ईशावास्योपनिषत् शाङ्करभाष्यसहिता
ईशावास्योपनिषत् (१)
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ईशादिमन्त्राणां विनियोगः
``ईशा वास्यम्'' इत्यादयो मन्त्राः कर्मस्वविनियुक्ताः । तेषामकर्म-शेषस्यात्मनो याथात्म्य-प्रकाशकत्वात् । याथात्म्यं चात्मनः शुद्धत्वापाप-विद्धत्वैकत्व-नित्यत्वाशरीरत्व-सर्व-गतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्येतेति युक्त एवैषां कर्मस्वविनियोगः ।
न हि एवं-लक्षणमात्मनो याथात्म्यमुत्पाद्यं विकार्यमाप्यं संस्कार्यं कर्त्तृ-भोक्तृ-रूपं वा, येन कर्म-शेषता स्यात् । सर्वासामुपनिषदामात्म-याथात्म्य-निरूपणेनैव उपक्षयात् । गीतानां मोक्ष-धर्माणां चैवं-परत्वात् । तस्मादात्मनोऽनेकत्व-कर्त्तृत्व-भोक्तृत्वादि च, अशुद्धत्व-पाप-विद्धत्वादि च, उपादाय लोक-बुद्धि-सिद्धं कर्माणि विहितानि ।
कर्माधिकारः
यो हि कर्म-फलेनार्थी दृष्टेन ब्रह्म-वर्चसादिना, अदृष्टेन स्वर्गादिना च, ``द्वि-जातिरहं, न काण-कुब्जत्वाद्यनधिकार-प्रयोजक-धर्मवान्'' इत्यात्मानं मन्यते सोऽधिक्रियते कर्मसु इति ह्यधिकार-विदो वदन्ति ।
अनुबन्धचतुष्टयं
तस्मादेते मन्त्रा आत्मनो याथात्म्य-प्रकाशनेनाऽऽत्म-विषयं स्वाभाविकमज्ञानं निवर्त्तयन्तः शोक-मोहादि-संसार-धर्म-विच्छित्ति-साधनं आत्मैकत्वादि-विज्ञानं उत्पादयन्ति, इत्येवमुक्ताधिकार्यभिधेय-सम्बन्ध-प्रयोजनान् मन्त्रान् सङ्क्षेपतो व्याख्यास्यामः ॥
ॐ
ईशा वास्यमिदꣳसर्वं यत्किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥
ईशावास्यमित्यादि। (२) । ईशा ईष्टे इति ईट्, तेनेशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वमीष्टे सर्व-जन्तूनामात्मा सन् प्रत्यगात्मतया । तेन स्वेन रूपेणात्मना ईशा वास्यं आच्छादनीयम् । किम्?
इदं सर्वं यत्किञ्च यत्किञ्चित् जगत्यां पृथिव्यां जगत् तत्सर्वम् । स्वेनात्मना ईशेन प्रत्यगात्मतया ``अहमेवेदं सर्वम्'' इति परमार्थ-सत्य-रूपेणानृतमिदं सर्वं चराचरमाच्छादनीयं स्वेन (३) परमात्मना । यथा चन्दनागर्वादेः उदकादि-सम्बन्धज-क्लेदादिजमौपाधिकं दौर्गन्ध्यं तत्स्वरूप-निघर्षणेनाच्छाद्यते स्वेन पारमार्थिकेन गन्धेन, तद्वद् एव हि स्वात्मन्यध्यस्तं स्वाभाविकं कर्तृत्व-भोक्तृत्वादि-लक्षणं जगद् द्वैत-रूपं जगत्यां पृथिव्यां - ``जगत्याम्'' इत्युपलक्षणार्थत्वात्सर्वमेव नाम-रूप-कर्माख्यं विकार-जातं (४) - परमार्थ-सत्यात्म-भावनया त्यक्तं स्यात् ।
एवमीश्वरात्म-भावनया युक्तस्य पुत्राद्येषणा-त्रय-संन्यासे एवाधिकारः, न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थः । न हि त्यक्तो मृतः पुत्रो वा भृत्यो वा आत्म-सम्बन्धितायाः (५) अभावादात्मानं पालयति । अतः ``त्यागेन'' इत्ययमेव वेदार्थः । भुञ्जीथाः पालयेथाः ।
एवं त्यक्तैषणस्त्वं मा गृधः (६) गृधिमाकाङ्क्षां मा कार्षीः धन-विषयाम् । कस्यस्विद्धनं (७) कस्यचित् परस्य स्वस्य वा धनं मा काङ्क्षीरित्यर्थः । स्विदित्यनर्थको निपातः । अथवा, मा गृधः । कस्मात्? कस्यस्विद्धनं इत्याक्षेपार्थः । न कस्यचिद्धनमस्ति, यद् गृध्येत । ``आत्मैवेदं सर्वम्'' (छा. ८.२५.२) इतीश्वर-भावनया सर्वं त्यक्तम् । अत आत्मन एवेदं सर्वम्, आत्मैव च सर्वम् । अतो मिथ्या-विषयां गृधिं मा कार्षीरित्यर्थः ॥ १॥
एवं ``आत्म-विदः पुत्राद्येषणा-त्रय-संन्यासेनात्म-ज्ञान-निष्ठतया आत्मा रक्षितव्यः'' इत्येष वेदार्थः । अथ इतरस्य अनात्मज्ञतयाऽऽत्म-ग्रहणायाशक्तस्य इदमुपदिशति मन्त्रः -
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳसमाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥
कुर्वन्निति । कुर्वन्नेव (८) इह निर्वर्त्तयन्नेव कर्माणि अग्निहोत्रादीनि जिजीविषेत् जीवितुमिच्छेत् शतं शत-सङ्ख्याकाः समाः संवत्सरान् । तावद्धि पुरुषस्य परमायुर्निरूपितम् । तथा च प्राप्तानुवादेन यज्जिजीविषेत् शतं वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्विधीयते ।
एवं एवं-प्रकारेण (९) त्वयि जिजीविषति नरे नर-मात्राभिमानिनि इतः एतस्माद् अग्निहोत्रादीनि कर्माणि कुर्वतो वर्त्तमानात् प्रकाराद् अन्यथा प्रकारान्तरं न अस्ति, येन प्रकारेणाशुभं कर्म न लिप्यते । कर्मणा न लिप्यत इत्यर्थः । अतः शास्त्र-विहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् ।
ज्ञानकर्मसमुच्चयखण्डनं
प्रश्नः
कथं पुनरिदमवगम्यते ``पूर्वेण मन्त्रेण संन्यासिनो ज्ञान-निष्ठोक्ता, द्वितीयेन तदशक्तस्य कर्म-निष्ठा'' इति?
