॥ नारदपरिव्राजकोपनिषत् ॥

पारिव्राज्यधर्मपूगालङ्कारा यत्प्रबोधतः । दशप्रणवलक्ष्यार्थं यान्ति तं राममाश्रये ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्वदेवाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ परिव्राट्त्रिशिखी सीताचूडानिर्वाणमण्डलम् दक्षिणा शरभं स्कन्दं महानारायणाद्वयम् ॥ अथ कदाचित्परिव्राजकाभरणो नारदः सर्वलोकसंचारं कुर्वन्नपूर्वपुण्यस्थलानि पुण्यतीर्थानि तीर्थीकुर्वन्नवलोक्य चित्तशुद्धिं प्राप्य निर्वैरः शान्तो दान्तः सर्वतो निर्वेदमासाद्य स्वरूपानुसन्धानमनुसन्धय नियमानन्दविशेषगण्यं मुनिजनैरुपसंकीर्णं नैमिषारण्यं पुण्यस्थलमवलोक्य सरिगमपधनिस- संज्ञैर्वैराग्यबोधकरैः स्वरविशेषैः प्रापञ्चिक- पराङ्मुखाइर्हरिकथालापैः स्थावरजङ्गमनामकै- र्भगवद्भक्तिविशेषाइर्नरमृगकिंपुरुषामरकिंनर- अप्सरोगणान्संमोहयन्नागतं ब्रह्मात्मजं भगवद्भक्तं नारदमवलोक्य द्वादशवर्षसत्रयागोपस्थिताः श्रुताध्ययनसम्पन्नाः सर्वज्ञास्तपोनिष्ठापराश्च ज्ञानवैराग्यसम्पन्नाः शौनकादिमहर्षयः प्रत्युत्थानं कृत्वा नत्वा यथोचितातिथ्यपूर्वकमुपवेशयित्वा स्वयं सर्वेऽप्युपविष्टा भो भगवन्ब्रह्मपुत्र कथं मुक्त्युपायोऽस्माकं वक्तव्य इत्युक्तस्तान्स होवाच नारदः सत्कुलभवोपनीतः सम्यगुपनयनपूर्वकं चतुश्चत्वारिंशत्- संस्कारसम्पन्नः स्वाभिमतैकगुरुसमीपे स्वशाखाध्ययन- पूर्वकं सर्वविद्याभ्यासं कृत्वा द्वादशवर्षशुश्रूषा- पूर्वकं ब्रह्मचर्यं पञ्चविंशतिवत्सरं गार्हस्थ्यं पञ्चविंशतिवत्सरं वानप्रस्थाश्रमं तद्विधिवत्क्रमान्निर्वर्त्य चतुर्विधब्रह्मचर्यं षड्विधं गार्हस्थ्यं चतुर्विधं वानप्रस्थधर्मं सम्यगभ्यस्य तदुचितं कर्म सर्वं निर्वर्त्य साधनचतुष्टयसम्पन्नः सर्वसंसारोपरि मनोवाक्काय- कर्मभिर्यथाशानिवृत्तस्तथा वासनैषणोपर्यपि निर्वैरः शान्तो दान्तः संन्यासी परमहंसाश्रमेणास्खलितस्वस्वरूप- ध्यानेन देहत्यागं करोति स मुक्तो भवति स मुक्तो भवतीत्युपनिषत् ॥ इति प्रथमोपदेशः ॥ १॥ अथ हैनं भगवन्तं नारदं सर्वे शौनकादयः पप्रच्छुर्भो भगवन्संन्यासविधिं नो ब्रूहीति तानवलोक्य नारदस्तत्स्वरूपं सर्वं पितामहमुखेनैव ज्ञातुमुचितमित्युक्त्वा सत्रयागपूर्त्यनन्तरं तैः सह सत्यलोकं गत्वा विधिवद्ब्रह्मनिष्ठापरं परमेष्ठिनं नत्वा स्तुत्वा यथोचितं तदाज्ञया तैः सहोपविश्य नारदः पितामहमुवाच गुरुस्त्वं जनकस्त्वं सर्वविद्या- रहसज्ञः सर्वज्ञस्त्वमतो मत्तो मदिष्टं रहस्यमेकं वक्तव्यं त्वद्विना मदभिमतरहस्यं वक्तुं कः समर्थः । किमितिचेत्पारिव्राज्यस्वरूपक्रमं नो ब्रूहीति नारदेन प्रार्थितः परमेष्ठि सर्वतः सर्वानवलोक्य मुहूर्तमात्रं समाधिनिष्ठो भूत्वा संसारातिनिवृत्यन्वेषण इति निश्चित्य नारदमवलोक्य तमाह पितामहः । पुरा मत्पुत्र पुरुषसूक्तोपनिषद्रहस्यप्रकारं निरतिशयाकारावलम्बिना विराट्पुरुषेणोपदिष्टं रहस्यं ते विविच्योच्यते तत्क्रममतिरहस्यं बाढमवहितो भूत्वा श्रूयतां भो नारद विधिवदादावनुपनीतोपनयानन्तरं तत्सत्कुलप्रसूतः पितृमातृविधेयः पितृसमीपादन्यत्र सत्सम्प्रदायस्थं श्रद्धावन्तं सत्कुलभवं श्रोत्रियं शास्त्रवात्सल्यं गुणवन्तमकुटिलं सद्गुरुमासाद्य नत्वा यथोपयोगशुश्रूषापूर्वकं स्वाभिमतं विज्ञाप्य द्वादशवर्षसेवापुरःसरं सर्वविद्याभ्यासं कृत्वा तदनुज्ञया स्वकुलानुरूपामभिमतकन्यां विवाह्य पञ्चविंशतिवत्सरं गुरुकुलवासं कृत्वाथ गुर्वनुज्ञया गृहस्थोचितकर्म कुर्वन्दौर्ब्राह्मण्यनिवृत्तिमेत्य स्ववंशवृद्धिकामः पुत्रमेकमासाद्य गार्हस्थ्योचित- पञ्चविंशतिवत्सरं तीर्त्वा ततः पञ्चचिंशतिवत्सरपर्यन्तं त्रिषवणमुदकस्पर्शनपूर्वकं चतुर्थकालमेकवारमाहार- माहरन्नयमेक एव वनस्थो भूत्वा पुरग्रामप्राक्तनसञ्चारं विहाय निकारविरहिततदाश्रितकर्मोचितकृत्यं निर्वर्त्य दृष्टश्रवणविषयवैतृष्ण्यमेत्य चत्वारिंशत्संकार- सम्पन्नः सर्वतो विरक्तश्चित्तशुद्धिमेत्याशासूयेर्ष्याहङ्कारं दग्ध्वा साधनचतुष्टयसम्पन्नः संन्यस्तुमर्हतीत्युपनिषत् ॥ इति द्वितीयोपदेशः ॥ २॥ अथ हैनं नारदः पितामहं पप्रच्छ भगवन्केन संन्यासाधिकारी वेत्येवमादौ संन्यासाधिकारिणं निरूप्य पश्चात्संन्यासविधिरुच्यते अवहितः शृणु । अथ षण्डः पतितोऽङ्गविकलः स्त्रैणो बधिरोऽर्भको मूकः पाषण्डश्चक्री लिङ्गी वैखानसहरद्विजौ भृतकाध्यापकः शिपिविष्टोऽनग्निको वैराग्यवन्तोऽप्येते न संन्यासार्हाः संन्यस्ता यद्यपि महावाक्योपदेशेन अधिकारिणः पूर्वसंन्यासी परमहंसाधिकारी ॥