मार्गशीर्षमासकृते शिवस्तुतिः मास ९
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
शम्भो मयस्कर हरामर धीर वीर
गङ्गाधर प्रमथनाथ सनातनेश ।
विश्वेश विश्व मदनान्तक विश्वमूर्ते
विश्वाक्ष विश्वमुख पाहि नमो नमस्ते ॥ ५४॥
नमामि शशिशेखरं पुरहरं च गङ्गाधरं
विभूतिधरमीश्वरं फणधरेन्द्रहारं हरम् ॥ ५५॥
दीनावनप्रथितचारुदृशा महेश
श्रीव्योमकेश कुशकाशसमर्चिताङ्घ्रे ।
कोशावकाशमहिमन् वरशेषभूष
मामाशु वीक्षय सुशिक्षय कामवर्गम् ॥ ५६॥
- -
स्तवेनानेन देवेशि स्तुवीत परमेश्वरम् ।
पौर्णम्यां शाम्भवैः सार्धं होमः कार्यो विधानतः ॥ ५७॥
चित्रं गोमिथुनं देवि सवत्सं च सुदक्षिणम् ।
स्वयं भुञ्जीत तस्यान्ते बान्धवैः शाम्भवैः सह ॥ ५८॥
मासं नक्ताशनो भूत्वा भवभक्तो जितेन्द्रियः ।
स च यत्फलमाप्नोति तदेकाग्रमनाः शृणु ॥ ५९॥
गीतवादित्रबहुलैरप्सरोगणनर्तनैः ।
गन्धस्रगनुलिप्ताङ्गो दिव्याभरणभूषितः ॥ ६०॥
काञ्चनेन विमानेन याति शम्भोर्वरालयम् ।
चापस्थिते दिवानाथे तस्मिन्नुषसि पूजनम् ॥ ६१॥
मम देवि प्रियकरं सदा लिङ्गार्चनं मम ।
समुद्गान्नं घृताक्तं च निवेद्य परमेश्वरे ॥ ६२॥
यावन्मासं विशेषेण पूजनं तत्र शस्यते ।
शतवर्षेषु या पूजा मोसेनोषसि सा ध्रुवम् ॥ ६३॥
तत्फलं लभते गौरि तस्मिन् मासि विशेषतः ।
चापे रौद्रर्क्षके देवि पौर्णम्यां शशिशेखरम् ॥ ६४॥
नर्तमानं त्रयीनेत्रं कृशानुवरहस्तकम् ।
त्वया युक्तं विशेषेण शशिभूषणमीश्वरम् ॥ ६५॥
सम्पूज्य स्नापयेद्देवमभिषेचनकक्रमैः ।
गन्धं सुगन्धमालिप्य धूपदीपसुमैः शिवे ॥ ६६॥
नैवेद्यैः फलमूलैश्च हविषाऽपूपसंयुतम् ।
दृष्ट्वा प्रमुच्यते पापैर्बुद्धिपूर्वं कृतैरपि ॥ ६७॥
पुण्डरीकपुरे वापि पश्येन्नृत्यन्तमीश्वरम् ।
रौद्रर्क्षे चापसंयुक्ते मास्यस्मिन् पूर्णिमातिथौ ॥ ६८॥
स्नात्वाऽथ शिवगङ्गायां पश्येद्देवं पिनाकिनम् ।
ब्रह्महत्यादिभिर्मुक्तो भक्तो मुक्तिं च विन्दति ॥ ६९॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं मार्गशीर्षमासकृते शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २२ मार्गशीर्षार्चनम् । ५४-६९॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 22 mArgashIrShArchanam . 54-69..
Notes:
Śiva शिव advises to Devī देवी; the ŚivaStutiḥ शिवस्तुतिः for the māsa मास while detailing about His Worship during the Mārgaśīrṣa māsa मार्गशीर्ष मास. He mentions about conducting Homam होमम् during Mārgaśīrṣa Pūrṇimā मार्गशीर्ष पूर्णिमा.
The Mārgaśīrṣamāsakṛte ŚivaŚatāṣṭanāmaStotram मार्गशीर्षमासकृते शिवशताष्टनामस्तोत्रम् and the Mārgaśīrṣamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ मार्गशीर्षमासकृते शिवशताष्टनामावलिः comprising of 108 Names १०८ नामानि of Śiva शिव, derived from the same can be accessed from one of the links provided below. The count seems to exceed though.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 22 are presented on this page.
Proofread by Ruma Dewan