उत्तरं
ज्ञानकर्मविभागः
उच्यते । ज्ञान-कर्मणोर्विरोधं पर्वतवद् अकम्प्यं यथोक्तं न स्मरसि किम्? इहाप्युक्तं - ``यो हि जिजीविषेत् स कर्माणि कुर्वन्'' इति, ``ईशा वास्यमिदं सर्वम्'', ``तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम्'' (ई. १) इति च । ``न जीविते मरणे वा गृधिं कुर्वीतारण्यमियात् इति च (१०) पदम्, ततो न पुनरियात्'' इति संन्यास-शासनात् । उभयोः फल-भेदं च वक्ष्यति (७, १८) । ``इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रिया-पथश्चैव पुरस्तात् सन्न्यासश्चोत्तरेण''। निवृत्ति-मार्गेण एषणा-त्रयस्य त्यागः । तयोः सन्न्यास-पथ एवातिरेचयति । ``न्यास एवात्यरेचयत्'' (म.ना. ४.७८) इति च तैत्तिरीयके । ``द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्ति-लक्षणो धर्मो निवृत्तिश्च विभाषितः `` (म.भा.शा. २४१.६) इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता । विभागं चानयोः प्रदर्शयिष्यामः (नवम-मन्त्र-व्याख्यानावतरणिकायाम्, अन्तिम-मन्त्र-व्याख्याने च) ॥ २॥
अथेदानीमविद्वन्निन्दार्थोऽयं मन्त्र आरभ्यते -
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।
ताꣳस्ते प्रेत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः ॥ ३॥
असुर्याः परमात्म-भावमद्वयमपेक्ष्य देवादयोऽप्यसुराः । तेषां च स्व-भूता लोका असुर्याः नाम । नाम-शब्दोऽनर्थको निपातः । ते लोकाः कर्म-फलानि । लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि । अन्धेन अदर्शनात्मकेनाज्ञानेन तमसा आवृताः आच्छादिताः । तान् स्थावरान्तान् प्रेत्य त्यक्त्वेमं देहं अभिगच्छन्ति यथा-कर्म यथा-श्रुतं (क. २.२.७) । ये के च आत्महनः आत्मानं घ्नन्तीत्यात्महनः । के? ते जनाः येऽविद्वांसः । कथं ते आत्मानं नित्यं हिंसन्ति? अविद्या-दोषेण विद्यमानस्यात्मनः तिरस्करणात् । विद्यमानस्यात्मनो यत्कार्यं फलमजरामरत्वादि-संवेदन-लक्षणम्, तत् हतस्य इव तिरोभूतं भवतीति प्राकृता अविद्वांसो जना आत्महन इत्युच्यन्ते । तेन ह्यात्म-हनन-दोषेण संसरन्ति ते ॥ ३॥
यस्यात्मनो हननादविद्वांसः संसरन्ति, तद्विपर्ययेण विद्वांसो जना मुच्यन्ते ते नात्महनः (१२) , तत्कीदृशमात्म-तत्त्वमिति? उच्यते -
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४॥
अनेजदिति । अनेजत् न एजत् । ``एजृ कम्पने''। कम्पनं चलनं, स्वावस्था-प्रच्युतिः, तद्वर्जितम् । सर्वदैक-रूपमित्यर्थः । तच्च एकं सर्व-भूतेषु । मनसः सङ्कल्पादि-लक्षणाद् जवीयः जववत्तरम् ।
आक्षेपः
कथं विरुद्धमुच्यते - ``ध्रुवं निश्चलमिदम्'', ``मनसो जवीयः'', इति च?
