मार्गशीर्षमासकृते शिवशताष्टनामस्तोत्रम् मास ९
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
विश्वेशः खण्डपरशुः शिवः शीतांशुभूषणः ॥ ३८.२॥
अखण्डनगकोदण्डश्चण्डिकेशप्रियो हरः ।
गम्भीरो गगनान्तस्थः स्थाणुः सर्वशरीरगः ॥ ३९॥
ऊर्ध्वरेता महावीर्यो गणनाथोऽम्बिकाप्रियः ।
जटाधरोऽन्धकहरस्त्रिशूली नीललोहितः ॥ ४०॥
गरादनो विरूपाक्षो भवः संसाररोगहृत् ।
वसनाशो भगाक्षिघ्नो वामनो मन्मथान्तकः ॥ ४१॥
भवामयहरो योगी कर्ता सर्वस्वतन्त्रवान् ।
अणोरणीयान्वरदो महतोऽपि महत्तरः ॥ ४२॥
सर्वर्तुकारको धन्वी कञ्जजातोत्तमाङ्गधृक् ।
विष्णुनेत्रप्रपूज्याङ्घ्रिर्मधुसूदनसूदनः ॥ ४३॥
विचाररहितो मानी मनस्वी कालनाशनः ।
सोमसूर्याग्निनयनो भीमो भव्यो युगान्तकृत् ॥ ४४॥
सरस्यो धूम्रकेशाङ्गो बभ्रुशो भयहारकः ।
वाताशनधरो गर्तो कैलासनिलयः स्वराट् ॥ ४५॥
तुराषाट्पूजितपदो वेदवाजि(जी)प्रियो युवा ।
सनातन दीनदयो वसुषेणः प्रसादकृत् ॥ ४६॥
स्तुतिप्रियो वास्तुपोऽथ हव्यकव्यभुगीश्वरः ।
व्योमकेशो वामदेवः कृत्तिवासाः प्रभेदनः ॥ ४७॥
पशूनां पतिरातन्यो विघसाशी मखान्तकः ।
आषाढः पार्वतीनाथोऽघोररुद्रो महेश्वरः ॥ ४८॥
कपालपाणिर्मृगधृक् पादुकापादपद्मभूः ।
वेनो वैन्यो वैद्युतात्मा गतिदो मुक्तिदायकः ॥ ४९॥
विषाभरणभूषाढ्यो मृडो परिदृ(वृ)ढोऽन्तकः ।
पत्राविच्छेदको देवो वेदगीतः पुरान्तकः ॥ ५०॥
विरागो विकटो मुण्डस्तण्डुप्रीतो भयावहः ।
विशालवक्षा भक्ताढ्यस्त्रिपुण्ड्रललितालिकः ॥ ५१॥
चक्षुःश्रवोमहाहारो रुद्राक्षवलयोज्ज्वलः ।
गणाधिपो गणश्रेष्ठः शतधन्वा सहस्रधृक् ॥ ५२॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं मार्गशीर्षमासकृते शिवशताष्टनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २२ मार्गशीर्षार्चनम् । ३८.२-५२॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 22 mArgashIrShArchanam . 38.2-52..
Notes:
Śiva शिव delivers to Devī देवी; Mārgaśīrṣamāsakṛte ŚivaŚatāṣṭanāmaStotram मार्गशीर्षमासकृते शिवशताष्टनामस्तोत्रम् comprising of 108 Names १०८ नामानि of Śiva शिव while detailing about His Worship during the Mārgaśīrṣa māsa मार्गशीर्ष मास. The count seems to exceed though.
The corresponding Mārgaśīrṣamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ मार्गशीर्षमासकृते शिवशताष्टनामावलिः derived from the Mārgaśīrṣamāsakṛte ŚivaŚatāṣṭanāmaStotram मार्गशीर्षमासकृते शिवशताष्टनामस्तोत्रम्, and a Mārgaśīrṣamāsakṛte ŚivaStutiḥ मार्गशीर्षमासकृते शिवस्तुतिः can be accessed from one of the links provided below.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 22 are presented on this page.
Proofread by Ruma Dewan