त्रयोदश्याः प्रदोषकाले शिवध्यानम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
नवशक्तिमये रम्ये ध्यायेद्देवमुमापतिम् ।
चन्द्रकोटिप्रतीकाशसोमचूडविलोचनम् ॥ १७॥
आपिङ्गलजटाजूट रत्नमौलिविराजितम् ।
नीलग्रीवमुदाराङ्गं नागहारोपशोभितम् ॥ १८॥
वरदाभयहस्तं च हरिणं च परश्वधम् ।
दधानं नागवलयं केयूराङ्गदमुद्रिकम् ॥ १९॥
व्याघ्रचर्मपरीधानं रत्नसिह्मासनस्थितं
ध्यात्वा मद्वामभागे त्वां चिन्तयेद्गिरिकन्यकाम् ।
भास्वज्जपाप्रसूनाभामुद्यदर्यमसप्रभां
विद्युत्पुञ्जनिभां तन्वीमार्यां नयननन्दिनीम् ॥ २१॥
बालेन्दुशेखरस्निग्धनीलकुञ्चितकुन्तलाम् ।
भृङ्गसङ्घातरुचिरनीलालकविराजिताम् ॥ २२॥
मणिकुण्डलविद्योतिमुखमण्डलविभ्रमाम् ।
नवकुङ्कुमपङ्काढ्य भालादर्शसुशोभिताम् ॥ २३॥
मधुरस्मितविभ्राजदरुणाधरपल्लवाम् ।
कम्बुकण्ठीं शिवामुद्यत्कुचपङ्कजकुड्मलाम् ॥ २४॥
पाशाङ्कुशाभयवरैर्विलसत्करपल्लवाम् ।
अनेकरत्न विलसत्कङ्कणाङ्गदमुद्रिकाम् ॥ २५॥
त्रिवलीविलसन्मध्यां रत्नकाञ्चीगुणान्विताम् ।
रत्नामालावरधरां दिव्यचन्दनचर्चिताम् ॥ २६॥
दिक्पालवनितामौलिसन्नताङ्घ्रिसरोरुहाम् ।
रत्नसिह्मासनारूढां मन्दस्मितमुखाम्बुजाम् ॥ २७॥
॥ इति शिवरहस्यान्तर्गते त्रयोदश्याः प्रदोषकाले शिवध्यानं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ३० त्रयोदशी प्रदोष पूजाकथनम् । १७-२७॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 30 trayodashI pradoSha pUjAkathanam . 17-27..
Notes:
Śiva शिव advises about the ŚivaDhyānam शिवध्यानम् to Pārvatī पार्वती as part of the procedure for worshiping Him during Pradoṣakāla प्रदोषकाल of Trayodaśī-s of both Pakśa पक्षद्वये त्रयोदश्याम्. He highlights the merits of observing Vrata व्रत on Trayodaśī त्रयोदशी of Mandavāra मन्दवार (Saturday).
Proofread by Ruma Dewan