । २० ॥
ॐ विरूपाक्षाय नमः ।
ॐ भवाय नमः ।
ॐ संसाररोगहृते नमः ।
ॐ वसनाशाय नमः ।
ॐ भगाक्षिघ्नाय नमः ।
ॐ वामनाय नमः ।
ॐ मन्मथान्तकाय नमः ।
ॐ भवामयहराय नमः ।
ॐ योगिने नमः ।
ॐ कर्त्रे नमः । ३० ॥
ॐ सर्वस्वतन्त्रवते नमः ।
ॐ अणोरणीयसे नमः ।
ॐ वरदाय नमः ।
ॐ महताय नमः ।
ॐ महत्तराय नमः ।
ॐ सर्वर्तुकारकाय नमः ।
ॐ धन्विने नमः ।
ॐ कञ्जजातोत्तमाङ्गधृते नमः ।
ॐ विष्णुनेत्रप्रपूज्याङ्घ्रये नमः ।
ॐ मधुसूदनसूदनाय नमः । ४० ॥
ॐ विचाररहिताय नमः ।
ॐ मानिने नमः ।
ॐ मनस्विने नमः ।
ॐ कालनाशनाय नमः ।
ॐ सोमसूर्याग्निनयनाय नमः ।
ॐ भीमाय नमः ।
ॐ भव्याय नमः ।
ॐ युगान्तकृते नमः ।
ॐ सरस्याय नमः ।
ॐ धूम्रकेशाङ्गाय नमः । ५० ॥
ॐ बभ्रुशाय नमः ।
ॐ भयहारकाय नमः ।
ॐ वाताशनधराय नमः ।
ॐ गर्ताय नमः ।
ॐ कैलासनिलयाय नमः ।
ॐ स्वराजे नमः ।
ॐ तुराषाट्पूजितपदाय नमः ।
ॐ वेदवाजि(जी)प्रियाय नमः ।
ॐ यूने नमः ।
ॐ सनातनाय नमः । ६० ॥
ॐ दीनदयाय नमः ।
ॐ वसुषेणाय नमः ।
ॐ प्रसादकृते नमः ।
ॐ स्तुतिप्रियाय नमः ।
ॐ वास्तुपाय नमः ।
ॐ हव्यकव्यभुगीश्वराय नमः ।
ॐ व्योमकेशाय नमः ।
ॐ वामदेवाय नमः ।
ॐ कृत्तिवासाय नमः ।
ॐ प्रभेदनाय नमः । ७० ॥
ॐ पशूनां पतये नमः ।
ॐ आतन्याय नमः ।
ॐ विघसाशिने नमः ।
ॐ मखान्तकाय नमः ।
ॐ आषाढाय नमः ।
ॐ पार्वतीनाथाय नमः ।
ॐ अघोररुद्राय नमः ।
ॐ महेश्वराय नमः ।
ॐ कपालपाणये नमः ।
ॐ मृगधृते नमः । ८० ॥
ॐ पादुकापादपद्मभुवे नमः ।
ॐ वेनाय नमः ।
ॐ वैन्याय नमः ।
ॐ वैद्युतात्मने नमः ।
ॐ गतिदाय नमः ।
ॐ मुक्तिदायकाय नमः ।
ॐ विषाभरणभूषाढ्याय नमः ।
ॐ मृडाय नमः ।
ॐ परिदृ(वृ)ढाय नमः ।
ॐ अन्तकाय नमः । ९० ॥
ॐ पत्राविच्छेदकाय नमः ।
ॐ देवाय नमः ।
ॐ वेदगीताय नमः ।
ॐ पुरान्तकाय नमः ।
ॐ विरागाय नमः ।
ॐ विकटाय नमः ।
ॐ मुण्डाय नमः ।
ॐ तण्डुप्रीताय नमः ।
ॐ भयावहाय नमः ।
ॐ विशालवक्षाय नमः । १०० ॥
ॐ भक्ताढ्याय नमः ।
ॐ त्रिपुण्ड्रललितालिकाय नमः ।
ॐ चक्षुःश्रवाय नमः ।
ॐ महाहाराय नमः ।
ॐ रुद्राक्षवलयोज्ज्वलाय नमः ।
ॐ गणाधिपाय नमः ।
ॐ गणश्रेष्ठाय नमः ।
ॐ शतधन्विने नमः । १०८ ॥
ॐ सहस्रधृते नमः ।
॥ इति शिवरहस्यव्युत्पन्नं मार्गशीर्षमासकृते शिवशताष्टनामावलिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २२ मार्गशीर्षार्चनम् । ३८.२-५२ ॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 22 mArgashIrShArchanam . 38.2-52 ..
Notes:
Mārgaśīrṣamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ मार्गशीर्षमासकृते शिवशताष्टनामावलिः is derived from the Mārgaśīrṣamāsakṛte ŚivaŚatāṣṭanāmaStotram मार्गशीर्षमासकृते शिवशताष्टनामस्तोत्रम् comprising of 108 Names १०८ नामानि of Śiva शिव from the ŚivaRahasyaṃ Mahādevākhyaḥ Ekādaśamāṃśaḥ Adhyāyaḥ 22 शिवरहस्यं महादेवाख्यः एकादशमांशः अध्यायः २२, for His Worship during the Mārgaśīrṣa māsa मार्गशीर्ष मास. The count seems to exceed though.
The Mārgaśīrṣamāsakṛte ŚivaŚatāṣṭanāmaStotram मार्गशीर्षमासकृते शिवशताष्टनामस्तोत्रम् and a Mārgaśīrṣamāsakṛte ŚivaStutiḥ मार्गशीर्षमासकृते शिवस्तुतिः can be accessed from the links provided below.
Proofread by Ruma Dewan