समाधानं
नैष दोषः । निरुपाध्युपाधिमत्त्वेनोपपत्तेः । तत्र निरुपाधिकेन स्वेन रूपेणोच्यते ``अनेजदेकम्'' इति । मनसोऽन्तः-करणस्य सङ्कल्प-विकल्प-लक्षणस्योपाधेः अनु-वर्त्तनात् (१३) । इह देहस्थस्य मनसो ब्रह्म-लोकादि-दूर-गमनं सङ्कल्पेन क्षण-मात्राद् भवतीत्यतो मनसो जविष्ठत्वं लोके प्रसिद्धम् । तस्मिन्मनसि ब्रह्म-लोकादीन् द्रुतं गच्छति सति, प्रथम-प्राप्तः इव आत्म-चैतन्यावभासो गृह्यते । अतः ``मनसो जवीयः'' इत्याह ।
न एनद् देवाः द्योतनाद्देवाः चक्षुरादीनीन्द्रियाणि, एतत् प्रकृतमात्म-तत्त्वं न आप्नुवन् न प्राप्तवन्तः । तेभ्यो मनो जवीयः । मनो-व्यापार-व्यवहितत्वाद् आभास-मात्रमप्यात्मनः (१४) नैव देवानां विषयी-भवति । यस्माद् जवनान्मनसोऽपि पूर्वमर्षत् पूर्वमेव गतं, व्योमवद् व्यापित्वात् ।
सर्व-व्यापि तदात्म-तत्त्वं सर्व-संसार-धर्म-वर्जितं स्वेन निरुपाधिकेन स्वरूपेण अविक्रियमेव सत्, उपाधि-कृताः सर्वाः संसार-विक्रिया अनुभवति इव (१५) अविवेकिनां मूढानामनेकं इव च प्रति-देहं प्रत्यवभासत इत्येतदाह - तद् धावतः द्रुतं गच्छतः अन्यान् आत्म-विलक्षणान् मनो-वागिन्द्रिय-प्रभृतीन् अत्येति अतीत्य गच्छति इव । इवार्थं स्वयमेव दर्शयति - ``तिष्ठत्'' इति, स्वयमविक्रियमेव सदित्यर्थः ।
तस्मिन् आत्म-तत्त्वे सति नित्य-चैतन्य-स्वभावे, मातरिश्वा मातरि अन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः, सर्व-प्राण-भृत्, क्रियात्मकः । यदाश्रयाणि कार्य-करण-जातानि यस्मिन्नोतानि प्रोतानि च, यत्सूत्र-संज्ञकं सर्वस्य जगतो विधारयितृ, स मातरिश्वा । अपः कर्माणि प्राणिनां चेष्टा-लक्षणानि, अग्न्यादित्य-पर्जन्यादीनां ज्वलन-दहन-प्रकाशाभिवर्षणादि-लक्षणानि । दधाति विभजति इत्यर्थः । धारयतीति वा । ``भीषास्माद्वातः पवते'' (तै. २.८.१) इत्यादि-श्रुतिभ्यः । सर्वा हि कार्य-करणादि-विक्रिया नित्य-चैतन्यात्म-स्वरूपे सर्वास्पद-भूते सत्येव भवन्तीत्यर्थः ॥ ४॥
न मन्त्राणां जामितास्तीति पूर्वमन्त्रोक्तमप्यर्थं पुनराह -
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥
तदेजतीति । तद् आत्म-तत्त्वं यत्प्रकृतं तद् एजति चलति, तद् एव च नैजति स्वतो नैव चलति । स्वतोऽचलमेव सत्, चलति इव इत्यर्थः । किञ्च, तद् दूरे वर्ष-कोटि-शतैरप्यविदुषां अप्राप्यत्वाद् दूरे इव । तद् उ अन्तिके इति च्छेदः । तदु अन्तिके समीपेऽत्यन्तमेव विदुषामात्मत्वात् । न केवलं दूरे, अन्तिके च । तद् अन्तः अभ्यन्तरे अस्य सर्वस्य । ``य आत्मा सर्वान्तरः'' (बृ. ३.४.१) इति श्रुतेः । अस्य सर्वस्य जगतो नाम-रूप-क्रियात्मकस्य तद् उ अपि सर्वस्य अस्य बाह्यतः । व्यापकत्वादाकाशवद् निरतिशय-सूक्ष्मत्वाद् अन्तः । ``प्रज्ञान-घन एव'' (बृ. ४.५.१३) इति च शासनान्निरन्तरं च ॥ ५॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
यस्तु यः परिव्राट् मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि आत्मन्येव अनुपश्यति । आत्म-व्यतिरिक्तानि न पश्यतीत्यर्थः । सर्वभूतेषु च तेष्वेव च आत्मानं तेषामपि भूतानां स्वमात्मानमात्मत्वेन (१६) , ``यथास्य देहस्य कार्य-करण-सङ्घातस्य आत्मा अहं सर्व-प्रत्यय-साक्षि-भूतश्चेतयिता केवलो निर्गुणः, अनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवात्मा'' इति सर्व-भूतेषु चात्मानं निर्विशेषं यस्त्वनुपश्यति सः ततः तस्मादेव दर्शनाद् न विजुगुप्सते विजुगुप्सां घृणां न करोति । प्राप्तस्यैवानुवादोऽयम् । सर्वा हि घृणा आत्मनोऽन्यद् दुष्टं पश्यतो भवति । आत्मानमेवात्यन्त-विशुद्धं निरन्तरं पश्यतो न घृणा-निमित्तं अर्थान्तरं अस्तीति प्राप्तमेव ``ततो न विजुगुप्सते'' इति ॥ ६॥
इममेवार्थमन्योऽपि मन्त्र आह -
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोकः एकत्वमनुपश्यतः ॥ ७॥
