स्वर्णाकर्षणभैरवस्तोत्रनामावलिः
ॐ अस्य श्रीस्वर्णाकर्षणभैरवस्तोत्रमन्त्रस्य ब्रह्मऋषिः
अनुष्टुप् छन्दः श्रीस्वर्णाकर्षणभैरवदेवता
ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्यनाशार्थे पाठ विनियोगः ।
ऋष्यादिन्यासः -
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
स्वर्णाकर्षणभैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।
ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥
अथ ध्यानम् -
पारिजात द्रुम कान्तारे स्थिते माणिक्यमण्डपे ।
सिंहासन गतं वन्दे भैरवं स्वर्णदायकम् ॥
गाङ्गेयपात्रं डमरूं त्रिशूलं वरं करः सन्दधतं त्रिनेत्रम् ।
देव्यायुतं तप्तस्वर्णवर्ण स्वर्णाकर्षणभैरवमाश्रयामि ॥
मन्त्रः -
ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं
अजामलवद्धाय लोकेश्वराय स्वर्णाकर्षणभैरवाय
मम दारिद्र्यविद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ॥
अथ नामावलिः ।
ॐ भैरवेशाय नमः ।
ॐ ब्रह्मविष्णुशिवात्मने नमः ।
ॐ त्रैलोक्यवन्धाय नमः ।
ॐ वरदाय नमः ।
ॐ वरात्मने नमः ।
ॐ रत्नसिंहासनस्थाय नमः ।
ॐ दिव्याभरणशोभिने नमः ।
ॐ दिव्यमाल्यविभूषाय नमः ।
ॐ दिव्यमूर्तये नमः ।
ॐ अनेकहस्ताय नमः ।
ॐ अनेकशिरसे नमः ।
ॐ अनेकनेत्राय नमः ।
ॐ अनेकविभवे नमः ।
ॐ अनेककण्ठाय नमः ।
ॐ अनेकांसाय नमः ।
ॐ अनेकपार्श्वाय नमः ।
ॐ दिव्यतेजसे नमः ।
ॐ अनेकायुधयुक्ताय नमः ।
ॐ अनेकसुरसेविने नमः ।
ॐ अनेकगुणयुक्ताय नमः । २०
ॐ महादेवाय नमः ।
ॐ दारिद्र्यकालाय नमः ।
ॐ महासम्पद्प्रदायिने नमः ।
ॐ श्रीभैरवीसंयुक्ताय नमः ।
ॐ त्रिलोकेशाय नमः ।
ॐ दिगम्बराय नमः ।
ॐ दिव्याङ्गाय नमः ।
ॐ दैत्यकालाय नमः ।
ॐ पापकालाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ दिव्यचक्षुषे नमः ।
ॐ अजिताय नमः ।
ॐ जितमित्राय नमः ।
ॐ रुद्ररूपाय नमः ।
ॐ महावीराय नमः ।
ॐ अनन्तवीर्याय नमः ।
ॐ महाघोराय नमः ।
ॐ घोरघोराय नमः ।
ॐ विश्वघोराय नमः ।
ॐ उग्राय नमः । ४०
ॐ शान्ताय नमः ।
ॐ भक्तानां शान्तिदायिने नमः ।
ॐ सर्वलोकानां गुरवे नमः ।
ॐ प्रणवरूपिणे नमः ।
ॐ वाग्भवाख्याय नमः ।
ॐ दीर्घकामाय नमः ।
ॐ कामराजाय नमः ।
ॐ योषितकामाय नमः ।
ॐ दीर्घमायास्वरूपाय नमः ।
ॐ महामायाय नमः ।
ॐ सृष्टिमायास्वरूपाय नमः ।
ॐ निसर्गसमयाय नमः ।
ॐ सुरलोकसुपूज्याय नमः ।
ॐ आपदुद्धारणभैरवाय नमः ।
ॐ महादारिद्र्यनाशिने नमः ।
ॐ उन्मूलने कर्मठाय नमः ।
ॐ अलक्ष्म्याः सर्वदा नमः ।
ॐ अजामलवद्धाय नमः ।
ॐ लोकेश्वराय नमः ।
ॐ स्वर्णाकर्षणशीलाय नमः । ६०
ॐ दारिद्र्य विद्वेषणाय नमः ।
ॐ लक्ष्याय नमः ।
ॐ लोकत्रयेशाय नमः ।
ॐ स्वानन्दं निहिताय नमः ।
ॐ श्रीबीजरूपाय नमः ।
