श्रीशरभेश्वरमन्त्रविधान

श्रीशरभेश्वरमन्त्रविधान

मन्त्र-विधान- विनियोगः - अस्य श्रीशरभेश्वर-मन्त्रस्य वामदेवऋषिः अतिजगतीछन्दः श्रीशरभो देवता ॐ खं बीजं स्वाहा शक्तिः मम कार्यसिद्ध्यर्थे जपे विनियोगः । ऋष्यादिन्यास- ॐ वामदेवऋषये नमः (शिरसि) , ॐ अतिजगतीछन्दसे नमः (मुखे), ॐ श्रीशरभेश्वरदेवतायै नमः (हृदये), ॐ खं बीजाय नमः (गुह्ये), स्वाहा शक्तये नमः (पादयोः), विनियोगाय नमः (सर्वाङ्गे) ॥ करन्यासः- ॐ खें खां खं फट् अङ्गुष्ठाभ्यां नमः । प्राणग्रहसि प्राणग्रहसिहुं फट् तर्जनीभ्यां नमः । सर्वशत्रुसंहारकाय मध्यमाभ्यां नमः । शरभसालुवाय अनामिकाभ्यां नमः । पक्षिराजाय कनिष्ठिकाभ्यां नमः । हुं फट् स्वाहा करतलकरपृष्ठाभ्यां नमः ॥ हृदयादिन्यासः- ॐ खें खां खं फट् हृदयाय नमः । प्राणग्रहसि शिरसे स्वाहा । सर्वशत्रुसंहारकाय शिखायै वषट् । शरभसालुवाय कवचाय हुम् । पक्षिराजाय नेत्रत्रयाय वौषट् । हुं फट् स्वाहा अस्त्राय फट् ॥ ध्यानम्- मृगस्त्वर्धशरीरेण पक्षाभ्यां चञ्चुना द्विजः । घोरवक्त्रश्चतुष्पाद ऊर्ध्वनेत्रश्चतुर्भुजः ॥ कालान्तदहनः पुण्यो नीलजीमूतनिस्वनः । अरिस्तद्दर्शनादेव विनष्टबलविक्रमः ॥ सटाछटोग्ररूपाय पक्षविक्षिप्तभूभृते । अष्टपादाय रुद्राय नमः शरभमूर्तये ॥ अथवा- चन्द्रार्काग्निस्त्रिदृष्टिः कुलिशवरनखश्चञ्चलोत्युग्रजिह्वः, काली दुर्गा च पक्षौ हृदयजठरगौ भैरवो जठराग्निः । ऊरुस्थौ व्याधिमृत्यू शरभवरखगश्चण्डवातातिवेगः, संहर्त्ता सर्वशत्रून् स जयति शरभः सालुवः पक्षिराजः ॥ इस प्रकार ध्यान करके निम्नलिखित मन्त्र का जप करें- ॐ खें खां खं फट् प्राणग्रहसि प्राणग्रहसि हुं फट् सर्वशत्रुसंहारकाय शरभसालुवाय पक्षिराजाय हुं फट् स्वाहा । एक अन्य मन्त्र इस प्रकार भी है- ॐ नमोऽष्टपादाय सहस्रबाहवे द्विशिरसे त्रिनेत्राय द्विपक्षायाग्निवर्णाय मृगविहङ्गरूपाय वीरशरभेश्वराय ॐ । स्तोत्र-पाठ निम्नलिखित है-जप के पश्चात् अथवा केवल स्तोत्र का पाठ भी किया जा सकता है । रात्रि में तीन पाठ नित्य करने से विशेष लाभ होता है । निग्रह-दारुण-सप्तकं \- कोपोद्रेकाति-निर्यन् निखिलपरिचरत् ताम्रभारप्रभूतं, ज्वालामालाग्रदग्धस्मरतनुसकलं त्वामहं शालुवेश ! । याचे त्वत्पादपद्मप्रणिहितमनसं द्वेष्टि मां यः क्रियाभि- स्तस्य प्राणप्रयाणं परशिव भवतः शूलभिन्नस्य तूर्णम् ॥ १॥ शम्भो ! त्वद्धस्तकान्तक्षतरिपुहृदयान्निःस्रवल्लोहितौघं, पीत्वा पीत्वातिदीर्घा दिशि-दिशि विचरास्त्वद्गणाश्चण्डमुख्याः । गर्जन्तु क्षिप्रवेगा निखिलजयकरा भीकराः खेललोलाः, सन्त्रस्ता ब्रह्मदेवाः शरभ खगपते ! त्राहि नः शालुवेश ॥ २॥ सर्वाद्यं सर्वनिष्ठं सकलभयहरं त्वत्स्वरूपं हिरण्यं, याचेऽहं त्वाममोघं परिकरसहितं द्वेष्टि मां यः क्रियाभिः । श्रीशम्भो त्वत्कराब्जस्थितकुलिशवराघातवक्षःस्थलस्य, प्राणाः प्रेतेशदूत ग्रहगणपरिखाः क्रोशपूर्वं प्रयान्तु ॥ ३॥ द्विष्मः क्षोण्यां वयं यांस्तव पदकमलध्याननिर्धूततापाः, कृत्याकृत्यैर्विमुक्ता विहगकुलपते ! खेलया बद्धमूर्तेः । तूर्णं त्वत्पादपद्मप्रधृतपरशुना तुण्डखण्डी-कृताङ्ग- स्तद्द्वेषी यातु याम्यं पुरमतिकलुषं कालपाशाग्रबद्धः ॥ ४॥ भीमश्रीशालुवेश ! प्रणतभयहर प्राणजिद् दुर्मदानां, याचेऽहं चास्य वर्गप्रशमनमिह ते स्वेच्छया बद्धमूर्तेः । त्वामेवाशु त्वदङ्घ्र्यष्टकनखविलसद्ग्रीवजिह्वोदरस्य, प्राणा यान्तु प्रयाणं प्रकटितहृदयस्यायुरल्पायतेश ॥ ५॥ श्रीशूलं ते कराग्रस्थितमुसलगदावृत्तवात्याभिघाताद्, यातायातारियूथं त्रिदशरविघनोद्धूतरक्तच्छटार्द्रम् । सद्दृष्ट्वाऽऽयोधने ज्यामखिलसुरगणाश्चाशु नन्दन्तु नाना- भूता वेतालपूगः पिबतु तदखिलं प्रीतचित्तः प्रमत्तः ॥ ६॥ अल्पं दोर्दण्डबाहुप्रकटितविनमच्चण्डकोदण्डमुक्तै- र्बाणैर्दिव्यैरनेकैः शिथिलितवपुषः क्षीणकोलाहलस्य । तस्यप्राणावसानं परशरभ विभोऽहं त्वदिज्या-प्रभावै- स्तूर्णं पश्यामि यो मां परिहसति सदा त्यादिमध्यान्तहेतो ॥ ७॥ इति निशि प्रयतस्तु निरासनो मममुखः शिवभावमनुस्मरन् । प्रतिदिनं दशवारदिनत्रयं जपति निग्रह-दारुणसप्तकम् ॥ ८॥ इति गुह्यं महाबीजं परमं रिपुनाशनम् । भानुवारं समारभ्य मङ्गलान्तं जपेत् सुधीः ॥ ९॥ इत्याकाशभैरव-कल्पे प्रत्यक्षसिद्धिप्रदे नरसिंहकृता शरभस्तुतिः समाप्ता । श्रीशरभेश्वरप्रार्थना रुद्रः पिङ्गल-कुन्तलस्त्रिनयनोऽत्युग्रः सपक्षो हरिः, सर्पालङ्करणस्तथाऽष्टचरणस्तुर्यः शुकः सालुवः । क्षोभं श्रीनरसिंहजं शमयितुं नीतावतारो हरः, पायाद् श्रीशरभेश्वरो विहगराट् सर्वार्थदः शङ्कर ॥ काली दुर्गा पक्षयोर्यस्य संस्थे, स्वान्ते साक्षात् सुन्दरीराजमाना । क्षोभं यातः श्रीनृसिंहो यतस्तं, देवं भीम सालुवाख्यं नमामः ॥ इति श्रीरुद्रयामले तन्त्रे श्रीशरभेश्वरस्तुतिः एवं प्रार्थना समाप्ता । Proofread by Aruna Narayanan
% Text title            : Shri Sharabheshvara Mantravidhana Evam Stotram
% File name             : sharabheshvaramantravidhAna.itx
% itxtitle              : sharabheshvaramantravidhAna (rudrayAmalAntargatam)
% engtitle              : sharabheshvaramantravidhAna
% Category              : shiva, mantra
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : December 24, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org