सोमकृता सोमनाथस्तुतिः

सोमकृता सोमनाथस्तुतिः

(एकलिङ्गमाहात्म्ये) सोम उवाच - धत्ते विश्वं विश्वकृद्यो विधाय मूर्तीरष्टौ पालयन् यो जगन्ति । देहे देहे दीपवत् स्वप्रकाशः कृत्वा चान्ते सञ्जहाराथ विश्वम् ॥ १७॥ यस्य स्मृत्या पातकानाममुष्मिन् लोके लोकस्याशु दुःखापहारः । दुर्वासा वै मुनिरत्रिप्रसूत- स्तपश्चक्रे आनसूयत्वमीहन् ॥ १८॥ ब्रह्माण्डाद्यां निःसृतां जह्नुकन्यां दृष्ट्वा चास्या उग्रतापाच्च भूमेः । भेदं मत्वा यां व्यवत्ताथ मूर्ध्ना नमस्तस्मै सोमनाथाय नित्यम् ॥ १९॥ रोषात् कामं भस्मसाद्यश्चकार योषिद्रूपैर्मोहयन्तं जगन्ति । कृत्वाऽनङ्गं तं च सृष्टयार्थमेव नमस्तस्मै सोमनाथाय नित्यम् ॥ २०॥ कैलाशाद्रिमुज्जिहीर्षुं दशास्यं यो वै चक्रे पीडितं स्वाङ्घ्रिभारात् । उमाभीत्या श्लेषतुष्टोऽस्य नूनं नमस्तस्मै सोमनाथाय नित्यम् ॥ २१॥ ज्ञातुं ब्रह्मा यस्य रूपं तथोर्ध्व- मगाद्विष्णुरप्यधस्ताद्यदन्तम् । ताभ्यामन्तस्तस्य न ज्ञात एव नमस्तस्मै सोमनाथाय नित्यम् ॥ २२॥ यज्ञध्वंसं यश्चकारोग्ररूपो रूपो(?)दक्षस्याशुरोषाद्भवान्याः । बहूनि रूपाण्यसृजद्य एको नमस्तस्मै सोमनाथाय नित्यम् ॥ २३॥ पुरा देवैर्मन्थने सागरेऽपि तस्माज्जातेष्वाशु रत्नेषु भूयः । विषं कोऽन्यस्त्वदृते भक्षते वा नमस्तस्मै सोमनाथाय नित्यम् ॥ २४॥ कलौ प्राप्तेऽनाथवत्सु नाथो भूत्वा सोमनाथेन नाम्ना । पङ्गूनन्धान् दद्रुकुष्ठादितप्तान् रोगग्रस्तान् त्वदृते (कुरुते) यो नवीनान् ॥ २५॥ सूत उवाच - एवं स्तुतः सोमनाथः सोमेन क्षयरोगिणा । तुतोषास्मै करुणया सोमं वाक्यमुवाच ह ॥ २६॥ सोमनाथ उवाच - यथा क्षयी भवान् जातः सोमे(म) विदितमेव हि । नद्यां स्वाम्यां समाप्लुत्य समाराधय सत्वरम् ॥ क्षीणशापस्ततो भूत्वा क्षीणोऽक्षीणो भविष्यसि ॥ २७॥ कृष्णपक्षे तनुक्षीणः सितेऽक्षीणवपुः पुनः । ह्रासवृद्ध्या च कलया पक्षे पक्षे भविष्यसि ॥ २८॥ दर्शे दर्शे तु मां दृष्ट्वा स्नात्वा स्वाम्यां निशाकर । मोदयस्व म(मु)दं प्राप्य जगत् स्थावरजङ्गमम् ॥ २९॥ सोमनाथो भविष्यामि त्वन्नाम्नाऽहं युगे युगे । यो भक्त्याऽऽराधयेन्नित्यं सोमवारे विशेषतः ॥ ३०॥ तस्य रोगभयं न स्यात् किं वा शोकभयं पुनः । पापौघमखिलं हन्मि दुःखतोऽथ भयं तथा ॥ ३१॥ काममन्यमभीष्टं वा दद्यां भक्तस्य चन्द्रमः । अहं यास्यामि लिङ्गत्वं कलौ प्राप्ते दृषन्मयम् ॥ ३२॥ वायुरुवाच - इति श्रुत्वा प्रणम्यैनं तपस्तप्त्वाऽथ चन्द्रमाः । तत्प्रसादाद्वरं प्राप्य गतो नक्षत्रमण्डलम् ॥ ३३॥ एवं स भगवान् रुद्रो बह्वीभिश्च स्वमूर्तिभिः । पालयामास भुवनं पिता पुत्रानिवौरसान् ॥ ३४॥ इति एकलिङ्गमाहात्म्ये सोमनाथमाहात्म्ये सोमकृतं सोमनाथस्तुतिः सम्पूर्णा । - ॥ एकलिङ्गमाहात्म्यम् । चतुर्दशोऽध्यायः - सोमनाथमाहात्म्ये माहेन्द्रीवर्णनम् । १४.१७-३४॥ - .. ekali~NgamAhAtmyam . chaturdasho.adhyAyaH - somanAthamAhAtmye mAhendrIvarNanam . 