ईशावास्योपनिषत् शाङ्करभाष्यसहिता

ईशावास्योपनिषत् शाङ्करभाष्यसहिता

ईशावास्योपनिषत् (१) ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ईशादिमन्त्राणां विनियोगः ``ईशा वास्यम्'' इत्यादयो मन्त्राः कर्मस्वविनियुक्ताः । तेषामकर्म-शेषस्यात्मनो याथात्म्य-प्रकाशकत्वात् । याथात्म्यं चात्मनः शुद्धत्वापाप-विद्धत्वैकत्व-नित्यत्वाशरीरत्व-सर्व-गतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्येतेति युक्त एवैषां कर्मस्वविनियोगः । न हि एवं-लक्षणमात्मनो याथात्म्यमुत्पाद्यं विकार्यमाप्यं संस्कार्यं कर्त्तृ-भोक्तृ-रूपं वा, येन कर्म-शेषता स्यात् । सर्वासामुपनिषदामात्म-याथात्म्य-निरूपणेनैव उपक्षयात् । गीतानां मोक्ष-धर्माणां चैवं-परत्वात् । तस्मादात्मनोऽनेकत्व-कर्त्तृत्व-भोक्तृत्वादि च, अशुद्धत्व-पाप-विद्धत्वादि च, उपादाय लोक-बुद्धि-सिद्धं कर्माणि विहितानि । कर्माधिकारः यो हि कर्म-फलेनार्थी दृष्टेन ब्रह्म-वर्चसादिना, अदृष्टेन स्वर्गादिना च, ``द्वि-जातिरहं, न काण-कुब्जत्वाद्यनधिकार-प्रयोजक-धर्मवान्'' इत्यात्मानं मन्यते सोऽधिक्रियते कर्मसु इति ह्यधिकार-विदो वदन्ति । अनुबन्धचतुष्टयं तस्मादेते मन्त्रा आत्मनो याथात्म्य-प्रकाशनेनाऽऽत्म-विषयं स्वाभाविकमज्ञानं निवर्त्तयन्तः शोक-मोहादि-संसार-धर्म-विच्छित्ति-साधनं आत्मैकत्वादि-विज्ञानं उत्पादयन्ति, इत्येवमुक्ताधिकार्यभिधेय-सम्बन्ध-प्रयोजनान् मन्त्रान् सङ्क्षेपतो व्याख्यास्यामः ॥ ॐ ईशा वास्यमिदꣳसर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥ ईशावास्यमित्यादि। (२) । ईशा ईष्टे इति ईट्, तेनेशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वमीष्टे सर्व-जन्तूनामात्मा सन् प्रत्यगात्मतया । तेन स्वेन रूपेणात्मना ईशा वास्यं आच्छादनीयम् । किम्? इदं सर्वं यत्किञ्च यत्किञ्चित् जगत्यां पृथिव्यां जगत् तत्सर्वम् । स्वेनात्मना ईशेन प्रत्यगात्मतया ``अहमेवेदं सर्वम्'' इति परमार्थ-सत्य-रूपेणानृतमिदं सर्वं चराचरमाच्छादनीयं स्वेन (३) परमात्मना । यथा चन्दनागर्वादेः उदकादि-सम्बन्धज-क्लेदादिजमौपाधिकं दौर्गन्ध्यं तत्स्वरूप-निघर्षणेनाच्छाद्यते स्वेन पारमार्थिकेन गन्धेन, तद्वद् एव हि स्वात्मन्यध्यस्तं स्वाभाविकं कर्तृत्व-भोक्तृत्वादि-लक्षणं जगद् द्वैत-रूपं जगत्यां पृथिव्यां - ``जगत्याम्'' इत्युपलक्षणार्थत्वात्सर्वमेव नाम-रूप-कर्माख्यं विकार-जातं (४) - परमार्थ-सत्यात्म-भावनया त्यक्तं स्यात् । एवमीश्वरात्म-भावनया युक्तस्य पुत्राद्येषणा-त्रय-संन्यासे एवाधिकारः, न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थः । न हि त्यक्तो मृतः पुत्रो वा भृत्यो वा आत्म-सम्बन्धितायाः (५) अभावादात्मानं पालयति । अतः ``त्यागेन'' इत्ययमेव वेदार्थः । भुञ्जीथाः पालयेथाः । एवं त्यक्तैषणस्त्वं मा गृधः (६) गृधिमाकाङ्क्षां मा कार्षीः धन-विषयाम् । कस्यस्विद्धनं (७) कस्यचित् परस्य स्वस्य वा धनं मा काङ्क्षीरित्यर्थः । स्विदित्यनर्थको निपातः । अथवा, मा गृधः । कस्मात्? कस्यस्विद्धनं इत्याक्षेपार्थः । न कस्यचिद्धनमस्ति, यद् गृध्येत । ``आत्मैवेदं सर्वम्'' (छा. ८.२५.२) इतीश्वर-भावनया सर्वं त्यक्तम् । अत आत्मन एवेदं सर्वम्, आत्मैव च सर्वम् । अतो मिथ्या-विषयां गृधिं मा कार्षीरित्यर्थः ॥ १॥ एवं ``आत्म-विदः पुत्राद्येषणा-त्रय-संन्यासेनात्म-ज्ञान-निष्ठतया आत्मा रक्षितव्यः'' इत्येष वेदार्थः । अथ इतरस्य अनात्मज्ञतयाऽऽत्म-ग्रहणायाशक्तस्य इदमुपदिशति मन्त्रः - कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳसमाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥ कुर्वन्निति । कुर्वन्नेव (८) इह निर्वर्त्तयन्नेव कर्माणि अग्निहोत्रादीनि जिजीविषेत् जीवितुमिच्छेत् शतं शत-सङ्ख्याकाः समाः संवत्सरान् । तावद्धि पुरुषस्य परमायुर्निरूपितम् । तथा च प्राप्तानुवादेन यज्जिजीविषेत् शतं वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्विधीयते । एवं एवं-प्रकारेण (९) त्वयि जिजीविषति नरे नर-मात्राभिमानिनि इतः एतस्माद् अग्निहोत्रादीनि कर्माणि कुर्वतो वर्त्तमानात् प्रकाराद् अन्यथा प्रकारान्तरं न अस्ति, येन प्रकारेणाशुभं कर्म न लिप्यते । कर्मणा न लिप्यत इत्यर्थः । अतः शास्त्र-विहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् । ज्ञानकर्मसमुच्चयखण्डनं प्रश्नः कथं पुनरिदमवगम्यते ``पूर्वेण मन्त्रेण संन्यासिनो ज्ञान-निष्ठोक्ता, द्वितीयेन तदशक्तस्य कर्म-निष्ठा'' इति? उत्तरं ज्ञानकर्मविभागः उच्यते । ज्ञान-कर्मणोर्विरोधं पर्वतवद् अकम्प्यं यथोक्तं न स्मरसि किम्? इहाप्युक्तं - ``यो हि जिजीविषेत् स कर्माणि कुर्वन्'' इति, ``ईशा वास्यमिदं सर्वम्'', ``तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम्'' (ई. १) इति च । ``न जीविते मरणे वा गृधिं कुर्वीतारण्यमियात् इति च (१०) पदम्, ततो न पुनरियात्'' इति संन्यास-शासनात् । उभयोः फल-भेदं च वक्ष्यति (७, १८) । ``इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रिया-पथश्चैव पुरस्तात् सन्न्यासश्चोत्तरेण''। निवृत्ति-मार्गेण एषणा-त्रयस्य त्यागः । तयोः सन्न्यास-पथ एवातिरेचयति । ``न्यास एवात्यरेचयत्'' (म.ना. ४.७८) इति च तैत्तिरीयके । ``द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्ति-लक्षणो धर्मो निवृत्तिश्च विभाषितः `` (म.भा.शा. २४१.६) इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता । विभागं चानयोः प्रदर्शयिष्यामः (नवम-मन्त्र-व्याख्यानावतरणिकायाम्, अन्तिम-मन्त्र-व्याख्याने च) ॥ २॥ अथेदानीमविद्वन्निन्दार्थोऽयं मन्त्र आरभ्यते - असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । ताꣳस्ते प्रेत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः ॥ ३॥ असुर्याः परमात्म-भावमद्वयमपेक्ष्य देवादयोऽप्यसुराः । तेषां च स्व-भूता लोका असुर्याः नाम । नाम-शब्दोऽनर्थको निपातः । ते लोकाः कर्म-फलानि । लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि । अन्धेन अदर्शनात्मकेनाज्ञानेन तमसा आवृताः आच्छादिताः । तान् स्थावरान्तान् प्रेत्य त्यक्त्वेमं देहं अभिगच्छन्ति यथा-कर्म यथा-श्रुतं (क. २.२.७) । ये के च आत्महनः आत्मानं घ्नन्तीत्यात्महनः । के? ते जनाः येऽविद्वांसः । कथं ते आत्मानं नित्यं हिंसन्ति? अविद्या-दोषेण विद्यमानस्यात्मनः तिरस्करणात् । विद्यमानस्यात्मनो यत्कार्यं फलमजरामरत्वादि-संवेदन-लक्षणम्, तत् हतस्य इव तिरोभूतं भवतीति प्राकृता अविद्वांसो जना आत्महन इत्युच्यन्ते । तेन ह्यात्म-हनन-दोषेण संसरन्ति ते ॥ ३॥ यस्यात्मनो हननादविद्वांसः संसरन्ति, तद्विपर्ययेण विद्वांसो जना मुच्यन्ते ते नात्महनः (१२) , तत्कीदृशमात्म-तत्त्वमिति? उच्यते - अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४॥ अनेजदिति । अनेजत् न एजत् । ``एजृ कम्पने''। कम्पनं चलनं, स्वावस्था-प्रच्युतिः, तद्वर्जितम् । सर्वदैक-रूपमित्यर्थः । तच्च एकं सर्व-भूतेषु । मनसः सङ्कल्पादि-लक्षणाद् जवीयः जववत्तरम् । आक्षेपः कथं विरुद्धमुच्यते - ``ध्रुवं निश्चलमिदम्'', ``मनसो जवीयः'', इति च? समाधानं नैष दोषः । निरुपाध्युपाधिमत्त्वेनोपपत्तेः । तत्र निरुपाधिकेन स्वेन रूपेणोच्यते ``अनेजदेकम्'' इति । मनसोऽन्तः-करणस्य सङ्कल्प-विकल्प-लक्षणस्योपाधेः अनु-वर्त्तनात् (१३) । इह देहस्थस्य मनसो ब्रह्म-लोकादि-दूर-गमनं सङ्कल्पेन क्षण-मात्राद् भवतीत्यतो मनसो जविष्ठत्वं लोके प्रसिद्धम् । तस्मिन्मनसि ब्रह्म-लोकादीन् द्रुतं गच्छति सति, प्रथम-प्राप्तः इव आत्म-चैतन्यावभासो गृह्यते । अतः ``मनसो जवीयः'' इत्याह । न एनद् देवाः द्योतनाद्देवाः चक्षुरादीनीन्द्रियाणि, एतत् प्रकृतमात्म-तत्त्वं न आप्नुवन् न प्राप्तवन्तः । तेभ्यो मनो जवीयः । मनो-व्यापार-व्यवहितत्वाद् आभास-मात्रमप्यात्मनः (१४) नैव देवानां विषयी-भवति । यस्माद् जवनान्मनसोऽपि पूर्वमर्षत् पूर्वमेव गतं, व्योमवद् व्यापित्वात् । सर्व-व्यापि तदात्म-तत्त्वं सर्व-संसार-धर्म-वर्जितं स्वेन निरुपाधिकेन स्वरूपेण अविक्रियमेव सत्, उपाधि-कृताः सर्वाः संसार-विक्रिया अनुभवति इव (१५) अविवेकिनां मूढानामनेकं इव च प्रति-देहं प्रत्यवभासत इत्येतदाह - तद् धावतः द्रुतं गच्छतः अन्यान् आत्म-विलक्षणान् मनो-वागिन्द्रिय-प्रभृतीन् अत्येति अतीत्य गच्छति इव । इवार्थं स्वयमेव दर्शयति - ``तिष्ठत्'' इति, स्वयमविक्रियमेव सदित्यर्थः । तस्मिन् आत्म-तत्त्वे सति नित्य-चैतन्य-स्वभावे, मातरिश्वा मातरि अन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः, सर्व-प्राण-भृत्, क्रियात्मकः । यदाश्रयाणि कार्य-करण-जातानि यस्मिन्नोतानि प्रोतानि च, यत्सूत्र-संज्ञकं सर्वस्य जगतो विधारयितृ, स मातरिश्वा । अपः कर्माणि प्राणिनां चेष्टा-लक्षणानि, अग्न्यादित्य-पर्जन्यादीनां ज्वलन-दहन-प्रकाशाभिवर्षणादि-लक्षणानि । दधाति विभजति इत्यर्थः । धारयतीति वा । ``भीषास्माद्वातः पवते'' (तै. २.८.१) इत्यादि-श्रुतिभ्यः । सर्वा हि कार्य-करणादि-विक्रिया नित्य-चैतन्यात्म-स्वरूपे सर्वास्पद-भूते सत्येव भवन्तीत्यर्थः ॥ ४॥ न मन्त्राणां जामितास्तीति पूर्वमन्त्रोक्तमप्यर्थं पुनराह - तदेजति तन्नैजति तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥ तदेजतीति । तद् आत्म-तत्त्वं यत्प्रकृतं तद् एजति चलति, तद् एव च नैजति स्वतो नैव चलति । स्वतोऽचलमेव सत्, चलति इव इत्यर्थः । किञ्च, तद् दूरे वर्ष-कोटि-शतैरप्यविदुषां अप्राप्यत्वाद् दूरे इव । तद् उ अन्तिके इति च्छेदः । तदु अन्तिके समीपेऽत्यन्तमेव विदुषामात्मत्वात् । न केवलं दूरे, अन्तिके च । तद् अन्तः अभ्यन्तरे अस्य सर्वस्य । ``य आत्मा सर्वान्तरः'' (बृ. ३.४.१) इति श्रुतेः । अस्य सर्वस्य जगतो नाम-रूप-क्रियात्मकस्य तद् उ अपि सर्वस्य अस्य बाह्यतः । व्यापकत्वादाकाशवद् निरतिशय-सूक्ष्मत्वाद् अन्तः । ``प्रज्ञान-घन एव'' (बृ. ४.५.१३) इति च शासनान्निरन्तरं च ॥ ५॥ यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥ यस्तु यः परिव्राट् मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि आत्मन्येव अनुपश्यति । आत्म-व्यतिरिक्तानि न पश्यतीत्यर्थः । सर्वभूतेषु च तेष्वेव च आत्मानं तेषामपि भूतानां स्वमात्मानमात्मत्वेन (१६) , ``यथास्य देहस्य कार्य-करण-सङ्घातस्य आत्मा अहं सर्व-प्रत्यय-साक्षि-भूतश्चेतयिता केवलो निर्गुणः, अनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवात्मा'' इति सर्व-भूतेषु चात्मानं निर्विशेषं यस्त्वनुपश्यति सः ततः तस्मादेव दर्शनाद् न विजुगुप्सते विजुगुप्सां घृणां न करोति । प्राप्तस्यैवानुवादोऽयम् । सर्वा हि घृणा आत्मनोऽन्यद् दुष्टं पश्यतो भवति । आत्मानमेवात्यन्त-विशुद्धं निरन्तरं पश्यतो न घृणा-निमित्तं अर्थान्तरं अस्तीति प्राप्तमेव ``ततो न विजुगुप्सते'' इति ॥ ६॥ इममेवार्थमन्योऽपि मन्त्र आह - यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोकः एकत्वमनुपश्यतः ॥ ७॥ यस्मिन्सर्वाणि भूतानि । यस्मिन् काले यथोक्तात्मनि वा, तान्येव भूतानि सर्वाणि परमार्थात्म-दर्शनात् आत्मैवाभूत् आत्मैव संवृत्तः, परमार्थ-वस्तु विजानतः, तत्र तस्मिन्काले तत्रात्मनि वा, को मोहः कः शोकः । शोकश्च मोहश्च काम-कर्म-बीजं अजानतो भवति । न तु आत्म-एकत्वं विशुद्धं गगनोपमं पश्यतः । ``को मोहः कः शोकः'' इति शोक-मोहयोरविद्या-कार्ययोराक्षेपेणासम्भव-प्रदर्शनात् सकारणस्य संसारस्य अत्यन्तमेवोच्छेदः प्रदर्शितो भवति ॥ ७॥ योऽयमतीतैर्मन्त्रैरुक्तः आत्मा, स स्वेन रूपेण किं-लक्षण इत्याह अयं मन्त्रः - स पर्यगाच्छुक्रमकायमव्रणं अस्नाविरꣳशुद्धमपापविद्धम् । कविर्मनीषी परिभूः स्वयम्भूः याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८॥ स पर्यगात् । सः यथोक्त आत्मा पर्यगात् परि समन्ताद् अगात् गतवान् । आकाशवद् व्यापीत्यर्थः । शुक्रं शुद्धं ज्योतिष्मत् । दीप्तिमानित्यर्थः । अकायं अशरीरः । लिङ्ग-शरीर-वर्जित इत्यर्थः । अव्रणं अक्षतम् । अस्नाविरं स्नावाः (१७) शिराः यस्मिन्न विद्यन्त इत्यस्नाविरम् । अव्रणमस्नाविरमित्याभ्यां स्थूल-शरीर-प्रतिषेधः । शुद्धं निर्मलमविद्या-मल-रहितमिति कारण-शरीर-प्रतिषेधः । अपापविद्धं धर्माधर्मादि-पाप-वर्जितम् । शुक्रमित्यादीनि वचांसि पुँल्लिङ्गत्वेन परिणेयानि, ``स पर्यगात्'' इत्युपक्रम्य ``कविर्मनीषी'' इत्यादिना पुँल्लिङ्गत्वेनोपसंहारात् । कविः क्रान्त-दर्शी सर्व-दृक्, ``नान्यदतोऽस्ति द्रष्टृ'' (बृ. ३.८.११) इत्यादि-श्रुतेः । मनीषी मनस ईषिता, सर्वज्ञः ईश्वर इत्यर्थः । परिभूः सर्वेषां परि उपरि भवतीति परिभूः । स्वयम्भूः स्वयमेव भवतीति । येषामुपरि भवति, यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयम्भूः । स नित्य-मुक्त ईश्वरः याथातथ्यतः सर्वज्ञत्वात् यथा-तथा-भावो याथातथ्यं तस्मात् यथा-भूत-कर्म-फल-साधनतः अर्थान् कर्त्तव्य-पदार्थान् व्यदधात् विहितवान्, यथानुरूपं व्यभजदित्यर्थः । शाश्वतीभ्यः नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यः इत्यर्थः ॥ ८॥ ईशावास्योपनिषद्विभागः अत्राद्येन मन्त्रेण सर्वैषणा-परित्यागेन ज्ञान-निष्ठोक्ता प्रथमो वेदार्थः, ``ईशा वास्यमिदं सर्वम् ॥मा गृधः कस्य स्विद्धनम्'' (ई. १) इति । अज्ञानां जिजीविषूणां ज्ञान-निष्ठाऽसम्भवे ``कुर्वन्नेवेह कर्माणि जिजीविषेत्'' (ई. २) इति कर्म-निष्ठोक्ता द्वितीयो वेदार्थः । बृहदारण्यके प्रवृत्तिमार्गप्रदर्शनं अनयोश्च निष्ठयोर्विभागो मन्त्र-द्वय-प्रदर्शितयोर्बृहदारण्यकेऽपि प्रदर्शितः - ``सोऽकामयत जाया मे स्यात्'' (बृ. १.४.१७) इत्यादिना अज्ञस्य कामिनः कर्माणीति । ``मन एवास्यात्मा वाग्जाया'' (बृ. १.४.१७) इत्यादि-वचनादज्ञत्वं कामित्वं च कर्म-निष्ठस्य निश्चितं अवगम्यते । तथा च तत्फलं सप्तान्न-सर्गः । तेष्वात्म-भावेन (१८) आत्म-स्वरूपावस्थानम् । बृहदारण्यके निवृत्तिमार्गप्रदर्शनं जायाद्येषणा-त्रय-संन्यासेन चात्म-विदां कर्म-निष्ठा-प्रातिकूल्येन आत्म-स्वरूप-निष्ठैव दर्शिता - ``किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः'' (बृ. ४.४.२२) इत्यादिना । ईशावास्ये प्रदर्शित-ज्ञानयोग-विवरणं ये तु ज्ञान-निष्ठाः संन्यासिनः तेभ्यः ४.३ ``असुर्या नाम ते'' (ई. ३) इत्यादिना अविद्वन्निन्दा-द्वारेणात्मनो याथात्म्यं ``स पर्यगात्'' (ई. ८) इत्येतदन्तैर्मन्त्रैः उपदिष्टम् । ते ह्यत्राधिकृता न कामिन इति । तथा च श्वेताश्वतराणां मन्त्रोपनिषदि ``अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषि-सङ्घ-जुष्टम्'' (श्वे. ६.