यस्मिन्सर्वाणि भूतानि । यस्मिन् काले यथोक्तात्मनि वा, तान्येव भूतानि सर्वाणि परमार्थात्म-दर्शनात् आत्मैवाभूत् आत्मैव संवृत्तः, परमार्थ-वस्तु विजानतः, तत्र तस्मिन्काले तत्रात्मनि वा, को मोहः कः शोकः । शोकश्च मोहश्च काम-कर्म-बीजं अजानतो भवति । न तु आत्म-एकत्वं विशुद्धं गगनोपमं पश्यतः । ``को मोहः कः शोकः'' इति शोक-मोहयोरविद्या-कार्ययोराक्षेपेणासम्भव-प्रदर्शनात् सकारणस्य संसारस्य अत्यन्तमेवोच्छेदः प्रदर्शितो भवति ॥ ७॥
योऽयमतीतैर्मन्त्रैरुक्तः आत्मा, स स्वेन रूपेण किं-लक्षण इत्याह अयं मन्त्रः -
स पर्यगाच्छुक्रमकायमव्रणं
अस्नाविरꣳशुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूः
याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८॥
स पर्यगात् । सः यथोक्त आत्मा पर्यगात् परि समन्ताद् अगात् गतवान् । आकाशवद् व्यापीत्यर्थः । शुक्रं शुद्धं ज्योतिष्मत् । दीप्तिमानित्यर्थः । अकायं अशरीरः । लिङ्ग-शरीर-वर्जित इत्यर्थः । अव्रणं अक्षतम् । अस्नाविरं स्नावाः (१७) शिराः यस्मिन्न विद्यन्त इत्यस्नाविरम् । अव्रणमस्नाविरमित्याभ्यां स्थूल-शरीर-प्रतिषेधः । शुद्धं निर्मलमविद्या-मल-रहितमिति कारण-शरीर-प्रतिषेधः । अपापविद्धं धर्माधर्मादि-पाप-वर्जितम् । शुक्रमित्यादीनि वचांसि पुँल्लिङ्गत्वेन परिणेयानि, ``स पर्यगात्'' इत्युपक्रम्य ``कविर्मनीषी'' इत्यादिना पुँल्लिङ्गत्वेनोपसंहारात् ।
कविः क्रान्त-दर्शी सर्व-दृक्, ``नान्यदतोऽस्ति द्रष्टृ'' (बृ. ३.८.११) इत्यादि-श्रुतेः । मनीषी मनस ईषिता, सर्वज्ञः ईश्वर इत्यर्थः । परिभूः सर्वेषां परि उपरि भवतीति परिभूः । स्वयम्भूः स्वयमेव भवतीति । येषामुपरि भवति, यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयम्भूः ।
स नित्य-मुक्त ईश्वरः याथातथ्यतः सर्वज्ञत्वात् यथा-तथा-भावो याथातथ्यं तस्मात् यथा-भूत-कर्म-फल-साधनतः अर्थान् कर्त्तव्य-पदार्थान् व्यदधात् विहितवान्, यथानुरूपं व्यभजदित्यर्थः । शाश्वतीभ्यः नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यः इत्यर्थः ॥ ८॥
ईशावास्योपनिषद्विभागः
अत्राद्येन मन्त्रेण सर्वैषणा-परित्यागेन ज्ञान-निष्ठोक्ता प्रथमो वेदार्थः, ``ईशा वास्यमिदं सर्वम् ॥मा गृधः कस्य स्विद्धनम्'' (ई. १) इति । अज्ञानां जिजीविषूणां ज्ञान-निष्ठाऽसम्भवे ``कुर्वन्नेवेह कर्माणि जिजीविषेत्'' (ई. २) इति कर्म-निष्ठोक्ता द्वितीयो वेदार्थः ।
बृहदारण्यके प्रवृत्तिमार्गप्रदर्शनं
अनयोश्च निष्ठयोर्विभागो मन्त्र-द्वय-प्रदर्शितयोर्बृहदारण्यकेऽपि प्रदर्शितः - ``सोऽकामयत जाया मे स्यात्'' (बृ. १.४.१७) इत्यादिना अज्ञस्य कामिनः कर्माणीति । ``मन एवास्यात्मा वाग्जाया'' (बृ. १.४.१७) इत्यादि-वचनादज्ञत्वं कामित्वं च कर्म-निष्ठस्य निश्चितं अवगम्यते । तथा च तत्फलं सप्तान्न-सर्गः । तेष्वात्म-भावेन (१८) आत्म-स्वरूपावस्थानम् ।
बृहदारण्यके निवृत्तिमार्गप्रदर्शनं
जायाद्येषणा-त्रय-संन्यासेन चात्म-विदां कर्म-निष्ठा-प्रातिकूल्येन आत्म-स्वरूप-निष्ठैव दर्शिता - ``किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः'' (बृ. ४.४.२२) इत्यादिना ।
ईशावास्ये प्रदर्शित-ज्ञानयोग-विवरणं
ये तु ज्ञान-निष्ठाः संन्यासिनः तेभ्यः ४.३ ``असुर्या नाम ते'' (ई. ३) इत्यादिना अविद्वन्निन्दा-द्वारेणात्मनो याथात्म्यं ``स पर्यगात्'' (ई. ८) इत्येतदन्तैर्मन्त्रैः उपदिष्टम् । ते ह्यत्राधिकृता न कामिन इति । तथा च श्वेताश्वतराणां मन्त्रोपनिषदि ``अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषि-सङ्घ-जुष्टम्'' (श्वे. ६.२१) इत्यादि विभज्योक्तम् ।
ईशावास्ये प्रदर्शित-कर्मयोग-विवरणं
ये तु कर्मिणः कर्म-निष्ठाः कर्म कुर्वन्त एव जिजीविषवः तेभ्य इदमुच्यते - ``अन्धं तमः'' इत्यादि ।
ब्रह्मविद्या-कर्मसमुच्चयखण्डनं
आक्षेपः
कथं पुनरेवमवगम्यते, न तु सर्वेषामिति?
