शारदोक्तमहामृत्युञ्जयजपविधिः

शारदोक्तमहामृत्युञ्जयजपविधिः

ॐ अस्य श्रीमहामृत्युञ्जयमन्त्रस्य वसिष्टऋषिः अनुष्टुप्छन्दः श्रीत्र्यम्बकरुद्रो देवता श्रीं बीजं ह्रीं शक्तिः मम यजमानस्य वा शरीरे (१)सर्वारिष्टनिवृत्तिपूर्वकसकलमनोरथसिद्ध्यर्थे जपे(२) विनियोगः ॥ अथ ऋष्यादिन्यासः - ॐ वसिष्ठ ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीत्र्यम्बकरुद्रदेवतायै नमः हृदये । श्रीं बीजाय नमः गुह्ये । ह्रीं शक्तये नमः पादयोः ॥ अथ करन्यासः - ॐ हौं ॐ जूँ सः भूर्भुवः स्वः त्र्यम्बकं ॐ नमो भगवते रुद्राय शूलपाणये स्वाहा अङ्गुष्ठाभ्यां नमः । ॐ हौं ॐ जूँ सः भूर्भुवः यजामहे ॐ नमो भगवते रुद्राय अमृतमूर्तये मां जीवय जीवय तर्जनीभ्यां स्वाहा । ॐ हौं ॐ जूँ सः भूर्भुवः स्वः सुगन्धिम्पुष्टिवर्द्धनं ॐ नमो भगवते रुद्राय चन्द्रशिरसे जटिने स्वाहा मध्यमाभ्यां वषट् । ॐ हौं ॐ जूँ सः भूर्भुवः स्वः उर्व्वारुकमिव बन्धनात् ॐ नमो भगवते रुद्राय त्रिपुरान्तकाय ह्रां ह्रीं अनामिकाभ्यां हुँ । ॐ हौं ॐ जूँ सः भूर्भुवः स्वः मृत्योर्मुक्षीय ॐ नमो भगवते रुद्राय त्रिलोचनाय ऋग्यजुःसाममन्त्राय कनिष्ठिकाभ्यां वौषट् । ॐ हौं ॐ जूँ सः भूर्भुवः स्वः मामृतात् ॐ नमो भगवते रुद्राय अग्नित्रयाय ज्वल ज्वल मां रक्ष रक्ष अघोरास्त्राय करतलकरपृष्ठाभ्यां फट् ॥ एवं हृदयादिन्यासः । ॐ हौं ॐ जूँ सः भूर्भुवः स्वः त्र्यम्बकं ॐ नमो भगवते रुद्राय शूलपाणये स्वाहा हृदयाय नमः । ॐ हौं ॐ जूँ सः भूर्भुवः स्वः यजामहे ॐ नमो भगवते रुद्राय अमृतमूर्त्तये मां जीवय जीवय शिरसे स्वाहा । ॐ हौं ॐ जूँ सः भूर्भुवः स्वः सुगन्धिम्पुष्टिवर्द्धनं ॐ नमो भगवते रुद्राय चन्द्रशिरसे जटिने स्वाहा शिखायै वषट् । ॐ हौं ॐ जूँ सः भूर्भुवः स्वः उर्व्वारुकमिव बन्धनात् ॐ नमो भगवते रुद्राय त्रिपुरान्तकाय ह्रां ह्रीं कवचाय हुँ । ॐ हौं ॐ जूँ सः भूर्भुवः स्वः मृत्योर्मुक्षीय ॐ नमो भगवते रुद्राय त्रिलोचनाय ऋग्यजुःसाममन्त्राय नेत्रत्रयाय वौषट् । ॐ हौं ॐ जूँ सः भूर्भुवः स्वः मामृतात् ॐ नमो भगवते रुद्राय अग्नित्रयाय ज्वल ज्वल मां रक्ष रक्ष अघोरास्त्राय अस्त्राय फट् ॥ अथ वर्णन्यासः । ॐ त्र्यं नमः दक्षिणचरणाग्रे । बं नमः कं नमः यं नमः जां नमः दक्षिणचरणसन्धिचतुष्केषु । मं नमः वामचरणाग्रे । हें नमः सुं नमः गं नमः धिं नमः वामचरणसन्धिचतुष्केषु । पुं नमः गुह्ये । ष्टिं नमः आधारे । वं नमः जठरे । र्द्धं नमः हृदये । नं नमः कण्ठे । ॐ उं नमः दक्षिणकराग्रे । र्वां नमः रुं नमः कं नमः मिं नमः दक्षिणकरसन्धिचतुष्केषु । वं नमः वामकराग्रे । वं नमः धं नमः नां नमः मृं नमः वामकरसन्धिचतुष्केषु । त्यों नमः वदने । मुं नमः ओष्ठयोः । क्षीं नमः घ्राणयोः । यं नमः दृशोः । मां नमः श्रवणयोः । मृं नमः भ्रुवोः । तां नमः शिरसि । पदन्यासः । त्र्यम्बकं शिरसि । यजामहे भ्रुवोः । सुगन्धिं दृशोः । पुष्टिवर्द्धनं मुखे । उर्व्वारुकं गण्डयोः । इव हृदये । बन्धनात्जठरे, मृर्त्यो-गुह्ये । मुक्षीय-उर्वोः । मा जानुनोः । अमृतात् पादयोः ॥ अथ ध्यानम् । हस्ताभ्यां कलशद्वयामृतरसैराप्लावयन्तं शिरो, द्वाभ्यां तौ दधतं मृगाऽक्षवलये द्वाभ्यां वहन्तं परम् । अङ्कन्यस्तकरद्वयामृतघटं कैलाशकान्तं शिवं, स्वच्छाम्भोजगतं नवेन्दुमुकुटाभान्तं त्रिनेत्रं भजे ॥ १॥ इति ध्यात्वा मानसोपचारैः सम्पूज्य पूर्ववत् मालापूजनं पूर्ववत् मूलमन्त्रं जपेत् ॥ मन्त्रस्वरूपम् । ॐ हौं ॐ जूँ सः भूर्भुवः स्वः त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् भूर्भुवः स्वरों जूँ सः हौं ओम् ॥ १॥ जपान्ते प्रार्थना - मृत्युञ्जय महारुद्र त्राहि मां शरणागतम् । जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ १॥ तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड । इति विज्ञाप्य देवेशं जपेन्मन्त्रञ्च त्र्यम्बकम् ॥ २॥ (१)- देवे तीर्थे द्विजे मन्त्रे दैवेज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥ (२)- मन्त्रजपे पाठे च भेदः - मनसा यः स्मरेत्स्तोत्रं वचसा वा मनुं जपेत् । उभयं निष्फलं देविभिन्नभाण्डोदकं यथा (मं. शा.) ॥ इति शारदोक्तमहामृत्युञ्जयजपविधिः समाप्ता । Proofread by Paresh Panditrao
% Text title            : Sharadokta Mahamrityunjaya Japa Vidhi
% File name             : mahAmRRityunjayajapavidhiHshAradokta.itx
% itxtitle              : mahAmRityunjayajapavidhiH (shAradokta)
% engtitle              : mahAmRityunjayajapavidhiH shAradokta
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Indexextra            : (Scan,
% Latest update         : December 16, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org