श्रीगीतगाङ्गेयं अथवा सुब्रह्मण्याष्टपदी

श्रीगीतगाङ्गेयं अथवा सुब्रह्मण्याष्टपदी

अष्टपदी - १

श्लोकाः - कस्त्वं ब्रूहि दयस्व मेऽतिपलितः कस्ते पिता कामजित् सम्प्राप्तोऽसि कुतोऽचलात् किमु फलं मुख्यं प्रियालोकनम् । तन्मेऽद्यैहि सहायतां दुहितुरित्युक्त्वा पुलिन्दे गते वल्ली-षण्मुखयोर्भवन्तु भवतां भद्रप्रदाः केलयः ॥ श्लो. १॥ (शार्दूल-विक्रीडितं - १९) श्रीमन्-मयूर-भूधर-शिखराभरणस्य भगवतः कृपया ! श्री-सुब्रह्मण्यस्य प्रचोदितोऽयं जनः प्रयततेऽत्र हि ॥ श्लो. २॥ (आर्या - १२/१८) सौपर्वणीमिह गिरं सफलां विधातुं वाञ्छन् विचित्र-सरसां कवितां च लब्धुम् । श्री-विश्वनाथ-कविरातनुतेऽद्य हृद्यं श्रीमत्-कुमार-चरितामृत-वर्षि काव्यम् ॥ श्लो. ३॥ (वसन्ततिलक - १४) जहतु काल-भयं रसिका जनाः दधतु काव्यमिदं हृदि वाचि च । ददतु शम्भु-सुते निज-चेतसः चरितुमन्तर-माश्रित-वत्सले ॥ श्लो. ४॥ (द्रुत-विलम्बित - १२) लक्ष्मीं पक्ष्मलयत्युदार-ललितां व्याकोचयत्यन्वहं वाचं माक्षिक-चातुरी-परजुषं पुष्णाति पुण्यं यशः । आधत्ते भजता-मरोग-तनुता-मन्यादृशं वैभवं दत्ते दारुण-मोह-वारण-चणं बोधं नृणां षण्मुखः ॥ श्लो. ५॥ (शार्दूल-विक्रीडितं - १९) अष्टपदी -१ (मालव रागे, आदि ताले गीयते) अमर-नदी-सलिले, (प्रभो कुमार) रवि-कोटि-समानम् । पनित-महामुनि-कृत-बहुमानम् । षण्मुख धृत-तैजस-रूप ॥ जय शिखिशैल-पते ॥ १॥ हिम-गिरि-तट-निकटे, (प्रभो कुमार) शर-कानन-निष्ठे । तदनु विराजित-जलज-वरिष्ठे । षण्मुख श्रित-दैवत-जाल ॥ जय शिखिशैल-पते ॥ २॥ विबुध-जन-समुदये, (प्रभो कुमार) परिवारक-भावम् । गतवति योजित-शावक-भावम् । षण्मुख रुचि-भर रमणीय ॥ जय शिखिशैल-पते ॥ ३॥ हरि-वचसोपगते, (प्रभो कुमार) बहुला-समुदाये । त्विममनुजागृहि हित-स्नुत-पेये । षण्मुख शिशु-षट्कल-दीप्त ॥ जय शिखिशैल-पते ॥ ४॥ वृषभ-गते गिरिशे, (प्रभो कुमार) स्व-विलोकन-कामे । समुपगते मुदमापित-सोमे । षण्मुख गिरिजा-कलितैक्य ॥ जय शिखिशैल-पते ॥ ५॥ पयसि वदन-गलिते, (प्रभो कुमार) जननी-सुवितीर्णे । मुनि-तनयान्वित-सरसि सुपूर्णे । षण्मुख श्रित-शैल-सुताङ्क ॥ जय शिखिशैल-पते ॥ ६॥ त्वयि चलति सपितृके, (प्रभो कुमार) रजताचल-श‍ृङ्गे । विविध-विलास-क्रतु-वसित-तुङ्गे । षण्मुख सुर-भय-हर-लील ॥ जय शिखिशैल-पते ॥ ७॥ ससुहृदखिल-भुवने, (प्रभो कुमार) कृतवानसि लीलाम् । इतर-सुदुर्लभ-विभव-विशालाम् । षण्मुख बहु-विक्रम-शील ॥ जय शिखिशैल-पते ॥ ८॥ स्वीकुरु ललित-पदं, (प्रभो कुमार) स्तवमति-रस-भरितम् । विश्वनाथ-कविना कृतमेतम् । षण्मुख नव-वीर-समेत ॥ जय शिखिशैल-पते ॥ ९॥

अष्टपदी - २

श्लोकौ - गङ्गां तुङ्गयते, मुदा शरवणं शर्म-प्रदं तन्वते देवान् मोदयते, पयोद-बहुला-मातॄः निजाः कुर्वते । शापान्मोचयते पराशर-सुता-नातन्वते सम्मतं पित्रा, सर्व-जगत्तले कलयते लीलां नमस्ते विभो ॥ श्लो. ६॥ (शार्दूल-विक्रीडितं - १९) मुक्तानुद्धरते, शुचं शमयते, सौलभ्य-माबिभ्रते विद्यां वेदयते गुणान् घटयते शक्ति-क्षये बिभ्रते । पापं लोपयते, कलिं लघयते, नीरोगतां तन्वते वीरान् पालयते, दयां कलयते, वल्लीश तुभ्यं नमः ॥ श्लो. ७॥ (शार्दूल-विक्रीडितं - १९) अष्टपदी -२ (भैरवी रागे, त्रिपुट ताले गीयते) रजत-शिलोच्चय-भूषण । भव-भीषण । विदलित-कनक-महीध्र ॥ जय जय देव गुह ॥ १॥ मुनि-मख-जनुरज-शासन । भय-नाशन । श्रित-सुर-बल-पति-भाव ॥ जय जय देव गुह ॥ २॥ निगडित-मत्त-विरिञ्चन । बुध-रञ्जन । प्रणव-पदार्थ पुराण ॥ जय जय देव गुह ॥ ३॥ निज-वपुषा पितृ-मोहन । शिखि-वाहन । नवमणि-मय-गल-हार ॥ जय जय देव गुह ॥ ४॥ क्रौञ्च-महीधर-भेदन । शुभ-साधन । विनिहत-तारक-दैत्य ॥ जय जय देव गुह ॥ ५॥ सिंह-मुखासुर-खण्डन । कलि-दण्डन । रण-हत-सुर-रिपु-शूर ॥ जय जय देव गुह ॥ ६॥ सुरपति-तनुजा-वल्लभ । रिपु-दुर्लभ । कृत-परशिखरि-विलास ॥ जय जय देव गुह ॥ ७॥ शुभमिह मे प्रतिपादय । सकृपोदय । तव पदकमल-नताय ॥ जय जय देव गुह ॥ ८॥ विश्वनाथ-कवि-भाषितम् । गुण-भूषितम् । श‍ृणु वर-मङ्गल-गीतम् ॥ जय जय देव गुह ॥ ९॥ श्लोकः - मारुत्वती-मदन-माद्यदपाङ्ग-सङ्घैः कातर्य-विस्मय-सुहृत्त्व-मृदु-प्रसङ्गैः । इन्दीवर-स्रगभि-मण्डितवद् विभान्ती श्रेयस्तनोतु शर-सम्भव-गण्ड-पाली ॥ श्लो. ८॥ (वसन्ततिलक - १४)

अष्टपदी - ३

श्लोकौ - वने वल्लीं भिल्लीं विकच-नवमल्ली-मृदु-तनुं मुहुर्नत्वा स्मृत्वा गुह-गुण-मरुद्ध्वा धृति-लवम् । स्मराधीनां दीनां ज्वर-मसहमानां विरहजं सखी वाणी-मेणी-शिशु-दृश-मभाणीत् सुधिषणा ॥ श्लो. ९॥ (शिखरिणी - १७) तव श्रान्त्याः शान्त्यै प्रियसखि निशा-जागर-परि- श्रमात् पद्मोशीराद्युपहरण-जातादपि मुहुः । प्रबुद्धा निद्रायाः स्वयमुपनताया अहमहो ब्रुवे स्वप्नोदन्तं श्रुणु समवधेहि त्यज शुचम् ॥ श्लो. १०॥ (शिखरिणी - १७) अष्टपदी -३ (वसन्ता रागे, आदि ताले गीयते) स्कन्द-महीभृति राजत-भूधर-श‍ृङ्ग-गते भृश-तुङ्गे । नवमणि-मण्डल-मण्डित-सौध-तलान्तिक-केसर-रङ्गे ॥ १॥ पल्लवी सखि श‍ृणु वलरिपु-दुहितृ-सदेशे । हृष्यति हर-तनुभूः सुरभाविह लसदुप-कानन-देशे ॥ मधुर-मरन्द-मदाकुल-मञ्जुल-गीत-मिलिन्द-कदम्बे । विकच-कुसुम-भर-नामित-भासुर-केसर-तरु-निकुरुम्बे ॥ २॥ पथिक-मनो-भृश-कम्पन-पण्डित-चम्पक-सम्पदुदारे । सुललित-वकुल-कुलोल्लासन-वति धूलि-विधूनित-तीरे ॥ ३॥ दिनमणि-कर-परिरम्भ-विकस्वर-सारसिनी-रमणीये । रुचिर-मृणाल-लतासन-सुहित-मराल-निनद-कमनीये ॥ ४॥ मनसिज-नरपति-सहकृति-पटुतम-पुष्पित-मन्त्र-रसाले । सुम-समय-श्री-तिलक-मतिप्रथ-तिलक-महीरुह-जाले ॥ ५॥ पुष्पित-माधविका-परिरम्भण-विकसित-चारु-लवङ्गे । मदन-कृपाण-भ्रमकर-किंशुक-धुत-पथिकाब्ज-दृगङ्गे ॥ ६॥ कुपित-वधूजन-मान-निवारण-हर्षित-युवजन-गम्ये । सौरभ-पल्लव-चर्वण-पुष्यत्-कोकिल-कूजन-रम्ये ॥ ७॥ कुरबक-रेणु-समावृत-दश-दिशि विदलित-नील-तमाले । युवजन-रतिज-श्रमजल-वारक-मलयज-मारुत-बाले ॥ ८॥ विश्वनाथ-कविना रचितमिदं षण्मुख-भक्ति-निदानम् । सुरभि-समय-वन-वर्णन-निरतं जयतु चिरं भुवि गानम् ॥ ९॥ श्लोकौ - मदकल-कलकण्ठी-कन्धरानर्गलोद्यत्- कलकल-रव-पूरैः पोषयन् पञ्चबाणम् । घट-भव-गिरि-जातो वात-पोतोऽभियात- स्तपति विरहि-चेतो मार-सेनाधि-नेता ॥ श्लो. ११॥ (मालिनी - १५) उत्फुल्लन्-नव-मल्लिका-परिमलोद्गार-प्रियम्भावुक- श्रीखण्डाचल-वात-धूत-विकसच्चाम्पेय-भूमी-रुहाः । भृङ्गालिङ्गित-भृङ्ग-झङ्कृति-महा-हुङ्कार-सन्तर्जितैः नीयन्ते कथमप्यमी विरहिभिर्वासन्तिकाः वासराः ॥ श्लो. १२॥ (शार्दूल-विक्रीडितं - १९)