समाधानं
उच्यते - अकामिनः साध्य-साधन-भेदोपमर्देन ``यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः'' (ई. ७) इति यदात्मैकत्व-विज्ञानमुक्तं, तन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चिचीषति । इह तु समुच्चिचीषया अविद्वदादि-निन्दा क्रियते । तत्र च यस्य येन समुच्चयः सम्भवति, न्यायतः शास्त्रतो वा, तदिहोच्यते । यद्दैवं वित्तं देवता-विषयं ज्ञानं तत् कर्म-सम्बन्धित्वेनोपन्यस्तं, न परमात्म-ज्ञानम् । ``विद्यया देव-लोकः'' (बृ. १.५.१६) इति पृथक्फल-श्रवणात् ।
तयोर्ज्ञान-कर्मणोरिह एकैकानुष्ठान-निन्दा समुच्चिचीषया, न निन्दा-परैव, एकैकस्य पृथक्फल-श्रवणात् ``विद्यया तदारोहन्ति'' (शतपथब्रा. १०.५.४.६) , ``विद्यया देव-लोकः'' (बृ. १.५.१६) , ``न तत्र दक्षिणा यान्ति'' (शतपथब्रा. १०.५.४.६) , ``कर्मणा पितृ-लोकः'' (बृ. १.५.१६) इति । न हि शास्त्र-विहितं किञ्चिदकर्त्तव्यतां इयात् । तत्र -
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायाꣳरताः ॥ ९॥
अन्धं तमः अदर्शनात्मकं तमः प्रविशन्ति । के? ये अविद्यां विद्याया अन्या अविद्या, तां, कर्मेत्यर्थः । कर्मणो विद्या-विरोधित्वात् । तामविद्यामग्निहोत्रादि-लक्षणामेव केवलां उपासते तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः । ततः तस्मादन्धात्मकात् तमसः भूय इव बहुतरमेव ते तमः प्रविशन्ति । के? कर्म हित्वा ये उ ये तु विद्यायां एव, देवता-ज्ञाने एव रताः अभिरताः ॥ ९॥
तत्रावान्तर-फल-भेदं विद्या (१९) -कर्मणोः समुच्चय-कारणमाह । अन्यथा फलवदफलवतोः सन्निहितयोरङ्गाङ्गिता एव (२०) स्यादित्यर्थः ।
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥
अन्यदेवेत्यादि । अन्यत् पृथग् एव विद्यया क्रियते फलमिति आहुः वदन्ति । ``विद्यया देव-लोकः'' (बृ. १.५.१६) ``विद्यया तदारोहन्ति'' (शतपथब्रा. १०.५.४.६) इति श्रुतेः । अन्यद् आहुः अविद्यया कर्मणा क्रियते फलमिति । ``कर्मणा पितृ-लोकः'' (बृ. १.५.१६) इति श्रुतेः । इति एवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् । ये आचार्या नः अस्मभ्यं तत् कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तः।, तेषामयमागमः पारम्पर्यागत इत्यर्थः ॥ १०॥
यत एवमतः -
विद्यां चाविद्यां च यस्तद्वेदोभयꣳसह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११॥
विद्यां च अविद्यां च देवता-ज्ञानं कर्म चेत्यर्थः । यः तद् एतद् उभयं सह एकेन पुरुषेण अनुष्ठेयं वेद तस्यैवं समुच्चय-कारिण एव एक-पुरुषार्थ-सम्बन्धः (२१) क्रमेण स्यादित्युच्यते - अविद्यया कर्मणा अग्निहोत्रादिना मृत्युं स्वाभाविकं कर्म ज्ञानं च मृत्यु-शब्द-वाच्यं उभयं तीर्त्वा अतिक्रम्य विद्यया देवता-ज्ञानेन अमृतं देवतात्म-भावं अश्नुते प्राप्नोति । तद्ध्यमृतमुच्यते यद्देवतात्म-गमनम् ॥ ११॥
अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते -
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्याꣳरताः ॥ १२॥