-- परेणैवात्मनश्चापि परस्यैवात्मना तथा । अभयं समवाप्नोति स परिव्राडिति स्मृतिः ॥ १॥ षण्डोऽथ विकलोऽप्यन्धो बालकश्चापि पातकी । पतितश्च परद्वारी वैखानसहरद्विजौ ॥ २॥ चक्री लिङ्गी च पाषण्डी शिपिविष्टोऽप्यनग्निकः । द्वित्रिवारेण संन्यस्तो भृतकाध्यापकोऽपि च । एते नार्हन्ति संन्यासमातुरेण विना क्रमम् ॥ ३॥ आतुरकालः कथमार्यसंमतः ॥-- प्राणस्योत्क्रमणासन्नकालस्त्वातुरसंज्ञकः । नेतरस्त्वातुरः कालो मुक्तिमार्गप्रवर्तकः ॥ ४॥ आतुरेऽपि च संन्यासे तत्तन्मन्त्रपुरःसरम् । मन्त्रावृत्तिं च कृत्वैव संन्यसेद्विधिवद्बुधः ॥ ५॥ आतुरेऽपि क्रमे वापि प्रैषभेदो न कुत्रचित् । न मन्त्रं कर्मरहितं कर्म मन्त्रमपेक्षते ॥ ६॥ अकर्म मन्त्ररहितं नातो मन्त्रं परित्यजेत् । मन्त्रं विना कर्म कुर्याद्भस्मन्याहुतिवद्भवेत् ॥ ७॥ विध्युक्तकर्मसंक्षेपात्संन्यासस्त्वातुरः स्मृतः । तस्मादातुरसंन्यासे मन्त्रावृत्तिविधिर्मुने ॥ ८॥ आहिताग्निर्विरक्तश्चेद्देशान्तरगतो यदि । प्राजापत्येष्टिमप्स्वेव निर्वृत्यैवाथ संन्यसेत् ॥ ९॥ मनसा वाथ विध्युक्तमन्त्रावृत्त्याथवा जले । श्रुत्यनुष्ठानमार्गेण कर्मानुष्ठानमेव वा ॥ १०॥ समाप्य संन्यसेद्विद्वान्नो चेत्पातित्यमाप्नुयात् ॥ ११॥ यदा मनसि सञ्जातं वैतृष्ण्यं सर्ववस्तुषु । तदा संन्यासमिच्छेत पतितः स्याद्विपर्यये ॥ १२॥ विरक्तः प्रव्रजेद्धीमान्सरक्तस्तु गृहे वसेत् । सरागो नरकं याति प्रव्रजन्हि द्विजाधमः ॥ १३॥ यस्यैतानि सुगुप्तानि जिह्वोपस्थोदरं करः । संन्यसेदकृतोद्वाहो ब्राह्मणो ब्रह्मचर्यवान् ॥ १४॥ संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया । प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः ॥ १५॥ प्रवृत्तिलक्षणं कर्म ज्ञानं संन्यासलक्षणम् । तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिवान् ॥ १६॥ यदा तु विदितं तत्त्वं परं ब्रह्म सनातनम् । तदैकदण्डं संगृह्य सोपवीतां शिखां त्यजेत् ॥ १७॥ परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि । सर्वैषणाविनिर्मुक्तः स भैक्षं भोक्तुमर्हति ॥ १८॥ पूजितो वन्दितश्चैव सुप्रसन्नो यथा भवेत् । तथा चेत्ताड्यमानस्तु तदा भवति भैक्षभुक् ॥ १९॥ अहमेवाक्षरं ब्रह्म वासुदेवाख्यमद्वयम् । इति भावो ध्रुवो यस्य तदा भवति भैक्षभुक् ॥ २०॥ यस्मिञ्शान्तिः शमः शौचं सत्यं सन्तोष आर्जवम् । अकिञ्चनमदम्भश्च स कैवल्याश्रमे वसेत् ॥ २१॥ यदा न कुरुते भावं सर्वभूतेषु पापकम् । कर्मणा मनसा वाचा तदा भवति भैक्षभुक् ॥ २२॥ दशलक्षणकं धर्ममनुतिष्ठन्समाहितः । वेदान्तान्विधिवच्छृत्वा संन्यस्तेदनृणो द्विजः ॥ २३॥ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ २४॥ अतीतान्न स्मरेद्भोगान्न तथानागतानपि । प्राप्तांश्च नामिनन्देद्यः स कैवल्याश्रमे वसेत् ॥ २५॥ अन्तस्थानीन्द्रियाण्यन्तर्बहिष्ठान्विषयान्बहिः । शक्नोति यः सदा कर्तुं स कैवल्याश्रमे वसेत् ॥ २६॥ प्राणे गते यथा देहः सुखं दुःखं न विन्दति । तथा चेत्प्राणयुक्तोऽपि स कैवल्याश्रमे वसेत् ॥ २७॥ कौपीनयुगलं कन्था दण्ड एकः परिग्रहः । यतेः परमहंसस्य नाधिकं तु विधीयते ॥ २८॥ यदि वा कुरुते रागादधिकस्य परिग्रहम् । रौरवं नरकं गत्वा तिर्यग्योनिषु जायते ॥ २९॥ विशीर्णान्यमलान्येव चेलानि ग्रथितानि तु । कृत्वा कन्थां बहिर्वासो धारयेद्धातुरञ्जितम् ॥ ३०॥ एकवासा अवासा वा एकदृष्टिरलोलुपः । एक एव चरेन्नित्यं वर्षास्वेकत्र संवसेत् ॥ ३१॥ कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । यज्ञं यज्ञोपवीतं च त्यक्त्वा गूढश्चरीद्यतिः ॥ ३२॥ कामः क्रोधस्तथा दर्पो लोभमोहादयश्च ये । तांस्तु दोषान्परित्यज्य परिव्राण्निर्ममो भवेत् ॥ ३३॥ रागद्वेषवियुक्तात्मा समलोष्टाश्मकाञ्चनः । प्राणिहिंसानिवृत्तश्च मुनिः स्यात्सर्वनिःस्पृहः ॥ ३४॥ दम्भाहङ्कारनिर्मुक्तो हिंसापैशून्यवर्जितः । आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात् ॥ ३५॥ इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयः । संनियम्य तु तान्येव ततः सिद्धिं निगच्छति ॥ ३६॥ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ ३७॥ श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ ३८॥ यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा । स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ ३९॥ संमानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ ४०॥ सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते । सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ ४१॥ अतिवादांस्तितिक्षेत नावमन्येत कञ्चन । न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ ४२॥ क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ ४३॥ अध्यात्मरतिरासीनो निरपेक्षो निराशिषः । आत्मनैव सहायेन सुखार्थी विचरेदिह ॥ ४४॥ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च । अहिंसया च भूतानाममृतत्वाय कल्पते ॥ ४५॥ अस्थिस्थूणं स्नायुबद्धं मांसशोणितलेपितम् । चर्मावबद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ ४६॥ जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासैमं त्यजेत् ॥ ४७॥ मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ । देहे चेत्प्रीतिमान्मूढो भविता नरकेऽपि सः ॥ ४८॥ सा कालपुत्रपदवी सा माहावीचिवागुरा । सासिपत्रवनश्रेणी या देहेऽहमिति स्थितिः ॥ ४९॥ सा त्याज्या सर्वयत्नेन सर्वनाशेऽप्युपस्थिते । स्प्रष्टव्या सा न भव्येन सश्वमांसेव पुल्कसी ॥ ५०॥ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥ ५१॥ अनेन विधिना सर्वांस्त्यक्त्वा सङ्गाञ्शनैः शनैः । सर्वद्वन्द्वैर्विनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥ ५२॥ एक एव चरेन्नित्यं सिद्ध्यर्थमसहायकः । सिद्धिमेकस्य पश्यन्हि न जहाति न हीयते ॥ ५३॥ कपालं वृक्षमूलानि कुचेलान्यसहायता । समता चैव सर्वस्मिन्नैतन्मुक्तस्य लक्षणम् ॥ ५४॥ सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः । एकारामः परिव्रज्य भिक्षार्थं ग्राममाविशेत् ॥ ५५॥ एको भिक्षुर्यथोक्तः स्याद्वावेव मिथुनं स्मृतम् । त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥ ५६॥ नगरं न हि कर्तव्यं ग्रामो वा मिथुनं तथा । एतत्त्रयं प्रकुर्वाणः स्वधर्माच्च्यवते यतिः ॥ ५७॥ राजवार्तादितेषां स्याद्भिक्षावार्ता परस्परम् । स्नेहपैशून्यमात्सर्यं संनिकर्षान्न संशयः ॥ ५८॥ एकाकी निःस्पृहस्तिष्ठेन हि केन सहालपेत् । दद्यान्नारायणेत्येव प्रतिवाक्यं सदा यतिः ॥ ५९॥ एकाकी चिन्तयेद्ब्रह्म मनोवाक्कायकर्मभिः । मृत्युं च नाभिनन्देत जीवितं वा कथंचन ॥ ६०॥ कालमेव प्रतीक्षेत यावदायुः समाप्यते । नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ ६१॥ अजिह्वः षण्डकः पङ्गुरन्धो बधिर एव च । मुग्धश्च मुच्यते भिक्षुः षड्भिरेतैर्न संशयः ॥ ६२॥ इदमिष्टमिदं नेति योऽश्नन्नपि न सज्जति । हितं सत्यं मितं वक्ति तमजिह्वं प्रचक्षते ॥ ६३॥ अद्यजातां यथा नारीं तथा षोडशवार्षिकीम् । शतवर्षं च यो दृष्ट्वा निर्विकारः स षण्डकः ॥ ६४॥ भिक्षार्थमटनं यस्य विण्मूत्रकरणाय च । योजनान्न परं याति सर्वथा पङ्गुरेव सः ॥ ६५॥ तिष्ठतो व्रजतो वापि यस्य चक्षुर्न दूरगम् । चतुर्युगां भुवं मुक्त्वा परिव्राट् सोऽन्ध उच्यते ॥ ६६॥ हिताहितं मनोरामं वचः शोकावहं तु यत् । श्रुत्वापि न शृणोतीव बधिरः स प्रकीर्तितः ॥ ६७॥ सान्निध्ये विषयाणां यः समर्थो विकलेन्द्रियः । सुप्तवद्वर्तते नित्यं स भिक्षुर्मुग्ध उच्यते ॥ ६८॥ नटादिप्रेक्षणं द्यूतं प्रमदासुहृदं तथा । भक्ष्यं भोज्यमुदक्यां च षण्न पश्येत्कदाचन ॥ ६९॥ रागं द्वेषं मदं मायां द्रोहं मोहं परात्मसु । षडेतानि यतिर्नित्यं मनसापि न चिन्तयेत् ॥ ७०॥ मञ्चकं शुक्लवस्त्रं च स्त्रीकथालौल्यमेव च । दिवा स्वापं च यानं च यतीनां पातकानि षट् ॥ ७१॥ दूरयात्रां प्रयत्नेन वर्जयेदात्मचिन्तकः । सदोपनिषदं विद्यामभ्यसेन्मुक्तिहैतुकीम् ॥ ७२॥ न तीर्थसेवी नित्यं स्यान्नोपवासपरो यतिः । न चाध्ययनशीलः स्यान्न व्याख्यानपरो भवेत् ॥ ७३॥ अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् । इन्द्रियाणि समाहृत्य कूर्मोऽङ्गानीव सर्वशः ॥ ७४॥ क्षीणेन्द्रियमनोवृत्तिर्निराशीर्निष्परिग्रहः । निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च ॥ ७५॥ निर्ममो निरहङ्कारो निरपेक्षो निराशिषः । विविक्तदेशसंसक्तो मुच्यते नात्र संशय इति ॥ ७६॥ अप्रमत्तः कर्मभक्तिज्ञानसम्पन्नः स्वतन्त्रो वैराग्यमेत्य ब्रह्मचारी गृही वानप्रस्थो वा मुख्यवृत्तिका चेद्ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेद्यदिवेतरतथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वाथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वोत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्यथवा न कुर्यादग्नेय्यमेव कुर्यादग्निर्हिप्राणः प्राणमेवैतया करोति तस्मात्त्रैधातवीयामेव कुर्यादेतैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति ॥ अयं ते योनिरृत्वियो यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणाग्निमाजिघ्रेदेश वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ स्वां योनिं गच्छ स्वाहेत्येवमेवैतदाहवनीयादग्निमाहृत्य पूर्ववदग्निमाजिघ्रेद्यदग्निं न विन्देदप्सु जुहुयादापो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोधृत्य तदुदकं प्राश्नीयात्साज्यं हविरनामयं मोदमिति शिखां यज्ञोपवीतं पितरं पुत्रं कलत्रं कर्म चाध्ययनं मन्त्रान्तरं विसृज्यैव परिव्रजत्यात्मविन्मोक्षमन्त्रैस्त्रैधातवीयैर्विधेस्तद्ब्रह्म तदुपासितव्यमेवैतदिति ॥ पितामहं पुनः पप्रच्छ नारदः कथमयज्ञोपवीती ब्राह्मण इति ॥ तमाह पितामहः ॥ सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥ ७७॥ सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् । तत्सूत्रं विदितं येन स विप्रो वेदपारगः ॥ ७८॥ येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शनः ॥ ७९॥ बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः । ब्रह्मभावमिदं सूत्रं धारयेद्यः सचेतनः । धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् ॥ ८०॥ सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् । ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः ॥ ८१॥ ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥ ८२॥ अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ ८३॥ कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । तेभिर्धार्यमिदं सूत्रं क्रियाङ्गं तद्धि वै स्मृतम् ॥ ८४॥ शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुरिति ॥ ८५॥ तदेतद्विज्ञाय ब्राह्मणः परिव्रज्य परिव्राडेकशाटी मुण्डोऽपरिग्रहः शरीरक्लेशासहिष्णुश्चेदथवा यथाविधिश्चेज्जातरूपधरो भूत्वा सपुत्रमित्रकलत्राप्त- बन्धाद्वीनि स्वाध्यायं सर्वकर्माणि संन्यस्यायं ब्रह्माण्डं च सर्वं कौपीनं दण्डमाच्छादनं च त्यक्त्वा द्वन्द्वसहिष्णुर्न शीतं न चोष्णं न सुखं न दुःखं न निद्रा न मानावमाने च षडूर्मिवर्जितो निन्दाहङ्कारमत्सरगर्वदम्भेर्ष्यासूयेच्छाद्वेष- सुखदुःखकामक्रोधलोभमोहादीन्विसृज्य स्ववपुः शवाकारमिव स्मृत्वा स्वव्यतिरिक्तं सर्वमन्तर्बहिरमन्यमानः कस्यापि वन्दनमकृत्वा न नमस्कारो न स्वाहाकारो न स्वधाकारो न निन्दास्तुतिर्यादृच्छिको भवेद्यदृच्छा- लाभसन्तुष्टः सुवर्णादीन्न परिग्रहेन्नावाहनं न विसर्जनं न मन्त्रं नामन्त्रं न ध्यानं नोपासनं न लक्ष्यं नालक्ष्यं न पृथक् नापृथक् न त्वन्यत्र सर्वत्रानिकेतः स्थिरमतिः शून्यागारवृक्षमूलदेवगृहतृणकूटकुलालशालाग्निहोत्र- शालाग्निदिगन्तरनदीतटपुलिनभूगृहकन्दरनिर्झरस्थण्डिलेषु वने वा श्वेतकेतुऋभुनिदाघऋषभदुर्वासःसंवर्तकदत्तात्रेयरैवतक- वदव्यक्तलिङ्गोऽव्यक्ताचारो बालोन्मत्तपिशाचवदनुन्मत्तोन्मत्त- वदाचरंस्त्रिदण्डं शिक्यं पात्रं कमण्डलुं कटिसूत्रं च तत्सर्वं भूःस्वाहेत्यप्सु परित्यज्य कटिसूत्रं च कौओपीनं दण्डं वस्त्रं कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेदात्मानमन्विच्छेद्यथा जातरूपधरो निर्द्वन्द्वो निष्परिग्रहस्तत्त्वब्रह्ममार्गे सम्यक् सम्पन्नः शुद्धमानसः प्राणसन्धारणार्थं यथोक्तकाले करपात्रेणान्येन वा याचिताहारमाहरन् लाभलाभे समो भूत्वा निर्ममः शुक्लध्यानपरायणोऽध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनपरः संन्यस्य पूर्णानन्दैकबोधस्तद्ब्रह्माहमस्मीति ब्रह्मप्रणवमनुस्मरन्भ्रमरकीटन्यायेन शरीरत्रयमुत्सृज्य संन्यासेनैव देहत्यागं करोति स कृतकृत्यो भवतीत्युपनिषत् ॥ इति तृतीयोपदेशः ॥ ३॥ त्यक्त्वा लोकांश्च वेदांश्च विषयानिन्द्रियाणि च । आत्मन्येव स्थितो यस्तु स याति परमां गतिम् ॥ १॥ नामगोत्रादिवरणं देशं कालं श्रुतं कुलम् । ययो वृत्तं व्रतं शीलं ख्यापयेन्नैव सद्यतिः ॥ २॥ न सम्भाषेत्स्त्रियं काञ्चित्पूर्वदृष्टां च न स्मरेत् । कथां च वर्जयेत्तासां न पश्येल्लिखितामपि ॥ ३॥ एतच्चतुष्टयं मोहात्स्त्रीणामाचरतो यतेः । चित्तं विक्रियतेऽवश्यं तद्विकारात्प्रणश्यति ॥ ४॥ तृष्णा क्रोधोऽनृतं माया लोभमोहौ प्रियाप्रिये । शिल्पं व्याख्यानयोगश्च कामो रागपरिग्रहः ॥ ५॥ अहङ्कारो ममत्वं च चिकित्सा धर्मसाहसम् । प्रायश्चित्तं प्रवासश्च मन्त्रौषधगराशिषः ॥ ६॥ प्रतिषिद्धानि चैतानि सेवमानो व्रजेदधः । आगच्छ गच्छ तिष्ठेति स्वागतं सुहृदोऽपि वा ॥ ७॥ सन्माननं च न ब्रूयान्मुनिर्मोक्षपरायणः । प्रतिग्रहं न गृह्णीयान्नैव चान्यं प्रदापयेत् ॥ ८॥ प्रेरयेद्वा तया भिक्षुः स्वप्नेऽपि न कदाचन । जायाभ्रातृसुतादीनां बन्धूनां च शुभाशुभम् ॥ ९॥ श्रुत्वा दृष्ट्वा न कम्पेत शोकहर्षौ त्यजेद्यतिः । अहिंसासत्यमस्तेयब्रह्मचर्यापरिग्रहः ॥ १०॥ अनौद्धत्त्यमदीनत्वं प्रसादः स्थैर्यमार्जवम् । अस्नेहो गुरुशुश्रूषा श्रद्धा क्षान्तिर्दमः शमः ॥ ११॥ उपेक्षा धैर्यमाधुर्ये तितिक्षा करुणा तथा । ह्रीस्तथा ज्ञानविज्ञाने योगो लघ्वशनं धृतिः ॥ १२॥ एष स्वधर्मो विख्यातो यतीनां नियतात्मनाम् । निर्द्वन्द्वो नित्यसत्त्वस्थः सर्वत्र समदर्शनः ॥ १३॥ तुरीयः परमो हंसः साक्षान्नारायणो यतिः । एकरात्रं वसेद्ग्रामे नगरे पञ्चरात्रकम् ॥ १४॥ वर्षाभ्योऽन्यत्र वर्षासु मासांश्च चतुरो वसेत् । द्विरात्रं वा वसेद्ग्रामे भिक्षुर्यदि वसेत्तदा ॥ १५॥ रागादयः प्रसज्येरंस्तेनासौ नारकी भवेत् । ग्रामान्ते निर्जने देशे नियतात्माऽनिकेतनः ॥ १६॥ पर्यटेत्कीटवद्भूमौ वर्षास्वेकत्र संवसेत् । एकवासा अवासा वा एकदृष्टिरलोलुपः ॥ १७॥ अदूषयन्सतां मार्गं ध्यानयुक्तो महीं चरेत् । शुचौ देशे सदा भिक्षुः स्वधर्ममनुपालयन् ॥ १८॥ पर्यटेत सदा योगी वीक्षयन्वसुधातलम् । न रात्रौ न च मध्याह्ने सन्ध्ययोर्नैव पर्यटन् ॥ १९॥ न शून्ये न च दुर्गे वा प्राणिबाधाकरे न च । एकरात्रं वसेद्ग्रामे पत्तने तु दिनत्रयम् ॥ २०॥ पुरे दिनद्वयं भिक्षुर्नगरे पञ्चरात्रकम् । वर्षास्वेकत्र तिष्ठेत स्थाने पुण्यजलावृते ॥ २१॥ आत्मवत्सर्वभूतानि पश्यन्भिक्षुश्चरेन्महीम् । अन्धवत्कुञ्जवच्चैव बधिरोन्मत्तमूकवत् ॥ २२॥ स्नानं त्रिषवणं प्रोक्तं बहूदकवनस्थयोः । हंसे तु सकृदेव स्यात्परहंसे न विद्यते ॥ २३॥ मौनं योगासनं योगस्तितिक्षैकान्तशीलता । निःस्पृहत्वं समत्वं च सप्तैतान्यैकदण्डिनाम् ॥ २४॥ परहंसाश्रमस्थो हि स्नानादेरविधानतः । अशेषचित्तवृत्तीनां त्यागं केवलमाचरेत् ॥ २५॥ त्वङ्मांसरुधिरस्नायुमज्जामेदोस्थिसंहतौ । विण्मूत्रपूये रमतां क्रिमीणां कियदन्तरम् ॥ २६॥ क्व शरीरमशेषाणां श्लेष्मादीनां महाचयः । क्व चाङ्गशोभासौभाग्यकमनीयादयो गुणाः ॥ २७॥ मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ । देहे चेत्प्रीतिमान्मूढो भविता नरकेऽपि सः ॥ २८॥ स्त्रीणामवाच्यदेशस्य क्लिन्ननाडीव्रणस्य च । अभेदेऽपि मनोमेदाज्जनः प्रायेण वञ्च्यते ॥ २९॥ चर्मखण्डं द्विधा भिन्नमपानोद्गारधूपितम् । ये रमन्ति नमस्तेभ्यः साहसं किमतः परम् ॥ ३०॥ न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः । निर्ममो निर्भयः शान्तो निर्द्वन्द्वोऽवर्णभोजनः ॥ ३१॥ मुनिः कौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः । एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते ॥ ३२॥ लिङ्गे सत्यपि खल्वस्मिञ्ज्ञानमेव हि कारणम् । निर्मोक्षायेह भूतानां लिङ्गग्रामो निरर्थकः ॥ ३३॥ यन्न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः ॥ ३४॥ तस्मादलिङ्गो धर्मज्ञो ब्रह्मवृत्तमनुव्रतम् । गूढधर्माश्रितो विद्वानज्ञानचरितं चरेत् ॥ ३५॥ सन्दिग्धः सर्वभूतानां वर्णाश्रमविवर्जितः । अन्धवज्जडवच्चापि मूकवच्च महीं चरेत् ॥ ३६॥ तं दृष्ट्वा शान्तमनसं स्पृहयन्ति दिवौकसः । लिङ्गाभावात्तु कैवल्यमिति ब्रह्मानुशासनमिति ॥ ३७॥ अथ नारदः पितामहं संन्यासविधिं नो ब्रूहीति पप्रच्छ । पितामहस्तथेत्यङ्गीकृत्यातुरे वा क्रमे वापि तुरीयाश्रमस्वीकारारार्थं कृच्छ्रप्रायश्चित्त- पूर्वकमष्टश्राद्धं कुर्याद्देवर्षिदिव्यमनुष्य- भूतपितृमात्रात्मेत्यष्टश्राद्धानि कुर्यात् । प्रथमं सत्यवसुसंज्ञकान्विश्वान्देवान्देवश्राद्धे ब्रह्मविष्णुमहेश्वरानृषिश्राद्धे देवर्षिक्षत्रियर्षि- मनुष्यर्षीन् दिव्यश्राद्धे वसुरुद्रादुत्यरूपान्मनुष्यश्राद्धे सनकसनन्दनसनत्कुमारसनत्सुजातान्भूतश्राद्धे मातृपितामहीप्रपितामहीरात्मश्राद्धे आत्मपितृपितामहाञ्जीवत्पितृकश्चेत्पितरं त्यक्त्वा आत्मपितामहप्रपितामहानिति सर्वत्र युग्मक्लृप्त्या ब्राह्मणानर्चयेदेकाध्वरपक्षेऽष्टाध्वरपक्षे