ॐ सर्वकामप्रदायिने नमः ।
ॐ महाभैरवाय नमः ।
ॐ धनाध्यक्षाय नमः ।
ॐ शरण्याय नमः ।
ॐ प्रसन्नरूपाय नमः ।
ॐ आदिदेवाय नमः ।
ॐ मन्त्ररूपाय नमः ।
ॐ मन्त्ररूपिणे नमः ।
ॐ स्वर्णरूपाय नमः ।
ॐ सुवर्णाय नमः ।
ॐ सुवर्णवर्णाय नमः ।
ॐ महापुण्याय नमः ।
ॐ शुद्धाय नमः ।
ॐ बुद्धाय नमः ।
ॐ संसारतारिणे नमः । ८०
ॐ देवाय नमः ।
ॐ गुह्याय नमः ।
ॐ प्रचलाय नमः ।
ॐ बालरूपाय नमः ।
ॐ परेषां बलनाशिने नमः ।
ॐ स्वर्णसंस्थाय नमः ।
ॐ भूतलवासिने नमः ।
ॐ पातालवासाय नमः ।
ॐ अनाधाराय नमः ।
ॐ शान्ताय नमः ।
ॐ अनन्ताय नमः ।
ॐ द्विभुजाय नमः ।
ॐ भुजत्रयसुशोभिने नमः ।
ॐ अनमादि सिद्धाय नमः ।
ॐ स्वर्णहस्ताय नमः ।
ॐ पूर्णचन्द्रप्रतीकाशाय नमः ।
ॐ वदनाम्भोजशोभिने नमः ।
ॐ स्वरूपाय नमः ।
ॐ स्वर्णालङ्कारशोभिने नमः ।
ॐ स्वर्णाकर्षणाय नमः । १००
ॐ स्वर्णाभाय नमः ।
ॐ स्वर्णकण्ठाय नमः ।
ॐ स्वर्णाभाम्बरधारिणे नमः ।
ॐ स्वर्णसिंहानस्थाय नमः ।
ॐ स्वर्णपादाय नमः ।
ॐ स्वर्णभपादाय नमः ।
ॐ स्वर्णकाञ्चीसुशोभिने नमः ।
ॐ स्वर्णजङ्घाय नमः ।
ॐ भक्तकामदुधात्मने नमः ।
ॐ स्वर्णभक्ताय नमः ।
ॐ कल्पवृक्षस्वरूपिणे नमः ।
ॐ चिन्तामणिस्वरूपाय नमः ।
ॐ ब्रह्मादिसेविने नमः ।
ॐ कल्पद्रुमाघ्ने संस्थाय नमः ।
ॐ बहुस्वर्णप्रदायिने नमः ।
ॐ हेमाकर्षणाय नमः ।
ॐ भैरवाय नमः । ११७
स्तवेनानेन सन्तुष्टो भव लोकेश भैरव ।
पश्य मां करुणादृष्ट्या शरणागतवत्सल ॥
श्री महाभैरवस्येदं स्तोत्रमुक्तं सुदुर्लभम् ।
मन्त्रात्मकं महापुण्यं सर्वेश्वर्यप्रदायकम् ॥
यः पठेन्नित्यमेकाग्रं पातकै स प्रमुच्यते ।
लभते महतीं लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥
चिन्तामणिमवाप्नोति धेनु कल्पतरुं ध्रुवम् ।
स्वर्णराशिमवाप्नोति शीघ्नमेव न संशयः ॥
त्रिसन्ध्यं यः पठेत्स्तोत्रं दशावृत्या नरोत्तमः ।
स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥
स्वर्णराशि ददात्यस्यै तत्क्षणं नात्र संशयः ।
अष्टावृत्या पठेत् यस्तु सन्ध्यायां वा नरोत्तमम् ॥
लभते सकलान् कामान् सप्ताहान्नात्र संशयः ।
सर्वदः यः पठेस्तोत्रं भैरवस्य महात्मनाः ॥
लोकत्रयं वशीकुर्यादचलां लक्ष्मीमवाप्नुयात् ।
न भयं विद्यते क्वापि विषभूतादि सम्भवम् ॥
म्रियते शत्रवस्तस्य अलक्ष्मी नाशमाप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥
अष्टपञ्चाद्वर्णाढ्यो मन्त्रराजः प्रकीर्तितः ।
दारिद्र्य दुःखशमनः स्वर्णाकर्षण कारकः ॥
य एन सञ्चयेद्धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महाभैरव सायुज्यं सोऽन्तकाले लभेद्ध्रुवम् ॥
इति रुद्रयामलतन्त्रे स्वर्णाकर्षणभैरवस्तोत्रमुद्धृता
नामावलिः समाप्ता ।