अष्टपदी - ४

श्लोकः - स्वसेवनायात-सुपर्व-यौवत- प्रसाधनाभ्यर्हित-रामणीयकम् । कुमार-माराम-गतं स्मरन्त्यसौ सखी बभाषे पुनरेव वल्लिकाम् ॥ श्लो. १३॥ (वंश-स्थविलं - १२) अष्टपदी - ४ (रामक्रिया रागे, आदि ताले गीयते) कुण्डल-मण्डित-गण्ड-तलाञ्चित-षण्मुख-पङ्कज-शाली । सान्ध्य-पयोद-तटिद्-भ्रमदायि-क्रोडक-नवमणि-माली ॥ १॥ पल्लवी गुह इह खेलति केलि-परे । विबुध-विलास-वधू-निकरे ॥ गायति काचन सुन्दर-वीणा-गुण-रणनोद्यत-हस्ता । तोयज-वदना कोकिल-कूजित-हुङ्कृति-करणे शस्ता ॥ २॥ नृत्यति काचन चलमणि-हारं ललित-विहार-मुदारम् । नित्यमुदं परितोषयितुं गुह-मकृतक-वाणी-सारम् ॥ ३॥ काचन परिमल-पूरित-दश-दिश-मृग-मद-मङ्गज-लोला । स्पर्श-सुखानुबुभूषुरकार्षी-दधि-निटिलं सुरबाला ॥ ४॥ काचन मलयज-पङ्क-विलेपन-कैतवतो गुह-गात्रम् । हृषित-तनूरुह-मास्पृशति स्वय-मङ्गज-पौरुष-पात्रम् ॥ ५॥ बाहु-युगेन मृदङ्ग-वरं परिरभ्य मुदाऽऽशयमेका । वादन-नर्तित-वाह-मयूरं व्यञ्जयति स्वमभीका ॥ ६॥ केचन युवति-जना विलसन्-मणि-नूपुर-नाद-मखेदम् । विदधति मण्डल-लास्य-विलासं स-वलय-करतल-वादम् ॥ ७॥ काचन हृष्यति काचन खिद्यति काचन लिखति पृथिव्याम् । काचन लज्जित-वदना तिष्ठति हसति च काचिदटव्याम् ॥ ८॥ विश्वनाथ-कवि-भाषित-मिदमपि कलयतु कुशलमशेषम् । कलित-ललित-पुरशासन-सूनोः स्वैर-विलास-विशेषम् ॥ ९॥ श्लोकाः - सर्वानन्दन इन्दु-सुन्दर-मुखः कान्ता-मुपान्त-स्थितां पश्यन् सस्मित-मप्सरः-कुलमपि स्वच्छन्द-लीलाकुलम् । आनन्दाम्बुधि-मग्न-चेतनमयं कुर्वन्नपाङ्गेक्षणैः भद्रं कन्दलयत्वमन्द-मनिशं चन्द्रार्ध-भृन्-नन्दनः ॥ श्लो. १४॥ (शार्दूल-विक्रीडितं - १९) कङ्केली-प्रसवाभि-भूषित-वपुः कञ्जेक्षणालिङ्गितः कण्ठेकाल-सुतः कनत्-कुरबकाम्भोज-स्रगुद्भासितः । काश्मीर-द्रव-सिक्त-चन्दन-रसालिप्तो विदध्याच्छुभं कन्दर्पायुत-कोटि-कान्ति-रनिशं श‍ृङ्गार-सम्राडसौ ॥ श्लो. १५॥ (शार्दूल-विक्रीडितं - १९) कल्याणाचल-कार्मुकाचल-शिला-बाभास्यमानः स्मरत्- सन्तापापह-चित्र-बन्धन-लसत्-स्कन्दाचलारामकः । पाया-दस्खलितात्मशक्ति-रनिशं शक्तिं कराब्जे वहन् स्निग्धाखण्डल-नन्दना-सहचरः सामोद-सोमोदयः ॥ श्लो. १६॥ (शार्दूल-विक्रीडितं - १९) इति श्री-विश्वनाथ-कृतौ गीत-गाङ्गेय-काव्ये सामोद-सोमोदयो नाम प्रथमःसर्गः ।

अष्टपदी - ५

श्लोकः - श्रुत्वा स्वीय-सखी-वचो वनचरी कृच्छ्रेण शय्या-तलात् उत्थायातनु-ताप-वेपित-तनुः निश्वास-पर्याकुला । विश्वस्यात्म-सखीं सगद्गदमिदं बाष्पायमाणाऽब्रवीत् विश्वाधीश-गजास्य-सोदर-महा-लावण्य-कृष्टान्तरा ॥ श्लो. १७॥ (शार्दूल-विक्रीडितं - १९) अष्टपदी ५ (तोडी रागे, आदि ताले गीयते) कुञ्जर-वदन-सहोदर-माश्रित-जन-परिपालन-धीरम् । मधुपैः सम्भृत-मञ्जु-मधूद्भव-पुष्प-विचित्रित-हारम् ॥ १॥ पल्लवी शैले गुहमिह कलित-विहारम् । सखि कलये हृदि गिरिश-कुमारम् ॥ मेचक-राजित-मेचकि-तल्लज-वाहन-मात्त-शरासम् । हसित-पचेलिम-बिम्ब-फलाधर-सङ्क्रमणाञ्चित-हासम् ॥ २॥ किङ्किणि-सङ्गि-शुकोदर-सोदर-मणि-घटिताङ्गिक-भाजम् । कीर-मुखाकृति-नख-मुख-शीलित-वलरिपुजोद्य-दुरोजम् ॥ ३॥ अधर-तलाहित-सुमधुर-वैणव-राव-वशीकृत-लोकम् । केतु-समुज्ज्वल-तम-चरणायुध-बोधित-वैबुध-लोकम् ॥ ४॥ पञ्चशराकृति-वञ्चन-दीक्षित-विग्रह-कान्ति-मनोज्ञम् । वारण-वदन-सुरारि-कलेवर-दारण-लब्ध-समज्ञम् ॥ ५॥ काञ्चन-तन्तु-विनिर्मित-चेल-विभासुर-नैज-वलग्नम् । परम-दयालुतया लघु-तारित-संसृति-सागर-मग्नम् ॥ ६॥ श्रुति-पुट-मूल-गताति-कृपा-रस-सार्द्र-विलोचन-कञ्जम् । वैणिक-मुनिवर-वीणा-वर्णित-सङ्गत-शुभगुण-पुञ्जम् ॥ ७॥ मुखरित-हाटक-कल्पित-काञ्ची-परिहित-कटि-गत-चेलम् । मणि-मकुटी-परिरञ्जित-शीर्षं दैवत-सैनिक-पालम् ॥ ८॥ विश्वनाथ-कवि-भणितमिदं गुह-मोदकरं सुविकासम् । भजतु सदैव कुमार-गुणावलि-वर्णन-तत्त्व-विलासम् ॥ ९॥

अष्टपदी - ६

श्लोकः - प्रतपति सदा कामे का मे गतिः भविताऽधुना ? दहति पवनश्चेतो नेतोऽस्त्युपाय उदासितुम् । विहरति निजारामं कामं गतेऽपि शिवात्मजे सखि मम मनो मानं नूनं जहाति करोमि किं ? ॥ श्लो. १८॥ (हरिणी - १८) अष्टपदी ६ (काम्भोजी रागे, त्रिपुट ताले गीयते) विरचित-कङ्कु-वनावनया कृत-तरुण-वनेचर-वेषम् । द्रावित-शुक-पिक-शारिकया धृत-पटु-मृगया-परितोषम् ॥ १॥ पल्लवी सहसा सङ्गमय सखि शूरम् । नव-नव-कौसुमशर-शर-वेदनयाऽद्य मया सुकुमारम् ॥ सरभस-वेपित-मानसया बहु-सरस-कथा-विशदेहम् । शबर-वरागति-सव्यथया श्रित-ललित-तमासन-देहम् ॥ २॥ जनक-प्रतिगति-हर्षितया परिधृत-युव-तल्लज-रूपम् । तत्-पुनरागमनाकुलया धृत-भृश-जरठ-द्विज-रूपम् ॥ ३॥ काङ्कव-सक्तु-मधु-प्रदया निज-सलिल-तृषं कथयन्तम् । कुमरी-सरसीं सहगतया स्मर-वचन-भरं विकिरन्तम् ॥ ४॥ प्रयतन-शतकेनावशया परिदर्शित-गज-हेरम्बम् । भय-भर-कलितालिङ्गनया दर-हसितं विहितालम्बम् ॥ ५॥ गतवति करिणि विसाध्वसया स्वय-मभिदर्शित-निज-मूर्तिम् । मर्षण-वचन-परायणया मधुरस-भाषण-दलितार्तिम् ॥ ६॥ विशदित-मन्मथ-विक्रियया रह आशु नयन्तं कुञ्जम् । लज्जित-मुकुलित-लोचनया रद-पट-जुष-मधि-सुम-मञ्चम् ॥ ७॥ पुलकित-चुम्बित-विग्रहया बहुविध-सुरत-भवानन्दम् । प्रमद-रसामृत-पूरितया स्फुट-हित-सरस-वचो-वृन्दम् ॥ ८॥ विश्वनाथ-कवि-गीतमिदं शरवणभव-गुण-परिपूर्णम् । शिथिलित-दुरित-गणं सततं भुवि जयतु सदा शुभ-वर्णम् ॥ ९॥ श्लोकाः - स्वच्छं गुच्छ-समुन्मिषत्-सुमभरं माध्वी-समास्वादना- श्रान्त-भ्रान्त-मधुव्रताञ्चित-शिखं क्रूरं प्रवीरः स्मरः । मल्ली-वल्लि-जुषं विषाङ्कित-शरच्छायं हरिण्यामिव ग्राहं ग्राहमहो मयि प्रकुरुते शार्दूल-विक्रीडितम् ॥ श्लो. १९॥ (शार्दूल-विक्रीडितं - १९) परीपाकोद्रेकात् परिमल-भृतानां सुमनसां परागैर्मालत्या वियदनवकाशं विरचयन् । उदर्कस्थागस्त्यव्रति-शिखरिणीतागरु-खुरैः समुत्पन्नः स्वान्तं श्वसन इह सीमन्तयति मे ॥ श्लो. २०॥ (शिखरिणी - १७) स्वाहा-वल्लभ-भाग्य-पार-महिमा नीहार-शैलात्मजा- स्नेहालोकित-रामणीयक-वपुः बाहा-गृहीतेन्द्रभूः । मोहान्धासुर-मर्दनैक-निरतो वाहायिताजाधिपो माहादेव-मनो-विनोदन-पटुस्त्वीहां प्रभुः पूरयेत् ॥ श्लो. २१॥ (शार्दूल-विक्रीडितं - १९) पातु शक्त्यायुधोऽक्लेशो लीला-लालस-मानसः । वल्ली-मनः-पयोजन्म-विकासन-दिवाकरः ॥ श्लो. २२॥ (अनुष्टुभ् - ८) इति श्रीविश्वनाथ-कविकृतौ गीत-गाङ्गेय-काव्ये अक्लेश-शक्त्यायुधो नाम द्वितीयः सर्गः ।