वा स्वशाखानुगतमन्त्रैरष्टश्राद्धान्यष्टदिनेषु वा एकदिने वा पितृयागोक्तविधानेन ब्राह्मणानभ्यर्च्य मुक्त्यन्तं यथाविधि निर्वर्त्य पिण्डप्रदानानि निर्वर्त्य दक्षिणातांबूलैस्तोषयित्वा ब्राह्मणन्प्रेषयित्वा शेषकर्मसिद्ध्यर्थं सप्तकेशान्विसृज्य --'शेषकर्मप्रसिद्ध्यर्थं केशान्सप्ताष्ट वा द्विजः । संक्षिप्य वापयेत्पूर्वं केशश्मश्रुनखानि चे'ति सप्तकेशान्संरक्ष्य कक्षोपस्थवर्जं क्षौरपूर्वकं स्नात्वा सायंसन्ध्यावन्दनं निर्वर्त्य सहस्रगायत्रीं जप्त्वा ब्रह्मयज्ञं निर्वर्त्य स्वाधीनाग्निमुपस्थाप्य स्वशाखोपसंहरणं कृत्वा तदुक्तप्रकारेणाज्याहुति- माज्यभागान्तं हुत्वाहुतिविधि,न् समाप्यात्मादिभिस्त्रिवारं सक्तुप्राशनं कृत्वाचमनपूर्वकमग्निं संरक्ष्य स्वयमग्नेरुत्तरतः कृष्णजिनोपरि स्थित्वा पुराणश्रवणपूर्वकं जागरणं कृत्वा चतुर्थयामान्ते स्नात्वा तदग्नौ चरुं श्रपयित्वा पुरुषसूक्तेनान्नस्य षोडशाहुतिर्हुत्वा विरजाहोमं कृत्वा अथाचम्य सदक्षिणं वस्त्रं सुवर्णपात्रं धेनुं दत्वा समाप्य ब्रह्मोद्वासनं कृत्वा । संमासिञ्चन्तु मरुतः समिन्द्रः संबृहस्पतिः । संमायमग्निः सिञ्चत्वायुषा च धनेन च बलेन चायुष्मन्तः करोतु मेति । या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मात्मानम् । अच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि । यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो भुव आजायमानः स क्षय एधीत्यनेनाग्निमात्मन्यारोप्य ध्यात्वाग्निं प्रदक्षिणनमस्कारपूर्वकमुद्वास्य प्रातःसन्ध्यामुपास्य सहस्रगायत्रीपूर्वकं सूर्योपस्थानं कृत्वा नाभिदघ्नोदकमुपविश्य अष्टदिक्पालकार्घ्यपूर्वकं गायत्र्युद्वासनं कृत्वा सावित्रीं व्याहृतिषु प्रवेशयित्वा । अहं वृक्षस्य रेरिव । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि । द्रविणं मे सवर्चसं सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् । यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योध्यमृतात्संबभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रवम् । ब्रह्मणः कोशोऽसि मेधयापिहितः । श्रुतं मे गोपाय । दारेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थितोऽहं ॐ भूः संन्यस्तं मया ॐ भुवः संन्यस्तं मया ॐ सुवः संन्यस्तं मया ॐ भूर्भुवःसुवः संन्यस्तं मयेति मन्द्रमध्यमतालज- ध्वनिभिर्मनसा वाचोच्चार्याभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते स्वहेत्यनेन जलं प्राश्य प्राच्यां दिशि पूर्णाञ्जलिं प्रक्षिप्योंस्वाहेति शिखामुत्पाठ्य । यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च्य शुभ्रं यज्ञोपवीतं बलमस्तु तेजः । यज्ञोपवीत बहिर्न निवसेत्त्वमन्तः प्रविश्य मध्ये ह्यजस्रं परमं पवित्रं यशो बलं ज्ञानवैराग्यं मेधां प्रयच्छेति यज्ञोपवीतं छित्त्वा उदकाञ्जलिना सह ॐ भूः समुद्रं गच्छ स्वाहेत्यप्सु जुहुयादों भूः संन्यस्तं मया ॐ भुवः संन्यस्तं मया ॐ सुवः संन्यस्तं मयेति त्रिरुक्त्वा त्रिवारमभिमन्त्र्य तज्जलं प्राश्याचम्य ॐ भूः स्वाहेत्यप्सु वस्त्रं कटिसूत्रमपि विसृज्य सर्वकर्मनिर्वर्तकोऽहमिति स्मृत्वा जातरूपधरो भूत्वा स्वरूपानुसन्धानपूर्वकमूर्ध्वबाहुरुदीचीं गच्छेत्पूर्ववद्विद्वत्संन्यासी चेद्गुरोः सकाशात्प्रणव- महावाक्योपदेशं प्राप्य यथासुखं विहरन्मत्तः कश्चिन्नान्यो व्यतिरिक्त इति फलपत्रोदकाहारः पर्वतवनदेवालयेषु संचरेत्संन्यस्याथ दिगंबरः सकलसंचारकः सर्वदानन्दस्वानुभवैकपूर्णहृदयः कर्मातिदूरलाभः प्राणायामपरायणः फलरसत्वक्पत्रमूलोदकैर्मोक्षार्थी गिरिकन्दरेषु विसृजेद्देहं स्मरंस्तारकम् । विविदिषासंन्यासी चेच्छतपथं गत्वाचार्यादिभिर्विप्रैस्तिष्ठ तिष्ठ महाभाग दण्डं वस्त्रं कमण्डलुं गृहाण प्रणव महावाक्यग्रहणार्थं गुरुनिकटमागच्छेत्याचार्यैर्दण्डकटिसूत्रकौपीनं शाटीमेकां कमण्डलुं पादादिमस्तकप्रमाणमव्रणं समं सौम्यमकाकपृष्ठं सलक्षणं वैणवं दण्डमेकमाचमनपूर्वकं सखा मा गोपायौजः सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रग्नः शर्म मे भव यत्पापं तन्निवारयेति दण्डं परिग्रहेज्जगज्जीवनं जीवनाधारभूतं मा ते मा मन्त्रयस्व सर्वदा सर्वसौम्येति प्रणवपूर्वकं कमण्डलुं परिग्रह्य कौपीनाधारं कटिसूत्रमोमिति गुह्याच्छादकं कौपीनमोमिति शीतवातोष्णत्राणकरं देहैकरक्षणमोमिति कटिसूत्रकौपीनवस्त्रमाचमनपूर्वकं योगपट्टाभिषिक्तो भूत्वा कृतार्थोऽहमिति मत्वा स्वाश्रमाचारपरो भवेदित्युपनिषत् ॥ इति चतुर्थोपदेशः ॥ ४॥ अथ हैनं पितामहं नारदः पप्रच्छ भगवन्सर्वकर्मनिवर्तकः संन्यास इति त्वयैवोक्तः पुनः स्वाश्रमाचारपरो भवेदित्युच्यते । ततः पितामह उवाच । शरीरस्य देहिनो जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः सन्ति तदधीनाः कर्मज्ञानवैराग्यप्रवर्तकाः पुरुषा जन्तवस्तदनुकूलाचाराः सन्ति तथैव चेद्भगवन्संन्यासाः कतिभेदास्तदनुष्ठानभेदाः कीदृशास्तत्त्वतोऽस्माकं वक्तुमर्हसीति । तथेत्यङ्गीकृत्य तु पितामहेन संन्यासभेदैराचारभेदज़् कथमिति चेत्तत्त्वतस्त्वेक एव संन्यासः अज्ञानेनाशक्तिवशा- त्कर्मलोपश्च त्रैविध्यमेत्य वैराग्यसंन्यासो ज्ञानवैराग्यसंन्यासः कर्मसंन्यासश्चेति चातुर्विध्यमुपागतस्तद्यथेति दुष्टमदनाभाच्चेति विषयवैतृष्ण्यमेत्य प्राक्पुण्यकर्मवशात्संन्यस्तः स वैराग्यसंन्यासी शास्त्रज्ञानात्पापपुण्यलोकानुभव- श्रवणात्प्रपञ्चोपरतः क्रोधेर्ष्यासूयाहङ्कारा- भिमानात्मकसर्वसंसारं निर्वृत्य दारेषणाधनेषणा- लोकेषणात्मकदेहवासनां शास्त्रवासनां लोकवासनां त्यक्त्वा वमनान्नमिव प्रकृतीयं सर्वमिदं हेयं मत्वा साधनचतुष्टयसम्पन्नो यः संन्यसति स एव ज्ञानसंन्यासी । क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैराग्याभ्यां स्वरूपानुसन्धानेन देहमात्रावशिष्टः संन्यस्य जातरूपधरो भवति स ज्ञानवैराग्यसंन्यासी । ब्रह्मचर्यं समाप्य गृही भूत्वा वानप्रस्थाश्रममेत्य वैराग्यभावेऽप्याश्रमक्रमानुसारेण यः संन्यस्यति स कर्मसंन्यासी । ब्रह्मचर्येण संन्यस्य संन्यासाज्जातरूपधरो वैराग्यसंन्यासी । विद्वत्संन्यासी ज्ञानसंन्यासी विविदिषासंन्यासी कर्मसंन्यासी । कर्मसंन्यासोऽपि द्विविधः निमित्तसंन्यासोऽनिमित्तसंन्यासश्चेति । निमित्तस्त्वातुरः । अनिमित्तः क्रमसंन्यासः । आतुरः सर्वकर्मलोपः प्राणस्योत्क्रमणकालसंन्यासः स निमित्तसंन्यासः । दृढाङ्गो भूत्वा सर्वं कृतकं नश्वरमिति देहादिकं सर्वं हेयं प्राप्य । हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिधिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् । ब्रह्मव्यतिरिक्तं सर्वं नश्वरमिति निश्चित्याथो क्रमेण यः संन्यस्यति स संन्यासोऽनिमित्तसंन्यासः । संन्यासः षड्विधो भवति । कुटीचको बहूदको हंसः परमहंसः तुरीयातीतोऽवधूतश्चेति । कुटीचकः शिखायज्ञोपवीती दण्डकमण्डलुधरः कौपीनकन्थाधरः पितृमातृगुर्वाराधनपरः पिठरखनित्रशिक्यादिमन्त्रसाधनपर एकत्रान्नादनपरः श्वेतोर्ध्वपुण्ड्रधारी त्रिदण्डः । बहूदकः शिखादिकन्थाधरस्त्रिपुण्ड्रधारी कुटीचकवत्सर्वसमो मधुकरवृत्त्याष्टकवलाशी हंसो जटाधारी त्रिपुण्ड्रोर्ध्वपुण्ड्रधारी असंक्लृप्तमाधुकरान्नाशी कौपीनखण्डतुण्डधारी । परमहंसः शिखायज्ञोपवीतरहितः पञ्चगृहेश्वेकरात्रान्नादनपरः करपात्री एककौपीनधारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो वा भस्मोद्धूलनपरः सर्वत्यागी । तुरीयातीतो गोमुखः फलाहारी । अन्नाहारी चेद्गृहत्रये देहमात्रावशिष्टो दिगंबरः कुणपवच्छरीरवृत्तिकः । अवधूतस्त्वनियमोऽभिशस्तपतितवर्जनपूर्वकं सर्ववर्णेष्वजगर- वृत्त्याहारपरः स्वरूपानुसन्धानपरः । आतुरो जीवति चेत्क्रमसंन्यासः कर्तव्यः कुटीचकबहूदकहंसानां ब्रह्मच- र्याश्रमादितुरीयाश्रमवत् कुटीचकादीनां संन्यासविधिः । परमहंसादित्रयाणां न कटीसूत्रं न कौपीनं न वस्त्रं न कमण्डलुर्न दण्डः सार्ववर्णैक- भैक्षाटनपरत्वं जातरूपधरत्वं विधिः । संन्यासकालेऽप्यलंबुद्धिपर्यन्तमधीत्य तदनन्तरं कटीसूत्रं कौपीनं दण्डं वस्त्रं कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेन्न कन्थावेशो नाध्येतव्यो न श्रोतव्यमन्यत्किञ्चित्प्रणवादन्यं न तर्कं पठेन्न शब्दमपि बृहच्छब्दान्नाध्यापयेन्न महद्वाचोविग्लापनं गिरा पाण्यादिना संभाषणं नान्यस्माद्वा विशेषेण न शूद्रस्त्रीपतितोदक्यासंभाषणं न यतेर्देवपूजा नोत्सवदर्शनं तीर्थयात्रावृत्तिः । पुनर्यतिविशेषः । कुटीचस्यैकत्र भिक्षा बहूदकस्यासंक्लृप्तं माधुकरं हंसस्याष्टगृहेष्वष्टकवलं परमहंसस्य पञ्चगृहेषु करपात्रं फलाहारो गोमुखं तुरीयातीतस्यावधूतस्याजगरवृत्तिः सार्ववर्णिकेषु यतिर्नैकरात्रं वसेन्न कस्यापि नमेत्तुरीयातीतावधूतयोर्न ज्येष्ठो यो न स्वरूपज्ञः स ज्येष्ठोऽपि कनिष्ठो हस्ताभ्यां नद्युत्तरणं न कुर्यान्न वृक्षमारोहेन्न यानादिरूढो न