स्वर्णाकर्षणभैरवस्तोत्रम्
श्रीमार्कण्डेय उवाच -
भगवन् प्रमथाधीश शिवतुल्यपराक्रम ।
पूर्वमुक्तस्त्वया मन्त्रो भैरवस्य महात्मनः ॥ १॥
इदानीं श्रोतुमिच्छामि तस्य स्तोत्रमनुत्तमम् ।
तत्केनोक्तं पुरा स्तोत्रं पठनात् तस्य किं फलम् ॥ २॥
तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे नन्दिकेश्वर ।
नन्दिकेश्वर उवाच -
अयं प्रश्नो महाभाग! लोकानामुपकारकः ॥ ३॥
स्तोत्रं बटुकनाथस्य दुर्लभं भुवनत्रये ।
सर्वपापप्रशमनं सर्वसम्पत्प्रदायकम् ॥ ४॥
दारिद्र्यनाशनं पुंसामापदामपहारकम् ।
अष्टैश्वर्यप्रदं नृणां पराजयविनाशनम् ॥ ५॥
महाकीर्तिप्रदं पुंसामसौन्दर्यविनाशनम् ।
स्वर्णाद्यष्टमहासिद्धिप्रदायकमनुत्तमम् ॥ ६॥
भक्तिमुक्तिप्रदं स्तोत्रं भैरवस्य महात्मनः ।
महाभैरवभक्ताय सेविने निर्धनाय च ॥ ७॥
निजभक्ताय वक्तव्यमन्यथा शापमाप्नुयात् ।
स्तोत्रमेतद्भैरवस्य ब्रह्मविष्णुशिवात्मकम् ॥ ८॥
शृणुष्व रुचितो ब्रह्मन् ! सर्वकामप्रदायकम् ।
विनियोगः -
ॐ अस्य श्रीस्वर्णाकर्षणभैरवस्तोत्रं मन्त्रस्य ब्रह्मा ऋषिः,
अनुष्टुप् छन्दः, श्रीस्वर्णाकर्षणभैरवदेवता,
ह्रीं बीजं, क्लीं शक्तिः, सः कीलकं,
मम दारिद्र्यनाशार्थे पाठे विनियोगः ॥
ऋष्यादिन्यासः -
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
स्वर्णाकर्षणभैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।
ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥
कर-हृदयादिन्यासः -
ह्रां अङ्गुष्ठाभ्यां नमः । हृदयाय नमः ।
ह्रीं तर्जनीभ्यां नमः । शिरसे स्वाहा ।
ह्रूं मध्यमाभ्यां नमः । शिखायै वषट् ।
ह्रैं अनामिकाभ्यां नमः । कवचाय हुम् ।
ह्रौं कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् ।
ह्रः करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट ॥
अथ ध्यानम् -
पारिजातद्रुमान्तारे स्थिते माणिक्यमण्डपे ।
सिंहासनगतं वन्दे भैरवं स्वर्णदायकम् ॥
गाङ्गेयपात्रं डमरूं त्रिशूलं वरं करैः सन्दधतं त्रिनेत्रम् ।
देव्या युतं तप्तसुवर्णवर्णं स्वर्णाकृषं भैरवमाश्रयामि ॥
मुद्रा - कमण्डलुडमरुत्रिशूलवरमुद्रा दर्शयेत् ।
मन्त्रः -
ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं
अजामलवद्धाय लोकेश्वराय स्वर्णाकर्षणभैरवाय
मम दारिद्र्यविद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ॥
अथ स्तोत्रम् -
ॐ नमस्ते भैरवेशाय ब्रह्मविष्णुशिवात्मने ।
नमस्त्रैलोक्यवन्द्याय वरदाय वरात्मने ॥ १॥
रत्नसिंहासनस्थाय दिव्याभरणशोभिने ।
दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ २॥
नमस्तेऽनेकहस्ताय अनेकशिरसे नमः ।
नमस्तेऽनेकनेत्राय अनेकविभवे नमः ॥ ३॥
नमस्तेऽनेककण्ठाय अनेकांसाय ते नमः ।
नमस्तेऽनेकपार्श्वाय नमस्ते दिव्यतेजसे ॥ ४॥
अनेकायुधयुक्ताय अनेकसुरसेविने ।
अनेकगुणयुक्ताय महादेवाय ते नमः ॥ ५॥
नमो दारिद्र्यकालाय महासम्पद्प्रदायिने ।
श्रीभैरवीसंयुक्ताय त्रिलोकेशाय ते नमः ॥ ६॥
दिगम्बर नमस्तुभ्यं दिव्याङ्गाय नमो नमः ।
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ ७॥
सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे ।
अजिताय नमस्तुभ्यं जितमित्राय ते नमः ॥ ८॥
नमस्ते रुद्ररूपाय महावीराय ते नमः ।
नमोऽस्त्त्वनन्तवीर्याय महाघोराय ते नमः ॥ ९॥
नमस्ते घोरघोराय विश्वघोराय ते नमः ।
नमः उग्राय शान्ताय भक्तानां शान्तिदायिने ॥ १०॥
