स्कन्दप्रोक्तं पर्वग्रहणादिकाले शिवार्चनोपदेशम्

स्कन्दप्रोक्तं पर्वग्रहणादिकाले शिवार्चनोपदेशम्

(शिवरहस्यान्तर्गते महादेवाख्ये) स्कन्द उवाच । पुण्यं पर्वसु सर्वेषु ग्रहणे सोमसूर्ययोः । अयने विषुवे चैव षडशीतिमुखेषु च ॥ १॥ पुरा मन्वादिषु मुने पूर्णिमामासु सर्वदा । सङ्क्रान्तिषु व्यतीपाते वैधृतौ च विशेषतः ॥ २॥ आषाढे ज्येष्ठश्रावण्यां मार्गशीर्षे च चैत्रके । माघ्यां च पूर्णिमायां तु शिवपूजा विशिष्यते ॥ ३॥ अमा सोमान्विता या स्यात्सर्वमासेषु सत्तम । कार्तिकेऽथ विशेषेण पुष्याषाढे महाफला ॥ ४॥ स्नानमभ्यर्चनं शम्भोः विशिष्टः स्यात्सदा नृणाम् । कृष्णपक्षाष्टमी देवि (?) भूताप्यसितपक्षके ॥ ५॥ (? Skanda was meant to be addressing Muni - Jaigīśavya) मासिकी शिवरात्री च प्रशस्ता शिवपूजने । या माघे कृष्णपक्षस्य भूता सोमार्चिता यदि ॥ ६॥ सार्द्रा पातान्विता वापि निशि शर्वप्रिया हि सा । स योगो दुर्लभो नॄणां तत्र लिङ्गोद्भवो मुने ॥ ७॥ एकेन बिल्वपत्रेण तस्यां पूज्य विमुक्तिभाक् । या माघी शिवरात्री च महापूर्वा विशिष्यते ॥ ८॥ गोकर्णे सा विशिष्येत तथा वै गन्धमादने । श्रीकालहस्तिशैले च शिवरात्रिर्विशिष्यते ॥ ९॥ विष्णुब्रह्मादयो देवाः प्रार्थयन्ति मुनीश्वराः । कदा गोकर्णमेष्यामः शिवरात्रौ शिवार्चकाः ॥ १०॥ भविष्यामो बिल्वपत्रैर्द्वित्रैर्वा मुक्तिमाप्नुमः । तत्रैव सागरे स्नानं गोकर्णेशस्य पूजनम् ॥ ११॥ शिवरात्रौ शिवार्चैषा जन्मनैकेन मुक्तिदा । गोकर्णे च मुनिश्रेष्ठ शिवक्षेत्रेषु पुण्यदा ॥ १२॥ तस्यामभ्यर्चनविधिं तवाग्रे कथयाम्यहम् । कार्तिके श्रावणे चैव सोमवारो विशिष्यते ॥ १३॥ कृष्णपक्षेऽपि च मुने सर्वमासेषु पुण्यदः । भक्तः शिवार्चको नक्तं तस्मिन् व्यक्तं तु मुक्तिभाक् ॥ १४॥ सर्वमासप्रदोषोऽपि प्रशस्तः शिवपूजने । तत्रापि दुर्लभो ज्ञेयो मन्दवारे महाफलः ॥ १५॥ दुर्लभः कृष्णपक्षोत्थः शिवप्रियतमो मतः । तत्रैवार्चनमीशस्य सर्वसम्पत्प्रदायकम् ॥ १६॥ सर्वत्रैव शिवागारे चरे वा स्थावरेऽपि वा । लिङ्गेषु पूजया शम्भोः मुक्तिः करगता भवेत् ॥ १७॥ किम्पुनस्त्वविमुक्तेऽथ त्रिलोचनसमीपतः । त्रिलोचनेश्वरं काश्यां मन्दवारे प्रदोषके ॥ १८॥ पूज्य जन्मायुतैः पापैर्मुक्तो मुक्तिं च विन्दति । स द्वादशप्रदोषाणां लभेत्फलमयत्नतः ॥ १९॥ मन्दप्रदोषपूजातो लभेदेव महामुने । एकादश्यां महादेवं पूज्य बिल्वैर्मनोहरैः ॥ २०॥ सितायामसितायां च रुद्रतिथ्यां मुनीश्वर । उपोष्य शिवमभ्यर्च्य कृष्णायां नक्तभोजनम् ॥ २१॥ कुर्यादेव शिवे भक्तो महाफल जिगीषया । विष्णुब्रह्मादयो देवा एकादश्यां शिवार्चनम् ॥ २२॥ कुर्वन्त्युपोषणं भक्त्या रुद्रतिथ्यां द्विजोत्तम । एकादशानां रुद्राणां प्रीत्यर्थं गरुडध्वजः ॥ २३॥ पक्षद्वयेऽपि सततं करोत्येकादशीव्रतम् । रुद्रप्रियकरी ह्येषा कार्तिकाषाढगा सिता ॥ २४॥ वैशाख्यां च तथाषाढ्यां चैत्र्यां माघ्यां महेश्वरम् । महास्नानविधानेन पौर्णम्यां स्नापयेन्नरः ॥ २५॥ पञ्चामृतैः फलरसैर्महापुण्यमवाप्नुयात् । नीलोत्पलदलैर्बिल्वैःपूजयन् कुसुमैरपि ॥ २६॥ सर्वपापविनिर्मुक्तः अक्षयां लभते गतिम् । यो माघ्यां कुरुते भक्त्या शिवाय घृतकम्बलम् ॥ २७॥ स वंशकोटिसंयुक्तो मोदते शिवसन्निधौ । वैशाख्यां पूर्णिमायां तु दधिकम्बलकं नरः ॥ २८॥ महाकैलाससदने मदनान्तरकरप्रिये । भवेन्नावर्तते विप्र अस्मिन् लोके ध्रुवं नरः ॥ २९॥ फाल्गुन्यामथ पोर्णम्यां मधुकम्बलदो नरः । शिवाय विधिवद् भक्त्या गाणपत्यं लभेन्नरः ॥ ८०॥ सङ्क्रान्तिषु शिवं पूज्य कुसुमैर्बिल्वपल्लवैः । क्षीरेण मधुना दध्ना सितया च घृतैरपि ॥ ३१॥ अभिषिच्य शिवं भक्त्या तूर्यमङ्गलवादितैः । धूपं च गुग्गुलुं दग्ध्वा ब्रह्महापि विमुच्यते ॥ ३२॥ गच्छेच्छिवपुरं रम्यं विमानैः सार्वगामिकैः । शिवं मकरसङ्क्रान्तौ स्नाप्य पञ्चामृतैः फलैः ॥ ३३॥ तिलाञ्जलिशतैः पूज्य सुधौतैः पाण्डरैर्नरः । बिल्वपत्रैः समभ्यर्च्य कृसरं तिलसंयुतम् ॥ ३४॥ साज्यं निवेद्य सगुडं कृतकृत्यो भवेन्नरः । हंसकुन्देन्दुसङ्काशैर्यानैर्गच्छेच्छिवाग्रतः ॥ ३५॥ षडशीतिमुखेष्वीशं पूज्य भक्त्या सकृन्नरः । बिल्वपत्रैः समभ्यर्च्य क्षुद्रपापैः प्रमुच्यते ॥ ३६॥ युगादिषु महादेवं सिच्य पञ्चामृतैः फलैः । हविर्निवेद्य देवाय सम्पूज्य कुसुमाक्षतैः ॥ ३७॥ सर्वपापैः प्रमुच्येत भक्तो मुक्तिं च विन्दवि । मन्वादिषु विरूपाक्षं पूज्य भक्त्या सकृन्नरः ॥ ३८॥ वसेच्छिवपुरे दिव्ये सर्वभोगसमृद्धिमान् । व्यतीपाते च सम्पूज्य दुग्धाज्यैः बिल्वसंयुतम् ॥ ३९॥ मार्गशीर्षे विशेषेण सफलं तस्य जीवितम् । अणिमादि गुणैर्युक्तः शिववद्विचरेच्छिवे ॥ ४०॥ वैधृतौ च विशेषेण सम्पूज्य शिवमेव हि । क्षीराज्यैर्बिल्वपत्रैश्च निवेद्य च हविर्मुने ॥ ४१॥ निशाकरकरप्रख्यैर्विमानैः सार्वगामिकैः । यान्त्येव सन्निधौ शम्भोः गणश्रेष्ठोऽमरेडितः ॥ ४२॥ सम्पूज्य देवं विप्रेन्द्रो यो लिङ्गमुदागायने । पुष्पैर्धूपैश्च बिल्वैश्च निवेद्य हविरुत्तमम् ॥ ४३॥ भोजयित्वा महाशैवानेकं वा शिवयोगिनम् । प्रयाति शिवसारूप्यं गाणपत्यं लभेन्नरः ॥ ४४॥ सम्पूजयन्नरो भक्त्या यो लिङ्गं दक्षिणायने । घृतेनैवाभिषिच्येशं बिल्वैः सम्पूज्य यत्नतः ॥ ४५॥ कृसरं यवसं सक्तुं निवेद्य शिवयोगिने । भोजयित्वा घृतान्नेन सर्वपापैः प्रमुच्यते ॥ ४६॥ सर्वान्कामानवाप्नोति याति चैव शिवालयम् । अमास्वपि च कार्तिक्यां बिल्वैः सोमान्वितास्वपि ॥ ४७॥ सम्पूज्य च घृतैः स्नाप्य लभते गतिमुत्तमाम् । नक्तं भक्तानो भक्तो मुक्तिं याति न संशयः ॥ ४८॥ दिवसे तु समभ्यर्च्य वारर्क्षतिथिषु क्रमात् । एकाहमपि यो भक्त्या स मुक्तः सर्वपाप्मभिः ॥ ४९॥ प्रातः सम्पूजयँल्लिङ्गे नैशं पापं व्यपोहति । सङ्गवेऽनङ्गतापोत्थं पूज्य लिङ्गं सकृन्नरः ॥ ५०॥ पापकञ्चुकमुत्सृज्य शिवलोके महीयते । अपराह्णे शिवं पूज्य गर्भभाङ्नैव जायते ॥ ५१॥ मध्याह्ने हयमेधस्य फलं सम्पूजको लभेत् । सायङ्काले शिवं पूज्य सर्वपापैः प्रमुच्यते ॥ ५२॥ निशीथे मन्मथारातिं पूज्य बिल्वैर्नपापभाक् । अरुणोदयवेलायां पूज्य देवं ऋणी न तु ॥ ५३॥ षट्कालं पूजयेल्लिङ्गं त्रिकालं वा द्विकालतः । एककालं मुने भक्त्या स रुद्रो नात्र संशयः ॥ ५४॥ प्रहरे प्रहरे नित्यं हरमेव समर्चयेत् । यतो नित्यं जीवितं हि नाश्वसेत्क्षणमत्र हि ॥ ५५॥ यः सप्तमी प्रदोषेषु शिवलिङ्गं समर्चयेत् । बिल्वपत्रैश्च कुसुमैः न तिर्यग्योनिमाप्नुयात् ॥ ५६॥ चतुर्थ्यां तु प्रदोषेषु पूजयित्वेन्दुदर्शने । शिवलिङ्गं बिल्वपत्रैर्न दुर्गतिमवाप्नुयात् ॥ ५७॥ स प्रदोषस्त्रिधा प्रोक्तः शिवेन परमात्मना । माहेश्वरस्त्रयोदश्यां सप्तम्यां च महामुने ॥ ५८॥ सारस्वतस्ततो विप्र चतुर्थ्यां च गणाधिपः । सर्वेष्वपि प्रदोषेषु पूज्य एव महेश्वरः ॥ ५९॥ माहेश्वरस्त्रयोदश्यां प्रदोषः सार्वमासिकः । तस्मिन्नभ्यर्चनं शम्भोरनन्तफलदं मुने ॥ ६०॥ मन्दारयुतो यः स्यात्प्रदोषो रजनीमुखे । तत्रापि कृष्णपक्षे च प्राप्तो दैवेन लभ्यते ॥ ६१॥ तस्मिन्प्रदोषे लिङ्गार्चा दोषाद्रिभिदुरा भवेत् । ग्रहणे सोमसूर्याणां स्नानदानार्चनं विभोः ॥ ६२॥ कुर्याज्जपं च मन्त्राणां तस्मिन् काले च सिद्धये । सूर्यग्रहे कुरुक्षेत्रे स्नानं दानं शिवार्चनम् ॥ ६३॥ प्रशस्यते मुनिश्रेष्ठ पुष्करे तु शशिग्रहे । यमुनागङ्गयोः सन्धौ गङ्गासागरसङ्गमे ॥ ६४॥ ओङ्कारे भृगुतुङ्गे च तथैवामरकण्टके । नर्मदासागरोपान्ते गोकर्णे पश्चिमाम्बुधौ ॥ ६५॥ कावेर्युदधि सङ्गे च ताम्रासागरसङ्गमे । धनुष्कोटौ मुनिश्रेष्ठ कन्यातीर्थनिमज्जनात् ॥ ६६॥ सूर्येन्दुग्रहणे पुण्ये स्नाने तेषु प्रशस्यते । विधिं च ते प्रवक्ष्यामि सूर्येन्द्वोर्ग्रहणे मुने ॥ ६७॥ नित्ये नैमित्तिके काम्ये जपहोमानुमज्जने । शिवार्चने च विधिवन्महादानमनन्तकम् ॥ ६८॥ कूपाच्छतगुणं वाप्यां नद्यां स्नानं ततोऽधिकम् । सागरेऽपि ततो विप्र नदीसङ्गे ततोऽधिकम् ॥ ६९॥ शिवस्य सन्निधौ स्नानं ततोऽपि गुणवत्तरम् । अतुलः कोष्णतोयेन स्नायाद्ग्रहणयोर्द्वयोः ॥ ७०॥ वैष्णवान् स्कान्दगाणेशान् शैवाञ्छाक्तान् जपेन्मनून् । मन्त्रसङ्ग्रहणं कुर्याद्ग्रहणे सोमसूर्ययोः ॥ ७१॥ एकावृत्त्यापि मन्त्राणां लक्षावृत्तिफलं लभेत् । पितॄन् सन्तर्पयेच्छ्राद्धैर्नक्तं चापि मुनीश्वर ॥ ७२॥ सर्वं गङ्गासमं तोयं सर्वे शिवसमा द्विजाः । सर्वं मेरुसमं दानं ग्रहणे सोमसूर्ययोः ॥ ७३॥ मन्त्रसिद्धिकरं स्थानं नद्यां पर्वतमस्तके । विपिने च शिवागारे देवब्राह्मणसन्निधौ ॥ ७४॥ बिल्वमूले बिल्वपत्रैर्ग्रहणे लिङ्गमर्चयन् । तत्र सम्पूजयन् लभ्येत् फलं तल्लक्षहायनम् ॥ ७५॥ रुद्रेण चैव गायत्र्या तथा पञ्चाक्षरेण च । रोगार्त आयुषो वृद्ध्यै होमयेच्च गलूचिभिः ॥ ७६॥ सहस्रं परमं श्रेष्ठं शताष्टोत्तरमेव वा । नदीतोयेन सम्पूर्णघटं संस्पृश्य शोभनम् ॥ ७७॥ रुद्रावृत्त्या जलैः स्नाप्य रोगैः पापैः प्रमुच्यते । मन्त्रान् पञ्चाक्षरं वापि गायत्रीं वेदमातरम् ॥ ७८॥ यावद्ग्रहणमोक्षं तु तावन्नद्यां समाहितः । जपेत्समुद्रगामिन्यां पुरश्चर्याफलं लभेत् ॥ ७९॥ चरे वा स्थावरे वापि तुङ्गे लिङ्गे शिवार्चकः । ग्रहणे सोमसूर्याणां यो महास्नानकारकः ॥ ८०॥ पञ्चामृतैः पञ्चगव्यैस्तथा फलरसैरपि । घृताभ्यङ्गो घृतस्नानं ग्रहणेऽतीव पुण्यदम् ॥ ८१॥ शिवस्य तोषदं विप्र गाणपत्यप्रदं परम् । तौर्यत्रिकं धूपदीप पुष्पगन्धानुलेपनम् ॥ ८२॥ बिल्वमालार्चनं शम्भोः पुण्यं नीराजनं विभोः । कुर्याद्यो ग्रहणे विप्र सर्वान्कामानवाप्नुयात् ॥ ८३॥ कश्चित्पूजयते भक्त्या कश्चित्पूजां प्रपश्यति । तयोः समफलं ज्ञेयं ग्रहणे लिङ्गदर्शनात् ॥ ८४॥ ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥ ८५॥ सङ्क्रान्तिषु श्रीशिवमर्च्य लोके नैवाप्नुयात्क्रान्तिरुजं जनिं वा । पतेत्तथा नो निरयेऽधृतिं वै- धृतीषु सम्पूज्य शिवं लभेत ॥ ८६॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं पर्वग्रहणादिकाले शिवार्चनोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २७ पर्व(सूर्यसोम)ग्रहणपूजामहिमा । १-८६॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 27 parva(sUryasoma)grahaNapUjAmahimA . 1-86.. Notes: Skanda स्कन्द delivers Upadeśa उपदेश about worshiping Śiva शिव during Parva पर्व including Soma and Sūrya Grahaṇa सोमसूर्यग्रहण, Ayana अयन, Viṣuva विषुव and Saṅkrānti सङ्क्रान्ति - especially those of Ṣaḍaśītimukha षडशीतिमुख and Makara मकर; during various tithi-s तिथिः especially Pūrṇima पूर्णिमा, Krṣṇa Aṣṭamī कृष्ण अष्टमी, Trayodashi त्रयोदशी, etc. of various and specific māsa मास; during Amāvasyā अमावस्या especially of Somavāra सोमवार; during yoga योग like Vyatipāta व्यतिपात - especially Sārdrāpāta साद्रापात; during Māsika Śivarātri मासिक शिवरात्रि; during Pradoṣa प्रदोष - especially those of Mandavāra मन्दवार, Caturthī चतुर्थी, Saptamī सप्तमी, Ekādaśī एकादशी (Rudratithi-s रुद्रतिथिः) and Trayodashi त्रयोदशी. He also mentions about specific offerings for various such observations, including Ghṛtakambalam घृतकम्बलम् on Māgha Pūrṇimā माघ पूर्णिमा, Dadhikambalam दधिकम्बलम् on Vaiśakha Pūrṇimā वैशाख पूर्णिमा, Madhukambalam मधुकम्बलम् on Phālguna Pūrṇimā फाल्गुन पूर्णिमा; Tilāñjali तिलाञ्जलि, Kṛsaram कृसरम् etc. on Makara Saṅkrānti मकर सङ्क्रान्ति; Pañcāmṛtam पञ्चामृतम् on Yugādi युगादि etc. Proofread by Ruma Dewan
% Text title            : Skandaproktam Parvagrahanadikale Shivarchanopadesham
% File name             : skandaproktaMparvagrahaNAdikAleshivArchanopadesham.itx
% itxtitle              : shivArchanopadesham skandaproktaM parvagrahaNAdikAle (shivarahasyAntargatam)
% engtitle              : skandaproktaM parvagrahaNAdikAle shivArchanopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 27 parva(sUryasoma)grahaNapUjAmahimA | 1-86||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org