अन्धं तमः प्रविशन्ति ये असम्भूतिं - सम्भवनं सम्भूतिः, सा यस्य कार्यस्य सा सम्भूतिः, तस्या अन्या असम्भूतिः प्रकृतिः कारणमविद्या अव्याकृताख्या, तां असम्भूतिमव्याकृताख्यां प्रकृतिं कारणमविद्यां काम-कर्म-बीज-भूतामदर्शनात्मिकां - उपासते ये, ते तदनुरूपमेवान्धं तमोऽदर्शनात्मकं प्रविशन्ति । ततः तस्मादपि भूयः बहुतरमिव तमः ते प्रविशन्ति ये उ सम्भूत्यां कार्य-ब्रह्मणि हिरण्यगर्भाख्ये रताः ॥ १२॥
अधुना उभयोरुपासनयोः समुच्चय-कारणमवयव-फल-भेदमाह -
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥
अन्यदेवेति । अन्यदेव पृथगेव आहुः फलं सम्भवात् सम्भूतेः कार्य-ब्रह्मोपासनात् अणिमाद्यैश्वर्य-लक्षणं व्याख्यातवन्त इत्यर्थः । तथा च अन्यदाहुः असम्भवात् असम्भूतेरव्याकृताद् अव्याकृतोपासनात् । यदुक्तं ``अन्धं तमः प्रविशन्ति'' इति, ``प्रकृति-लयः'' इति च पौराणिकैरुच्यते । इति एवं शुश्रुम धीराणां वचनं ये नः तद्विचचक्षिरे व्याकृताव्याकृतोपासन-फलं व्याख्यातवन्त इत्यर्थः ॥ १३॥
यत एवमतः समुच्चयः सम्भूत्यसम्भूत्युपासनयोर्युक्तः एव एक-पुरुषार्थत्वाच्चेत्याह -
(अ) सम्भूतिं च विनाशं च यस्तद्वेदोभयꣳसह ।
विनाशेन मृत्युं तीर्त्वाऽसम्भूत्याऽमृतमश्नुते ॥ १४॥
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह, विनाशेन विनाशो धर्मो यस्य कार्यस्य सः तेन धर्मिणा अभेदेनोच्यते ``विनाशः'' इति । तेन तदुपासनेन अनैश्वर्यमधर्म-कामादि-दोष-जातं च मृत्युं तीर्त्वा - हिरण्यगर्भोपासनेन ह्यणिमादि-प्राप्तिः फलम्, तेन अनैश्वर्यादि-मृत्युमतीत्य - असम्भूत्या अव्याकृतोपासनया अमृतं प्रकृति-लय-लक्षणं अश्नुते । ``सम्भूतिं च विनाशं च'' इत्यत्रावर्णलोपेन (२२) निर्देशो द्रष्टव्यः, प्रकृति-लय-फल-श्रुत्यनुरोधात् ॥ १४॥
मानुष-दैव-वित्त-साध्यं फलं शास्त्र-लक्षणं प्रकृति-लयान्तम् । एतावती संसार-गतिः । अतः परं पूर्वोक्तं ``आत्मैवाभूद्विजानतः'' (ई. ७) इति सर्वात्म-भाव एव सर्वैषणा-संन्यास-ज्ञान-निष्ठा-फलम् । एवं द्वि-प्रकारः प्रवृत्ति-निवृत्ति-लक्षणो वेदार्थोऽत्र प्रकाशितः ।
तत्र प्रवृत्ति-लक्षणस्य वेदार्थस्य विधि-प्रतिषेध-लक्षणस्य कृत्स्नस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्मणमुपयुक्तम् । निवृत्ति-लक्षणस्य वेदार्थस्य प्रकाशने अत ऊर्ध्वं बृहदारण्यकं उपयुक्तम् ।
तत्र निषेकादि-श्मशानान्तं कर्म कुर्वन् जिजीविषेद्यो विद्यया सह, अपर-ब्रह्म-विषयया, तदुक्तं - ``विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते'' (ई. ११) इति । तत्र (सोऽधिकारी) केन मार्गेणामृतत्वमश्नुते? इत्युच्यते - ``तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः'' (बृ. ५.५.२) । एतदुभयं सत्यं ब्रह्मोपासीनः, यथोक्त-कर्म-कृच्च यः, सोऽन्तकाले प्राप्ते सत्यात्मानम् (२३) आत्मनः प्राप्ति-द्वारं याचते -
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥
हिरण्मयेन पात्रेण हिरण्मयं इव हिरण्मयम्, ज्योतिर्मयमित्येतत् । तेन पात्रेण इव अपिधान-भूतेन सत्यस्य एव आदित्य-मण्डलस्थस्य ब्रह्मणः अपिहितं आच्छादितं मुखं द्वारम् । तत् (२४) त्वं हे पूषन् अपावृणु अपसारय सत्यधर्माय तव सत्यस्योपासनात् सत्यं धर्मो यस्य मम सोऽहं सत्य-धर्मा तस्मै मह्यम् । अथवा, यथा-भूतस्य धर्मस्यानुष्ठात्रे । दृष्टये तव सत्यात्मन उपलब्धये ॥ १५॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः ।