२१) इत्यादि विभज्योक्तम् । ईशावास्ये प्रदर्शित-कर्मयोग-विवरणं ये तु कर्मिणः कर्म-निष्ठाः कर्म कुर्वन्त एव जिजीविषवः तेभ्य इदमुच्यते - ``अन्धं तमः'' इत्यादि । ब्रह्मविद्या-कर्मसमुच्चयखण्डनं आक्षेपः कथं पुनरेवमवगम्यते, न तु सर्वेषामिति? समाधानं उच्यते - अकामिनः साध्य-साधन-भेदोपमर्देन ``यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः'' (ई. ७) इति यदात्मैकत्व-विज्ञानमुक्तं, तन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चिचीषति । इह तु समुच्चिचीषया अविद्वदादि-निन्दा क्रियते । तत्र च यस्य येन समुच्चयः सम्भवति, न्यायतः शास्त्रतो वा, तदिहोच्यते । यद्दैवं वित्तं देवता-विषयं ज्ञानं तत् कर्म-सम्बन्धित्वेनोपन्यस्तं, न परमात्म-ज्ञानम् । ``विद्यया देव-लोकः'' (बृ. १.५.१६) इति पृथक्फल-श्रवणात् । तयोर्ज्ञान-कर्मणोरिह एकैकानुष्ठान-निन्दा समुच्चिचीषया, न निन्दा-परैव, एकैकस्य पृथक्फल-श्रवणात् ``विद्यया तदारोहन्ति'' (शतपथब्रा. १०.५.४.६) , ``विद्यया देव-लोकः'' (बृ. १.५.१६) , ``न तत्र दक्षिणा यान्ति'' (शतपथब्रा. १०.५.४.६) , ``कर्मणा पितृ-लोकः'' (बृ. १.५.१६) इति । न हि शास्त्र-विहितं किञ्चिदकर्त्तव्यतां इयात् । तत्र - अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायाꣳरताः ॥ ९॥ अन्धं तमः अदर्शनात्मकं तमः प्रविशन्ति । के? ये अविद्यां विद्याया अन्या अविद्या, तां, कर्मेत्यर्थः । कर्मणो विद्या-विरोधित्वात् । तामविद्यामग्निहोत्रादि-लक्षणामेव केवलां उपासते तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः । ततः तस्मादन्धात्मकात् तमसः भूय इव बहुतरमेव ते तमः प्रविशन्ति । के? कर्म हित्वा ये उ ये तु विद्यायां एव, देवता-ज्ञाने एव रताः अभिरताः ॥ ९॥ तत्रावान्तर-फल-भेदं विद्या (१९) -कर्मणोः समुच्चय-कारणमाह । अन्यथा फलवदफलवतोः सन्निहितयोरङ्गाङ्गिता एव (२०) स्यादित्यर्थः । अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥ अन्यदेवेत्यादि । अन्यत् पृथग् एव विद्यया क्रियते फलमिति आहुः वदन्ति । ``विद्यया देव-लोकः'' (बृ. १.५.१६) ``विद्यया तदारोहन्ति'' (शतपथब्रा. १०.५.४.६) इति श्रुतेः । अन्यद् आहुः अविद्यया कर्मणा क्रियते फलमिति । ``कर्मणा पितृ-लोकः'' (बृ. १.५.१६) इति श्रुतेः । इति एवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् । ये आचार्या नः अस्मभ्यं तत् कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तः।, तेषामयमागमः पारम्पर्यागत इत्यर्थः ॥ १०॥ यत एवमतः - विद्यां चाविद्यां च यस्तद्वेदोभयꣳसह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११॥ विद्यां च अविद्यां च देवता-ज्ञानं कर्म चेत्यर्थः । यः तद् एतद् उभयं सह एकेन पुरुषेण अनुष्ठेयं वेद तस्यैवं समुच्चय-कारिण एव एक-पुरुषार्थ-सम्बन्धः (२१) क्रमेण स्यादित्युच्यते - अविद्यया कर्मणा अग्निहोत्रादिना मृत्युं स्वाभाविकं कर्म ज्ञानं च मृत्यु-शब्द-वाच्यं उभयं तीर्त्वा अतिक्रम्य विद्यया देवता-ज्ञानेन अमृतं देवतात्म-भावं अश्नुते प्राप्नोति । तद्ध्यमृतमुच्यते यद्देवतात्म-गमनम् ॥ ११॥ अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते - अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते । ततो भूय इव ते तमो य उ सम्भूत्याꣳरताः ॥ १२॥ अन्धं तमः प्रविशन्ति ये असम्भूतिं - सम्भवनं सम्भूतिः, सा यस्य कार्यस्य सा सम्भूतिः, तस्या अन्या असम्भूतिः प्रकृतिः कारणमविद्या अव्याकृताख्या, तां असम्भूतिमव्याकृताख्यां प्रकृतिं कारणमविद्यां काम-कर्म-बीज-भूतामदर्शनात्मिकां - उपासते ये, ते तदनुरूपमेवान्धं तमोऽदर्शनात्मकं प्रविशन्ति । ततः तस्मादपि भूयः बहुतरमिव तमः ते प्रविशन्ति ये उ सम्भूत्यां कार्य-ब्रह्मणि हिरण्यगर्भाख्ये रताः ॥ १२॥ अधुना उभयोरुपासनयोः समुच्चय-कारणमवयव-फल-भेदमाह - अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥ अन्यदेवेति । अन्यदेव पृथगेव आहुः फलं सम्भवात् सम्भूतेः कार्य-ब्रह्मोपासनात् अणिमाद्यैश्वर्य-लक्षणं व्याख्यातवन्त इत्यर्थः । तथा च अन्यदाहुः असम्भवात् असम्भूतेरव्याकृताद् अव्याकृतोपासनात् । यदुक्तं ``अन्धं तमः प्रविशन्ति'' इति, ``प्रकृति-लयः'' इति च पौराणिकैरुच्यते । इति एवं शुश्रुम धीराणां वचनं ये नः तद्विचचक्षिरे व्याकृताव्याकृतोपासन-फलं व्याख्यातवन्त इत्यर्थः ॥ १३॥ यत एवमतः समुच्चयः सम्भूत्यसम्भूत्युपासनयोर्युक्तः एव एक-पुरुषार्थत्वाच्चेत्याह - (अ) सम्भूतिं च विनाशं च यस्तद्वेदोभयꣳसह । विनाशेन मृत्युं तीर्त्वाऽसम्भूत्याऽमृतमश्नुते ॥ १४॥ सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह, विनाशेन विनाशो धर्मो यस्य कार्यस्य सः तेन धर्मिणा अभेदेनोच्यते ``विनाशः'' इति । तेन तदुपासनेन अनैश्वर्यमधर्म-कामादि-दोष-जातं च मृत्युं तीर्त्वा - हिरण्यगर्भोपासनेन ह्यणिमादि-प्राप्तिः फलम्, तेन अनैश्वर्यादि-मृत्युमतीत्य - असम्भूत्या अव्याकृतोपासनया अमृतं प्रकृति-लय-लक्षणं अश्नुते । ``सम्भूतिं च विनाशं च'' इत्यत्रावर्णलोपेन (२२) निर्देशो द्रष्टव्यः, प्रकृति-लय-फल-श्रुत्यनुरोधात् ॥ १४॥ मानुष-दैव-वित्त-साध्यं फलं शास्त्र-लक्षणं प्रकृति-लयान्तम् । एतावती संसार-गतिः । अतः परं पूर्वोक्तं ``आत्मैवाभूद्विजानतः'' (ई. ७) इति सर्वात्म-भाव एव सर्वैषणा-संन्यास-ज्ञान-निष्ठा-फलम् । एवं द्वि-प्रकारः प्रवृत्ति-निवृत्ति-लक्षणो वेदार्थोऽत्र प्रकाशितः । तत्र प्रवृत्ति-लक्षणस्य वेदार्थस्य विधि-प्रतिषेध-लक्षणस्य कृत्स्नस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्मणमुपयुक्तम् । निवृत्ति-लक्षणस्य वेदार्थस्य प्रकाशने अत ऊर्ध्वं बृहदारण्यकं उपयुक्तम् । तत्र निषेकादि-श्मशानान्तं कर्म कुर्वन् जिजीविषेद्यो विद्यया सह, अपर-ब्रह्म-विषयया, तदुक्तं - ``विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते'' (ई. ११) इति । तत्र (सोऽधिकारी) केन मार्गेणामृतत्वमश्नुते? इत्युच्यते - ``तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः'' (बृ. ५.५.२) । एतदुभयं सत्यं ब्रह्मोपासीनः, यथोक्त-कर्म-कृच्च यः, सोऽन्तकाले प्राप्ते सत्यात्मानम् (२३) आत्मनः प्राप्ति-द्वारं याचते - हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥ हिरण्मयेन पात्रेण हिरण्मयं इव हिरण्मयम्, ज्योतिर्मयमित्येतत् । तेन पात्रेण इव अपिधान-भूतेन सत्यस्य एव आदित्य-मण्डलस्थस्य ब्रह्मणः अपिहितं आच्छादितं मुखं द्वारम् । तत् (२४) त्वं हे पूषन् अपावृणु अपसारय सत्यधर्माय तव सत्यस्योपासनात् सत्यं धर्मो यस्य मम सोऽहं सत्य-धर्मा तस्मै मह्यम् । अथवा, यथा-भूतस्य धर्मस्यानुष्ठात्रे । दृष्टये तव सत्यात्मन उपलब्धये ॥ १५॥ पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६॥ पूषन्निति । हे पूषन् जगतः पोषणात्पूषा रविः । तथा एक एव ऋषति गच्छतीत्येकर्षिः, हे एकर्षे । तथा सर्वस्य संयमनाद्यमः, हे यम । तथा रश्मीनां प्राणानां रसानां च स्वीकरणात् सूर्यः, हे सूर्य । प्रजापतेरपत्यं प्राजापत्यः, हे प्राजापत्य । व्यूह विगमय रश्मीन् स्वान् । समूह एकीकुरु उपसंहर ते तेजः तापकं (२५) ज्योतिः । यत् ते तव रूपं कल्याणतमं अत्यन्त-शोभनम्, तत् ते तव आत्मनः प्रसादात् पश्यामि । किञ्च, अहं न तु त्वां भृत्यवद् याचे, योऽसौ आदित्य-मण्डलस्थः व्याहृत्यवयवः (२६) पुरुषः पुरुषाकारत्वात्, पूर्णं वानेन प्राण-बुद्ध्यात्मना जगत्समस्तमिति पुरुषः । पुरि शयनाद्वा पुरुषः । सोऽहं अस्मि भवामि ॥ १६॥ वायुरनिलममृतमथेदं भस्मान्तꣳशरीरम् । ॐ क्रतो स्मर कृतꣳस्मर क्रतो स्मर कृतꣳस्मर ॥ १७॥ वायुरिति । अथेदानीं मम मरिष्यतो वायुः प्राणः अध्यात्म-परिच्छेदं हित्वा अधिदैवतात्मानं सर्वात्मकं अनिलं अमृतं सूत्रात्मानं, प्रतिपद्यतामिति वाक्य-शेषः । ``लिङ्गं चेदं ज्ञान-कर्म-संस्कृतमुत्क्रामतु'' इति द्रष्टव्यम्, मार्ग-याचन-सामर्थ्यात् । अथ इदं शरीरं अग्नौ हुतं भस्मान्तं भस्मावशेषं भूयात् । ओमिति यथोपासनं ओम्प्रतीकात्मकत्वात् सत्यात्मकं अग्न्याख्यं ब्रह्माभेदेनोच्यते । हे क्रतो सङ्कल्पात्मक स्मर यन्मम स्मर्त्तव्यं तस्य कालोऽयं प्रत्युपस्थितः । अतः स्मर एतावन्तं कालं भावितम् । कृतं अग्ने स्मर यन्मया बाल्य-प्रभृत्यनुष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मर इति पुनर्वचनमादरार्थम् ॥ १७॥ पुनरन्येन मन्त्रेण मार्गं याचते - अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १८॥ अग्ने नयेति । हे अग्ने नय गमय सुपथा शोभनेन मार्गेण । सुपथेति विशेषणं दक्षिण-मार्ग-निवृत्त्यर्थम् । निर्विण्णोऽहं दक्षिणेन मार्गेण गतागत-लक्षणेन । अतो याचे त्वां पुनः पुनः गमनागमन-वर्जितेन शोभनेन पथा नय । राये धनाय, कर्म-फल-भोगायेत्यर्थः । अस्मान् यथोक्त-धर्म-फल-विशिष्टान् विश्वानि सर्वाणि हे देव वयुनानि कर्माणि, प्रज्ञानानि वा विद्वान् जानन् । किञ्च, युयोधि वियोजय विनाशय अस्मद् अस्मत्तः जुहुराणं कुटिलं वञ्चनात्मकं एनः पापम् । ततो वयं विशुद्धाः सन्तः इष्टं प्राप्स्याम इत्यभिप्रायः । किन्तु वयमिदानीं ते न शक्नुमः परिचर्यां कर्तुम् । भूयिष्ठां बहुतरां ते तुभ्यं नम-उक्तिं नमस्कार-वचनं विधेम नमस्कारेण परिचरेम इत्यर्थः ॥ १८॥ ``अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते'' (ई. ११) , ``विनाशेन मृत्युं तीर्त्वा असम्भूत्या अमृतमश्नुते'' (ई. १४) इति श्रुत्वा केचित् संशयं कुर्वन्ति । अतः तन्निराकरणार्थं (२७) सङ्क्षेपतो विचारणां करिष्यामः । तत्र तावत् किं-निमित्तः संशयः इति? उच्यते - आक्षेपः विद्या-शब्देन मुख्या परमात्म-विद्यैव कस्मान्न गृह्यते, अमृतत्वं च? समाधानं ननु उक्तायाः परमात्म-विद्यायाः ६.१ कर्मणश्च विरोधात् समुच्चयानुपपत्तिः । आक्षेपः सत्यम् । विरोधस्तु नावगम्यते, विरोधाविरोधयोः शास्त्र-प्रमाणकत्वात् । यथा अविद्यानुष्ठानं (२८) विद्योपासनं च शास्त्र-प्रमाणकम्, तथा तद्विरोधाविरोधावपि । यथा च ``न हिंस्यात्सर्वा भूतानि'' इति शास्त्रादवगतं, पुनः शास्त्रेणैव बाध्यते ``अध्वरे पशुं हिंस्यात्'' इति, एवं विद्याविद्ययोरपि (२९) स्यात्, विद्या-कर्मणोश्च समुच्चयः । समाधानं न । ``दूरमेते विपरीते विषूची अविद्या या च विद्या'' (क. १.२.४) इति श्रुतेः । आक्षेपः ``विद्यां चाविद्यां च'' इति वचनादविरोध इति चेत् । समाधानं न । हेतु-स्वरूप-फल-विरोधात् । विद्याविद्याविरोधाविरोधयोर्विकल्पासम्भवात् (३०) । आक्षेपः समुच्चय-विधानादविरोध एवेति चेत् । समाधानं न । सह-सम्भवानुपपत्तेः । आक्षेपः क्रमेणैकाश्रये १.२ स्यातां विद्याविद्ये इति चेत् । समाधानं न । विद्योत्पत्तौ अविद्यायाः ह्यस्तत्वात् तदाश्रयेऽविद्यानुपपत्तेः । न हि ``अग्निरुष्णः प्रकाशश्च'' इति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नम्, तस्मिन्नेवाश्रये ``शीतोऽग्निरप्रकाशो वा'' इत्यविद्याया उत्पत्तिः । नापि संशयः, अज्ञानं वा । ``यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वं अनुपश्यतः'' (ई ७) इति शोक-मोहाद्यसम्भव-श्रुतेः । अविद्यासम्भवात् तदुपादानस्य कर्मणोऽप्यनुपपत्तिमवोचाम । ``अमृतमश्नुते'' इत्यापेक्षिकममृतम् । विद्या-शब्देन परमात्म-विद्या-ग्रहणे ``हिरण्मयेन'' इत्यादिना द्वार-मार्गादि-याचनं अनुपपन्नं स्यात् । तस्माद् उपासनया समुच्चयः, न परमात्म-विज्ञानेन, इति यथा अस्माभिः व्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ ईशावास्योपनिषद्भाष्यं सम्पूर्णम् ॥