अष्टपदी - ७

श्लोकाः - सुकुमारः कुमारोऽपि मान्यां व्याधेश-कन्यकाम् । अनन्य-मानसां स्मृत्वा कैतवान्-निर्ययौ गिरेः ॥ श्लो. २३॥ (अनुष्टुभ् - ८) वनेचराधीश-सुतां स्मरार्दितो वने सनीडे लवली-महीभृतः । गवेषयंस्ता-मविलोकयन् गुहो निषद्य कुञ्जे निभृतं व्यचीचरत् ॥ श्लो. २४॥ (वंश-स्थविलं - १२) अत्रैव सा प्राण-समा समागता विलम्बनेन प्रकटापराधिनम् । सखी-वृता कुत्र गता विहाय मां, विलोकिता चेद्-विदधीय सान्त्वनाम् ॥ श्लो. २५॥ ((उपजाति - १२) अष्टपदी - ७ (भूपाल रागे, चापु ताले गीयते) नायिका क्व गता प्रतीक्ष्य चिराय मां मदनेन । बाधिता कुपितेव सेति न निर्णये हृदयेन ॥ १॥ शिव शिव विलोचन-पथे । तां कथं करवाणि ॥ शिव शिव ॥ संस्मरामि तदीयमास्य-मलङ्कृतं चिकुरेण । सारसं चलितालिनामिव मण्डितं निकरेण ॥ २॥ सा सहेत रुजं कृशा कथमर्पितां विरहेण । अब्जिनीव मदाकुलस्य मतङ्गजस्य करेण ॥ ३॥ चिन्तयामि तदोष्ठ-मद्य ममार्दितं रदनेन । कोमलं नव-चूत-पत्रमिव क्षतं विहगेन ॥ ४॥ किं ब्रवीति किमीक्षते बहुलाश्रुमन्-नयनेन । किं दधाति हृदि प्रिया मम वञ्चिता स्वजनेन ॥ ५॥ सापराधमिमं जनं किमु वीक्ष्य सा सदयेन । लोकनेन भवेद् रुषा-रहिता ममानुनयेन ॥ ६॥ मामुदीक्ष्य वदेदियं मम तापदोऽसि धवेति तां समीक्ष्य कथेयमेव तदुत्तरं सविनीति ॥ ७॥ कोमलाङ्गि रुषं विहाय पुरो ममाशु विभाहि । काम-तान्त-मिदं मनः कुरु मोद-पूर-वगाहि ॥ ८॥ विश्वनाथ-कवेरिदं वच आदधातु फलेन । श्रीशिवात्मज-तोषदायि शुभं नृणां पठनेन ॥ ९॥ श्लोकौ - तापं मा कुरु माधवात्मज वृथा चेष्टां विमुञ्चाधुना त्रैलोक्यैक-धनुर्धर त्वदनुजैवास्तेऽन्तरङ्गे मम । दीने तद्विरहानलार्त-वपुषा सङ्गेन शङ्काकुले किन्नु स्यात् सहजा-धवे प्रयतनं युष्मादृशां साम्प्रतम् ॥ श्लो. २६॥ (शार्दूल-विक्रीडितं -१९) स्वैराधीर-वियोग-सञ्ज्वर-वचो-व्याहारकृत् कानने सङ्कल्पाधिगत-प्रिया-तनु-परीरम्भ-प्रसज्जत्करः । वल्ली-लालस-मानसः तदुचितं भूषा-विशेषं वहन् भव्यं नः सुकुमार एष कुरुता-माद्यः कुमारः सदा ॥ श्लो. २७॥ (शार्दूल-विक्रीडितं -१९) इति श्रीविश्वनाथ-कविकृतौ गीत-गाङ्गेय-काव्ये सुकुमार-कुमारो नाम तृतीयः सर्गः ।

अष्टपदी - ८

श्लोकः - उपाद्रि-कुञ्ज-निलयं बहुलानन्द-वर्धनम् । वल्ली-वयस्या वासन्ती वाचमूचे सगद्गदम् ॥ श्लो. २८॥ (अनुष्टुभ् - ८) अष्टपदी - ८ (सौराष्ट्र रागे, आदि ताले गीयते) कोकिल-काकलिकामपि कलयति कर्ण-पुटेऽति-कठोरम् । दर्पक-भट-कुल-वीर-वचन-तति-मिव विशदित-मद-सारम् ॥ पल्लवी तापमिता तव जाया श्रीगुह । शबर-नृपति तनया स्मर-वेदनया दयनीया ॥ स्वानुभवेन कला-भृत-मतुहिन-कर-महरीश-समानं निश्चिनुते कारण-गुण-सङ्क्रम-नय-मपि कुरुते मानम् ॥ २॥ मनसि करोति पटीर-महीध्र-समीर-किशोर-विहारम् । पितृपति-हरिदधि-गमन-वशादिव दुःसह-वैशस-घोरम् ॥ ३॥ हृदय-कुहर-निलयस्य सुमायुध-बाण-पथादवनं ते । स्थगयति हृदयं कलयितु-मसकृत् कर-युगतः सदनं ते ॥ ४॥ चित्र-पटे प्रविलिख्य भवन्तं काङ्क्षित-वत्यनुनेतुम् । लेखन-वस्तु परमपि सकम्पा नाशकदेव ग्रहीतुम् ॥ ५॥ धरति तनौ स्मर-गद-युजि नीरस-कीर्ण-कुसुमशर-जालम् । मेचक-दृगिव वियोगि-मृगान्तक-मदन-वनेचर-जालम् ॥ ६॥ कलयति शैत्योपचरण-मपि बहु-परिजन-कलित-मपार्थम् । वेदि-गतानल- विहितमिव घृतं ताप-सुपोष-समर्थम् ॥ ७॥ ध्यायति नन्दति पश्यति मूर्छति सीदति गायति शेते । श्वसिति स्विद्यति झटिति धवेति च निगदति बाष्पं सूते ॥ ८॥ विश्वनाथ-कवि-भाषित-मिदमपि गुहपर-तर-कमनीयम् । गुह-विरहार्दित-वनचर-दुहितृ-सखी-वच आदरणीयम् ॥ ९॥

अष्टपदी - ९

श्लोकः - प्रसून-शयनीय-मप्यतनु-बाण-तल्पायते पटीरज-रजोऽङ्गजानल-चलत्-स्फुलिङ्गायते । युगान्त-मिहिरायते तनुभुवः शशी षट्पद- ध्वनिश्च कुलिशायते विपिनचारि-पृथ्वीशितुः ॥ श्लो. २९॥ (पृथ्वी - १७) अष्टपदी - ९ (बिलहरि अथवा देशाक्षि रागे, त्रिपुट ताले गीयते) करतल-गतमपि हल्लक-सूनम् । सा तनुते कुवलयमिव दूनम् ॥ १॥ पल्लवी वल्लिका तव विरहे हे गुह । उपहृत-बिस-लतिकामनु-मत्या । विषधर-तनुमिव पश्यति भीत्या ॥ २॥ कृत-मलयज-रस-लेपन-दास्याम् । रचयति दुःख-चयां स्व-वयस्याम् ॥ ३॥ कुच-घट-तट-धृत-मौक्तिक-मालाम् । कुरुतेऽसितमणि-युजमिव नीलाम् ॥ ४॥ व्यथयति परिजन-मुप-तनु-वासम् । श्वसित-समीरण-जनित-निरासम् ॥ ५॥ क्वचिदभि-तिष्ठति मलय-समीरम् । विरहि-युगानल-मरसा धीरम् ॥ ६॥ कुञ्जग-मञ्जुल-मधुकर-नादम् । निर्णयते गुरु-मशनि-निनादम् ॥ ७॥ प्रतिकल-मञ्जलि-कृदधि-निटालम् । वदति गुहेति सबाष्प-कपोलम् ॥ ८॥ विश्वनाथ-कवि-विरचित-गीतम् । भवतु सुखाय नृणा-मविगीतम् ॥ ९॥ श्लोकाः - शेते तिष्ठति याति च प्रलपति भ्राम्यत्यभि-ध्यायति प्रोन्मीलत्यभिधावति प्रजपति ह्युत्तिष्ठति स्रंसते । दीर्घं निःश्वसिति क्षणेन हसति कृश्यत्यनङ्ग-ज्वरे तत्तादृश्यपि जीवति त्वयि रसात् तां पाहि देव द्रुतम् ॥ श्लो. ३०॥ (शार्दूल-विक्रीडितं - १९) दूरोदञ्चित-पञ्चशाख-मखभुक्-सन्दोह-सम्प्रार्थना- साफल्याय शिताग्र-शक्ति-दलित-क्रौञ्चाचलादेः प्रभोः । संसक्तेन्द्र-सुता-पयोधर-तटी-काश्मीरजाङ्गस्य ते सानन्दस्य शुभाय सन्त्विह महासेनस्य दृष्ट्यञ्चलाः ॥ श्लो. ३१॥ (शार्दूल-विक्रीडितं - १९) इति श्री-विश्वनाथ-कृतौ गीत-गाङ्गेय-काव्ये सानन्द-महासेनो नाम चतुर्थः सर्गः ।

अष्टपदी - १०

श्लोकः - इह गिरि-निकटे करोमि वासं, द्रुत-तर-मानयने यतस्व तस्याः । इति गुह-कथितं निशम्य वाक्यं, सविनय-मेत्य सखी जगाद वल्लीम् ॥ श्लो. ३२॥ (पुष्पिताग्रा १२/१३) अष्टपदी - १० (आनन्दभैरवी रागे, आदि ताले गीयते) क्वणति मधुरनिधाने पिक इह रुजमेति । चलति विरहि-कदने मरुति स शुच-मुपयाति ॥ १॥ पल्लवी तव कमनो विरही ते । सखि सीदति वल्लि ॥ हसति वकुल-कलापे धृतिमति विजहाति । रणति समद-मधुपे रजसि भुज-मुपदधाति ॥ २॥ लसति कुमुद-सहाये सति वसति निलीय । कनति कुरबक-चये विरमति गिर-मभिधाय ॥ ३॥ वसति गहन-कुटीरे परिजन-मपहाय । श्वसिति विमल-मुकुरे प्रतिकृति-मलघु विधाय ॥ ४॥ वदति सुविश्वनाथे मृड-सुत-भजनाय । मनसि कृत-शुभ-कथे गुह उदयतु कुशलाय ॥ ५॥

