स्कन्दप्रोक्तं शतरुद्रीयमाहात्म्यम् २
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- जैगीषव्यस्कन्दसंवादे -
स्कन्द उवाच -
शतरुद्रीयमाहात्म्यं पुनर्वक्ष्ये मुनीश्वर ।
शृण्ष्व श्रद्धया युक्तो यदीच्छसि भवक्षयम् ॥ १॥
शान्त्यर्थं शञ्च मे सूक्तं जप्त्वादौ मुनिपुङ्गव ।
प्रजपञ्छतरुद्रीयं समग्रं नमकं तथा ॥ २॥
शम्भोरुपासना पञ्चविधा प्रोक्ता महर्षिभिः ।
अस्मिन् समग्रनमके नामानि त्रिशतं द्विज ॥ ३॥
तिष्ठन्ति श्रुतिसाराणि भुक्तिमुक्तिकराणि हि ।
एतैर्यो नामभिर्लिङ्गे स्थावरे जङ्गमेऽपि वा ॥ ४॥
पूजयेत्सा महापूजा तया प्रीणाति शङ्करः ।
मयोक्तैः शतसङ्ख्याकैर्मन्त्रैः शङ्करदैवतैः ॥ ५॥
छन्दर्ष्यादिकमुक्त्वादौ ज्वलिते जातवेदसि
स्वाहान्तैर्जुहुयाद्रुद्रायेदन्नमम कथ्यते (?) ॥ ६॥
एवं होमेन गौरीशः प्रीणाति फलदायकः ।
तर्पयेच्छतरुद्रीयमध्यगैः शतमन्त्रकैः ॥ ७॥
श्रीरुद्रं तर्पयामीति प्रोच्चरन् सुसमाहितः ।
उपासनेयमितिस्याद्यासा सर्वफलदायिनी ॥ ८॥
न्यासः स्यान्मन्त्रसन्नाहो न्यासहीनो न सिद्धिदः ।
बोधायनकृतं स्तोत्रं शतरुद्रीयदीपनम् ॥ ९॥
बोधायनोक्तमार्गेण न्यासं कृत्वा विचक्षणः ।
प्रजप्य शञ्चमे सूक्तमादौ विघ्ननिवृत्तये ॥ १०॥
समग्रनमकस्यास्य वेदसारस्य ब्राह्मणाः ।
सवामदेवो योऽघोर ऋषिरित्युच्यते बधैः ॥ ११॥
छन्दांसि चास्य गायत्री पङ्क्त्यनुष्टुभ एव च ।
जगती बृहती चेति देवता कथ्यते ततः ॥ १२॥
जपाकुसुमसाहस्रसन्निभे सूर्यमण्डले ।
मध्यरूपी विराड्रूपी विधिविष्णुशिवात्मकः ॥ १३॥
योऽसावादित्यपुरुषः श्रीरुद्राख्यः परः शिवः ।
परमेश्वरः (शः) स विज्ञेय शिवः सत्यं चिदात्मकम् ॥ १४॥
समग्रनमकस्यास्य कथितं दैवतं द्विजाः ।
प्रीत्यर्थं परमेशस्य विनियोग उदाहृतः ॥ १५॥
ऋषिच्छन्दोदैवतानि विहितानि समाहितः ।
ध्यायेन्निरामयं वस्तु सर्गस्थितिलयाधिकम् ॥ १६॥
यदेव व्यवहाराणामाधारं प्रकृतेः परम् ।
निर्गुणं निष्कलं नित्यं मनोवाचामगोचरम् ॥ १७॥
परं तेजोऽहमस्मीति ध्यात्वैवं मुनिपुङ्गवाः ।
सगुणं हृदये ध्यायेद्ब्रह्मरन्ध्रेऽथवा प्रभुम् ॥ १८॥
(सगुण ध्यानम्)
शुद्धस्फटिकसङ्काशं मध्याह्नादित्यसन्निभम् ।
स्वसंवेद्यमनाद्यन्तं श्वेतपद्मायुतप्रभम् ॥ १९॥
गङ्गाधरं शशिधरं जटामकुटभूषितम् ।
श्वेतभूतित्रिपुण्ड्रेण विराजितललाटकम् ॥ २०॥
लोचनत्रयसम्पन्नं स्वर्णकुण्डलशोभितम् ।
बिम्बाधरं चतुर्बाहुं मुक्ताहारोपशोभितम् ॥ २१॥
अक्षमालांसुधाकुम्भं चिन्मयीं मुद्रिकामपि ।
पुस्तकं च भुजैर्दिव्यैर्दधानं पार्वतीपतिम् ॥ २२॥
शुक्लयज्ञोपवीतेन श्वेतवस्त्रेण शोभितम् ।
श्वेताम्बरधरं श्वेतं रत्नसिह्मासने स्थितम् ॥ २३॥
वीरासने समासीनं विराड्रूपिणमीश्वरम् ।
सन्तप्तहेमरुचिरस्वङ्गुलीयकभूषितम् ॥ २४॥
मुक्तामाणिक्य सौवर्णकाञ्चीदामविराजितम् ।
योगिभिः सनकाद्यैश्च स्तूयमानमहर्निशम् ॥ २५॥