टिप्पणी

(१) शुक्लयजुःसंहीतायाः वाजसनेयीसंहितेत्यपरनाम्न्याः चत्वारिंशदध्यायः (४०द्यण्) इयमुपनिषत्।) । (२) अधुना मया व्याख्यायते इति शेषः । (३) पाठभेद - क्वचिन्न । (४) जगतः इदं लक्षणम् । जगद् नाम नाम-रूप-कर्माख्यं विकार-जातम् । (५) पाठभेद - आत्मसम्बन्धिताभावादात्मानमिति वा । (६) to covet (4PP.Set) II Per.Sing.Aorist, लुङ् (मा लुङि ३.३.१७५) , when मा prefix is used with लुङ्, then लुङ् can have the meaning of लिङ् and लोट् . (७) पाठभेद - धनमिति न क्वचित् । (८) अत्र कुर्वन्नेव जिजीविषेदिति न विधिः । जीवनेच्छायाः रागप्राप्तत्वात् अपि तु यदि जिजीविषेत् तदा कुर्वन्नेव जिजीविषेदिति इच्छामनूद्य कर्मकरणं विधीयते । पूर्वमन्त्रस्य तु मा गृध इति इच्छानिषेधात् संन्यासविषयत्वम् । अस्य तु इच्छानुवादाद् गृहस्थविषयत्वं च स्पष्टमेव । ततो मन्त्रयोः भिन्नविषयत्वाद् ब्रह्मविद एव कर्मविधिरिति न युक्तम् । स्तुतयेऽनुमतिर्वा (ब्र.सू. ३.४.१४) इति ब्रह्मसूत्रे तु यद्यप्यत्र प्रकरणसामर्थ्यात् विद्वानेव कुर्वन् इत्यभिसम्बध्यते तथापि विद्यास्तुतये कर्मानुज्ञानमेतदित्युक्तम् । तावता न ज्ञानकर्मसमुच्चयः सिद्ध्येत् । (९) पाठभेद - एवम्प्रकारे इति वा । (१०) पाठभेद - चकारो न क्वचित् । (११) पाठभेद - निवृत्तिश्च विभावितः इति वा । (१२) भवन्ति इति शेषः । (१३) मनसो जवीयः इति च इति शेषः । (१४) आत्मनः आभासमात्रमपि देवानां नैव विषयीभवति । (१५) पाठभेद - इव इत्यस्मिन् स्थाने इति, इति वा । (१६) स्वमात्मानं तेषां भूतानामात्मत्वेन पश्यति इत्यन्वयः । (१७) पाठभेद - सिरा इति वा । (१८) अनात्म-स्वरूपावस्थानं इति वा पाठः । (१९) उपासना । (२०) पाठभेद - अङ्गाङ्गितया जामितैव स्यादिति वा । (२१) समुच्चय-कारिण एकैक-पुरुषार्थ-सम्बन्धः इति पाठान्तरम् । (२२) असम्भूतिं च विनाशं च इति द्रष्टव्यः । (२३) आदित्यमण्डलस्थपुरुषम् । (२४) तत् - द्वारम् । (२५) तावकमिति वा । (२६) तस्य भूरिति शिरः भुवरिति बाहू सुवरिति प्रतिष्ठा (बृ. ५.५.३) । प्रतिष्ठेति पादौ । (२७) तन्निर्धारणार्थमिति वा । (२८) अविद्यायाः कर्मणः अनुष्ठानं विद्यायाः ब्रह्मविद्यायाः उपासनं च । (२९) अविरोधः स्यादिति भावः । (३०) विद्या, अविद्या, विरोधः, अविरोधः - एते सर्वे सिद्धवस्तुत्वात् न विकल्पार्हाः । उदिते जुहोति इत्यत्र अनुदिते जुहोतीत्यपि सम्भवति । किन्तु सूर्यस्यास्तित्वे विकल्पो नास्ति । सामवेदीयान्तर्गत-तलवकार-शाखायाः नवमोऽध्यायः इयमुपनिषत् । Encoded and proofread by svAminI tattvapriyAnanda tattvapriya3108 at gmail.com
% Text title            : IshAvAsyopanishat (shAnkarabhAShya 2)
% File name             : IshAvAsyopanishadshAnkarabhAShya.itx
% itxtitle              : IshAvAsyopanishat sabhAShya (shANkarabhAShya 2)
% engtitle              : IshAvAsyopanishat sabhAShya (shAnkarabhAShya 2)
% Category              : upanishhat, shankarAchArya, bhAShya
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : svAminI tattvapriyAnanda tattvapriya3108 at gmail.com
% Proofread by          : svAminI tattvapriyAnanda
% Indexextra            : (mUlam, Formatted docx, pdf)
% Acknowledge-Permission: svAminI tattvapriyAnanda
% Latest update         : August 25, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org