अष्टपदी - ११

श्लोकः - पूर्वं यत्र सह त्वया सुमशरो देवेन सिद्धार्थितः तत्र त्वच्छयनासने परिमृशन् साश्रं बहु व्याहरन् । ध्यायं ध्यायमपि त्वदीय-वदनं नामापि सङ्कीर्तयन् स्तब्धस्त्वद्-रदनच्छदामृत-रसास्वादं गुहो वाञ्छति ॥ श्लो. ३३॥ (शार्दूल-विक्रीडितं - १९) अष्टपदी - ११ (केदार गौल रागे, आदि ताले गीयते) मलयज-वाते स्वयमुपयाते सरभस-मञ्जलि-कारी । पृच्छति कुशलं तावकमखिलं सर्वग-ममु-मभिसारी ॥ १॥ पल्लवी शैल-सनीडे कुसुमापीडे निवसति वीरुधगारे । अर्धेन्दीवर-बान्धव-शेखर-नन्दन इत सहकारे ॥ गूहति कर्णं प्रसृजति तूर्णं स्मर-गुण-शिञ्जित-भेदे । पतदपि पर्णं शिरसि न कीर्णं बुध्यति विसरति खेदे ॥ २॥ मरुदुपनीतं चम्पक-चूतं विकच-सुमौघ-मजस्रम् । मत्वाऽऽनङ्गी-मानल-भङ्गी-मम्मय-मसृज-दिवास्रम् ॥ ३॥ चन्दन-सारं सघुसृण-नीरं गोपयितुं सितिमानम् । अभिद्रुत-मङ्गे प्रसरदनङ्गे धरति श्रमजल-लीनम् ॥ ४॥ निनदति हंसे कमल-वतंसे त्वदभिगति-धिया शङ्के । सज्जति भवतीं वरतनु सुदतीं दृढ-मुपगूहितुमङ्के ॥ ५॥ पल्लव-तल्पं पावक-कल्पं भवति विभोरिति मन्ये । ग्लपित-शरीरादतनु-विकाराद्-वनचर-नायक-कन्ये ॥ ६॥ मा कुरु शोकं तनु तमशोकं सफलयितुं झष-केतुम् । न कुरु विलम्बं मुख-शशि-बिम्बं सहसित-मेहि विधातुम् ॥ ७॥ स्मर-कृत-ताडे बहु-विध-पीडे भगवति हे सखि रोषम् । न कलय भामिनि विहर विलासिनि श‍ृणु वचनं हतरोषम् ॥ ८॥ विश्वनाथ-कवि-भणितमिदं भुवि सुखयतु गायक-जातम् । जगदधि-पालन-कृत-गुह-खेलन-वर्णन-तत्पर-गीतम् ॥ ९॥ श्लोकाः - चकित-हरिणी-दृष्टे पिष्टे न युक्त-मुदासनं सरभस-मुपेत्यैतं शीतं दृढं परिरम्भणात् । अतनु-विशिख-ज्वाला-दोलायितं कुरु साम्प्रतं हृदय-दयित-प्रेम स्थेमान-मेत्वविलम्बितम् ॥ श्लो. ३४॥ (हरिणी - १७) कुञ्जाद्याति बहिः क्षणं मृगयति त्वत्पाद-मुद्रां वने पत्रे पत्रिणि वा पतत्यपि चलत्याशङ्क्य तेऽभ्यागतिम् । प्रत्यायाति निविश्य कुञ्ज-कुहरं शय्यां स आलोकते त्वय्यासक्त-मनाः सखीति लपति प्राणप्रिये स्वागतम् ॥ श्लो. ३५॥ (शार्दूल-विक्रीडितं - १९) वल्ल्या भिल्ल-कुलाधिनायक-तपः-प्राग्भार-सीमा-भुवो लीलोल्लोल-तराल-कुन्तल-भर-ग्राहेऽतिवाहे तनोः । वीक्षाया-मुपगूहने तदधरास्वादे तया भाषणे सोत्कण्ठः शितिकण्ठजो विदधतां क्षेमान्निकामं स मे ॥ श्लो. ३६॥ (शार्दूल-विक्रीडितं - १९) इति श्री-विश्वनाथ-कृतौ गीत-गाङ्गेय-काव्ये अभिसारिका-वर्णने सोत्कण्ठ-शितिकण्ठजो नाम पञ्चमःसर्गः ।

अष्टपदी - १२

श्लोकः - अथ कुच-जघन-महिम्ना देह-तनिम्ना सखी सहाया ताम् । स्खलित-पदां पथि वल्लीं निवेश्य मल्ली-गृहे गुहं प्राह ॥ श्लो. ३७॥ (आर्या - १२-१८ ) अष्टपदी - १२ (शङ्कराभरण रागे, चापु ताले गीयते) इच्छति तव परिरम्भण-मेषा । विरह-महागद-कृत-तनु-शोषा ॥ १॥ पल्लवी लोकपते सर्व-लोकपते । श्राम्यति वल्ली कुञ्ज-गृहे ॥ जपति सततमपि भवदभिधानम् । विकिरति नयनज-जलमतिमानम् ॥ २॥ मनसिज-कल्पित-मत्रभवन्तम् । पश्यति सकल-दिशासु वसन्तम् ॥ ३॥ कथ-मभिसरति न तदनु वयस्ये । शरवण-भव इति वदति रहस्ये ॥ ४॥ खग-गति-शङ्कित-भवदभि-गमना । परिहित-शिथिलित-कृश-कटि-वसना ॥ ५॥ पेशल-किसलय-कृत-कर-वलया । श्वसिति भवति विरचित-हृदय-लया ॥ ६॥ भवदभिसरणामित-रस-लग्ना । पदि पदि निपतति वलदवलग्ना ॥ ७॥ मुह्यति करतल-शयित-कपोला । स्निह्यति हृष्यति वनचर-बाला ॥ ८॥ विश्वनाथ-कवि-गिर-मनुवारम् । पठत नमत शशि-मकुट-कुमारम् ॥ ९॥ श्लोकाः - अलमधिक-विलम्बेनाभिसर्तुं यतेथाः सफलय तव चेतो-वल्लभाया अभीष्टम् । विरह-विकल-पादा साऽभिसारेप्यशक्ता वसति विरचयन्ती बाष्प-सार्द्रं निकुञ्जम् ॥ श्लो. ३८॥ (मालिनी - १५) आगच्छेन्-मम चित्तबन्धुरचिरा-दानन्दयेन्-निर्भरं कृत्वाऽऽश्लेष-मथाधरं ननु पिबेद्रोमाञ्चयेद्-विग्रहम् । इत्याकल्पित-कल्पना-शत-पथे निःशङ्क-गच्छन्-मतिं तां बालां परिपालयेः करुणया दीनानुकम्पिन् प्रभो ॥ श्लो. ३९॥ (शार्दूल-विक्रीडितं - १९) ईप्सन्ती भवदागमं मम सखी सज्जी-करोत्यञ्जसा शय्यां सूनमयीं व्यपोहति रजो वस्त्राञ्चलेन क्षणात् । आकल्पं कुरुते नवं नवमपीत्युक्तिं निशम्यादरात् धन्यो मोद-युतोऽस्तु मे सपदि सुब्रह्मण्य आनन्ददः ॥ श्लो. ४०॥ (शार्दूल-विक्रीडितं - १९) इति श्री-विश्वनाथ-कृतौ गीत-गाङ्गेय-काव्ये वासक-सज्जिका-वर्णने धन्य-सुब्रह्मण्यो नाम षष्ठः सर्गः ।

अष्टपदी - १३

श्लोकौ - चन्द्रस्तमोऽच्छतनु-राशु करैर्निपीतं कुक्षौ कलङ्क-कपटेन वहंस्तदानीम् । खेदानलं विरहिणामपि मार-साह्यात् संवर्धयन् जलधिना सममाविरासीत् ॥ श्लो. ४१॥ (वसन्ततिलकं -१४) उदयति कुवलय-बन्धौ मानस-बन्धौ च नागते वल्ली । मुञ्चन्त्यविरत-मस्रं व्यलपदजस्रं विमुक्त-कण्ठं सा ॥ श्लो. ४२॥ (आर्या - १२,१८) अष्टपदी १३ (आहिरी रागे, झम्प ताले गीयते) झटिति गुह आगमन-शपथ-शत-भाषणम् । वितथयति विफलयति मामक-विभूषणम् ॥ १॥ पल्लवी किं ब्रुवे विषम-विरहं -सहे कथमति-विलोभिता ॥ विषमगुण-विषमशर-योधपति-खेटके । भवति शश-भृति क इह शरण-मवसादके ॥ २॥ कुलज-मृगदृ-गनुचित-मभिसरण-माश्रयम् । अनुभवति तदिह मम हृद-तनु-शरामयम् ॥ ३॥ ललित-सुम-शयनमपि मम कर-तलास्तृतम् । विरचयति मनसिज-विषाद-मति-विस्तृतम् ॥ ४॥ रहसि मम कुञ्ज-गृह-वसति-रिह मामिका । प्रियतम-पराङ्मुखतया दलित-कौतुका ॥ ५॥ आयत-निनाद-कर-कोक-युवती त्वियम् । अनुनयति मामिव सखी सकरुणोदयम् ॥ ६॥ अहह बहु सीदामि कमलिनीवाधुना । मदितरोत्पलिनीव तुष्यति स्वामिना ॥ ७॥ अदयमिह यदि स इति भजति रस-भञ्जनम् । प्रथममति तेन किमु कलित-मनुरञ्जनम् ॥ ८॥ कवि-विश्वनाथ-कलितेय-मति-कोमला । मोदयतु रसिकमिह कृतिरमित-मङ्गळा ॥ ९॥ श्लोकः - तत् किं स्वीय-जनावृतः किमु सखी नावैक्षत स्वामिनं किं पादाम्बुज-सक्त-भक्त-जनताभीष्ट-प्रदाने रतः । किं वा भाग्यजुषा रहः सुवपुषा जुष्टोऽन्यया योषया मामन्विष्य चरत्ययं किमु वने कुञ्जं स यन्नागतः ॥ श्लो. ४३॥ (शार्दूल-विक्रीडितम्)

अष्टपदी - १४

श्लोकः - गतां गुहाभ्यर्ण-मुपागतां तां सखी-मथ प्राण-धवादृते सा । दृष्ट्वा विषण्णां परिशङ्क्य देवं सक्तं कयाचिद्-विरहिण्यथाऽऽह ॥ श्लो. ४४॥ (उपजाति - ११) अष्टपदी १४ (सारङ्ग रागे, चापु ताले गीयते) मृग-मद-बिन्दु-परिष्कृत-फाला । कच-धृत-विकसित-विचकिल-माला ॥ १॥ पल्लवी काऽपि गिरिश-भुवा । विहरति नलिन-दृगभिनवा ॥ पति-विलिखित-मकरिक-कुच-कलशा । चपल-कलेवर-चल-वसन-दशा ॥ २॥ श्रमजल-लेश-करम्बित-वदना । धव-मृदु-पाणिज-शिथिलित-रशना ॥ ३॥ सत्रप-मुकुलित-नयन-कुवलया । सरभस-चञ्चल-करमणि-वलया ॥ ४॥ गुह-परिरम्भ-सपुलक-शरीरा । कुसुम-शरासन-विग्रह-धीरा ॥ ५॥ विगलित-कुन्तल-सुमभृत-मञ्चा । सफलित-सृष्टि-विधायि-विरिञ्चा ॥ ६॥ शीत्कृति-कर-रदनपट-युग-धरा । दरहस-सूचित-निज-सुख-विसरा ॥ ७॥ मणित-रणित-परिपोषित-मारा । कलकल-रव-रशन-जघन-भारा ॥ ८॥ विश्वनाथ-कवि-भणित-मविरतम् । गुह-रसिकं कलयतु सुख-भरितम् ॥ ९॥ श्लोकः - कुमुद-बन्धुर-बन्धुरहो मम स्व-महसा मह-साधन-पण्डितः । कुसुम-मार्गण-मार्गणवत् करानलघयन् लघयन् मन एधते ॥ श्लो. ४५॥ (द्रुत-विलम्बितं - १२)

