श्रीकुमारतन्त्रान्तर्गतः श्रीसुब्रह्मण्यमालामन्त्रः

श्रीकुमारतन्त्रान्तर्गतः श्रीसुब्रह्मण्यमालामन्त्रः

माला मन्त्रं प्रवक्ष्यामि श‍ृणु कौशिक सुव्रत । पूर्वपश्चिमसूत्रैकं दक्षिणोत्तरमेव हि ॥ १॥ वायव्यादग्निभागान्तं युग्मसूत्रं प्रसारयेत् । नैरृत्यादीशभागान्तं सूत्रमेवं प्रसारयेत् ॥ २॥ बिन्दुद्वादशकं भ्राम्य रक्तसूत्रेण साधकः । तन्मध्ये नळिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ ३॥ कर्णिकायां न्यसेन्मन्त्रं मूलमन्त्रं प्रधानकम् । प्रणवं विन्यसेत्पूर्वे ह्याग्नेय्यां तु नकारकम् ॥ ४॥ मोकारं याम्यदेशे तु भकारं नैरृते दळे । वारुणे तु गकारं स्याद्वायव्ये तु वकारकम् ॥ ५॥ तेकारं सौम्यदिग्भागे ऐशान्यां सविसर्गतः । एवं प्रदक्षिणे नैव विन्यसेदक्षराणि तु ॥ ६॥ अष्टवर्ग द्वितीयन्तु पञ्चमस्वरसंयुतम् । सुब्रह्मण्याय तत्पश्चात् शक्तिहस्ताय तत्परम् ॥ ७॥ तारकारिं चतुर्थ्यन्तं तथा शरवणोद्भवम् । तस्याधो ऋग्यजुस्सामाथर्वणाय पदं पुनः ॥ ८॥ देवद्वयपदं देवसेनापति चतुर्थकम् । अकारश्च सुकारश्च रकारश्च कुलस्तथा ॥ ९॥ मर्दनाय पदं दिव्यं संहिताय पदं तथा । अन्तरिक्षाय तत्पश्चाद्योगाधिपतये पुनः ॥ १०॥ ततः कुरु कुरु पदं पश्चाच्चटचटाख्यकम् । ईशानन्ताय शान्ताय शान्तरूपीचतुर्थकम् ॥ ११॥ षष्ठीप्रियाय तस्यान्ते चतुर्थ्यन्तं शिवाननम् । वचद्भुवेति च पुनः सर्वज्ञानपदं तथा ॥ १२॥ हृदयाय पदं पश्चात् षण्मुखाय ततः परम् । दीपाय दीपकर्त्रे च श्रीं ह्रीं क्षं क्रुं ततः परम् ॥ १३॥ कुमाराय पदं पश्चात् कालाय पदमित्यपि । कालरूपं चतुर्थ्यन्तं सुरराजाय तत्परम् ॥ १४॥ नमो वर्णाश्च चत्वारश्चत्वारिंशच्छताधिकम् । एतच्चक्रं समालिख्य चैतान् वर्णांश्च लिख्य च ॥ १५॥ यः प्रीणयेन्महासेनं सर्वान् कामानवाप्नुयात् । अङ्गारके षष्ठियुक्ते कृष्णपक्षसमन्विते ॥ १६॥ शतं सहस्रमयुतं फलमाप्नोत्यसंशयः । विद्यार्थी लभते विद्यां धनार्थी धनमाप्नुयात् ॥ १७॥ जयार्थी जयमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् । मालामन्त्रं गुहस्यैतत्सर्वसिद्धिप्रदायकम् ॥ १८॥ शारदातिलके- तारः खङ्गीश्वरक्रमो निस्वरेणान्तरन्ततः । भुवनैस्सप्तवर्णास्स्युस्सुब्रह्मण्यात्मको मनुः । वह्निबीजेन षट्त्रिंशद्युक्तेनाङ्गक्रिया मता ॥ १९॥ ध्यानम् - सिन्दूरारुणमिन्दुकान्तिवदनं इति । लक्षमेकं जपेन्मन्त्रं साद्ध्येन हविषाततः ॥ २०॥ दशांशं जुहुयादन्ते ब्राह्मणानपि भोजयेत् । धर्मादिकल्पिते पीठे वह्निमण्डलपश्चिमे ॥ २१॥ पूजयेद्विधिना देवमुपचारैर्यथोचितम् । केसरेष्वङ्गपूजास्यात् पत्रमद्ध्ये गतानिमान् ॥ २२॥ जयन्तमग्निकेशान्तं कृत्तिकापुत्रसंज्ञकम् । हेमशूलविशालक्षवज्रधारान्यजेत् क्रमात् ॥ २३॥ पूर्वादि दिग्दग्दळाग्रेषु देवसेनापतिं पुनः । विद्यां मेधां ततो वज्र कोणस्थं शक्तिकुक्कुटौ ॥ २४॥ मयूरं द्विपमभ्यर्च्य बाह्ये लोकेश्वरान्यजेत् । अस्त्राणि तेषामन्ते स्युस्सुब्रह्मण्यार्चनेरिता ॥ २५॥ दृक्सङ्ख्यान् भक्ष्यभोज्याद्यैः षष्ठ्यां सम्प्रीणयेद्विभुम् । पूजयेद्देवता भक्त्या कुमारान् ब्रह्मचारिणः ॥ २६॥ सन्तानं विजयं वीर्यं रक्षामायुः श्रियं यशः । प्रदद्यात् साधकस्याशु सुब्रह्मण्यस्सुरार्चितः ॥ २७॥ ॐ वचद्भुवे नमः । ॥ इति शारदातिलके ॥ नारायणीये- तारं वचन्नाभिजले शिवयोनियुते ततः । मन्त्रदेवो गुहश्शक्तिः कुक्कुटाब्जाभयान्दधत् ॥ २८॥ रक्तो रक्तांशुको मुक्ता प्रचुराकल्पभूषितः । कलाङ्गन्यासवत्तेन कर्णिकायां यजेदमुम् ॥ २९॥ तारं वचदिति- ॐ वचद्भुवे नमः । ॥ इति श्रीकुमारतन्त्रान्तर्गते द्वितीयपटले श्रीसुब्रह्मण्यमालामन्त्रः सम्पूर्णः ॥ Proofread by Preeti N Bhandare
% Text title            : Subrahmanya Mala MantraH
% File name             : subrahmaNyamAlAmantraH.itx
% itxtitle              : subrahmaNyamAlAmantraH (kumAratantrAntargataH)
% engtitle              : subrahmaNyamAlAmantraH
% Category              : subrahmanya, mAlAmantra
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti N. Bhandare pnbhandare at gmail.com
% Description/comments  : Kumaratantra Dvitiyapatala Shloka 30-58
% Indexextra            : (kumAratantram)
% Latest update         : December 23, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org