गुरवे सर्वलोकानां नमः प्रणवरूपिणे ।
नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ॥ ११॥
नमस्ते कामराजाय योषितकामाय ते नमः ।
दीर्घमायास्वरूपाय महामायाय ते नमः ॥ १२॥
सृष्टिमायास्वरूपाय निसर्गसमयाय ते ।
सुरलोकसुपूज्याय आपदुद्धारणाय च ॥ १३॥
नमो नमो भैरवाय महादारिद्र्यनाशिने ।
उन्मूलने कर्मठाय अलक्ष्म्याः सर्वदा नमः ॥ १४॥
नमो अजामलवद्धाय नमो लोकेश्वराय ते ।
स्वर्णाकर्षणशीलाय भैरवाय नमो नमः ॥ १५॥
मम दारिद्र्यविद्वेषणाय लक्ष्याय ते नमः ।
नमो लोकत्रयेशाय स्वानन्दनिहिताय ते ॥ १६॥
नमः श्रीबीजरूपाय सर्वकामप्रदायिने ।
नमो महाभैरवाय श्रीभैरव नमो नमः ॥ १७॥
धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ।
नमः प्रसन्नरूपाय आदिदेवाय ते नमः ॥ १८॥
नमस्ते मन्त्ररूपाय नमस्ते मन्त्ररूपिणे ।
नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ॥ १९॥
नमः सुवर्णवर्णाय महापुण्याय ते नमः ।
नमः शुद्धाय बुद्धाय नमः संसारतारिणे ॥ २०॥
नमो देवाय गुह्याय प्रचलाय नमो नमः ।
नमस्ते बालरूपाय परेषां बलनाशिने ॥ २१॥
नमस्ते स्वर्ण संस्थाय नमो भूतलवासिने ।
नमः पातालवासाय अनाधाराय ते नमः ॥ २२॥
नमो नमस्ते शान्ताय अनन्ताय नमो नमः ।
द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ॥ २३॥
नमोऽनमादि सिद्धाय स्वर्णहस्ताय ते नमः ।
पूर्णचन्द्रप्रतीकाश वदनाम्भोजशोभिने ॥ २४॥
नमस्तेऽस्तुस्वरूपाय स्वर्णालङ्कारशोभिने ।
नमः स्वर्णाकर्षणाय स्वर्णाभाय नमो नमः ॥ २५॥
नमस्ते स्वर्णकण्ठाय स्वर्णाभाम्बरधारिणे ।
स्वर्णसिंहानस्थाय स्वर्णपादाय ते नमः ॥ २६॥
नमः स्वर्णभपादाय स्वर्णकाञ्चीसुशोभिने ।
नमस्ते स्वर्णजङ्घाय भक्तकामदुधात्मने ॥ २७॥
नमस्ते स्वर्णभक्ताय कल्पवृक्षस्वरूपिणे ।
चिन्तामणिस्वरूपाय नमो ब्रह्मादिसेविने ॥ २८॥
कल्पद्रुमाघः संस्थाय बहुस्वर्णप्रदायिने ।
नमो हेमाकर्षणाय भैरवाय नमो नमः ॥ २९॥
स्तवेनानेन सन्तुष्टो भव लोकेश भैरव ।
पश्य मां करुणादृष्ट्या शरणागतवत्सल ॥ ३०॥
श्रीमहाभैरवस्येदं स्तोत्रमुक्तं सुदुर्लभम् ।
मन्त्रात्मकं महापुण्यं सर्वेश्वर्यप्रदायकम् ॥ ३१॥
यः पठेन्नित्यमेकाग्रं पातकै स प्रमुच्यते ।
लभते महतीं लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ ३२॥
चिन्तामणिमवाप्नोति धेनु कल्पतरुं ध्रुवम् ।
स्वर्णराशिमवाप्नोति शीघ्नमेव न संशयः ॥ ३३॥
त्रिसन्ध्यं यः पठेत्स्तोत्रं दशावृत्या नरोत्तमः ।
स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ ३४॥
स्वर्णराशि ददात्यस्यै तत्क्षणं नात्र संशयः ।
अष्टावृत्या पठेत् यस्तु सन्ध्यायां वा नरोत्तमम् ॥ ३५॥
लभते सकलान् कामान् सप्ताहान्नात्र संशयः ।
सर्वदः यः पठेस्तोत्रं भैरवस्य महात्मनाः ॥ ३६॥
लोकत्रयं वशीकुर्यादचलां लक्ष्मीमवाप्नुयात् ।
नभयं विद्यते क्वापि विषभूतादि सम्भवम् ॥ ३७॥
म्रियते शत्रवस्तस्य अलक्ष्मी नाशमाप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ ३८॥
अष्टपञ्चाद्वर्णाढ्यो मन्त्रराजः प्रकीर्तितः ।
दारिद्र्यदुःखशमनः व स्वर्णाकर्षण कारकः ॥ ३९॥
य एन सञ्चयेद्धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महाभैरवसायुज्यं सोऽन्तकाले लभेद्ध्रुवम् ॥ ४०॥
इति रुद्रयामलतन्त्रे ईश्वरदत्तात्रेयसंवादे
स्वर्णाकर्षणभैरवस्तोत्रं सम्पूर्णम् ॥
Proofread by Aruna Narayanan narayanan.aruna at gmail.com