प्रतिमासशिवरात्र्यां शिवार्चनोपदेशम्

प्रतिमासशिवरात्र्यां शिवार्चनोपदेशम्

(शिवरहस्यान्तर्गते महादेवाख्ये) स्कन्द उवाच । प्रतिमासं कृष्णपक्षे शिवरात्रिं च सत्तम । पूजयेदविमुक्तेशमन्यक्षेत्रेऽपि वा शिवम् ॥ ३६॥ माघ्यां कृष्णचतुर्दश्यां पूजयेदिन्दुशेखरम् । चैत्रे त्रिणेत्रनामानं पूजयेत्परमेश्वरम् ॥ ३७॥ द्वादशाहक्रतुफलं लभते सोऽचिरान्मुने । वैशाखे शिवनामानं पूज्य रात्रौ कुशोदकम् ॥ ३८॥ पीत्वा पुरुषमेघस्य फलमष्टगुणं लभेत् । ज्येष्ठे पशुपतिं पूज्य गवां श‍ृङ्गोदकं पिबेत् ॥ ३९॥ गवां कोटिप्रदानस्य यत्फलं तदवाप्नुयात् । आषाढे चोग्रनामानं दृष्ट्वा प्राश्य च गोमयम् ॥ ४०॥ सौत्रामण्ययुतस्यैव स फलं प्राप्नुयान्नरः । श्रावणे शर्वनामानं पूज्य पर्णानि भक्षयेत् ॥ ४१॥ वर्षकोटिशतं साग्रं सूर्यलोके महीयते । मासे भाद्रपदेऽष्टम्यां त्र्यम्बकं नाम पूजयेत् ॥ ४२॥ प्राश्य बिल्वफलं पक्वं सत्रयागफलं लभेत् । मासे चाश्वयुजेऽष्टम्यामीश्वरं नाम पूजयेत् ॥ ४३॥ पौर्णम्यामाश्वयुज्यां च अश्विन्यर्क्षे प्रदोषके । अन्धसां राशिभिर्लिङ्गं छादयेद्याममात्रकम् ॥ ४४॥ सिक्थे सिक्थेऽश्वमेधस्य फलमाप्नोति मानवः । तण्डुलोदकमापीय तस्मिन् मासि शिवार्चकः ॥ ४५॥ पौण्डरीकाष्टकस्यैवं फलं च सकलं भवेत् । कार्तिके रुद्रनामानं पूज्य पीत्वा कुशोदकम् ॥ ४६॥ अग्निष्टोमादिदशकं फलं प्राप्य विमुच्यते । मार्गशीर्षे महादेवमुग्रनाम्ना प्रपूजयेत् ॥ ४७॥ स उक्थ्यदशकस्यैव लभेत फलमम्बुपः । पुष्यमासे तु सम्प्राप्ते यः कुर्यान्नक्तभोजनम् ॥ ४८॥ शर्वार्चनरतो धीमान् फलमूलेन वर्तयेत् । अप्तोर्यामायुतफलं प्राप्नोत्येव विशेषतः ॥ ४९॥ माघमासे तु सम्प्राप्ते यः कुर्यान्नक्तभोजनम् । स षोडशी(शि)शतफलं प्रोप्नोत्यमरपूजितः ॥ ५०॥ सम्प्राप्ते फाल्गुने मासि नक्ताशी शिवपूजकः । श्यामाकक्षीरनीवारैर्जितक्रोधो जितेन्द्रियः ॥ ५१॥ अत्यग्निष्टोमदशकफलमेष समश्नुते । सोपवासश्चतुर्दश्यां भवेदुभयपक्षयोः ॥ ५२॥ शिवाय पूर्णिमायां तु यो दद्याद्घृतकम्बलम् । माघ्यामघायुतैर्मुक्तो भवेदेव महामुने ॥ ५३॥ मासद्वादशकं ह्येवं पूजयेच्छशिशेखरम् । पर्वान्ते भोजयेद्विप्रान् शिवभक्तान् जितेन्द्रियान् ॥ ५४॥ पायसं मधुयुक्तं घृतेन च परिप्लुतम् । भक्त्या हिरण्यवासांसि भक्तेभ्यो यो निवेदयेत् ॥ ५५॥ वर्षमेकं चरेदेवं नैरन्तर्येण यो नरः । सर्वयज्ञफलं लब्ध्वा शिवक्षेत्रे विमुच्यते ॥ ५६॥ अविमुक्ते तु नियतमेवं व्रतवरं चरेत् । जितेन्द्रियः सत्यवादी वित्तशाठ्यविवर्जितः ॥ ५७॥ देहान्ते शिवसारूप्यं लभेत्पुण्यफलं श‍ृणु । सूर्यकोटिप्रतीकाशैर्विमानैः सार्वगामिकैः ॥ ५८॥ रुद्रकन्यासमाकीर्णैर्महावृषभसंयुतैः । सङ्गीतनृत्तवाद्याद्यैरप्सरोगणसेवितैः ॥ ५९॥ चामरैर्धूयमानश्च स्तूयमानः सुरासुरैः । गत्वा शिवपुरं दिव्यं वसेदाभूतसम्प्लवम् ॥ ६०॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं प्रतिमासशिवरात्र्यां शिवार्चनोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २६ । ३६-६०॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 26 . 36-60.. Notes: Skanda स्कन्द outlines the procedures and merits of observing Māsika Śivarātri मासिक शिवरात्रि on Kṛṣṇa Caturdaśi कृष्ण चतुर्दशी of respective months, with mention of the Names of Śiva शिव for respective māsa मास (though the Names for Śrāvaṇa श्रावण and Puṣya पुष्य are repeated, and those for Māgha माघ and Phālguna फाल्गुन seem to have not been specified). It has also been noted that Aṣṭamī अष्टमी and Pūrṇimā पूर्णिमा have been mentioned (instead of Kṛṣṇa Caturdaśi कृष्ण चतुर्दशी) wrt Aśvāyuja अश्वायुज. Proofread by Ruma Dewan
% Text title            : Pratimasashivaratryam Shivarchanopadesham
% File name             : pratimAsashivarAtryAMshivArchanopadesham.itx
% itxtitle              : shivArchanopadesham pratimAsashivarAtryAM  (shivarahasyAntargatA)
% engtitle              : pratimAsashivarAtryAM  shivArchanopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 26 | 36-60||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org