श्रीमल्लारिसहस्रनामस्तोत्रम्

श्रीमल्लारिसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । स्थितं कैलासनिलये प्राणेशं लोकशङ्करम् । उवाच शङ्करं गौरी जगद्धितचिकीर्षया ॥ १॥ पार्वत्युवाच । देवदेव महादेव भक्तानन्दविवर्धन । पृच्छामि त्वामहं चैकं दुःखदारिद्र्यनाशनम् ॥ २॥ कथयस्व प्रसादेन सर्वज्ञोऽसि जगत्प्रभो । स्तोत्रं दानं तपो वापि सद्यः कामफलप्रदम् ॥ ३॥ ईश्वर उवाच । मार्तण्डो भैरवो देवो मल्लारिरहमेव हि । तस्य नामसहस्रं ते वदामि श‍ृणु भक्तितः ॥ ४॥ सर्वलोकार्तिशमनं सर्वसम्पत्प्रदायकम् । पुत्रपौत्रादि फलदं अपवर्गप्रदं शिवम् ॥ ५॥ ईश्वरोस्य ऋषिः प्रोक्तः छन्दोऽनुष्टुप् प्रकीर्तितः । मल्लारिर्म्हालसायुक्तो देवस्त्रत्र समीरितः ॥ ६॥ सर्वपापक्षयद्वारा मल्लारिप्रीतये तथा । समस्तपुरुषार्थस्य सिद्धये विनियोजितः ॥ ७॥ मल्लारिर्म्हालसानाथो मेघनाथो महीपतिः । मैरालः खड्गराजश्चेत्यमीभिर्नाममन्त्रकैः ॥ ८॥ एतैर्नमोन्तैरोमाद्यै करयोश्च हृदादिषु । न्यासषट्कं पुरा कृत्वा नामावलिं पठेत ॥ ९॥ अस्य श्रीमल्लारिसहस्रनामस्तोत्रमन्त्रस्य ईश्वर ऋषिः । म्हालसायुक्त मल्लारिर्देवता । अनुष्टुप्छन्दः । सर्वपापक्षयद्वारा श्रीमल्लारिप्रीतये सकलपुरुषार्थसिद्ध्यर्थे जपे विनियोगः । ॐ ह्रं ह्रांम्रियमाणानन्दमहालक्ष्मणेनम इति । अथन्यासः । मल्लारये नमः अङ्गुष्ठाभ्यां नमः । म्हालसानाथाय नमः तर्जनीभ्यां नमः । मेघनाथाय नमः मध्यमाभ्यां नमः । महीपतये नमः अनामिकाभ्यां नमः । मैरालाय नमः कनिष्ठिकाभ्यां नमः । खड्गराजाय नमः करतलकरपृष्ठाभ्यां नमः । ॐ मल्हारये नमः हृदयाय नमः । ॐ म्हालसानाथाय नमः शिरसे स्वाहा । ॐ मेघनाथाय नमः शिखायै वषट् । ॐ महीपतये नमः कववाय हुं । ॐ मैरालाय नमः नेत्रत्रयाय वौषट् । ॐ खड्गराजाय नमः अस्त्राय फट् । अथ ध्यानम् । ध्यायेन्मल्लारिदेवं कनकगिरीनिभं म्हालसाभूषिताङ्कं श्वेताश्वं खड्गहस्तं विबुधबुधगणैः सेव्यमानं कृतार्थैः । युक्ताघ्रिं दैत्यमूर्घ्नीडमरुविलसितं नैशचूर्णाभिरामं नित्यं भक्तेषुतुष्टं श्वगणपरिवृतं वीरमोङ्कारगम्यम् ॥ १॥ मूलमन्त्रः । ॐ ह्रीं क्रूं त्क्रूं स्त्रूं ह्रूं ह्रां म्रियमाणानन्दमहालक्ष्मणे नमः । इति अलोभः उच्चार्य । अथनामावलीजपः । ॐ प्रणवो ब्रह्म उद्गीथ ॐकारार्थो महेश्वरः । मणिमल्लमहादैत्यसंहर्ता भुवनेश्वरः ॥ १॥ देवाधिदेव ॐकारः सन्तप्तामरतापहा । गणकोटियुतः कान्तो भक्तर्चितामणिः प्रभु ॥ २॥ प्रीतात्मा प्रथितः प्राण ऊर्जितः सत्यसेवकः । मार्तण्डभैरवो देवो गङ्गाह्मालसिकाप्रियः ॥ ३॥ गुणग्रामान्वितः श्रीमान् जयवान् प्रमथाग्रणीः । दीनानाथप्रतीकाशः स्वयम्भूरजरामरः ॥ ४॥ अखण्डितप्रीतमना मल्लहा सत्यसङ्गरः । आनन्दरूपपरमपरमाश्चर्यकृद्गुरुः ॥ ५॥ अजितोविश्वसञ्जेता समराङ्गणदुर्जयः । खण्डिताखिलाविघ्नौघः परमार्थप्रतापवान् ॥ ६॥ अमोघविद्यः सर्वज्ञः शरण्यः सर्वदैवतम् । अनङ्गविजयी ज्यायान् जनत्राता भयापहा ॥ ७॥ महाहिवलयो धाता चन्द्रमार्तण्ड्कुण्डलः । हरो डमरुडाङ्कारी त्रिशूली खड्गपात्रवान् ॥ ८॥ मणियुद्धमहा हृष्टोमुण्डमालाविराजितः । खण्डेन्दुशेखरस्त्र्यक्षो महामुकुटमण्डितः ॥ ९॥ वसन्तकेलिदुर्धर्षः शिखिपिच्छशिखामणिः । गङ्गाम्हालसिकाङ्कश्च गङ्गाम्हालसिकापतिः ॥ १०॥ तुरङ्गमसमारूढो लिङ्गद्वयकृताकृतिः । ऋषिदेवगणाकीर्णः पिशाचबलिपालकः ॥ ११॥ सूर्यकोटिप्रतीकाशश्चन्द्रकोटिसमप्रभः । अष्टसिद्धिसमायुक्तः सुरश्रेष्ठः सुखार्णवः ॥ १२॥ महाबलोदुराराध्योदक्षसिद्धिप्रदायकः । वरदोवीतरागश्चकलिप्रमथनः स्वराट् ॥ १३॥ दुष्टहादानवारातिरुत्कृष्टफलदायकः । भवः कृपालुर्विश्वात्माधर्मपुत्रर्षिभीतिहा ॥ १४॥ रुद्रो विविज्ञः श्रीकण्ठः पञ्चवक्त्रः सुधैकभूः । प्रजापालो विशेषज्ञश्चतुर्वक्त्रः प्रजापतिः ॥ १५॥ खड्गराजः कृपासिन्धुर्मल्लसैन्यविनाशनः । अद्वैतः पावनः पाता परार्थैकप्रयोजनम् ॥ १६॥ ज्ञानसाध्योमल्लहरः पार्श्वस्थमणिकासुरः । अष्टधा भजनप्रीतो भर्गोमृन्मयचेतनः ॥ १७॥ महीमयमहामूर्तिर्महीमलयसत्तनुः । उल्लोलखड्गो मणिहा मणिदैत्यकृतस्तुतिः ॥ १८॥ सप्तकोटिगणाधीशो मेघनाथो महीपतिः । महीतनुः खड्गराजो मल्लस्तोत्रवरप्रदः ॥ १९॥ प्रतापी दुर्जयः सेव्यः कलावान्विश्वरञ्जकः । स्वर्णवर्णोद्भुताकारः कार्तिकेयो मनोजवः ॥ २०॥ देवकृत्यकरःपूर्णोमणिस्तोत्रवरप्रदः । इन्द्रः सुरार्चितो राजा शङ्करोभूतनायकः ॥ २१॥ शीतः शाश्वत ईशानः पवित्रः पुण्यपूरुषः । अग्निपुष्टिप्रदः पूज्यो दीप्यमानसुधाकरः ॥ २२॥ भावी सुमङ्गलः श्रेयान्पुण्यमूर्तिर्यमो मनुः । जगत्क्षतिहरो हारशरणागतभीतिहा ॥ २३॥ मल्लद्वेष्टा मणिदेष्टा खण्डराड् म्हालसापतिः । आधिहा व्याधिहा व्याली वायुः प्रेमपुरप्रियः ॥ २४॥ सदातुष्टो निधीशाग्र्यः सुधनश्चिन्तितप्रदः । ईशानः सुजयो जय्योभजत्कामप्रदः परः ॥ २५॥ अनर्घ्यः शम्भुरार्तिघ्नो मैरालः सुरपालकः । गङ्गाप्रियो जगत्त्राता खड्गराण्णयकोविदः ॥ २६॥ अगण्योवरदो वेधा जगन्नाथः सुराग्रणीः । गङ्गाधरोऽद्भुताकारः कामहा कामदोमृतम् ॥ २७॥ त्रिनेत्रः कामदमनो मणिमल्लदयार्द्रहृत् । मल्लदुर्मतिनाशाङ्घ्रिर्मल्लासुरकृत स्तुतिः ॥ २८॥ त्रिपुरारिर्गणाध्यक्षो विनीतोमुनिवर्णितः । उद्वेगहा हरिर्भीमो देवराजो बुधोऽपरः ॥ २९॥ सुशीलः सत्त्वसम्पन्नः सुधीरोऽधिकभूतिमान् । अन्धकारिर्महादेवः साधुपालो यशस्करः ॥ ३०॥ सिंहासनस्थः स्वानन्दो धर्मिष्ठो रुद्र आत्मभूः । योगीश्वरो विश्वभर्ता नियन्ता सच्चरित्रकृत् ॥ ३१॥ अनन्तकोशः सद्वेषः सुदेशः सर्वतो जयी । भूरिभाग्यो ज्ञानदीपो मणिप्रोतासनो ध्रुवः ॥ ३२॥ अखण्डित श्रीः प्रीतात्मा महामहात्म्यभूषितः । निरन्तरसुखीजेता स्वर्गदः स्वर्गभूषणः ॥ ३३॥ अक्षयः सुग्रहः कामः सर्वविद्याविशारदः । भक्त्यष्टकप्रियोज्यायाननन्तोऽनन्तसौख्यदः ॥ ३४॥ अपारो रक्षिता नादिर्नित्यात्माक्षयवर्जितः । महादोषहरो गौरो ब्रह्माण्डप्रतिपादकः ॥ ३५॥ म्हालसेशो महाकीर्तिः कर्मपाशहरो भवः । नीलकण्ठो मृडो दक्षो मृत्युञ्जय उदारधीः ॥ ३६॥ कपर्दी काशिकावासः कैलासनिलयोऽमहान् । कृत्तिवासाः शूलधरो गिरिजेशो जटाधरः ॥ ३७॥ वीरभद्रो जगद्वन्द्यः शरणागतवत्सलः । आजानुबाहुर्विश्वेशः समस्तभयभञ्जकः ॥ ३८॥ स्थाणुः कृतार्थः कल्पेशः स्तवनीयमहोदयः । स्मृतमात्राखिलाभिज्ञो वन्दनीयो मनोरमः ॥ ३९॥ अकालमृत्युहरणो भवपापहरो मृदुः । त्रिनेत्रो मुनिहृद्वासः प्रणताखिलदुःखहा ॥ ४०॥ उदारचरितो ध्येयः कालपाशविमोचकः । नग्नः पिशाचवेषश्च सर्वभूतनिवासकृत् ॥ ४१॥ मन्दराद्रिकृतावासाः कलिप्रमथनो विराट् । पिनाकी मानसोत्साही सुमुखो मखरक्षितः ॥ ४२॥ var सुखरक्षितः देवमुख्यःशम्भुराद्यः खलहा ख्यातिमान् कविः । कर्पूरगौरः कृतधीः कार्यकर्ता कृताध्वरः ॥ ४३॥ तुष्टिप्रदस्तमोहन्ता नादलुब्धः स्वयं विभुः । var पुष्टिप्रद सिंहनाथो योगनाथो मन्त्रोद्धारो गुहप्रियः ॥ ४४॥ भ्रमहा भगवान्भव्यः शस्त्रधृक् क्षालिताशुभः । अश्वारूढो वृषस्कन्धो धृतिमान् वृषभध्वजः ॥ ४५॥ अवधूतसदाचारः सदातुष्टः सदामुनिः । वदान्यो म्हालसानाथः खण्डेशः शमवान्पतिः ॥ ४६॥ अलेखनीयः संसारी सरस्वत्यभिपूजितः । सर्वशास्त्रार्थनिपुणः सर्वमायान्वितो रथी ॥ ४७॥ हरिचन्दनलिप्ताङ्गः कस्तूरीशोभितस्तनुः । कुङ्कुमागरुलिप्ताङ्गः सिन्दूराङ्कितसत्तनुः ॥ ४८॥ अमोघवरदः शेषः शिवनामा जगद्धितः । भस्माङ्गरागः सुकृती सर्पराजोत्तरीयवान् ॥ ४९॥ बीजाक्षरंमन्त्रराजो मृत्युदृष्टिनिवारणः । प्रियंवदो महारावो युवा वृउद्धोऽतिबालकः ॥ ५०॥ नरनाथो महाप्राज्ञो जयवान्सुरपुङ्गवः । धनराट्क्षोभहृद्दक्षः सुसैन्यो हेममालकः ॥ ५१॥ आत्मारामो वृष्टिकर्ता नरो नारायणःप्रियः । रणस्थो जयसन्नादो व्योमस्थो मेघवान्प्रभुः ॥ ५२॥ सुश्राव्यशब्दः सत्सेव्यस्तीर्थवासी सुपुण्यदः । भैरवो गगनाकारः सारमेयसमाकुलः ॥ ५३॥ मायार्णवमहाधैर्यो दशहस्तोद्भुतङ्करः ॥ ५४॥ गुर्वर्थदः सतां नाथो दशवक्त्रवरप्रदः । सत्क्षेत्रवासः सद्वस्त्रोभूरिदो भयभञ्जनः ॥ ५५॥ कल्पनीहरितो कल्पः सज्जीकृतधनुर्धरः । क्षीरार्णवमहाक्रीडः सदासागरसद्गतिः ॥ ५६॥ सदालोकः सदावासः सदापातालवासकृत् । प्रलयाग्नि जटोत्युग्रः शिवस्त्रिभुवनेश्वरः ॥ ५७॥ उदयाचलसर्द्वीपः पुण्यश्लोकशिखामणिः । महोत्सवः सुगान्धर्वः समालोक्यः सुशान्तधीः ॥ ५८॥ मेरुवासः सुगन्धाढ्यः शीघ्रलाभप्रदोऽव्ययः । अनिवार्यः सुधैर्यार्थी सदार्थितफलप्रदः ॥ ५९॥ गुणसिन्धुः सिंहनादो मेघगर्जितशब्दवान् । भाण्डारसुन्दरतनुर्हरिद्राचूर्ण मण्डितः ॥ ६०॥ गदाधरकृतप्रैषो रजनीचूर्णरञ्जितः । घृतमारी समुत्थानं कृतप्रेमपुरस्थितिः ॥ ६१॥ बहुरत्नाङ्कितो भक्तः कोटिलाभप्रदोऽनघः । मल्लस्तोत्रप्रहृष्टात्मा सदाद्वीपपुरप्रभुः ॥ ६२॥ मणिकासुरविद्वेष्टा नानास्थानावतारकृत् । मल्लमस्तकदत्तांघ्रिर्मल्लनामादिनामवान् ॥ ६३॥ सतुरङ्गमणिप्रौढरूपसन्निधिभूषितः । धर्मवान् हर्षवान्वाग्मी क्रोधवान्मदरूपवान् ॥ ६४॥ दम्भरूपी वीर्यरूपी धर्मरूपी सदाशिवः । अहङ्कारी सत्त्वरूपी शौर्यरूपी रणोत्कटः ॥ ६५॥ आत्मरूपी ज्ञानरूपी सकलागमकृच्छिवः । विद्यारूपी शक्तिरूपी करुणामूर्तिरात्मधीः ॥ ६६॥ मल्लजन्यपरितोषो मणिदैत्यप्रियङ्करः । मणिकासुरमूर्द्धांघ्रिर्मणिदैत्यस्तुतिप्रियः ॥ ६७॥ मल्लस्तुतिमहाहर्षो मल्लाख्यापूर्वनामभाक् । धृतमारी भवक्रोधो मणिमल्लहितेरतः ॥ ६८॥ कपालमालितोरस्को मणिदैत्यवरप्रदः । कपालमाली प्रत्यक्षो माणिदैत्यशिरोङ्घ्रिदः ॥ ६९॥ धृतमारी भवक्त्रेभो मणिदैत्यहितेरतः । मणिस्तोत्रप्रहृष्टात्मा मल्लासुरगतिप्रदः ॥ ७०॥ मणिचूलाद्रिनिलयो मैरालप्रकरस्त्रिगः । मल्लदेहशिरः पादतल एकादशाकृतिः ॥ ७१॥ मणिमल्लमहागर्वहरस्त्र्यक्षर ईश्वरः । गङ्गाम्हालसिकादेवो मल्लदेह शिरोन्तकः ॥ ७२॥ मणिमल्लवधोद्रिक्तो धर्मपुत्रप्रियङ्करः । मणिकासुरसंहर्ता विष्णुदैत्यनियोजकः ॥ ७३॥ अक्षरोमातृकारूपः पिशाचगुणमण्डितः । चामुण्डानवकोटीशः प्रधानं मातृकापतिः ॥ ७४॥ त्रिमूर्तिर्मातृकाचार्यः साङ्ख्ययोगाष्टभैरवः । मणिमल्लसमुद्भूतविश्वपीडानिवारणः ॥ ७५॥ हुंफड्वौषट्वषट्कारो योगिनीचक्रपालकः । त्रयीमूर्तिः सुरारामस्त्रिगुणो मातृकामयः ॥ ७६॥ चिन्मात्रो निर्गुणो विष्णुर्वैष्णवार्च्यो गुणान्वितः । खड्गोद्यततनुः सोहंहंसरूपश्चतुर्मुखः ॥ ७७॥ आप्तायत्ततनु पद्मोद्भवो मातृकार्थो योगिनीचक्रपालकः । जन्ममृत्युजराहीनो योगिनीचक्रनामकः ॥ ७८॥ आदित्यागमाचार्यो योगिनीचक्रवल्लभः । सर्गस्थित्यन्तकृच्छ्रीदएकादशशरीरवान् ॥ ७९॥ आहारवान् हरिर्धाता शिवलिङ्गार्चनप्रियः । प्रांशुः पाशुपतार्च्यांघ्रिर्हुतभुग्यज्ञपूरुषः ॥ ८०॥ ब्रह्मण्यदेवो गीतज्ञो योगमायाप्रवर्तकः । आपदुद्धारणो ढुण्डी गङ्गामौलि पुराणकृत् ॥ ८१॥ व्यापी विरोधहरणो भारहारी नरोत्तमः । ब्रह्मादिवर्णितो हासः सुरसङ्घमनोहरः ॥ ८२॥ विशाम्पतिर्दिशान्नाथो वायुवेगो गवाम्पतिः । अरूपी पृथिवीरूपस्तेजोरूपोऽनिलो नरः ॥ ८३॥ आकाशरूपी नादज्ञो रागज्ञः सर्वगः खगः । अगाधो धर्मशास्त्रज्ञ एकराट् निर्मलोविभुः ॥ ८४॥ धूतपापो गीर्णविषो जगद्योनिर्निधानवान् । जगत्पिता जगद्बन्धुर्जगद्धाता जनाश्रयः ॥ ८५॥ अगाधो बोधवान्बोद्धा कामधेनुर्हतासुरः । अणुर्महान्कृशस्थूलो वशी विद्वान्धृताध्वरः ॥ ८६॥ अबोधबोधकृद्वित्तदयाकृज्जीवसंज्ञितः । आदितेयो भक्तिपरो भक्ताधीनोऽद्वयाद्वयः ॥ ८७॥ भक्तापराधशमनो द्वयाद्वयविवर्जितः । सस्यं विराटः शरणं शरण्यं गणराड्गणः ॥ ८८॥ मन्त्रयन्त्रप्रभावज्ञो मन्त्रयन्त्रस्वरूपवान् । इति दोषहरः श्रेयान् भक्तचिन्तामणिः शुभः ॥ ८९॥ उझ्झितामङ्गलो धर्म्यो मङ्गलायतनं कविः । अनर्थज्ञोर्थदः श्रेष्ठः श्रौतधर्मप्रवर्तकः ॥ ९०॥ मन्त्रबीजं मन्त्रराजो बीजमन्त्रशरीरवान् । शब्दजालविवेकज्ञः शरसन्धानकृत्कृती ॥ ९१॥ कालकालः क्रियातीतस्तर्कातीतः सुतर्ककृत् । समस्ततत्त्ववित्तत्त्वं कालज्ञः कलितासुरः ॥ ९२॥ अधीरधैर्यकृत्कालो वीणानादमनोरथः । हिरण्यरेता आदित्यस्तुराषाद्शारदागुरुः ॥ ९३॥ पूर्वः कालकलातीतः प्रपञ्चकलनापरः । प्रपञ्चकलनाग्रस्त सत्यसन्धः शिवापतिः ॥ ९४॥ मन्त्रयन्त्राधिपोमन्त्रो मन्त्री मन्त्रार्थविग्रहः । नारायणो विधिः शास्ता सर्वालक्षणनाशनः ॥ ९५॥ प्रधानं प्रकृतिः सूक्ष्मोलघुर्विकटविग्रहः । कठिनः करुणानम्रः करुणामितविग्रहः ॥ ९६॥ आकारवान्निराकारः काराबन्धविमोचनः । दीननाथः सुरक्षाकृत्सुनिर्णीतविधिङ्करः ॥ ९७॥ महाभाग्योदधिर्वैद्यः करुणोपात्तविग्रहः । नगवासी गणाधारो भक्तसाम्राज्यदायकः ॥ ९८॥ सार्वभौमो निराधारः सदसद्व्यक्तिकारणम् । वेदविद्वेदकृद्वैद्यः सविता चतुराननः ॥ ९९॥ हिरण्यगर्भस्त्रितनुर्विश्वसाक्षीविभावसुः । सकलोपनिषद्गम्यः सकलोपनिषद्गतिः ॥ १००॥ विश्वपाद्विश्वतश्चक्षुर्विश्वतो बाहुरच्युतः । विश्वतोमुख आधारस्त्रिपाद्दिक्पतिरव्ययः ॥ १०१॥ व्यासो व्यासगुरुः सिद्धिः सिद्धिद सिद्धिनायकः । जगदात्मा जगत्प्राणो जगन्मित्रो जगत्प्रियः ॥ १०२॥ देवभूर्वेदभूर्विश्वं सर्गस्थित्यन्तखेलकृत् । सिद्धचारणगन्धर्वयक्षविद्याधरार्चितः ॥ १०३॥ नीलकण्ठो हलधरो गदापाणिर्निरङ्कुशः । सहस्राक्षो नगोद्धारः सुरानीक जयावहः ॥ १०४॥ चतुर्वर्गः कृष्णवर्त्मा कालनूपुरतोडरः । ऊर्ध्वरेता वाक्पतीशो नारदादिमुनिस्तुतः ॥ १०५॥ चिदानन्दचतुर्यज्ञस्तपस्वी करुणार्णवः । चिदानन्दत्तनु पञ्चाग्निर्यागसंस्थाकृदनन्तगुणनामभृत् ॥ १०६॥ त्रिवर्गसूदितारातिः सुररत्नन्त्रयीतनुः । यायजूकश्चिरञ्जीवी नररत्नं सहस्रपात् ॥ १०७॥ भालचन्द्रश्चितावासः सूर्यमण्डलमध्यगः । चिरावासः अनन्तशीर्षा त्रेताग्निःप्रसन्नेषुनिषेवितः ॥ १०८॥ सच्चित्तपद्ममार्तण्डो निरातङ्कः परायणः । पुराभवो निर्विकारः पूर्णार्थः पुण्यभैरवः ॥ १०९॥ निराश्रयः शमीगर्भो नरनारायणात्मकः । वेदाध्ययनसन्तुष्टश्चितारामो नरोत्तमः ॥ ११०॥ अपारधिषणः सेव्यस्त्रिवृत्तिर्गुणसागरः । निर्विकारः क्रियाधारः सुरमित्रं सुरेष्टकृत् ॥ १११॥ आखुवाहश्चिदानन्दः सकलप्रपितामहः । मनोभीष्टस्तपोनिष्ठो मणिमल्लविमर्दनः ॥ ११२॥ उदयाचल अश्वत्थो अवग्रहनिवारणः । श्रोता वक्ता शिष्टपालः स्वस्तिदः सलिलाधिपः ॥ ११३॥ वर्णाश्रमविशेषज्ञः पर्जन्य सकलार्तिभित् । सकलार्तिजित् विश्वेश्वरस्तपोयुक्तः कलिदोषविमोचनः ॥ ११४॥ वर्णवान्वर्णरहितो वामाचारनिषेधकृत् । सर्ववेदान्ततात्पर्यस्तपःसिद्धिप्रदायकः ॥ ११५॥ विश्वसंहाररसिको जपयज्ञादिलोकदः । नाहंवादी सुराध्यक्षो नैषचूर्णः सुशोभितः ॥ ११६॥ अहोराजस्तमोनाशोविधिवक्त्रहरोन्नदः । जनस्तपो महः सत्यंभूर्भुवःस्वःस्वरूपवान् ॥ ११७॥ मैनाकत्राणकरणः सुमूर्धा भृकुटीचरः । वैखानसपतिर्वैश्यश्चक्षुरादिप्रयोजकः ॥ ११८॥ दत्तात्रेयः समाधिस्थोनवनागस्वरूपवान् । जन्ममृत्युजराहीनो दैत्यभेत्तेतिहासवित् ॥ ११९॥ वर्णातीतो वर्तमानः प्रज्ञादस्तापितासुरः । चण्डहासः करालास्यः कल्पातीतश्चिताधिपः ॥ १२०॥ सर्गकृत्स्थितिकृद्धर्ता अक्षरस्त्रिगुणप्रियः । द्वादशात्मा गुणातीतस्त्रिगुणस्त्रिजगत्पतिः ॥ १२१॥ ज्वलनो वरुणो विन्ध्यः शमनो निरृतिः पृथुः । कृशानुरेता दैत्यारिस्तीर्थरूपो कुलाचलः ॥ १२२॥ देशकालापरिच्छेद्यो विश्वग्रासविलासकृत् । जठरो विश्वसंहर्ता विश्वादिगणनायकः ॥ १२३॥ श्रुतिज्ञो ब्रह्मजिज्ञासुराहारपरिणामकृत् । आत्मज्ञानपरः स्वान्तोऽव्यक्तोऽव्यक्तविभागवान् ॥ १२४॥ समाधिगुरुरव्यक्तोभक्ताज्ञाननिवारणः । कृतवर्णसमाचारः परिव्राडधिपो गृही ॥ १२५॥ महाकालः खगपतिवर्णावर्णविभागकृत् । कृतान्तः कीलितेन्द्रारिः क्षणकाष्ठादिरूपवान् ॥ १२६॥ विश्वजित्तत्त्वजिज्ञासुर्ब्राह्मणो ब्रह्मचर्यवान् । सर्ववर्णाश्रमपरो वर्णाश्रमबहिस्थितिः ॥ १२७॥ दैत्यारिर्ब्रह्मजिज्ञासुर्वर्णाश्रमनिषेवितः । ब्रह्माण्डोदरभृत्क्षेत्रं स्वरवर्णस्वरूपकः ॥ १२८॥ वेदान्तवचनातीतो वर्णाश्रमपरायणः । दृग्दृश्योभयरूपैकोमेनापतिसमर्चितः ॥ १२९॥ सत्त्वस्थः सकलद्रष्टा कृतवर्णाश्रमस्थितः । वर्णाश्रमपरित्राता सखा शूद्रादिवर्णवान् ॥ १३०॥ वसुधोद्धारकरणः कालोपाधिः सदागतिः । दैतेयसूदनोतीतस्मृतिज्ञो वडवानलः ॥ १३१॥ समुद्रमथनाचार्यो वनस्थोयज्ञदैवतम् । दृष्टादृष्टक्रियातीतो हेमाद्रिर्हरिचन्दनः ॥ १३२॥ निषिद्धनास्तिकमतिर्यज्ञभुक्पारिजातकः । सहस्रभुजहाशान्तः पापारिक्षीरसागरः ॥ १३३॥ राजाधिराजसन्तानः कल्पवृक्षस्तनूनपात् । धन्वन्तरिर्वेदवक्ता चिताभस्माङ्गरागवान् ॥ १३४॥ काशीश्वरः श्रोणिभद्रो बाणासुरवरप्रदः । रजस्थः खण्ढिताधर्म आभिचारनिवारणः ॥ १३५॥ मन्दरो यागफलदस्तमस्थो दमवान्शमी । वर्णाश्रमाः नन्दपरो दृष्टादृष्टफलप्रदः ॥ १३६॥ कपिलस्त्रिगुणानन्दः सहस्रफणसेवितः । कुबेरो हिमवाञ्छत्रं त्रयीधर्मप्रवर्तकः । आदितेयो यज्ञफलं शक्तित्रयपरायणः । दुर्वासाः पितृलोकेशोवीरसिंहपुराणवित् ॥ १३८॥ अग्निमीळेस्फुरन्मूर्तिः सान्तर्ज्योतिः स्वरूपकः । सकलोपनिषत्कर्ता खांबरो ऋणमोचकः ॥ १३९॥ तत्त्वज्योतिः सहस्रांशुरिषेत्वोर्जलसत्तनुः । योगज्ञानमहाराजः सर्ववेदान्तकारणम् ॥ १४०॥ योगज्ञानसदानन्दः अग्नायाहिरूपवान् । ज्योतिरिन्द्रियसंवेद्यः स्वाधिष्ठानविजृम्भकः ॥ १४१॥ अखण्डब्रह्मखण्डश्रीः शन्नोदेवीस्वरूपवान् । योगज्ञानमहाबोधो रहस्यं क्षेत्रगोपकः ॥ १४२॥ भ्रूमध्यवेक्ष्यो गरली योगज्ञान सदाशिवः । चण्डाचण्डबृहद्भानुनर्यनस्त्वरितापतिः ॥ १४३॥ ज्ञानमहायोगी तत्त्वज्योतिः सुधारकः । फणिबद्धजटाजूटो बिन्दुनादकलात्मकः ॥ १४४॥ योगज्ञानमहासेनो लम्बिकोर्म्यभिषिञ्चितः । अन्तर्ज्योतिर्मूलदेवोऽनाहतः सुषुमाश्रयः ॥ १४५॥ भूतान्तविद्ब्रह्मभूतिर्योगज्ञानमहेश्वरः । शुक्लज्योतिः स्वरूपः श्रीयोगज्ञानमहार्णवः ॥ १४६॥ पूर्णविज्ञानभरितः सत्त्वविद्यावबोधकः । योगज्ञानमहादेवश्चन्द्रिकाद्रवसुद्रवः ॥ १४७॥ स्वभावयन्त्रसञ्चारः सहस्रदलमध्यगः ॥ १४८॥ ईश्वर उवाच । सहस्रनाममल्लारेरिदं दिव्यं प्रकाशितम् । लोकानां कृपया देविप्रीत्या तव वरानने ॥ १४९॥ य इदं पठते नित्यं पाठयेच्छृणुयादपि । भक्तितो वा प्रसङ्गाद्वा सकलं भद्रमश्नुते ॥ १५०॥ पुस्तकं लिखितं गेहे पूजितं यत्र तिष्ठति । तत्र सर्वसमृद्धीनामधिष्ठानं न संशयः ॥ १५१॥ सुतार्थी धनदारार्थीविद्यार्थी व्याधिनाशकृत् । यशोर्थी विजयार्थीच त्रिवारं प्रत्यहं पठेत् ॥ १५२॥ महापापोपपापानां प्रायश्चित्तार्थमादरात् । प्रातस्नायी पठेदेतत् षण्मासात् सिद्धिमाप्नुयात् ॥ १५३॥ रहस्यानां च पापानां पठनादेव नाशनम् । सर्वारिष्टप्रशमनं दुःस्वप्नफलशान्तिदम् ॥ १५४॥ सूतिकाबालसौख्यार्थी सूतिकायतने पठेत् । सुसूतिं लभते नित्यं गर्भिणी श‍ृणुयादपि ॥ १५५॥ याचनारीपतद्गर्भादृढगर्भाभवेत्ध्रुवम् । सुतासुतपरीवारमण्डिता मोदते चिरम् ॥ १५६॥ आयुष्यसन्ततिं नूनं याभवेन्मृतवत्सका । वन्ध्यापि लभते भीष्टसन्ततिं नात्र संशयः ॥ १५७॥ भर्तुः प्रियत्वमाप्नोति सौभाग्यं च सुरूपताम् । नसपत्नीमपिलभेद्वैधव्यं नाप्नुयात्क्वचित् ॥ १५८॥ लभेत्प्रीतिमुदासीना पतिशुश्रूषणेरता । सर्वाधिकं वरं कन्याविरहं न कदाचन ॥ १५९॥ जातिस्मरत्वमाप्नोति पठनाच्छ्रवणादपि । स्खलद्गीः सरलांवाणीं कवित्वं कविताप्रियः ॥ १६०॥ प्रज्ञातिशयमाप्नोति पठतां ग्रन्थधारणे । निर्विघ्नं सिद्धिमाप्नोति यः पठेद्ब्रह्मचर्यवान् ॥ १६१॥ सर्वरक्षाकरं श्रेष्ठं दुष्टग्रहनिवारणम् । सर्वोत्पातप्रशमनं बालग्रहविनाशनम् ॥ १६२॥ कुष्ठापस्माररोगादिहरणं पुण्यवर्धनम् । आयुर्वृद्धिकरं चैव पुष्टिदं तोषवर्धनम् ॥ १६३॥ विषमे पथि चोरादिसङ्घाते कलहागमे । रिपूणां सन्निधाने च संयमे न पठेदिदम् ॥ १६४॥ मनः क्षोभविषादे च हर्षोत्कर्षे तथैवच । इष्टारम्भसमाप्तो च पठितव्य प्रयत्नतः ॥ १६५॥ समुद्रतरणे पोतलङ्घने गिरिरोहणे । कर्षणे गजसिंहाद्यैः सावधाने पठेदिदम् ॥ १६६॥ अवर्षणे महोत्पाते दुरत्ययभवेत्तथा । शतवारं पठेदेतत्सर्वदुष्टोपशान्तये ॥ १६७॥ शनिवारेर्कवारे च षष्ठ्यां च नियतः पठेत् । मल्लारिं पूजयेद्विप्रान्भोजयेद्भक्तिपूर्वकम् ॥ १६८॥ उपवासोथवा नक्तमेकभक्तमयाचितम् । यथाशक्ति प्रकुर्वीत जपेत्सम्पूजयेद्धुनेत् ॥ १६९॥ अग्रवृद्ध्या पठेदेतद्धोमपूजा तथैव च । भोजयेदग्रवृद्धानांब्राह्मणाश्च सुवासिनीः ॥ १७०॥ नानाजातिभवान्भक्तान्भोजयेदनिवारितम् । नानापरिमलैर्द्गव्यैः पल्लवैः कुसुमैरपि ॥ १७१॥ दमनोशीरपाक्यादितत्तत्कालोद्भवैः शुभैः । नैशभाण्डारचूर्णेन नानारञ्जिततन्दुलैः ॥ १७२॥ पूजयेन्म्हालसायुक्तं मल्लारिं देवभूषितम् । मल्लारिपूजनं होमः स्वभूषाभक्तपूजनम् ॥ १७३॥ प्रीतिदानोपयाञ्चादि नैशचूर्णेन सिद्धिदम् । यथाश्रमं यथाकालं यथाकुलचिकीर्षितम् ॥ १७४॥ नैवेद्यं पूजनं होमं कुर्यात्सर्वार्थसिद्धये । शुभं भाजनमादाय भक्त्या भोमण्डितः स्वयम् ॥ १७५॥ यथावर्णकुलाचारं प्रसादं याचयेन्मुहुः । मल्लारिक्षेत्रमुद्दिश्य यात्रां क्वापि प्रकल्पयेत् ॥ १७६॥ वित्तव्ययश्रमो नात्र मैरालस्तेन सिद्धिदः । मार्गशीर्षे विशेषेण प्रतिपत्षष्ठिकान्तरे ॥ १७७॥ पूजाद्यनुष्ठितं शक्त्या तदक्षयमसंशयम् । यद्यत्पूजादिकं भक्त्या सर्वकालमनुष्ठितम् ॥ १७८॥ अनन्तफलदं तत्स्यान्मार्गशीर्षे सकृत्कृतम् । धनधान्यादिधेन्वादि दासदासीगृहादिकम् ॥ १७९॥ मल्लारिप्रीतये देयं विशेषान्मार्गशीर्षके । चम्पाषष्ठ्यां स्कन्दषष्ठ्यां तथा सर्वेषु पर्वसु ॥ १८०॥ चैत्रश्रावणपौषेषु प्रीतो मल्लारिरर्चितः । यद्यत्प्रियतमं यस्य लोकस्य सुखकारणम् ॥ १८१॥ वित्तशाठ्यं परित्यज्य मल्लारिप्रीतये पठेत् । प्रसङ्गाद्वापि बाल्याद्वा कापट्याद्दम्भतोऽपि वा ॥ १८२॥ यः पठेच्छ्रुणुयाद्वापि सर्वान्कामानवाप्नुयात् । अतिवश्यो भवेद्राजा लभते कामिनीगणम् ॥ १८३॥ यदसाध्यं भवेल्लोके तत्सर्वं वशमानयेत् । शस्त्राण्युत्पलसाराणि भवेद्वह्नि सुशीतलः ॥ १८४॥ मित्रवद्वैरिवर्गः स्याद्विषं स्यात्पुष्टिवर्धनम् । अन्धोपिलभते दृष्टिं बधिरोऽपि श्रुती लभेत् ॥ १८५॥ मूकोऽपि सरलां वाणीं पठन्वापाठयन्नपि । धर्ममर्थं च कामं च बहुधा कल्पितं मुदा ॥ १८६॥ पठन्श‍ृण्वन्नवाप्नोति पाठं यो मतिमानवः । ऐहिकं सकलं भुक्त्वा शेषे स्वर्गमवाप्नुयात् ॥ १८७॥ मुमुक्षुर्लभते मोक्षं पठन्निदमनुत्तमम् । सर्वकर्तुः फलं तस्य सर्वतीर्थफलं तथा ॥ १८८॥ सर्वदानफलं तस्य मल्लारिर्येन पूजितः । मल्लारिरिति नामैकं पुरुषार्थप्रदं ध्रुवम् ॥ १८९॥ सहस्रनामविद्यायाः कः फलं वेत्तितत्त्वतः । वेदास्याध्ययने पुण्यं योगाभ्यासेऽपि यत्फलम् ॥ १९०॥ सकलं समवाप्नोति मल्लारिभजनात्प्रिये । तव प्रीत्यै मयाख्यातं लोकोपकृतकारणात् ॥ १९१॥ सहस्रनाममल्लारेः किमन्यच्छ्रोतुमिच्छसि । गुह्याद्गुह्यं परं पुण्यं न देयं भक्तिवर्जिते ॥ १९२॥ इति श्रीपद्मपुराणे शिवोपाख्याने मल्लारिप्रस्तावे शिवपार्वतीसंवादे शिवप्रोक्तं मल्लारिसहस्रनामस्तोत्रं सम्पूर्णम् । श्रीसाम्बसदाशिवार्पणमस्तु ॥ ॥ शुभंभवतु ॥ मल्हारी सहस्त्रनामस्तोत्रम् The stotra is not found in the Padmapurana text. The colophon is retained as was found in the handwritten manuscript.
% Text title            : Shri Mallari Sahasranama Stotram
% File name             : mallArisahasranAmastotram.itx
% itxtitle              : mallArisahasranAmastotram
% engtitle              : Mallari or Malhari Sahasranama Stotram
% Category              : sahasranAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Description-comments  : malhArI sahastranAma
% Indexextra            : (Video chanting, Scan 1, 2)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org