दातारं सर्वविद्यानां सकलैश्वर्यदायकम् ।
सर्वाभीष्टप्रदाचारं वटमूलनिवासिनम् ॥ २६॥
सत्यानन्दचिदात्मानं शङ्करं परमेश्वरम् ।
वामाङ्के संस्थितां गौरीं बालार्कायुतसन्निभाम् ॥ २७॥
जपाकुसुमसाहस्रसमानश्रियमीश्वरीम् ।
सुवर्णरत्नखचितमकुटेन विराजिताम् ॥ २८॥
ललाटपटट्सम्राजत्संलग्नतिलकाङ्किताम् ।
भ्रमद्भ्रमरनीलाभधम्मिल्लालकशोभिताम् ॥ २९॥
सौन्दर्यभ्राजत्कामेश कोदण्डभ्रूयुगान्विताम् ।
राजीवायतनेत्रां तां नीलोत्पलदलेक्षणाम् ॥ ३०॥
मुक्तामाणिक्यखचित नासिकाभरणान्विताम् ।
पक्वबिम्बफलाभास्वदधर द्वयराजिताम् ॥ ३१॥
दाडिमीबीजसङ्काशद्वात्रिंशद्दन्तशोभिताम् ।
सन्तप्तहेमखचित ताटङ्काभरणान्विताम् ॥ ३२॥
कुण्डलद्वयसंशोभिकर्णयुग्मविराजिताम् ।
ताम्बूलचर्वणरतां नवरत्नविराजिताम् ॥ ३३॥
आढ्य(द्य)भूषण सौवर्ण चित्रकाभरणान्विताम् ।
पदकाभरणोपेतां मुक्ताहारोपशोभिताम् ॥ ३४॥
इक्षुकार्मुकपुष्पेषुचापबाणशरावरैः ।
दिव्याङ्गुलीयकयुतैः केयूरयुगलान्वितैः ॥ ३५॥
स्वर्णकङ्कणसंयुक्तैश्चतुर्भिर्बाहुभिर्युताम् ।
सुवर्णरत्नखचितकाञ्चीघण्टा(ण्टी)विराजिताम् ॥ ३६॥
सौभाग्यभूषणयुतां सूक्ष्ममध्यविराजिताम् ।
रक्तचन्दनसंलिप्तहेमकुम्भोपमस्तनीम् ॥ ३७॥
रक्तवस्त्रपरीधानां रक्तमाल्यविभूषिताम् ।
तनुमध्यां पृथुश्रोणीं शिववामाङ्कसंश्रयाम् ॥ ३८॥
कदलीललितस्तम्भसन्निभोरुयुगान्विताम् ।
सुवर्णपादकटकयुगलेन सुशोभिताम् ॥ ३९॥
सन्तप्तहेमपादाङ्गुलीयकैः सुविराजिताम् ।
पूर्णचन्द्रमुखीमम्बां सुस्मितास्यविराजिताम् ॥ ४०॥
ब्रह्मविष्णुमहेन्द्रादिशिरोमकुटजातया ।
श्रिया विराजितपदां भक्तत्राणपरायणाम् ॥ ४१॥
स्वकान्त्या शङकरं देवं पुनरप्यरुणीकृतम् ।
सर्वालङ्कारसुभगं युवानमतिसुन्दरम् ॥ ४२॥
छत्रेण शोभितं मूर्ध्नि चामराभ्यां विराजितम् ।
ब्रह्मविष्णुमहेन्द्रादिवन्द्यमानपदाम्बुजम् ॥ ४३॥
सृष्टिस्थित्युपसंहारहेतुभूतं सनातनम् ।
अन्योन्याश्लिष्टहृद्बाहुं गौरीशङ्करसंज्ञितम् ॥ ४४॥
सनातनं परम्ब्रह्म परमात्मानमव्ययम् ।
नमामि जगतामीशं परमात्मनमव्ययम् ॥ ४५॥
- -
एवं ध्यात्वा जपेन्नित्यं शतरुद्रीयमादरात् ।
नमकं रुद्रसङ्ख्याकाननुवाकाञ्जपेत्ततः ॥ ४६॥
एकवारं द्विवारं वा त्रिवारं चमकान्वितम् ।
नमकं प्रजपेदेषा जपोपास्तिरितीरिता ॥ ४७॥
शिवप्रीतिकरा श्रेष्ठा श्रीरुद्रैक्यप्रदायिनी ।
स्थावरे जङ्गमे लिङ्गे समाहितमनाः शुचिः ॥ ४८॥
न्यासध्यानादिसहितं शञ्चमे सूक्तपूर्वकम् ।
प्रजपञ्छतरुद्रीयमभिषेकं समाचरेत् ॥ ४९॥
एकवारं द्विवारं वा त्रिवारं चमकान्विता ।
उपास्तिः पञ्चमी प्रोक्ता शम्भोः प्रीतिकरी शुभा ॥ ५०॥
विशेषमन्त्रान् वक्ष्यामि शृणुध्वं द्विजपुङ्गवाः ।
जप्त्वा समग्रनमकं शतरुद्रीयमुत्तमम् ॥ ५१॥
चमकस्यानुवाकस्य चैकमेकं ततो जपेत् ।
रुद्रैकादशिनीमेतां प्रजपञ्छङ्करोपरि ॥ ५२॥
करोति योऽभिषेकं हि नियमेनैकमण्डलम् ।
