मैनाकप्रति हिमवान्प्रोक्तं शिवार्चनोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
हिमवानुवाच
वयं शिवैकशरणास्ततोऽस्माकं सदाशिवः ।
शुभप्रदः शुभाकारो दास्यत्येव शुभानि नः ॥ २९९॥
शरणं यान्ति ये नित्यं महादेवमुमापतिम् ।
दुःखानि न भविष्यन्ति तेषां स्वप्नेऽपि सर्वथा ॥ ३०१॥
तावदेव हि दुःखानि विविधानि शरीरिणाम् ।
यावन्नाराध्यते भक्त्या भगवानम्बिकापतिः ॥ ३०२॥
पूजयित्वापि गौरीशं यदि दुःखमवाप्यते ।
वेदाः प्रमाणमिति धीः प्रमारूपा कथं भवेत् ॥ ३०३॥
अस्ताद्रेर्यद्युदेत्यर्कस्तदापि शिवपूजकः ।
न प्राप्नोत्येव दुःखानि स्वप्नेऽपीति मतिर्मम ॥ ३०४॥
लोके शिवार्चनादन्यन्नास्ति शोकविनाशकम् ।
सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ३०५॥
सर्वं पापकृतः पापं विनश्यति शिवार्चनात् ।
नष्टे पापे कुतः शोकः नानापातकहेतुकः ॥ ३०६॥
न भविष्यति विश्वासो येषामीश्वरपूजने ।
तेषां बहूनि पापानि भविष्यन्ति न संशयः ॥ ३०७॥
येषामीश्वरपूजायां विश्वासः सततं भवेत् ।
सदा तेषां भविष्यन्ति शोभनानि सुखानि च ॥ ३०८॥
अत एव महादेवं सर्वलोकमहेश्वरम् ।
पूजयन्त्यतियत्नेन मुनयो दुःखनाशकम् ॥ ३०९॥
हृदि क्षणं क्षणार्धं वा ध्यायेद्यः पार्वतीपतिम् ।
स नाप्नोत्येव दुःखानि कद्वाचिदपि सर्वथा ॥ ३१०॥
महेशध्यानममलं दुःखारण्यदवानलः ।
सत्यमेतत्पुनः सत्यं सत्यमेव न संशयः ॥ ३११॥
महेशस्मृतिमात्रेण महापातककोटयः ।
नश्यन्ति दुःखदाः सद्यः शलभा इव वह्निगाः ॥ ३१२॥
महाप्रलयकाले वा घोरायां वा महापदि ।
न प्राप्नुवन्ति दुःखानि शिवार्चनपराः सुत ॥ ३१३॥
कर्मणा मनसा वाचा शिवमभ्यर्चयन्ति ये ।
तेषां शुभप्रदः सद्यः प्रसीदति महेश्वरः ॥ ३१४॥
यमादपि न भीस्तेषां येषां भक्तिर्महेश्वरे ।
भक्तिर्माहेश्वरी यस्मात्सर्वसौभाग्यदायिनी ॥ ३१५॥
धन्यास्ते कृतपुण्यास्ते कृतार्थास्ते सदा प्रिये ।
स्तुवन्ति पार्वतीनाथं पूजयन्ति च सादरम् ॥ ३१६॥
ये पूजयन्ति विधिवत् कीर्तयन्ति च शङ्करम् ।
तेषां हृदि महादेवः शुभदस्तिष्ठति ध्रुवम् ॥ ३१७॥
त्वमप्यत्यन्तयत्नेन लिङ्गमूर्ति महेश्वरम् ।
सर्वदुःखविनाशार्थं पूजयस्व विधानतः ॥ ३१८॥
कुरुष्व मृण्मयं लिङ्गं तस्मिन्पूजय शङ्करम् ।
तत्र सम्पूजितः शम्भुः सद्यस्तुष्टो भविष्यति ॥ ३१९॥
स सन्तुष्टो महादेवो ददात्येव सुखं सदा ।
अदेयं शिवभक्ताय महेशाय न विद्यते ॥ ३२०॥
विष्णुत्वं यो ददौ विष्णोर्विष्णुनेत्रार्चितः शिवः ।
स सर्वदा सुखं तुभ्यं पूजितः सम्प्रयच्छति ॥ ३२१॥
ब्रह्मणा योऽर्चितः साम्बो ब्रह्मत्वं ब्रह्मणे ददौ ।
स सर्वदा सुखं तुभ्यं पूजितः सम्प्रयच्छति ॥ ३२२॥
इन्द्रार्चितो य इन्द्राय प्रादादिन्द्रत्वमीश्वरः ।
स सर्वदा सुखं तुभ्यं पूजितः सम्प्रयच्छति ॥ ३२३॥
ऋषिभिः पूजितः शम्भुस्तेभ्यो मोक्षं ददौ शिवः ।
स सर्वदा सुखं तुभ्यं पूजितः सम्प्रयच्छति ॥ ३२४॥
अपारकरुणासिन्धुर्जगदापन्निवारकः ।
न हरिष्यति किं शोकं तव पुत्र स शङ्करः ॥ ३२५॥
॥ इति शिवरहस्यान्तर्गते मैनाकप्रति हिमवान्प्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । वावृत्तश्लोकाः॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . vAvRRittashlokAH..
Notes:
Himavān हिमवान् delivers Upadeśa उपदेश to his son Maināka मैनाक about worshiping Śiva शिव, especially in form of Mṛlliṅga मृल्लिङ्ग.
Proofread by Ruma Dewan