ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशम् ५

ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशम् ५

(शिवरहस्यान्तर्गते उग्राख्ये) - ऋष्यगस्त्यविप्रसंवादे - (अतः) शिवार्चनेनैव दुःखनाशो भविष्यति । शिवार्चनं विना विप्रा दुःखनाशो न जायते ॥ ४७३॥ संसारबन्धविच्छेदो न शिवराधनं विना । यस्य लीलाविहारोऽयं प्रपञ्चो द्विविधो द्विजाः ॥ ४७४॥ तस्य श्रीविश्वनाथस्य पूजा दुःखापहारिणी । विश्वस्य पार्वतीनाथो यष्टव्यश्च मुमुक्षुभिः ॥ ४७५॥ स्मर्तव्यश्च प्रयत्नेन ध्यातव्यश्च महेश्वरः । ध्यानेन तपसा यज्ञैः पूजया च मुहुर्मुहुः ॥ ४७६॥ प्रीणनीयो महादेवः सर्वदा मुक्तिकाङ्क्षिभिः । उद्धूलयध्वमङ्गानि भस्मना प्रतिवासरम् ॥ ४७७॥ भूषयध्वं शरीराणि रुद्राक्षैः श्रुतिचोदितैः । शिरोललाटस्थानानि सितभस्मत्रिपुण्ड्रकैः ॥ ४७८॥ पावयित्वा प्रयत्नेन पूजयध्वं महेश्वरम् । जपध्वमतियत्नेन रुद्राध्यायं मुहुर्मुहुः ॥ ४७९॥ श्रीरुद्राध्यायमध्यस्थं ध्यातं वेदैः स्तुतं सदा । मन्त्रं ``नमः शिवाये''ति जपध्वं विधिपूर्वकम् ॥ ४८०॥ स मन्त्रराजः सर्वेषां मन्त्राणामधिपो द्विजाः । नास्ति तत्सदृशो मन्त्रो मन्त्रेषु विविधेष्वपि ॥ ४८१॥ वेदवेदान्तसंवेद्यः सर्वमन्त्रोत्तमोत्तमः । पञ्चाक्षरः स वेदेड्यः स तु मन्त्रशिरोमणिः ॥ ४८२॥ मोक्षो भवति विप्रेन्द्रस्तज्जपेनैव नान्यथा । पञ्चाक्षरं मन्त्रराजं महादेवात्मकं द्विजाः ॥ ४८३॥ यो जपेदतियत्नेन मुक्तिस्तस्यैव जायते । पञ्चाक्षरजपासक्तः पञ्चास्यध्यानतत्परः ॥ ४८४॥ सर्वप्रपञ्चनिर्मुक्तः प्रपञ्चं नैव पश्यति । पञ्चाक्षरविहीनानां मुक्तिर्नास्त्येव सर्वथा ॥ ४८५॥ पञ्चाक्षरस्य माहात्म्यं न वक्तुं शक्नुयामहम् । महेशः सर्वदेवेशः सर्वज्ञः परमेश्वरः ॥ ४८६॥ जानाति शिवमन्त्रस्य माहात्म्यं नेतरो ध्रुवम् । वेदाः स्तुवन्ति ये मन्त्रं वेदान्ताश्च प्रयत्नतः ॥ ४८७॥ तस्य मन्त्रस्य माहात्म्यं को वा वेद शिवं विना ॥ ४८८॥ ॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशं ५ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २५। ४७३-४८८॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 25 . 473-488.. Notes: Ṛṣi Agastya ऋषि अगस्त्य delivers Upadeśa उपदेश (to Ṛṣi Vasiśṭha ऋषि वसिष्ठ et al) about worshiping Śiva शिव with great effort through Rudrādhyāya japa रुद्राध्याय जप and the ŚivaPañcākṣara Mantra शिवपञ्चाक्षर मन्त्र viz., Namaḥ Śivāya नमः शिवाय, that indeed is the MantraRāja मन्त्रराज and MantraŚiromaṇi मन्त्रशिरोमणि. He mentions about being adorned with Bhasma भस्म, Rudrākṣa रुद्राक्ष and Tripuṇḍra त्रिपुण्ड्र; and highlights that there is no relief from suffering or liberation from the bondage of material existence without worship of Śiva शिव. Proofread by Ruma Dewan
% Text title            : Rishi Agastyaproktam Shivarchanopadesham 5
% File name             : shivArchanopadeshamagastyaproktaM.itx
% itxtitle              : shivArchanopadesham 5 agastyaproktaM (shivarahasyAntargatam)
% engtitle              : agastyaproktaM shivArchanopadesham 5
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 25| 473-488||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org