अष्टपदी - १५

श्लोकौ - अत्रान्तरे दैवत-राज-पुत्रीं श्यामामुदूढां शशि-मौलि-सूनुः । वल्ली-मभाणीत् प्रतिपालयन्तीं स्मृत्वा जगामेति सखी सशोकम् ॥ श्लो. ४६॥ (उपजाति - ११) निशम्य वचनं वल्ली वयस्या-वदन-च्युतम् । सबाष्पं विललापोच्चैः दृष्ट्वैव गुह-चेष्टितम् ॥ श्लो. ४७॥ (अनुष्टुभ् - ८) अष्टपदी - १५ (सावेरी रागे, चापु ताले गीयते) उपमित-मुदिरे तरुणी-चिकुरे कर्षण-शिथिली-कृते । रचयति मसृणं सुरभि सघुसृणं तटिदुपमित-मायते ॥ १॥ पल्लवी कुरुते विहृतिं निजभवने । शरजो विहार-विपिने ॥ स दशन-वसने बहुरस-सदने सुघटित-मदनाहवे । स्फुट-सुम-मृदुलं रद-पद-पटलं विकिरति मधुरास्रवे ॥ २॥ लुलित-कचभरे सुमशर-मुकुरे सुललित-मति कोमले । वितरति तिलकं सहसित-मधिकं पुलकित-गण्डस्थले ॥ ३॥ घन-जघन-तटे गलित-चल-पटे कलकल-रव-मेखले । घटयति वसनं सुरुचिर-रचनं ललित-पुलिन-मञ्जुले ॥ ४॥ कुच-कलश-युगे गिरिवर-सुभगे झरमिव मदनावहे । विमल-मणिसरं सरभस-मधुरं कलयति कमला-गृहे ॥ ५॥ जित-बिस-कुसुमे हिम-किरण-समे सगुणमिव मुखे नते । श्रमजल-निचयं स्वनयन-विषयं प्रविदधदतिमोदते ॥ ६॥ कमल-वदरुणे ललना-चरणे गति-कृत-वरटा-जये । स्थिरयति वितुलं नूपुर-युगलं विदलित-मदनामये ॥ ७॥ सखि मम विजने स्थितमिह गहने मद-गजमुख-सोदरे । सुरपति-कन्यां रमयति धन्यां विफलमिद-मनादरे ॥ ८॥ शरभव-शरणे कथित-गुणगणे श्रीकवि-विश्वनाथे । कथयति सरलं सहृदय-हृदयं सरतु सुरबल-नाथे ॥ ९॥

अष्टपदी - १६

श्लोकः - मा तापं भज हे सखि ! प्रियतमो नायात इत्याशये सोऽयं नन्दतु मां प्रतार्य महिला-मन्यां गृहीत्वा शठः । वातो वातु दरो विराजतु मधुश्रीः कोकिलः कूजतु प्रद्युम्नो मुदमेतु गच्छतु मम स्वान्तं मुखेन्दुं प्रभोः ॥ श्लो. ४८॥ (शार्दूल-विक्रीडितं - १९) अष्टपदी - १६ (पुन्नागवराली रागे, आदि ताले गीयते) मनसिज-मदहर-रुचि-भरितेन । श्रयति न सा शुच-मलि-विरुतेन ॥ १॥ पल्लवी या सहिता शिव-सूनुना सखि । श्रुतिपथ-परिसर-सर-नयनेन । भजति न सा रुजमुडु-कमनेन ॥ २॥ छविधुत-हिमकर-मुख-कमलेन । श्वसिति न सा कुरवक-मुकुलेन ॥ ३॥ धृत-बहुविध-मणि-मुकुट-वरेण । लुठति न सा पिक-रणित-भरेण ॥ ४॥ अरुण-किरण-निभ-मृदु-वसनेन । ज्वलति न सा विहरण-विपिनेन ॥ ५॥ किसलय-सहचर-कर-युगलेन । वहति न सा श्रमभर-मनिलेन ॥ ६॥ भ्रमरित-सुर-कच-पद-जलजेन । द्रवति न सा कठिन-हृदयजेन ॥ ७॥ रस-जित-सुध-मृदु-तम-वचनेन । दलति न सा सुम-तति-शयनेन ॥ ८॥ विश्वनाथ-कवि-कृत-रचनेन । गुह इह विशतु सहृदय-मनेन ॥ ९॥ श्लोकौ - मन्दानिल त्वं मदनान्तकात्मज- च्छात्राद्रि-जातोऽसि न साम्प्रतं तव । मित्रत्व-माश्रित्य मनोभुवो मयि क्लेश-प्रदानं गुह-गामि-चेतसि ॥ श्लो. ४९॥ (इन्द्रवंशं - १२) वल्ली शोच्यतमां गताद्य विपिनेऽवस्था-मतन्वातपात् प्रम्लान-प्रसवाऽनवाप्य लुठति स्थाण्वङ्गजाश्लेषणम् । पात्वाकर्ण्य सुरर्षि-भाषितमिदं पौरन्दरीं वञ्चयन् बालां नागरिको ब्रुवन् वनलतां रक्षेति सेनापतिः ॥ श्लो. ५०॥ (शार्दूल-विक्रीडितं - १९) इति श्रीविश्वनाथकवि-कृतौ श्रीगीतगाङ्गेय-काव्ये विप्रलब्धा-वर्णने नागरिक-सेनापतिर्नाम सप्तमः सर्गः ।

अष्टपदी - १७

श्लोकः - कथमपि रजनीमथ व्यतीत्य स्मर-दलिताऽपि पुरोगतं निशान्ते । गुह-मनुनय-कारिणं निरीक्ष्य प्रणय-रुषा स्फुरदोष्ठ-माह वल्ली ॥ श्लो. ५१॥ (पुष्पिताग्रा - १२,१३) अष्टपदी - १७ (आरभि रागे आदि ताले गीयते) रजनि-कलित-सततासम-शर-रण-जागरतोऽरुणिमानम् । वहति तवेक्षण-युगमरुणाम्बुज-मिव विकसित-मतिमानम् ॥ १॥ पल्लवी चारुनायक चारुसाधक याहि विधेहि न वादम् । प्रीणय तां गिरि-राज-सुताङ्गज या तव जनयति मोदम् ॥ प्रथयति तव कृत-चित्रक-कुच-युग-लाञ्छन-मुरसि विशाले । कुवलय-नयना-दृढ-परिरम्भण-सम्भ्रम-रस-मनुकूले ॥ २॥ मुखमपि तावक-मनुसरति प्रिय-जनक-सकुङ्कुम-शोणम् । सान्ध्य-पयोधर-रञ्जित-मनिशित-कर-मविकल-परिमाणम् ॥ ३॥ रद-पद-भूषित-भवदधरोऽयं फलितमिव लसति बिम्बम् । केलि-शुकी-मुख-सरभस-विरचित-निबिडित-चिह्न-कदम्बम् ॥ ४॥ उडुपति-गणमिव करज-पदावलि-मञ्चति तावकमङ्गम् । हरिदुपल-सरच्छवि-हरिताभं सारव-ममित-तरङ्गम् ॥ ५॥ सुतनु-दृगञ्जन-रञ्जित-सम्मद-जल-लवकं तव चेलम् । जयपट-मनुहरति मकर-केतोः मषि-लिखिताक्षर-जालम् ॥ ६॥ स्फुटयति तव पद-कमल-युगं गमनालस-मेतदपारम् । समुचित-बन्धन-शत-लसिताद्भुत-सुरत-महोत्सव-सारम् ॥ ७॥ तामुपयाहि चिरायस इह यदि, या भवदभिमत-योषा । रोष-युतापि भवेदनुपदमपि भवदनुनय-कृत-तोषा ॥ ८॥ विश्वनाथ-कवि-भाषित-मिदमिह विबुधजना अनुवारम् । खण्डित-रति-तरुणी-कृत-वचनं कुरुत गिरि सपरिवारम् ॥ ९॥ श्लोकौ - मुखं ते पश्यन्त्याः सरद-पद-दन्तच्छदमपि प्ररूढोरोजाङ्कं कितव भुजयोरन्तरमपि । ममाभू-दामोदः क्षण-विरहितां तामनुनयेः नमस्तेऽस्तु स्वामिन्नल-महृदयैः चाटु-निचयैः ॥ श्लो. ५२॥ (शिखरिणी - १७) वल्ली-षड्वदनौ विलोक्य हसति प्रातः सखीनां गणे मुद्रावर्ण-सुवर्ण-कङ्कण-गणागाधाङ्क-कण्ठ-स्थलौ । वल्लीं नम्रमुखीं विशाख उरसा धृत्वा विलक्षोऽन्तरं नीत्वा स्वोन्नमितैतदास्य-कमलामोदोत्सुकः पातु नः ॥ श्लो. ५३॥ (शार्दूल विक्रीडितं - १९) इति श्रीविश्वनाथ-कवि-कृतौ श्रीगीत-गाङ्गेय-काव्ये खण्डिता-वर्णने विलक्ष-विशाखो नाम अष्टमस्सर्गः ।

अष्टपदी - १८

श्लोकः - कुसुम-शरासन-दूनां रति-सुख-हीनां नवागसा दीनाम् । धृत-मद-कलहाधीना-मजहन्-मौनां सखी जगादैनाम् ॥ श्लो. ५४॥ (आर्या १२-१८) अष्टपदी - १८ (यदुकुल-काम्भोजि रागे, आदि ताले गीयते) गुह-मुपनत-मिह चिर-मभिलषितम् । कलय नयन-विषयं धुरि विनतम् ॥ १॥ पल्लवी षण्मुखे मा भव भामिनि रोष-युता ॥ सखि तव सुमधुर-मधुरस-सदनम् । कथमिव वितथयसि रदन-वसनम् ॥ २॥ तरुणिम-वल्गित-मुरसिज-युगलम् । सफलय सङ्गत-पति-कर-कमलम् ॥ ३॥ तव मधु-पवन-चला तनु-रेतम् । श्लिष्यतु जगदवलम्बन-भूतम् ॥ ४॥ किं कुरुषे सरले सति मानम् । मौनमपि धरसि कथ-मनिदानम् ॥ ५॥ विसृज रुषं सृज हर्षज-वाष्पम् । सुखय शरज-मपि शकलित-बाष्पम् ॥ ६॥ पवन-चपल-सरसीरुह-नयने । धवमुपसर मृदु-किसलय-शयने ॥ ७॥ अनुनय-वचन-विधायिन-मेनम् । जीवय विरचय मोद-निधानम् ॥ ८॥ विश्वनाथ-कवि-भाषित-गीतम् । मुदितमिदं रचयतु बुध-जातम् ॥ ९॥ श्लोकौ - आयासी-दायताक्षि प्रसव-शर-समो वीप्सया प्रेप्सितो यः पश्यावश्याय-शुभ्रां तनुमपि विरहादस्य रस्या त्वमेव । श्रुत्वा युक्तं मदुक्तं वचन-मति-हितं प्रीणयेः प्राणनाथं भोग्यं भाग्यं विहातुं सखि समुपनतं साम्प्रतं साम्प्रतं किम् ॥ श्लो. ५५॥ (स्रग्धरा - २१) सेवा-सक्त-पुरन्दरादि-दिविषत्-सीमन्तिनी-कन्धरा- नृत्यन्-मङ्गळ-सूत्र-दार्ढ्य्-करणासक्ति-प्रशस्तोद्यमाम् । आप्त्यानीत-विनीत-वीर-निकर-प्रक्रान्त-सम्भावनां शक्तिं पाणि-तले धरन् वनचरी-मुग्धो विदध्याच्छुभम् ॥ श्लो. ५६॥ (शार्दूल-विक्रीडितं -१९) इति श्रीविश्वनाथ-कवि-कृतौ श्री-गीतगाङ्गेय-काव्ये कलहान्तरिता-वर्णने मुग्ध-शक्तिधरो नाम नवमस्सर्गः ।

