शिवप्रोक्तं सुरोपदेशः
मन्मायामोहिता यूयमभिजातास्स्थ सत्तमाः ।
भवन्तः पशवस्सर्वे चाब्रह्मस्तम्भपूर्वकाः ॥ ५॥
अहं मायामयैः पाशैरीषणाभिस्सुरासुरान् ।
वध्वा क्रीडामि देव्या च जगत्यस्मिंश्चराचरे ॥ ६॥
अहमेव सुरान्त्सर्वान्मोचको भक्तिभावितः ।
मम रूपमविज्ञाय भवन्तो विग्रहं मम ॥ ७॥
दृष्टैव्व चेष्टां विविधां गुणभूतां गुणातिगाः ।
विषयेष्वनुरक्तं मां ज्ञात्वा मोहं परं गताः ॥ ८॥
तदद्यैवापनेष्यामि शृणुध्वं परमं मम ।
गोप्याद्गोप्यतरं ज्ञानमथर्वशिरसि स्थितम् ॥ ९॥
सर्वश्रुतिशिरोद्भूतं साक्षादज्ञाननाशनम् ।
अहमेको निराधारो वर्ताम्याकाशवत्सदा ॥ १०॥
नैव लेपोऽस्ति मनसो मम कार्येन्द्रियैस्सदा ।
न महाभूतसङ्घैश्च न कालेन दिशा सुराः ॥ ११॥
वस्तुतो ह्यपरिछिन्नोह्यसङ्गोऽस्मिनिरामयः ।
अव्यक्तः परमात्माहं सर्वेषामन्तरास्थितः ॥ १२॥
अहमादिश्व मध्यञ्चाप्यहमन्तस्सनातनः ।
जगज्जन्मादिनाशोत्थङ्क्रियाभिर्नाहमीश्वरः ॥ १३॥
मत्त एवाखिलं विश्वं मय्येवेदं स्थितं सुराः ।
ब्रह्मविष्णवीश्वरेद्रेन्द्रा भवन्तो मत्त एव हि ॥ १४॥
निर्गतास्स्थ भवन्तो वै जगज्जालमिदं सुराः ।
सोमोऽहं जनिता देवास्सर्वेषां भवतां सुराः ॥ १५॥
भवद्भिस्सह मय्येव विद्यते तच्चराचरम् ।
न मत्तोऽस्ति पृथक्किञ्चिन्नेह नानास्ति किञ्चन ॥ १६॥
मां विज्ञायेदमखिलं जानन्त्येकं सनातनम् ।
ममैकत्वपरिज्ञानात्को मोहोऽत्र निलिम्पकाः ॥ १७॥
मां विदित्वैव परमा शान्तिस्तेषां सदैव हि ।
ग्रन्थिभिर्नाभिभूयन्ते काम्यकर्ममयैस्सुराः ॥ १८॥
वध्यन्तेऽत्र भवन्तो हि विवशा (पशवः) मम मायया ।
वाक्यैर्गुणमयैर्देवास्तत्फलं प्राप्यते दिवि ॥ १९॥
ये यथा मां प्रपद्यन्ते नानोपासनया सुराः ।
तांस्तथैवाहमेवाद्य तद्भावानां प्रपूरकः ॥ २०॥
तथैव प्रेरयाम्यद्य सोऽहङ्कारपरो भवेत् ।
मां प्रेरकमविज्ञाय कर्ताहमिति मन्यते ॥ २१॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुराः ॥ २२॥
(सर्वस्य प्रभुमीशानं सुरस्सर्वस्यकारणम्) ॥ २२॥
अपाणिपादोऽजवनः पश्याम्यहमतन्द्रितः ।
अचक्षुश्श्रोत्रहीनोऽस्मि मनःप्राणातिगोऽस्म्यहम् ॥ २३॥
मयावास्यमिदं सर्वे मां विज्ञाय विमुच्यते ।
अहं सर्वशरीरेषु विजानामीदमेवहि ॥ २४॥
न वेत्ति मां सुराः कोऽपि योगयुक्तोऽपि कश्चन (मुक्तये) ।
सर्वाश्रयोऽहं हि सदा सर्वाधारश्च सत्तमः ॥ २५॥
पञ्चकोशविहीनश्च पञ्चभूतातिगोऽस्म्यहम् ।
पञ्चप्राणातिगश्चाहं क्वेदं देहेन्द्रियं सुराः ॥ २६॥
अपक्षपातसहितस्सर्वभूतेषु सर्वदा ।
लोकोत्थसुखदुःखश्च षडूर्मिभिरपि द्रुतम् ॥ २७॥
नैव लिप्तोऽस्मि देहेषु ह्यशीर्ष्णोहमवस्थितः ।
सूर्यो यथा सर्वलोकं प्रवर्तयति कर्मभिः ॥ २८॥
लोककार्यविहीनश्च तद्वत्साक्षिरहं स्थितः ।
कायप्राणमनोधर्मैर्नानाहङ्कारसम्भवैः ॥ २९॥
धर्मैर्वा पापजालैर्वा नैव लेपोऽस्ति मे सुराः ।
काष्टाहं परमश्चाहं भासकोऽहं जडेष्वपि ॥ ३०॥
भीपास्मादनिलो वाति भीषोदेति गभस्तिमान् ।
भीषैव चन्द्रयमका भीषैवेदं स्थितञ्जगत् ॥ ३१॥
ज्योतिषां ज्योतिरस्मीह बिम्बाबिम्बातिगोऽस्म्यहम् ।
एकत्वं वा तथा द्वित्वं बहुत्वं वा न किञ्चन ॥ ३२॥
नैव मुक्तिर्नैव बन्धो मयि सर्वेश्वरे सुराः ।