14.17-34 .. Notes: Śiva शिव, as Somanātha सोमनाथ was worshipped by Soma सोम for relief from the curse by Dakṣa दक्ष for having favoured only Rohiṇī रोहिणी amongst his 27 wives who were the daughters of Dakṣa दक्ष. Somanātha सोमनाथ advises Soma सोम to take dip in the Svāmī River स्वामी नदी, relieves him of the disease due to the curse and establishes his path in the NakṣatraMaṇḍala नक्षत्रमण्डल. EkaliṅgaMāhātmyam एकलिङ्गमाहात्म्यम्, that constitutes a SthalaPurāṇa स्थलपुराण and SthalaMāhātmyam स्थलमाहात्म्यम्, has been composed in two styles - Paurāṇika पौराणिक and Kāvyamaya काव्यमय. It includes the descriptions about the manifestation of the Ekaliṅga Śiva Kṣetra एकलिङ्ग शिव क्षेत्र in relation to the story of the duo - Baṣpa Rājā बाष्प राजा - Hārīta Muni हारीत मुनि, and the lineage of kings of Citrakūṭa चित्रकूट (now k.a. Cittaur̤agar̤ha चित्तौड़गढ़ ) and Medapāṭa मेदपाट (now k.a. Mevār̤a मेवाड़ ) including Mahārāṇā Kumbhā महाराणा कुम्भा. Baṣpa Rājā बाष्प राजा is now popularly known as Bappā Rāvala बप्पा रावल. The VāyuPurāṇam वायुपुराणम् has been attributed to be the source composition of EkaliṅgaMāhātmyam एकलिङ्गमाहात्म्यम् as the main narrator of the same is Vāyu वायु. EkaliṅgaMāhātmyam - Paurāṇika एकलिङ्गमाहात्म्यम् - पौराणिक is composed in 32 chapters that, with a brief summary of each chapter; and the EkaliṅgaMāhātmyam - Kāvyamayam एकलिङ्गमाहात्म्यम् - काव्यमयम् can be accessed from the respective links given below. EkaliṅgaMāhātmyam - Kāvyamayam एकलिङ्गमाहात्म्यम् - काव्यमयम् includes description of the lineage of Baṣpa Rājā बाष्प राजा, Stuti स्तुति of the erudite Mahārāṇā Kumbhā महाराणा कुम्भा i.e. Kumbhakaraṇa कुम्भकरण, and the Pañcāyatana Stuti पञ्चायतन स्तुति. The latter comprises of Stuti-s of Ganeśa गणेश, Sūrya सूर्य, Nārāyaṇa नारायण, Śiva शिव, Caṇḍikā चण्डिका and Ekaliṅga Śiva एकलिङ्ग शिव. It is noteworthy that the Pañcāyatana Stuti पञ्चायतन स्तुति has some names associated with Kumbhā कुम्भा such that he is remembered with each of the Deity worshipped with this stuti. Towards conclusion, there is EkaliṅgaNamaskāra एकलिङ्गनमस्कार. Encoded and proofread by Ruma Dewan
% Text title            : Somanathastutih Somakrita
% File name             : somanAthastutiHsomakRRitA.itx
% itxtitle              : somanAthastutiH somakRitA (ekaliNgamAhAtmye)
% engtitle              : somanAthastutiH somakRRitA
% Category              : shiva, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : vAyupurANa. ekaliNgamAhAtmyam . chaturdasho.adhyAyaH - somanAthamAhAtmye mAhendrIvarNanam . 14.17-34 ..
% Indexextra            : (Scan, ekalingamAhAtmyam paurANika, kAvyamaya)
% Latest update         : October 14, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org