अष्टपदी - १९

श्लोकः - तां सुन्दरीं तदनु लक्षण-सूचितागाः उत्कम्पित-स्तन-मुदश्रु च दूयमानाम् । निश्वास-वात-चपली-कृत-काननान्तां स्वामी सगद्गदमिदं वचनं बभाषे ॥ श्लो. ५७॥ (वसन्ततिलक-१४) अष्टपदी - १९ (मुखारि रागे, झम्प ताले गीयते) तरुणि मयि दारुण-महेतुक-रुषारुणं, नहि विकिर तव नयन-कोणम् । अयमिह समीहते श्रित-करुण-मीक्षणं, तावक-जनो मदन-शोणम् ॥ १॥ पल्लवी हिते साधुरीते । वल्लि मयि माऽभिनय कोपम् ॥ वहति मधु-मारुते मम मनसि जायते । काऽपि गतिरुपशमय तापम् ॥ किमिति चलिताधरं लुलित-कबरी-भरं, परिगलित-बाष्प-रस-धारम् । तिष्ठसि समाकुला किमुचित-मिदं ब्रुवे, त्यज शोक-मिम-मति-गभीरम् ॥ २॥ मधुर-वचनेन सुधया सम-तुरेण तव जीवय सुमेषु-कृश-रूपम् । वहसि करुणावति न किञ्चिदपि नायके मयि तपति सात्त्व-मनुतापम् ॥ ३॥ मन्तु-मभिशङ्कसे यदि रमणि मामकं, तथ्यमेवाकलय दण्डम् । भुज-युगल-परिणहन-माचर कलेवरे, शिखरि-रद-लेख-मधितुण्डम् ॥ ४॥ कुरु ललित-रशनया मणि-घटितया सहे, प्रहति-मयि धीर-मधिदेहम् । भय-पिशाचक-पलायन-कृते मन्त्रिणो, वेत्र-लतिका-हति-मिवाहम् ॥ ५॥ मदन-विशिखाहति-व्रण-निकर-निबिडितं, क्रोडतल-माश्रित-निदाघम् । सुखय कलयन्त्यचिर-कृत-कुच-निवेशनं, गाढ-परिरम्भण-ममोघम् ॥ ६॥ घटय मणि-कुण्डले श्रवण-युगले सुमुखि, नूपुरमपि प्रणय पादम् । मुखरय च मेखलां सरभस-समागमे, मोदय निवारय विषादम् ॥ ७॥ कर-सरसिजेन ते परिमलय वपुरिदं मलयज-रसेन कृत-सेकम् । मम मुखं वीटिका-घुमघुमित-माकलय, शीतलय मानस-मशोकम् ॥ ८॥ श्रीविश्वनाथ-कवि-भणित-मगजा-भुवो, वल्लिकां प्रति वचन-वृन्दम् । गुह-भजन-पर-रसिक-जनमनो-मोदकं, जयतु भुवि पेशल-ममन्दम् ॥ ९॥ श्लोकाः - सुतनु विसृजाऽऽशङकां किं कातरासि मयि स्थिते सततमपि मे वल्ली भिल्लीति भान्ति गिरो मुखे । हृदय-सदने त्वन्या कन्या न वास-मुपेयुषी तदलमियता वामं कामं प्रमोदय मामपि ॥ श्लो. ५८॥ (हरिणी - १७) कुवलय-नयने तवानता भ्रूः सुमशर-कार्मुक-दण्ड एव तस्मात् । अभिहतमुदितैः कटाक्ष-बाणैः अधर-सुधास्वरसेन जीवयेर्माम् ॥ श्लो. ५९॥ (पुष्पिताग्रा १२,१३) प्राणाधीश्वरि वीक्षसे त्व-मधराऽऽलोकाभिलाषा-धरे विश्वासानुविधायके मयि परं श्वासान् सृजस्यायतान् । प्राप्ता यत् परुषत्वमप्यपरुषेऽनङ्ग-प्रसङ्गोद्यते युक्तं त्वा-मनुसृत्य वच्मि तनुया अङ्गानुषङ्गोद्यमम् ॥ श्लो. ६०॥ (शार्दूल-विक्रीडितं -१९) केयं नाथ महेन्द्रजे शबरजा किं नाम वल्ली प्रिये किं कार्यं तव सेवनं किमु फलं सापत्न्य-मित्यूह्यते । तत्किं तेऽभिमतं कथं भवदभिप्रायो निरस्यो हठात् एवं प्रश्न-सदुत्तरेषु चतुरः षाण्मातुरः पातु नः ॥ श्लो. ६१॥ (शार्दूल-विक्रीडितं -१९) इति श्रीविश्वनाथ-कवि-कृतौ श्रीगीत-गाङ्गेय-काव्ये मानिनी-वर्णने चतुर-षाण्मातुरो नाम दशमस्सर्गः ।

अष्टपदी - २०

श्लोकः - अथ शरवण-जाते सान्त्वयित्वाऽऽत्मबन्धुं गतवति रति-सज्जे रम्य-कुञ्जं रहस्यम् । रचित-विविध-भूषां वल्लिकां काचिदाली सति रजनि-मुखे तां सादरं प्राह वाणीम् ॥ श्लो. ६२॥ (मालिनी - १५) अष्टपदी - २० (कल्याणी रागे, चापु ताले गीयते) अतिमृदु-पल्लव-शयन-युतं श्रित-वञ्जुल-मूल-विभागम् । कोमल-कुञ्जगृहं भवतीं प्रतिपाल्य गत-मतुल-रागम् ॥ १॥ पल्लवी रम्ये शिवतनुजं वल्लि । उपगत-मुपचर वल्लि ॥ चलित-दलै-रप्यभिसृति-कुञ्ज उपाह्वयतीव सरागम् । अलि-निनदै-रभिसर गुरुजघने मामवलम्ब्य सवेगम् ॥ २॥ भवदभिसरण-विबोधिकया सखि पिक-गण-नाद-विदीर्णम् । हंसक-कलकल-रव-सुधया परिपूरय नायक-कर्णम् ॥ ३॥ शरवण-जनुषे सखि विनिवेदय मलय-समीर-किशोरम् । भवति निकटके सुखयति मामिति सानुभवं सुख-पूरम् ॥ ४॥ तव गलनाद-सहोदर-कलगल-मधुर-निनाद उदारे जनयतु मोदमुपागत-मन्मथ-काहल-रवव-ददूरे ॥ ५॥ रति-कलहे जय पति-मपराधिन-मधिक-सुखेन भुजाभ्याम् । बन्धन-मलघु विधाय निपीड्य च कल्प-लता-सदृशाभ्याम् ॥ ६॥ कुच-कुम्भ-युगं रय-गति-विघ्न-मिहाचरति प्रसभं ते । तदनुभवतु दृढ-निशित-नखाङ्कुश-मुख-दलनं तव कान्ते ॥ ७॥ अधर-रसं परिपायय नाथं तिरय सुधा-रस-चिन्ताम् । अनुनय-चाटु-शतेन वयस्ये विसृज सुदूर-महन्ताम् ॥ ८॥ विश्वनाथ-कवि-भणितमिदं शिवभव-पद-भक्ति-निदानम् । विलसतु विबुध-मुखाम्बुरुहे चिर-मति-मधुर-रस-निधानम् ॥ ९॥ श्लोकाः - आगच्छेत् प्रियनायिकाऽद्य कुशलं पृच्छेत् प्रयच्छेच्च सा गाढालिङ्गन-मङ्गमुत्पुलकतां गच्छेदिदं मामकम् । इत्थं ध्यायति पश्यति प्रलपति भ्राम्यत्यसौ गायति प्रत्येति प्रियमेत्य मञ्जुल-वचः-पुञ्जैः सुखं प्रापयेः ॥ श्लो. ६३॥ (शार्दूल-विक्रीडितं -१९) कस्तूरी-तिलकायतेऽधिनिटिलं कर्णेऽसिताब्जायते नेत्राम्भोज-युगेऽञ्जनायत इयं गाढा तमःसन्ततिः । कण्ठे नील-सरायते कटि-तटे श्यामाय-चेलायते साहाय्यात् स्मर-शासिताऽम्बुज-दृशा-मानन्द-कन्दायते ॥ श्लो. ६४॥ (शार्दूल-विक्रीडितं -१९) गाढान्धकारमपि चेतन-जाल-दृष्टेः सञ्चार-लोप-करणे दृढ-बद्ध-कच्छम् । सिद्धाञ्जनं वितनुते ह्यभिसारिकाणां आश्चर्यमेष मदनाभिध-वैद्यराजः ॥ श्लो. ६५॥ (वसन्ततिलकं - १४)

अष्टपदी - २१

श्लोकः - वक्त्रेन्दु-मन्दस्मित-चन्द्रिकाभिः ध्वस्तान्धकारे स्थितमत्र कुञ्जे । द्वारि स्थिता वीक्ष्य गुहं सलज्जां वल्लीं सखी प्राह सहर्षमेवम् ॥ श्लो. ६६॥ (उपजाति - ११) अष्टपदी २१ (घण्टा रागे, झम्प ताले गीयते) केलि-कलनोचित-निकुञ्ज भवने । इह विहर दर-हसित-वशित-कमने ॥ १॥ पल्लवी सुखय बाले सोमधर-सूनुम् । मधुकर-निकर-रचित-मधुर-गाने । इह विहर गति-विजित-हंस-याने ॥ २॥ सरस-मृदु-कुसुम-चय-रुचिर-शयने । इह विहर रस-सदन-सुरभि-वदने ॥ ३॥ सुन्दर-मरन्द-रस-लहरि-शीते । इह विहर विपिनचर-नृपति-जाते ॥ ४॥ मधु-पवन-घटित-सुम-सुरभि-पूरे । इह विहर मधु-विजयि-वचन-सारे ॥ ५॥ तरुण-शुक-पिक-निकर-कलित-रावे । इह विहर कपट-गुण-रहित-भावे ॥ ६॥ सरल-किसलय-निचित-दृढ-विताने । इह विहर मुख-मिलित-मधुरपाने ॥ ७॥ मदन-शर-जनित-दर-दलन-धीरे । इह विहर जलद-निभ-चिकुर-भारे ॥ ८॥ श्रीविश्वनाथ-कवि-कथित-गानम् । कुरुत वदनाम्बुजे कुशल-दानम् । भजत रसिकाः सततमीशमेनम् । ९॥ श्लोकः - बाले त्वत्प्रतिपालके दृढ-परीरम्भोत्सुके षण्मुखे क्रूरैः कौसुम-कार्मुकैः शर-गणैः सन्तापित-स्वान्तरे । प्रेम-द्योतक-मन्दहास-लहरी भूयात् तवाह्लादिनी केयं भीतिरिह त्वदेक-शरणे निश्शङ्क-मङ्कं भज ॥ श्लो. ६७॥ (शार्दूल-विक्रीडितं - १९)

