शिवप्रोक्तं चिदम्बरक्षेत्रवर्णनम्

शिवप्रोक्तं चिदम्बरक्षेत्रवर्णनम्

(शिवरहस्यान्तर्गते उग्राख्ये) - शिवपार्तवतीसंवादे - श्रीशिवः चिदम्बराभिधं क्षेत्रं शिवक्षेत्रमनुत्तमम् । तदप्येकं महत्स्थानं मम प्रियकरं शिवे ॥ १॥ वसामि तत्र सततं ब्रह्मविष्ण्वादिपूजितः । तत्र मां मुनयः सर्वे सेवन्ते प्रत्यहं शिवे ॥ २॥ तस्मिन्नेव शिवस्थाने कोटिशः सन्ति शाङ्कराः । तत्र रम्याणि तीर्थानि सन्ति पापहराणि च ॥ ३॥ रुद्राक्षवनमस्त्येकं तत्र पापभयापहम् । तत्र बिल्ववनं चास्ति सर्वदा नवपल्लवम् ॥ ४॥ नित्यं शिवकथालापाः जायन्ते तत्र वल्लभे । शिवैकशरणा एव तत्र सन्ति मम प्रियाः ॥ ५॥ सदा मदासक्तचित्ताः सदा मत्पूजनप्रियाः । सदा मदेकशरणाः सदा मदुपपादकाः ॥ ६॥ केचिद्वदन्ति मामीशं गौरीनाथेति सादरम् । गौरीनाथेति नाम्नैव पूजयन्ति मुहुर्महुः ॥ ७॥ केचिद्वदन्ति मामीशं शिवेत्यनिशमादरान् । तन्नाम्नैव नमः पूर्वं बिल्वैरभ्यर्चयन्ति माम् ॥ ८॥ केचिद्वदन्ति मामीशं शङ्करेत्यनिशं मुदा । तन्नाम्नैव नमः पूर्वं बिल्वैरभ्यर्चयन्ति माम् ॥ ९॥ केचिद्वदन्ति मामीशं चन्द्रचूडेति सादरम् । तन्नाम्नैव नमः पूर्वं बिल्वैरभ्यर्चयन्ति माम् ॥ १०॥ केचिद्वदति मामीशं विश्वनाथेति सादरम् । तन्नाम्नैव नमः पूर्वं बिल्वैरभ्यर्चयन्ति माम् ॥ १०॥ केचिद्वदन्ति मामीशमुमानाथेति सादरम् । यावन्तः सन्ति विप्रेन्द्रा नित्यं श्रीमच्चिदम्बरे ॥ १२॥ सर्वे वदन्ति ते नित्यं महादेव शिवेति च । मन्नामचिह्निताः सर्वे सन्ति श्रीमच्चिदम्बरे ॥ १३॥ मन्नामामृतपाः सर्वे श्रीचिदम्बरवासिनः । श्रीमच्चिदम्बरे तीर्थे यावन्तः सन्ति साधवः ॥ १४॥ तावन्तोऽप्यर्चयन्त्येते मन्नामामृतपायिनः । अमिताः सन्ति शैवेन्द्रा नित्यं श्रीमच्चिदम्बरे ॥ १५॥ चिदम्बरस्थशैवानां न सङ्ख्या विद्यते शिवे । शिवगङ्गाभिधं तीर्थं तत्रास्त्येकं वरानने ॥ १६॥ तत्र स्नात्वा नरः सद्यो मुच्यते पापकोटिभिः । आद्रायां पातयुक्तायां तत्र स्नात्वा यथाविधि ॥ १७॥ दत्वा सुवर्णं शैवाय मुच्यते भवबन्धनात् । शिवगङ्गातटे रम्ये नाट्यस्थलमुमेऽस्ति मे ॥ १८॥ तत्र नाट्यं मया देवि क्रियते तव सन्निधौ । श्रीमदभ्रसभानाथं नृत्यन्तं मां महेश्वरं (नटेश्वरम्) ॥ १९॥ ब्रह्मविष्ण्वादयो देवाः सेवन्ते प्रत्यहं शिवे । नृत्यन्तं मामुमे नित्यं महाताण्डवनायकम् ॥ २०॥ दृष्ट्वैव दूरतो देवास्तिष्ठन्ति भृशकस्पिताः । स्वर्गादिकान्सप्त लोकान्भूरादीनखिलानपि ॥ २१॥ समावृत्य मया तत्र कृतं नृत्यं मनोरमे । तत्र लिङ्ग ममास्त्येकं श्रीमदभ्रसभास्थले ॥ २२॥ तद्विलोकनमात्रेण न पुनर्भवबन्धनम् । आर्द्रायां तस्य लिङ्गस्य दर्शनं यः करिष्यति ॥ २३॥ स महापापराशिभ्यो मुच्यते नात्र संशयः । यन्मे मूलेश्वरं लिङ्गं मूलस्थाना (नाथा) भिधं शिवे ॥ २४॥ यन्मूलं सर्वजगतामुत्पत्यादेश्च कारणम् । मूलस्थानेश्वरं दृष्ट्वा पातार्द्रासोमवासरे ॥ २५॥ बिल्वपत्रैः समभ्यर्च्य मद्रूपं प्राप्नुयान्नरः । मूलेश्वरं समभ्यर्च्य जप्त्वा पञ्चाक्षरं ततः ॥ २६॥ रुद्राध्यायं च जप्त्वान्ते मम सायुज्यमाप्नुयात् । तत्र द्वादशसाहस्रं जप्त्वा पञ्चाक्षरं शिवे ॥ २७॥ ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः । तत्र यन्निष्कमात्रं वा सुवर्णं सोदकं शिवे ॥ २८॥ यो दद्याच्छिवभक्ताय स मुक्तो भवति ध्रुवम् । २९.१ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं अरुणाचलक्षेत्रवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २४। १-२९.१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 24 . 1-29.1.. Notes: Śiva शिव tells Pārvatī पार्वती about the Cidambarakṣetra चिदम्बरक्षेत्र that has a Rudrākṣa forest रुद्राक्षवन and a Bilva forest बिल्ववन; and is inhabited by several Śāṅkarā-s शाङ्कराः. He highlights the merits of bathing in the Śivagaṅgā शिवगङ्गा located there, especially during Pātayukta Ārdrā पातयुक्त आर्द्रा. Along the banks of Śivagaṅgā शिवगङ्गा is His Nāṭyasthala नाट्यस्थल where He conducts His Tāṇḍava ताण्डव as SrīmadAbhraSabhānātham श्रीमदभ्रसभानाथम्, along with Devi देवि. He is worshiped there by Brahmā ब्रह्मा, Viṣṇu विष्णु et al, and is known there as MahāTāṇḍavaNāyakam महाताण्डवनायकम्. SrīmadAbhraSabhāsthalam श्रीमदभ्रसभास्थलम् has a Śivaliṅga शिवलिङ्ग, that should be worshiped especially during Ārdrā आर्द्रा; while the Mūleśvaraliṅga मूलेश्वरलिङ्ग / Mūlasthāneśvara मूलस्थानेश्वर should be visited during Pātayukta Ārdrā पातयुक्त आर्द्रा especially of Somavāra सोमवर. He mentions about the merits of Rudrādhyāya japa रुद्राध्याय जप and twelve thousand recitations of Pañcākṣara mantra पञ्चाक्षर मन्त्र. Proofread by Ruma Dewan
% Text title            : Shivaproktam Chidambarakshetravarnanam
% File name             : shivaproktaMchidambarakShetravarNanam.itx
% itxtitle              : chidambarakShetravarNanam shivaproktaM (shivarahasyAntargatam)
% engtitle              : shivaproktaM chidambarakShetravarNanam
% Category              : shiva, shivarahasya, raksha, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 24| 1-29.1||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org