सर्वभूमात्वहं देवास्साक्ष्यसाक्षिविवर्जितः ॥ ३३॥
न चाणुर्न महांश्चापि निर्गुणस्सगुणोऽपि वा ।
न माया मायि वा किञ्चिन्नैवाहमपि चेश्वरः ॥ ३४॥
एषोऽहं परमानन्दो रसोऽहं सर्ववस्तुगः ।
एप ब्रह्मादिस्सर्वश्चाप्यहमेव सदा सुराः ॥ ३५॥
यूयमादिस्सर्व एव सीमा भूमाहमेव हि ।
न वेदवादवेदान्तैर्न गुरूक्त्या न चेच्छया ॥ ३६॥
(न वेदवादवेदान्तैर्न गुरूक्त्या नचेज्यय) ॥ ३६॥
न कर्मणा वा तपसा प्राप्नोत्येकोऽपि वा सुराः ।
मत्प्रसादेनैव देवा वृणुतम्भक्तमेव हि ॥ ३७॥
मन्निष्ठां सर्वभावेन कश्चिज्जानाति वा न वा ।
अथान्यथा नयत्यर्थं वेदान्तानां दुरात्मवान् ॥ ३८॥
मामविज्ञाय दुःखौघान्नैव मुक्तो भविष्यति ।
विभूतिं मम वक्ष्यामि शृण्वन्तु परमां सुराः ॥ ३९॥
यल्लाभान्नापरो लाभो मत्प्रसादेन लभ्यते ।
ये भस्मनिष्टास्सततं तेषामेव प्रकाशयेत् ॥ ४०॥
ये त्रिपुण्ड्रलसद्भालास्तेपामेतत्प्रकाश्यते ।
ये रुद्राक्षमहादेहास्तेषामेतत्प्रकाश्यते ॥ ४१॥
ये रुद्राध्यायनिरतास्तेषामेतत्प्रकाश्यते ।
ये मल्लिङ्गाराधनेछास्तेषामेतत्प्रकाश्यते ॥ ४२॥
(ये मल्लिङ्गाराधनेछाबिल्वपत्रादिसाधनै) ॥ ४२॥
ये पञ्चाक्षरसन्मन्त्रजपध्यानैकमानसाः ।
तेषां श्रुतिशिरोद्भूतं ज्ञानं विप्रेषु जायते ॥ ४३॥
ये शिवक्षेत्रनिरतास्तेषामेतत्प्रकाश्यते ।
अनन्यभावास्सततं वेदान्ते मयि ये गुरौ ॥ ४४॥
अनन्यभावा ये देवास्सदा कौटिल्यवर्जिताः ।
मन्नामनिरता ये वै तेषामेतत्प्रकाश्यते ॥ ४५॥
सर्वेभ्यो देवसङ्घेभ्यो वरिष्ठं मन्वते हि ये ।
मध्याननिरता ये वै तेषामेतत्प्रकाश्यते ॥ ४६॥
मध्यानं वेदवेदान्तसारतात्पर्यचिन्तनम् ।
तेष्वशक्तेषु मद्रूपचिन्तनं तत्प्रबुध्यते ॥ ४७॥
चिन्तयेन्नीलकण्ठं मां त्रिणेत्रं चन्द्रशेखरम् ।
उमार्धविग्रहं रूपं स्वहृत्पद्मस्य सद्मगम् ॥ ४८॥
भावयन्त्सततं युक्तस्तज्ज्ञानं प्राप्नुयात्सुराः ।
अपरोक्षं हि मे ज्ञानं तस्य जायेत निश्चितम् ॥ ४९॥
एवं साधनहीनानां ज्ञानं तद्दुर्लभं सुराः ।
शृण्वन् गुरुमुखैर्भावैर्बुद्ध्या शब्दार्थवेदनैः ॥ ५०॥
तन्नैव तत्प्राप्नुयाज्ज्ञानं कोटिकल्पशतैरपि ।
मत्प्रसादविहीनो यो गृही वाथ यतिर्वनी ॥ ५१॥
तन्नैव प्राप्नुयाज्ज्ञानं साक्षात्संसारमोचकम् ॥ ५२॥
यस्मिन् ग्रामे पुरे वा सततपरिचितापारशैवप्रचारा
रुद्राध्यायजपादरास्सितलमद्भस्मत्रिपुण्ड्रादराः ।
शम्भोर्लिङ्गसमर्चकास्तु सुतरां ते नातुरं नैव ते
सम्प्राप्यन्ति यमाद्भयं जनिजरारोगप्रणाशेन वा ॥ ५३॥
ज्ञानमेतदतिदुर्लभं सुरा भुक्तिमुक्तिजनकं मम भक्त्या ।
युक्तियुक्तगुरुसूक्तिसुधाब्धौ रुद्धमाद्यमनघं सततञ्च ॥ ५४॥
लभ्यते किल पचेलिमपुण्यैः कस्यचिन्ममकृपावशतो हि ।
बन्धहृद्धृदयभेदकं सुराह्यन्यथास्य न पथा न कर्मणा ॥ ५५॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये शिवप्रोक्तं सुरोपदेशः ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५० - सुरोपदेशः । ५-५५॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 50 - suropadeshaH . 5-55..
Notes:
Śiva शिव delivers Upadeśa to Deva-s सुरोपदेश whereby He outlines the methods and merits of worshipping Him.
Encoded and proofread by Ruma Dewan