स महापातकैस्त्यक्तो राजसूयफलं लभेत् ॥ ५३॥
शतमन्त्रैश्चतुर्वारं जुहुयात्पायसं शुभम् ।
रुद्रसङ्ख्यानुवाकैश्च जपहोमार्चनं ततः ॥ ५४॥
मधुत्रितयसंयुक्तं महापापैः प्रयुच्यते ।
अभिषेकं केवलं वा मण्डलं यः करोति हि ॥ ५५॥
इह भुक्त्वाऽखिलान्भोगान् परेब्रह्मणिलीयते ।
पूजयाभ्यधिको होमो होमात्तर्पणमुत्तमम् ॥ ५६॥
तर्पणाच्च जपः क्षेष्ठो ह्यभिषेकः परो जपात् ।
रुद्रैकादशनीं जप्त्वा प्रजपेच्छान्तिपञ्चकम् ॥ ५७॥
अन्यथा तस्य संसिद्धिर्नास्ति नास्ति तपोधनाः ।
यदा भक्त्युदयो नॄणां तदोपस्तिं समाचरेत् ॥ ५८॥
चतुरस्रं वरं कुण्डं होमकाले विधीयते ।
गणेशमादौ सम्पूज्य कृत्वा नियममेव च ॥ ५९॥
उपासनापञ्चकार्यं कृत्वा नियममादितः ।
समग्रं नमकं प्रातः प्रजपेच्चमकान्वितम् ॥ ६०॥
स महापातकैर्मुक्तः शिवसायुज्यमश्नुते ।
मध्याह्ने प्रजपेद्यस्तु चमकेन युतं द्विजाः ॥ ६१॥
स सूर्यमण्डलं भित्वा गणानामग्रणीर्भवेत् ।
सायङ्काले जपेद्यस्तु नमकं चमकान्वितम् ॥ ६२॥
अवाप्य सकलान्भोगान् परेब्रह्मणि लीयते ।
भूतिभूषितसर्वाङ्गो लिङ्गपूजारतः शुचिः ॥ ६३॥
नमकं चमकं नित्यं प्रजपेत्फलदायकम् ।
वेदसाराणि नामानि कथितान्यत्र तानि हि ॥ ६४॥
एतज्जाप्यमृतो भूत्वा ब्रह्मभूयाय कल्पते ।
एतेन शतरुद्रीयं न्यासध्यानादिकं शुभम् ॥ ६५॥
मयोक्तं ब्राह्मणश्रेष्ठाः किं पुनः श्रोतुमिच्छथ ॥ ६६॥
(फलम्)
एकावृत्त्याऽघनाशो भवति गिरिसुते तद्द्वये वै गणेन्द्रः
कैलासं प्रविशेच्चतत्त्रितयतः श्रीरुद्रजापी नरः ।
षड्वारं प्रजपंश्च मुक्तिफलभाग्भूयो भवेच्छाम्भवः
श्रीरुद्रार्चनतः सुबिल्वकुसुमैर्लिङ्गे च साक्षाच्छिवः ॥ ६७॥
छन्दोदैवतसर्षिकं मनुगणं जप्त्वा भवेत्पावनः
नैतद्वेद यदि श्रुतीशतगतं जप्ताश्च ते निष्फलाः ।
तस्माज्ज्ञानत एव वित्त तदिमं जप्त्वा विमुक्तो भवेत्
हुत्वा चाप्यभिषिच्य वा द्विजवरो विन्देत सर्वं फलम् ॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शतरुद्रीयमाहात्म्यं २ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः २८ । १-६८॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 28 . 1-68..
Notes:
Skanda स्कन्द details to Jaigīṣavya जैगीषव्य about the procedure to be followed for worshipping Śiva शिव through Rudraikādaśinī रुद्रैकादशिनी, Śatarudrīyam शतरुद्रीयम् etc., and talks about the sequencing and number of times the Namakam नमकम् and Camakam चमकम् are meant to be recited for such procedures.
Skanda स्कन्द mentions in detail about the Saguṇa Śiva Dhyāna सगुण शिव ध्यान in Śloka numbers 19 to 45. He concludes about the Śatarudrīya Māhātmyam शतरुद्रीयमाहात्म्यम् by highlighting the phalam फलम् of Rudrārcana रुद्रार्चन.
Proofread by Ruma Dewan