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६॥
पूषन्निति । हे पूषन् जगतः पोषणात्पूषा रविः । तथा एक एव ऋषति गच्छतीत्येकर्षिः, हे एकर्षे । तथा सर्वस्य संयमनाद्यमः, हे यम । तथा रश्मीनां प्राणानां रसानां च स्वीकरणात् सूर्यः, हे सूर्य । प्रजापतेरपत्यं प्राजापत्यः, हे प्राजापत्य । व्यूह विगमय रश्मीन् स्वान् । समूह एकीकुरु उपसंहर ते तेजः तापकं (२५) ज्योतिः । यत् ते तव रूपं कल्याणतमं अत्यन्त-शोभनम्, तत् ते तव आत्मनः प्रसादात् पश्यामि ।
किञ्च, अहं न तु त्वां भृत्यवद् याचे, योऽसौ आदित्य-मण्डलस्थः व्याहृत्यवयवः (२६) पुरुषः पुरुषाकारत्वात्, पूर्णं वानेन प्राण-बुद्ध्यात्मना जगत्समस्तमिति पुरुषः । पुरि शयनाद्वा पुरुषः । सोऽहं अस्मि भवामि ॥ १६॥
वायुरनिलममृतमथेदं भस्मान्तꣳशरीरम् ।
ॐ क्रतो स्मर कृतꣳस्मर क्रतो स्मर कृतꣳस्मर ॥ १७॥
वायुरिति । अथेदानीं मम मरिष्यतो वायुः प्राणः अध्यात्म-परिच्छेदं हित्वा अधिदैवतात्मानं सर्वात्मकं अनिलं अमृतं सूत्रात्मानं, प्रतिपद्यतामिति वाक्य-शेषः । ``लिङ्गं चेदं ज्ञान-कर्म-संस्कृतमुत्क्रामतु'' इति द्रष्टव्यम्, मार्ग-याचन-सामर्थ्यात् । अथ इदं शरीरं अग्नौ हुतं भस्मान्तं भस्मावशेषं भूयात् । ओमिति यथोपासनं ओम्प्रतीकात्मकत्वात् सत्यात्मकं अग्न्याख्यं ब्रह्माभेदेनोच्यते । हे क्रतो सङ्कल्पात्मक स्मर यन्मम स्मर्त्तव्यं तस्य कालोऽयं प्रत्युपस्थितः । अतः स्मर एतावन्तं कालं भावितम् । कृतं अग्ने स्मर यन्मया बाल्य-प्रभृत्यनुष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मर इति पुनर्वचनमादरार्थम् ॥ १७॥
पुनरन्येन मन्त्रेण मार्गं याचते -
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १८॥
अग्ने नयेति । हे अग्ने नय गमय सुपथा शोभनेन मार्गेण । सुपथेति विशेषणं दक्षिण-मार्ग-निवृत्त्यर्थम् । निर्विण्णोऽहं दक्षिणेन मार्गेण गतागत-लक्षणेन । अतो याचे त्वां पुनः पुनः गमनागमन-वर्जितेन शोभनेन पथा नय । राये धनाय, कर्म-फल-भोगायेत्यर्थः । अस्मान् यथोक्त-धर्म-फल-विशिष्टान् विश्वानि सर्वाणि हे देव वयुनानि कर्माणि, प्रज्ञानानि वा विद्वान् जानन् ।
किञ्च, युयोधि वियोजय विनाशय अस्मद् अस्मत्तः जुहुराणं कुटिलं वञ्चनात्मकं एनः पापम् । ततो वयं विशुद्धाः सन्तः इष्टं प्राप्स्याम इत्यभिप्रायः । किन्तु वयमिदानीं ते न शक्नुमः परिचर्यां कर्तुम् । भूयिष्ठां बहुतरां ते तुभ्यं नम-उक्तिं नमस्कार-वचनं विधेम नमस्कारेण परिचरेम इत्यर्थः ॥ १८॥
``अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते'' (ई. ११) , ``विनाशेन मृत्युं तीर्त्वा असम्भूत्या अमृतमश्नुते'' (ई. १४) इति श्रुत्वा केचित् संशयं कुर्वन्ति । अतः तन्निराकरणार्थं (२७) सङ्क्षेपतो विचारणां करिष्यामः । तत्र तावत् किं-निमित्तः संशयः इति? उच्यते -
आक्षेपः
विद्या-शब्देन मुख्या परमात्म-विद्यैव कस्मान्न गृह्यते, अमृतत्वं च?