अष्टपदी - २२

श्लोकः - ततः ससाध्वसं वल्ली सहर्षं च लता-गृहम् । प्राविशत् षण्मुखास्थानं रणन्-मधुर-नूपुरम् ॥ श्लो. ६८॥ (अनुष्टुभ् - ८ ) अष्टपदी २२ (मध्यमावती रागे, आदि ताले गीयते) वल्ली-वदन-विलोकन-विकसित-सरस-विलोचन-भाजम् । ह्रदमिव हिमकर-दर्शन-फुल्ल-समधु-रस-नील-सरोजम् ॥ १॥ पल्लवी गिरिजा-तनुजं समुदित-मदन-विकासम् । आससाद सम-हार्द-मसौ गुरु-मुद-मधि-कुञ्ज-निवासम् ॥ विद्रुम-सम्पुट-विनिहित-मौक्तिक-मणि-निकरमिव दधानम् । दर-हसित-स्फुरिताधर-लसितं रदगण-मधिक-विभानम् ॥ २॥ शिखर-विराजित-जलद-परिष्कृत-कनक-धराधर-शोभम् । मसृण-शिरोरुह-भार-विभासुर-शिरसमिमं मिहिराभम् ॥ ३॥ मरकत- तिलक-द्युति-वलित-भ्रू-मण्डित-मञ्जुल-फालम् । नवजल-भरित-तटाक-मिव क्रम-तट-सङ्गत-शुक-बालम् ॥ ४॥ हीर-मणी-मय-कुण्डल-कान्त्यनु-रञ्जित-मञ्जु-कपोलम् । कोकनदोपरि-सङ्गत-धवलच्छद-कमलाकर-लीलम् ॥ ५॥ तरल-तरल-बहु-विमल-मणि-निचय-कलित-मनोहर-हारम् । अनुकृत-वात-चलद्-बहु-बुद्बुद-शोण-नदाम्बु-विहारम् ॥ ६॥ बिभ्रत-मधिकटि कानक-तन्तु-विनिर्मित-चित्रित-चेलम् । सन्ध्या-काल-पयोद-मिव स्फुरदिन्द्र-धनू-रुचि-जालम् ॥ ७॥ अङ्गद-कङ्कण-भूषित-भुजयुग-मद्भुत-गात्र-निवेशम् । समदन-चल-कर-सूचित-दयिता-कुच-वहनाभिनिवेशम् ॥ ८॥ वल्यालोकज-निजमुदमपि तद्-वचन-समय-मधिधातुम् । श्रुति-निकट-गतां दृश-मभिदधतं रुचि-जित-सुम-शर-केतुम् ॥ ९॥ विश्वनाथ-कवि-विरचित-मिदमपि गीत-मशेष-बुधानाम् । भवतु मुदावह-मनवरतं प्रिय-शिवसुत-चरित-सुधानाम् ॥ १०॥ श्लोकाः - सलीलं गच्छन्त्याः चकित-चकितं भर्तृ-सविधं मुखेन्दुं पश्यन्त्या अमित-मुदितो बाष्प-विसरः । स्मर-म्लानं नाथं स्नपयितु-मिव प्राप्त-समयं रवि-ग्लानं चन्द्रोपल-जलभरोऽद्रेस्तटमिव ॥ श्लो. ६९॥ (शिखरिणी - १७) प्रचण्डामर्त्यारि-प्रमथन-समुच्चण्ड-विभवः ससौहार्दं पुत्र्या त्रिदश-नृपतेश्चुम्बित इह । यदीयो दोर्दण्डो जय-कमलयाऽमण्ड्यत सदा स मे सुब्रह्मण्यः कलयतु कला-कौशलमयम् ॥ श्लो. ७०॥ (शिखरिणी - १७) कुत्र त्वं वल्लि याता सहचरि कुमरी-तीर्थमेतत् किमर्थं स्नातुं पातुं च युक्तं कथ-मय-मधरः सक्षतः मत्स्य -दंशात् । मायी यातः सहायः क्व तव सजरठः कुत्र वेत्यूर्णुवाणां सानन्दः स्कन्ददेवो वितरतु कुशलं वीक्ष्य साकूत-मेताम् ॥ श्लो. ७१॥ (स्रग्धरा - २१) इति श्रीविश्वनाथ-कवि-कृतौ श्रीगीतगाङ्गेय-काव्ये वल्लिका-मिलने सानन्द-स्कन्ददेवो नाम एकादशः सर्गः ।

अष्टपदी - २३

श्लोकः - तदनु सहसा याते कार्यच्छलेन सखीजने सदर-मधर-स्निग्ध-स्फीत-स्मितार्द्र-नताननाम् । कुसुम-शयने न्यस्तापाङ्गा-मनङ्ग-वशंवदां शरवणभवो वाचं प्राह प्रियां सकुतूहलम् ॥ श्लो. ७२॥ (हरिणी - १७) अष्टपदी - २३ (नादनामक्रिया रागे, आदि ताले गीयते) विकसित-सुम-शयने मम सुन्दरि कलय तव मृदुल-पादौ । इदमपि मार्दव-गुणमधिलभतां स्पर्शन-मण्यविभेदौ ॥ १॥ पल्लवी कुरु सहसा गौरी-सुतम् । अति-सुखयुजमयि मां वल्लिके ॥ त्यज नहि कश्चिदिहास्ति सुहासिनि नयन-निमीलनमेवम् । पश्य विलज्जमुपागत-मधिक-प्रिय-मतिशयित-विभावम् ॥ २॥ वदन-सरोरुह-तल्लज-निर्गल-दमृत-रसेन नितान्तम् । मधुकर-मिव पद्मिनि मां प्रीणय मनसिज-शर-हति-तान्तम् ॥ ३॥ अपहर कञ्चुक-मर्ध-विपाटित-मुरसिज-गूहक-मेनम् । विघटय ताप-मुरोज-युगं हृदि मम विनिवेश्य सुपीनम् ॥ ४॥ श्लथयितु-मंशुक-मिच्छति दयिते विरह-गद-मिव जनोऽयम् । उररीकुरु मामक-नाथन-मिह जीवय मा-मसहायम् ॥ ५॥ मदनज-कम्पन-चल-घन-जघनक-चल-रशना कल-रावम् । घटयितु-मभिलषितं मम तनुते सान्त्वनमिव भज भावम् ॥ ६॥ अतिदूराऽऽगति-खेदयुतं तव चरणयुग-मतिवहेयम् । गल-दर-निःसृत-मणि-मथित-श्रम-कण-निकर-मपनयेयम् ॥ ७॥ मनसिज-जय-दुन्दुभि-निनदायित-मणित-रवैः कृत-मोदम् । हसित-सुधारस-वचन-कदम्बै-रपनय मानस-खेदम् ॥ ८॥ विश्वनाथ-कवि-निगदितमिदमिह विशदित-षण्मुख-तोषम् । विहरतु कण्ठतलेऽखिल-विदुषां विरचित-बहु-परितोषम् ॥ ९॥ श्लोकाः - सा धूनोति करौ सकङ्कण-झणत्कारं जिघृक्षौ प्रिये वेगादास्य-सुधां करोत्यपि तिरश्चीनं पिपासौ मुखम् । मा मा मेति च भाषते हठ-समाश्लेषं चिकीर्षौ गिरं पुष्णात्यस्य तथाऽपि सम्मदमिदं कामस्य लीलायितम् ॥ श्लो. ७३॥ (शार्दूल-विक्रीडितं - १९) उद्युक्ता दयितं विजेतु-मधुना सौमेषवे सङ्गरे दोर्वल्ली-दृढ-बन्धनान्यति-दृढोरोज-द्वयास्फालनम् । तीक्ष्णाग्रै-र्दशनै-र्नखैश्च दलनं चक्रे तथाप्यञ्जसा श्रान्तैषा ह्यबलात्व-मुत्पल-दृशां युक्तं कुतोऽस्त्वन्यथा ॥ श्लो. ७४॥ (शार्दूल-विक्रीडितं - १९) केशा आकुलितास्स्रजो विगलिताः स्विद्यन्-मुखाम्भोरुहं श्वेता दन्तपटी श्लथा भुजलता निश्चेष्टितौ च स्तनौ । शोणा नेत्रयुगी नख-क्षत-परिक्लिष्टं च वल्या वपुः तामादाय तथाऽपि मोहनकरीं दोर्भ्यां ननन्द प्रभुः ॥ श्लो. ७५॥ (शार्दूल-विक्रीडितं - १९)

