शिवप्रोक्तं कलियुगे शिवभक्तिप्रसादवर्णनम्
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
- शिवपार्वतीसंवादे -
ईश्वर उवाच ।
मा भैषिर्देवि भद्रं ते भिषग्वर्योऽस्म्यहं शिवे ॥ ४.२॥
कलावपि भवेद्भक्तिः केषाञ्चित्पुण्यगौरवैः ।
ते भावैः पूजयन्त्येव भवोद्भवमतन्द्रिताः ॥ ५॥
ते तरन्त्येव देवेशि कलावपि भवार्णवम् ।
देवाश्च मुनयश्चेमे मनुष्याः स्थावरा अपि ॥ ६॥
कृतत्रेताद्वापरेषु तपः क्लिष्टाः सदाम्बिके ।
क्षणसिद्धौ कलौ जन्म वाञ्छन्त्येव हि नाद्भुतम् ॥ ७॥
कलेर्गुणान्प्रवक्ष्यामि यदि स्यामयिभक्तिमान् (भक्तिर्मयीश्वरि) ।
सा भक्तिर्दुर्लभा देवि ब्रह्मादीनामपि ध्रुवम् ॥ ८॥
प्रसादादेव सा भक्तिर्मम सर्वयुगेष्वपि ।
विशेषतः कलियुगे भवित्री क्वचिदेव हि ॥ ९॥
जन्महन्त्री पुण्यदात्री प्रदात्री सर्वकर्मणाम् ।
फलं मोक्षं च भक्तिं च राज्यं पुत्रांस्त्रियो धनम् ॥ १०॥
पशवो धान्यनिचयभायुरारोग्यमेव च ।
कलेर्गुणान्प्रवक्ष्यामि शृणु त्वं सावधानतः ॥ ११॥
शिष्टानिष्टकरेऽपि सम्प्रति कलेरेको विशिष्टो गुणः ।
कृत्याकृत्यगुणागुणेषु सुमहावृद्धिर्भवित्री कलौ ॥ १२॥
नैवान्येषु युगेषु तत्त्रगुणितं ध्यानार्चनावाजपो ।
भूयात्सत्यमिदं विशिष्ट इति तं जानाम्यहं तं युगम् ॥ १२॥
एकं नन्दामि निन्दाशतमपि कुधियां विप्रवृन्देषु मन्दा-
ज्ञानानन्दमहो ददाति सुकलिर्नाम्नैव मे सर्वदा ।
किं वक्ष्याम्यगकन्यके कलिभवो यो वा क्षणार्धं मुहु-
र्मन्नामामृतपाखिनीन(पान पीन)मनस(हृदये)स मुक्तिकान्तपतिः ॥ १३॥
कलिकलशगुणो यः साधुरेवायमीशे
क्षणमपि मम पूजाध्याननामैक निष्ठः ।
स हि कृतयुगत्रेताद्वापरे वा सहस्रा-
ण्ययुततपसमृद्ध्या तत्फलं नो लभेत ॥ १४॥
क्वचित्कलिभवो नरो भुवि भवेत भाग्योदयैः
शिवार्चनपरायणः प्रथितभस्मसन्धारणः ।
स एव शरणाय वै कलिजलेषु सन्तारणः
शिवे स सुखकारणो बहुलपापसंहारणः ॥ १५॥
सत्यं सत्यं भवानि क्षणमपि करुणाराशिवाराशिकन्या-
पतिनयनपदाब्जध्यानधारानुरक्तः ।
कलिमलकुलशैलाकारपापेषु सक्तो -
ऽप्यथ यदि शिवभक्तः सत्यमेवेह मुक्तः ॥ १६॥
अलं कलियुगेऽम्बिके सकलतीर्थसत्कल्पका
वनैर्मखमुखक्रिया सकलदान विश्राणनैः ।
अलं विविधभूसुराश्रमविचारसंवर्तनै-
रलं च सुसुखं क्रियाव्रतभवादिकार्येऽपि किम् ॥ १७॥
नालं किं शशिशेखराम्बुजपदध्यानैकमोदं मनो
मल्लिङ्गार्चन यापितोत्तमदिनं नामैव नालं किमु ।
कः कालान्तकपूजनोत्सवमतिं क्वायं स्पृशेद्वा कलिः
संसाराम्बुधितारकारणमुमे भक्तिः परा मे कलौ ॥ १८॥
शिवे सुकृतसाधनं कलियुगेषु लिङ्गार्चनं
वदन्ति निगमाः सदा सुगममार्गसन्दर्शनम् ।
अघौघबलतर्जनं कलिमलादि सन्तर्जनं