समाधानं
ननु उक्तायाः परमात्म-विद्यायाः ६.१ कर्मणश्च विरोधात् समुच्चयानुपपत्तिः ।
आक्षेपः
सत्यम् । विरोधस्तु नावगम्यते, विरोधाविरोधयोः शास्त्र-प्रमाणकत्वात् । यथा अविद्यानुष्ठानं (२८) विद्योपासनं च शास्त्र-प्रमाणकम्, तथा तद्विरोधाविरोधावपि । यथा च ``न हिंस्यात्सर्वा भूतानि'' इति शास्त्रादवगतं, पुनः शास्त्रेणैव बाध्यते ``अध्वरे पशुं हिंस्यात्'' इति, एवं विद्याविद्ययोरपि (२९) स्यात्, विद्या-कर्मणोश्च समुच्चयः ।
समाधानं
न । ``दूरमेते विपरीते विषूची अविद्या या च विद्या'' (क. १.२.४) इति श्रुतेः ।
आक्षेपः
``विद्यां चाविद्यां च'' इति वचनादविरोध इति चेत् ।
समाधानं
न । हेतु-स्वरूप-फल-विरोधात् । विद्याविद्याविरोधाविरोधयोर्विकल्पासम्भवात् (३०)
।
आक्षेपः
समुच्चय-विधानादविरोध एवेति चेत् ।
समाधानं
न । सह-सम्भवानुपपत्तेः ।
आक्षेपः
क्रमेणैकाश्रये १.२ स्यातां विद्याविद्ये इति चेत् ।
समाधानं
न । विद्योत्पत्तौ अविद्यायाः ह्यस्तत्वात् तदाश्रयेऽविद्यानुपपत्तेः । न हि ``अग्निरुष्णः प्रकाशश्च'' इति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नम्, तस्मिन्नेवाश्रये ``शीतोऽग्निरप्रकाशो वा'' इत्यविद्याया उत्पत्तिः । नापि संशयः, अज्ञानं वा । ``यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वं अनुपश्यतः'' (ई ७) इति शोक-मोहाद्यसम्भव-श्रुतेः । अविद्यासम्भवात् तदुपादानस्य कर्मणोऽप्यनुपपत्तिमवोचाम । ``अमृतमश्नुते'' इत्यापेक्षिकममृतम् ।
विद्या-शब्देन परमात्म-विद्या-ग्रहणे ``हिरण्मयेन'' इत्यादिना द्वार-मार्गादि-याचनं अनुपपन्नं स्यात् । तस्माद् उपासनया समुच्चयः, न परमात्म-विज्ञानेन, इति यथा अस्माभिः व्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ ईशावास्योपनिषद्भाष्यं सम्पूर्णम् ॥
टिप्पणी
(१) शुक्लयजुःसंहीतायाः वाजसनेयीसंहितेत्यपरनाम्न्याः चत्वारिंशदध्यायः (४०द्यण्) इयमुपनिषत्।) ।
(२) अधुना मया व्याख्यायते इति शेषः ।
(३) पाठभेद - क्वचिन्न ।
(४) जगतः इदं लक्षणम् । जगद् नाम नाम-रूप-कर्माख्यं विकार-जातम् ।
(५) पाठभेद - आत्मसम्बन्धिताभावादात्मानमिति वा ।
(६) to covet (4PP.Set) II Per.Sing.Aorist, लुङ् (मा लुङि ३.३.१७५) , when मा prefix is used with लुङ्, then लुङ् can have the meaning of लिङ् and लोट् .
(७) पाठभेद - धनमिति न क्वचित् ।
(८) अत्र कुर्वन्नेव जिजीविषेदिति न विधिः । जीवनेच्छायाः रागप्राप्तत्वात् अपि तु यदि जिजीविषेत् तदा कुर्वन्नेव जिजीविषेदिति इच्छामनूद्य कर्मकरणं विधीयते । पूर्वमन्त्रस्य तु मा गृध इति इच्छानिषेधात् संन्यासविषयत्वम् । अस्य तु इच्छानुवादाद् गृहस्थविषयत्वं च स्पष्टमेव । ततो मन्त्रयोः भिन्नविषयत्वाद् ब्रह्मविद एव कर्मविधिरिति न युक्तम् । स्तुतयेऽनुमतिर्वा (ब्र.सू. ३.४.१४) इति ब्रह्मसूत्रे तु यद्यप्यत्र प्रकरणसामर्थ्यात् विद्वानेव कुर्वन् इत्यभिसम्बध्यते तथापि विद्यास्तुतये कर्मानुज्ञानमेतदित्युक्तम् । तावता न ज्ञानकर्मसमुच्चयः सिद्ध्येत् ।
(९) पाठभेद - एवम्प्रकारे इति वा ।
(१०) पाठभेद - चकारो न क्वचित् ।
(११) पाठभेद - निवृत्तिश्च विभावितः इति वा ।
(१२) भवन्ति इति शेषः ।
(१३) मनसो जवीयः इति च इति शेषः ।
(१४) आत्मनः आभासमात्रमपि देवानां नैव विषयीभवति ।
(१५) पाठभेद - इव इत्यस्मिन् स्थाने इति, इति वा ।
(१६) स्वमात्मानं तेषां भूतानामात्मत्वेन पश्यति इत्यन्वयः ।
(१७) पाठभेद - सिरा इति वा ।
(१८) अनात्म-स्वरूपावस्थानं इति वा पाठः ।
(१९) उपासना ।
(२०) पाठभेद - अङ्गाङ्गितया जामितैव स्यादिति वा ।
(२१) समुच्चय-कारिण एकैक-पुरुषार्थ-सम्बन्धः इति पाठान्तरम् ।
(२२) असम्भूतिं च विनाशं च इति द्रष्टव्यः ।
(२३) आदित्यमण्डलस्थपुरुषम् ।
(२४) तत् - द्वारम् ।
(२५) तावकमिति वा ।
(२६) तस्य भूरिति शिरः भुवरिति बाहू सुवरिति प्रतिष्ठा (बृ. ५.५.३) । प्रतिष्ठेति पादौ ।
(२७) तन्निर्धारणार्थमिति वा ।
(२८) अविद्यायाः कर्मणः अनुष्ठानं विद्यायाः ब्रह्मविद्यायाः उपासनं च ।
(२९) अविरोधः स्यादिति भावः ।
(३०) विद्या, अविद्या, विरोधः, अविरोधः - एते सर्वे सिद्धवस्तुत्वात् न विकल्पार्हाः । उदिते जुहोति इत्यत्र अनुदिते जुहोतीत्यपि सम्भवति । किन्तु सूर्यस्यास्तित्वे विकल्पो नास्ति ।
सामवेदीयान्तर्गत-तलवकार-शाखायाः नवमोऽध्यायः इयमुपनिषत् ।
Encoded and proofread by svAminI tattvapriyAnanda tattvapriya3108 at gmail.com