नारायणोत्तरतापिनीयोपनिषत्
प्रथमः खण्डः ।
स होवाच भगवान् ब्रह्मा आनन्दं ब्रह्मणो विद्वान्
सच्चिदानन्दम्बरूपो भवति ।
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ।
तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥
वासनाद्वासुदेवस्य वासितं हि जगत्त्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥
भूश्च नारायणः । भुवश्च नारायणः । सुवश्च नारायणः ।
महश्च नारायणः । जनश्च नारायणः । तपश्च नारायणः ।
सत्यं च नारायणः । नारायणः परं ब्रह्म । नारायण एवेदं सर्वम् ।
नारायणान्न किञ्चिदस्ति । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं
गुहायां परमे व्योमन् । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः ।
आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या
ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । नारायणः सर्वपुरुष
एवेदं परब्रह्म । नारायणः सर्वभूतान्तर्याम्यात्मा । आत्मेदं सर्वं
नारायणः । नारायणः स्वयं ज्योतिः । तस्मात्प्रकाशात्मा ॥
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ।
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ॥
पाशबद्धः स्मृतो जीवः पाशमुक्तः सनातनः ।
तुषेण बद्धो व्रीहिः स्यात्तुषाभावेन तण्डुल ॥
परब्रह्म स्वयं चात्मा साक्षान्नारायणः स्मृतः ।
नारायणमनादिं च योगनिद्रापरायणम् ॥
जाग्रत्स्वप्नसुषुप्तीषु सर्वकालव्यवस्थितम् ।
नारायणं महात्मानं महाध्यानपरायणम् ।
सर्ववेदान्तसंलक्ष्यं तद्ब्रह्मेत्यभिधीयते ॥
स होवाच भगवान् नारायण एवेदं सर्वं प्रतिष्ठितं य एवं वेद ।
इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये प्रथमः खण्ड ।
द्वितीयः खण्डः ।
स होवाच भगवान् ब्रह्मा नारायणः परवस्तु भवतीति विज्ञायते ।
सच्चिदानन्दरूपाय ज्ञानायामिततेजसे ।
परब्रह्मस्वरूपाय नारायण नमोऽस्तु ते ॥
नित्यशुद्धाय बुद्धाय नित्यायाद्वैतरूपिणे ।
आनन्दायात्मरूपाय नारायण नमोऽस्तु ते ॥
ॐ नमो भगवते श्रीमन्नारायणाय महाविष्णवे अमितबलपराक्रमाय
शङ्खचक्रगदाधराय लक्ष्मीसमेताय गरुडवाहनाय दशावताराय
सर्वदुष्टदैत्यदानवसंहरणाय शिष्टप्रतिपालकाय परब्रह्मरूपाय
महात्मने परमपुरुषाय पुण्डरीकाक्षाय पुराणपुरुषाय शुद्धबुद्धाय
सच्चिदानन्दस्वरूपाय महात्मने घृणिः सूर्य आदित्य ॐ नमो नारायणाय
सहस्रार हुं फट् स्वाहा ॥
नारायणाय शान्ताय शाश्वताय मुरारये ।
यज्ञेश्वराय यज्ञाय शरण्याय नमो नमः ॥
स होवाच भगवान् ब्रह्मा सर्वं विश्वमिदं नारायणः य एवं वेद ।
इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये द्वितीयः खण्ड ।
तृतीयः खण्डः ।
स होवाच भगवान् ब्रह्मा नारायणः परब्रह्मेति य एवं वेद ।
नारायणात्मा वेदं सर्वं निर्विकारं निरञ्जनवस्तु प्रतिपाद्यते ।
स नारायणो विराट्पुरुषो भवाति । देवानां वासवो भवति । इन्द्रियाणां मनो
भवति । सर्वेषां वस्तूनां मुख्यवस्तु भवति । ॐ नमो नारायणादन्यो
मन्त्रः नारायणादन्योपास्तिर्नास्ति । नान्यन्नारायणादुपासितव्यम् । सर्वं
नारायण एव भवतीति विज्ञायते । योऽधीते नित्यं सर्वान् कामानवाप्नोति ।
स ब्रह्महत्यायाः पूतो भवति । सुरापानात् पूतो भवति । स्वर्णस्तेयात्
पूतो भवति । गुरुतल्पगमनात् पूतो भवति । अगम्यागमनात् पूतो भवति ।
अभक्ष्यभक्षात् पूतो भवति । स उपपातकमहापातकेभ्यः पूतो भवति ।
सर्ववेदमधीयानो भवति । सर्वक्रतुफलं प्राप्नोति । सर्वकर्मकर्ता
भवति । चतुःसमुद्रपर्यन्तभूदानफलं प्राप्नोति । द्विजोत्तमो भवति ।
चतुर्वर्गफलं प्राप्नोति । ब्रह्मचारी ज्ञानवान् भवति । गृही
पुत्रपौत्रमहैश्वर्यवान् भवति । संन्यासई मोक्षवान् भवति ॥
पठनाच्छ्रवणाद्वाऽपि सर्वान् कामानवाप्नुयात् ।
नारायणप्रसादेन वैकुण्ठपदमश्नुते ॥
इति स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥
वेदाक्षराणि यावन्ति पठितानि द्विजोत्तमैः ।
तावन्ति हरिनामानि कीर्तितानि न संशयः ॥
नारायण हरे कृष्ण वासुदेव जगद्गुरो ।
मुकुन्दाच्युत देवेश महाविष्णो नमोऽस्तु ते ॥
भूतानि तत्त्वसंज्ञानि कूटस्थोऽक्षरसंज्ञितः ।
उत्तमश्चापि पुरुषो नारायण इतीर्यते ॥
इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये तृतीयः खण्डः
(वैष्णव-उपनिषदः)
इति नारायणोत्तरतापिनीयोपनिषत् समाप्त ।
Proofread by Kasturi navya sahiti