भवेत सुखचोदनं अ(नि)खिलदुःखसन्दीपनम् ॥ १९॥
कलावपि तपोबलैरमितपुण्यजालोदयै-
भवन्ति भुवि ते नरा हरमहेशपादादराः ।
तएव खलु विस्तरं भवमहाब्धिजं दुस्तरं
तरन्ति विषयोर्मिमज्जनननाशदुःखं
(जननमरणरूपदुःखम्) महत् ॥ २०॥
सुरा अपि मुनीश्वरा कृतयुगादिषु ह्युद्यता-
स्तपः परमदुष्करं चिरफलं च कालेन तत् ।
अयं कलिरहो शिवे क्षणिकचित्तसंवेशना-
त्पदाम्बुजयुगे मम प्रसभमुक्तिलाभप्रदः ॥ २१॥
कलावपि सुरा नरा जनननाशमव्याहतं
विनिन्द्यमभितोऽम्बिके ह्यभिवदन्ति वाञ्छन्त्यपि ।
कदा खलु भवेद्धि नो जननमेव तिष्ये सदा
सदाशिवपदार्चने तदिह जन्मतः सत्फलम् ॥ २२॥
यः कश्चित्प्रभवेत वै कलियुगे मल्लिङ्गपूजादरो
भस्मद्योतितपुण्ड्रभालतिलको रुद्राक्षकोटीरकः ।
श्रीरुद्रप्रवणोऽपि देवि सुमहापञ्चाक्षरावृत्तिभाक्
एवं यो नियतं वसेत स मुनिंस्तस्यैव मुक्तिः स्थिरा ॥ २३॥
धीरस्तिष्यैकपुष्यत्कुपथजनिजरारोगनाशैकनश्य-
ल्लोके पुत्रकलत्रमित्रजठरीत्युष्यात्किलैवं शिवे ।
तत्रैवं यदि चन्द्रचूडचरणध्यानेक्षणं वा मनः
कृत्वा मृत्युकृतां तथा कलिकृतामर्तिं न विन्देन्नरः ॥ २४॥
कृते त्रैतायां वै यदि खलु तथा द्वापर भवा
सहस्रं वा तत्स्यात्तनुकषणमात्रात्पलकणम् ।
शिवे लिङ्गार्चायां तदिह दिनके वै कलियुगे
क्षणं त्र्यक्षध्यानाद्भवति स मुक्तेः प्रियतमः ॥ २५॥
सिकत्यं मां देवं नदि(दी)भव सिकत्यासु च यजन्
रजस्ये मृल्लिङ्गे क्षणमपि च स क्षीणकुपथः ।
उमे धन्यो मन्यो भवति कलिजन्येऽपि तमसि
अहो मन्ये मुख्यं स हि परममान्यः प्रियतमः ॥ २६॥
त्रियायुषमनुप्रभाभसितभूतपूताङ्गको
विशोषिकलुषोच्चयो भवति भाग्यपूर्णः कलौ ।
अशेषसुरसंसदं स खलु यति पूषप्रभा-
विमानवरमास्थितः स्थिरचराद्धि पापापहः ॥ २७॥
मुदैति मल्लिङ्गसमर्चनेन
कलौ नरा निष्कृतिदुष्कृतानि ।
तान्येव पुण्यानि भवन्ति सद्यो
भवोद्भवार्चाबलतो भवानि ॥ २८॥
आशीविषोमविषविषयानुधाव-
च्चित्तेष्वशेषहृदयोत्थितकालतिष्ये ।
भूषाविशेषकृतशेषमहोरुहार-
पूषाक्षमीषदपि चिन्तयते स धन्यः ॥ २९॥
॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं कलियुगे शिवभक्तिप्रसादवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः ११ कलियुग(गुण)वर्णनम् । ४-२९॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 11 kaliyuga(guNa)varNanam . 4-29..
Notes:
Śiva शिव elaborates to Pārvatī पार्वती about the advantage of KaliYuga कलियुग in being the era where ŚivaBhakti शिवभक्ति and ŚivaDhyana शिवध्यान of the minutest order can bring about quick results.
Proofread by Ruma Dewan