अष्टपदी - २४

श्लोकः - अथ वल्ली रति-रभस-श्रान्ता सप्रेम-वचन-मिद-मूचे । सानन्दं शिवसूनुं मन्दं मन्दं मरन्द-रस-रुचिरम् ॥ श्लो. ७६॥ (आर्या १२-१८) अष्टपदी - २४ (मङ्गलकौशिक रागे, एक ताले गीयते) प्रिय शिवसम्भव ! लम्बय मृगमद-चित्रक-मत्रप-मेव मे वदन-तले विमले मधुकर-मिव पुष्कर-पुष्प-मनोरमे ॥ १॥ पल्लवी शिवनन्दने शुभ-मानसा खेलति । कथयामास सा ॥ अधरमिमं मम निर्मित-यावक-लेपज-रूप-विभासुरम् । कलय निरन्तर-दन्तपदं तव सरभस-मेव सहादरम् ॥ २॥ घन-निभ-चिकुर-कुलं मम मण्डय केलि-कला-मरुदाकुलम् । बहुविध-कुसुमित-सुम-तति-कृत-चपलायित-मालिकयाऽतुलम् ॥ ३॥ प्रतनु सुमुख-सविशेष-विशेषक-मति-निबिडोरसिज-द्वये । हिम-घनसार-पटीर-रसेन मतङ्गज-कुम्भ-तटाद्वये ॥ ४॥ अधिकटि योजय मे जयशक्ति-धर स्वय-मुत्स्वन-मेखलाम् । हरित-पटोपरि तृण-तति-गत-हरिगोप-गुणावलि-मञ्जुलाम् ॥ ५॥ आकलयाञ्जन-रञ्जनमाश्रित-कञ्जन-भञ्जन-नैपुणे । प्रमद-निरर्गल-निर्गलदश्रु-निसर्ग-विसर्ग-युजीक्षणे ॥ ६॥ कङ्कण-मङ्गद-सङ्गत-मिह कुरु मम चतुरेण करेण ते । बाहौ गुच्छ-लसच्छवि-रज्य-दशोक-भृशोपम आयते ॥ ७॥ श्रवसि च कुण्डल-मण्डल-मण्डन-मुरसि विलासय मालिकाम् । रति-विषमं च समं सकलं कुरु मम परिपालय नायिकाम् ॥ ८॥ विश्वनाथ-कवि-विरचित-मुचितं प्रियशिव-सम्भव-सङ्कथे । लसतु रसजुषां चेतसि विदुषां पूर्ण-पुराण-मनोरथे ॥ ९॥ श्लोकाः - अथ स करुणा-सिन्धुः बन्धुः पुलिन्द-तनू-भुवो व्यरचय-दयं दक्षो वक्षोरुहे मकरीक्रियाम् । हृदि परिकरोदारं हारं रणन्-मणि-नूपुरं रुचिर-वसनं नेत्रे श्रोत्रेऽञ्जनं मणि-कुण्डलम् ॥ श्लो. ७७॥ (हरिणी -१७) उद्यन्-मान्मथ-जन्य-जन्य-चलन-स्थाना विभूषाः पुनः सौहार्देन समं वनेचर-भुवि स्वामी प्रतिष्ठापयन् । प्राप्तैतत्प्रिय-बान्धवानुमतिरप्येना-मुदूह्यानया प्राप्य स्कन्दगिरिं सुतां सुरपतेस्तन्वन् ददातु श्रियम् ॥ श्लो. ७८॥ (शार्दूल-विक्रीडितं - १९) मधुरमिति मरन्दं फाणितं चेक्षुसारं मधु-रसमपि दुग्धं मन्यता-मन्य एव । गुह-भजन-पराणां सार-सङ्ग्राहकाणां अति-मधुरमिदं स्याद्-गीत-गाङ्गेयमेव ॥ श्लो. ७९॥ (मालिनी - १५) सकारुण्यः पायात् स्मर-विजयि-लावण्य-जलधिः तरुण्याश्लिष्टाङ्गः सुर-परिषदग्रण्यभिनतः । शरण्यो लोकानां त्रिदश-मुनि-पण्यामित-गुणः स मां सुब्रह्मण्यः शिखि-गिरि-वरेण्याग्र-सदनः ॥ श्लो. ८०॥ (शिखरिणी - १७) वल्ली-सस्मित-काम-मन्थर-चलापाङ्ग-प्रभामण्डली- व्याकोचार्जुन-मेचकोत्पल-सर-भ्राजच्छिरोधिः सदा । सुप्रीतस्सुम-शेखरस्य तनुजोऽस्माकं स्व-भक्तेष्ट-कृत् सुब्रह्मण्य उदार-मङ्गल-निधिः सम्पादयेन्-मङ्गलम् ॥ श्लो. ८१॥ (शार्दूल-विक्रीडितं - १९) रम्यं श्रीविश्वनाथः कविरवददिदं गीतगाङ्गेय-काव्यं श्रीमत्-कानाडु-कात्तान् पुरवरसदनः शाब्दिकः स्कन्द-भक्तः । गृह्णन्तः स्कन्द-भक्ताः मुदमपि परमां तेऽपि विन्दन्तु गानात् पुष्टिं दार्ढ्यं च भक्तिं श्रियमति-बहुलां सन्ततं प्राप्नुवन्तु ॥ श्लो. ८२॥ (स्रग्धरा - २१) इति श्रीविश्वनाथ-कवि-कृतौ श्री-गीतगाङ्गेय-काव्ये स्वाधीन-भर्तृका-वर्णने सुप्रीत-सुब्रह्मण्यो नाम द्वादशस्सर्गः । इति श्रीनवसाल-राजधानी-विराजमान-श्रीगोकर्ण-क्षेत्रवर- सन्निहित-श्वेतनदीतीर-बाभास्यमान- श्रीशिवपुर-अग्रहाराभिजनस्य, कानाडु-कात्तान्-नगरी-निवासिनः, श्रीरामसुब्रह्मण्य-सुधीन्द्रसूनोः, श्रीबालाम्बिका-गर्भशुक्ति-शौक्तिकेयस्य, शाब्दिकस्य, श्रीमद्-रामायाणादि-तत्व-विवेचकस्य, श्रीविश्वनाथकवेः कृतिषु, श्री गीतगाङ्गेय-काव्यं सम्पूर्णम् ॥ Notes : 1. In every Ashtapadi, the Pallavi is sung after every stanza, as a refrain. 2. Hyphens are added just to make the text easier to read - between the words that make up the Samasas or compound words - between words that are combined due to Sandhis. If the latter word in the Sandhi starts with a vowel, the letter after the hyphen would be the last consonant of the first word. Eg. भजता-मरोग should be read as भजतामरोग 3. The mUlam with additional notes for greater understanding is given in a separate file.

Kaanaadukaathaan Sri Vishvanatha Kavi

Kaanaadukaathaan Sri Vishvanatha Kavi, the author of Gita Gangeyam : A short life-sketch Amongst the many books inspired by Gita Govindam of Jayadeva, some of the well-known ones are Rama Ashtapadi, and Shivageetimaalaa. These celebrate Rama and Sita, and Shiva and Parvati as the hero and heroine of their work, respectively. One of the recent additions to such works, is the Gita Gangeyam, which has been written in the first half of the 20th Century, CE. The author of this work is Sri Vishvanatha Kavi, who resided in Kaanaadukaathaan and in Kundrakudi, in Tamil Nadu, India. He was born circa 1890 CE, and lived till around the age of sixty. His parents were Sri Ramasubramanya Sarma and Balambal, and they were residents of the Shivapuram Agraharam, in Srigokarnam. Srigokarnam (Tirugokarnam in Tamil) is an important temple in Pudukottai, and Goddess Parvati, known there as Brhadamba, is the tutelary deity of the Tondamaan kings who ruled from Pudukkottai in the past few centuries. The Kavi’s family worshipped Lord Subrahmanya in Vaideeswaran Koil, and later in Kumaramalai (a small hill shrine near Pudukkottai) as their family deity. Later when he started residing in places around Kundrakudi, the family embraced Lord Subrahmanya of Kundrakudi as their chosen deity. In fact, he has composed Gita Gangeyam in praise of Lord Subrahmanya of Kundrakudi, which is also known as Mayuragiri. He has used synonyms for the place, such as Shikhi-shaila, Mayura-bhudhara etc. in the work. Sri Vishvanatha Kavi completed his studies in the Vedas and became a Ghanapaathi. He was an Adhyaapaka (instructor) of the Vedas in the Vedapathashala in a village called Uyyakkondaan Siruvayal (now known as O. Siruvayal). He was also well-versed in the Valmiki Ramayana and used to conduct discourses on the Ramayana. In the Tamil month of Aippasi (Ashvayuji), he also held readings of the Tulaa Puraanam, which extols the greatness of River Kaaveri. Apart from these, he was also a Shaabdika (grammarian), who could perform Ashtaavadhaanam in Vyaakarana (i.e. he could pay attention to and respond to eight different kinds of queries simultaneously posed to him regarding grammar). He was also devoted to his spiritual routine and would not eat until he completed his Shiva Panchaayatana Puja everyday. He had great devotion towards Mahasvami of Kanchi, as well as towards Kutraalam Mouna Svami, whose Math he would occasionally visit and spend a month or so in. Family members of Sri Vishvanatha Kavi recall that when they later went to have Darshan, Kanchi Mahasvami told them about him, and enquired if they had learnt anything from him. It is also said that the Mahasvami directed some people with doubts in some texts to Sri Vishvanatha Kavi for clarifications. About fifty years ago, the family (then living in Thirumeyyam) had a visitor from the French Institute of Puducherry, who wanted to collect the works of Kavi. When they searched the ancestral house in Kundrakudi, the room was seen to be invaded by termites. The few available manuscripts were taken by the visitor to the French Institute. Those works were in the Grantha script, it is said. As of now, the only work available to us is the Gita Gangeyam. Sri Vishvanatha Kavi was married to Smt. Meenakshi. Having no children, the couple adopted his brother’s son Sri Ramanathan. Sri Ramanathan completed his Vedic studies upto Ghana, and also mastered South Indian Classical music, having taken lessons from Sri Kottaiyur Ramachandra Bhaagavatar. Sri Ramanathan’s younger son Sri Meenakshisundaram is a musician and music teacher, and his son, Sri Kundrakudi M. Balamuralikrishna is a well-known vocalist today. The immensely famous violinist of yesteryears, Kunnakkudi R. Vaidyanathan, also belongs to this family. His father Sri Ramaswamy was another younger brother of Sri Vishvanatha Kavi. Sri Vishvanatha Kavi spent his later years with his son’s family in Keezha-Poongudi. Till the end he continued his teaching and discourses. He was unwell only for a week before he passed away. The Gita Gangeyam is a short Kavya, a great work filled with charming verses, that describes the sports of Lord Subrahmanya (Gangeya) and His younger consort Sri Valli. Although modelled after Gita Govindam, it has a rare beauty of its own. It has 24 Ashtapadis ( songs with 8 stanzas) in differing rhythms and has some Shlokas before and after each Ashtapadi. These Shlokas are set in a variety of Chandas (metres) and have amazing descriptions of Nature, the heroic deeds of Subrahmanya and various nuances of the emotions of love. Many are simply sublime prayers to Him. The book was published in 1982 by Murugan Tiruvarut Sangam of Chennai, under the guidance of musician and scholar Sri TS Vasudevan. It was made part of the Guha Bhajana Sampradaaya and published in the book of Hari-hara-guha Bhajana Sampradaaya published by Sri AK Gopalan Bhagavatar. Later it was also published by Pranatartihara Bhajana Mandali of Bengaluru and then by Dr P Siva of Hyderabad. Reconciling these four sources, this book has now been uploaded online in www.sanskritdocuments.org, under the Stotras of Subrahmanya. We hope many will read and appreciate this beautiful Kavya and musicians will add songs from it in their repertoire. Note : Some of the lesser known words have been spelt here with double a’s to aid their correct pronunciation. Enocoded, edited, and proofread by Rajani Arjun Shankar rajani_arjun at yahoo.com
% Text title            : Gita Gangeyam or Subrahmanya Ashtapadi
% File name             : gItagAngeyam.itx
% itxtitle              : gItagANgeyam athavA subrahmaNyAShTapadI (vishvanAthashAstri virachitam)
% engtitle              : Geeta Gangeyam
% Category              : subrahmanya, aShTaka, gItam, kRitI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Author                : Vishwanatha Sastry, (kAnADukAttAn) Kanaadukattan, Tamil Nadu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rajani Arjun Shankar rajani_arjun at yahoo.com
% Proofread by          : Rajani Arjun Shankar rajani_arjun at yahoo.com
% Description/comments  : See Notes for mUlam with additional details
% Indexextra            : (Audio, Video, Notes, Author, Tamil translation, lecture)
% Acknowledge-Permission: Murugan Thiruvarul Sangam, Pranatharthihara Naamasankeerthana Mandali, P. Venkataraman, Bangalore
% Latest update         : June 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org