क्रयविक्रयपरो न किञ्चिद्विनिमयपरो न दाम्भिको नानृतवादी न यतेः किंचित्कर्तव्यमस्त्यस्तिचेत्सांकर्यम् । तस्मान्मननादौ संन्यासिनामधिकारः । आतुरकुटीचकयोर्भूर्लोको बहूदकस्य स्वर्गलोको हंसस्य तपोलोकः परमहंसस्य सत्यलोकस्तुरीयातीतावधूतयोः स्वात्मन्येव कैवल्यं स्वरूपानुसन्धानेन भ्रमरकीटन्यायवत् । यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेव समाप्नोति नान्यथा श्रुतिशासनम् । तदेवं ज्ञात्वा स्वरूपानुसन्धानं विनान्यथाचारपरो न भवेत्तदाचारवशात्तत्तल्लोकप्राप्तिर्ज्ञान- वैराग्यसम्पन्नस्य स्वस्मिन्नेव मुक्तिरिति न सर्वत्राचारप्रसक्ति- स्तदाचारः । जाग्रत्स्वप्नसुषुप्तेष्वेकशरीरस्य जाग्रत्काले विश्वः स्वप्नकाले तैजसः सुषुप्तिकाले प्राज्ञः अवस्थाभेदादवस्थेश्वरभेदः कार्यभेदात्कारणभेदस्तासु चतुर्दशकारणानां बाह्यवृत्तयोऽतर्वृतयस्तेषा- मुपादानकारणम् । वृत्तयश्चत्वारः मनोबुद्धिरहङ्कारश्चित्तं चेति । तत्तद्वृत्तिव्यापारभेदेन पृथगाचारभेदः । नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्नं समाविशत् । सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् । तुरीयमक्षरमिति ज्ञात्वा जागरिते सुषुप्त्यवस्थापन्न इव यद्यच्छृतं यद्यदृष्टं तत्सत्सर्वमविज्ञातमिव यो वसेत्तस्य स्वप्नावस्थायामपि तादृगवस्था भवति । स जीवन्मुक्त इति वदन्ति । सर्वश्रुत्यर्थप्रतिपादनमपि तस्यैव मुक्तिरिति । भिक्षुर्नैहिकामुष्मिकापेक्षः । यद्यपेक्षास्ति तदनुरूपो भवति । स्वरूपानुसन्धानव्यतिरिक्तान्यशास्त्रा- भ्यासैरुष्ट्रकुङ्कुमभारवद्व्यर्थो न योगशास्त्र- प्रवृत्तिर्न साङ्ख्यशास्त्राभ्यासो न मन्त्रतन्त्रव्यापारः । इतरशास्त्रप्रवृत्तिर्यतेरस्ति चेच्छवालङ्कारवच्चर्मकारव- दतिविदूरकर्माचारविद्यादूरो न प्रणवकीर्तनपरो यद्यत्कर्म करोति तत्तत्फलमनुभवति एरण्डतैलफेनवदतः सर्वं परित्यज्य तत्प्रसक्तं मनोदण्डं करपात्रं दिगम्बरं दृष्ट्वा परिव्रजेद्भिक्षुः । बालोन्मत्तपिशाचवन्मरणं जीवितं वा न काङ्क्षेत कालमेव प्रतीक्षेत निर्देशभृतकन्यायेन परिव्राडिति । तितिक्षाज्ञानवैराग्यशमादिगुणवर्जितः । भिक्षामात्रेण जीवि स्यात्स यतिर्यतिवृत्तिहा ॥ १॥ न दण्डधारणेन न मुण्डनेन न वेषेण न दम्भाचारेण मुक्तिः । ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते । काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः । स याति नरकान्घोरान्महारौरवसंज्ञितान् ॥ २॥ प्रतिष्ठा सूकरीविष्ठासमा गीता महर्षिभिः । तस्मादेनां परित्यज्य कीटवत्पर्यटेद्यतिः ॥ ३॥ अयाचितं यथालाभं भोजनाच्छादनं भवेत् । परेच्छया च दिग्वासाः स्नानं कुर्यात्परेच्छया ॥ ४॥ स्वप्नेऽपि यो युक्तः स्याज्जाग्रतीव विशेषतः । ईदृक्चेष्टः स्मृतः श्रेष्ठो वरिष्ठो ब्रह्मवादिनाम् ॥ ५॥ अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ ६॥ अभिपूजितलाभांश्च जुगुप्सेतैव सर्वशः । अभिपूजितलाभैस्तु यतिर्मुक्तोऽपि बध्यते ॥ ७॥ प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने । काले प्रशस्ते वर्णानां भिक्षार्थं पर्यटेद्गृहान् ॥ ८॥ पाणिपात्रश्चरन्योगी नासकृद्भैक्षमाचरेत् । तिष्ठन्भुञ्ज्याच्चरन्भुञ्ज्यान्मध्येनाचमनं तथा ॥ ९॥ अब्धिवद्धृतमर्यादा भवन्ति विशादाशयाः । नियतिं न विमुञ्चन्ति महान्तो भास्करा एव ॥ १०॥ आस्येन तु यदाहारं गोवन्मृगयते मुनिः । तदा समः स्यात्सर्वेषु सोऽमृतत्वाय कल्पते ॥ ११॥ अनिन्द्यं वै व्रजन्गेहं निन्द्यं गेहं तु वर्जयेत् । अनावृते विशेद्द्वारि गेहे नैवावृते व्रजेत् ॥ १२॥ पांसुना च प्रतिच्छन्नशून्यागारप्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥ १३॥ यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः । यथालब्धोपजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ॥ १४॥ निष्क्रम्य वनमास्थाय ज्ञानयज्ञो जितेन्द्रियः । कालकाङ्क्षी चरन्नेव ब्रह्मभूयाय कल्पते ॥ १५॥ अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः । न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥ १६॥ निर्मानश्चानहङ्कारो निर्द्वन्द्वश्छिन्नसंशयः । नैव क्रुध्यति न द्वेष्टि नानृतं भाषते गिरा ॥ १७॥ पुण्यायतनचारी च भूतानामविहिंसकः । काले प्राप्ते भवद्भैक्षं कल्प्यते ब्रह्मभूयसे ॥ १८॥ वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् । अज्ञातचर्यां लिप्सेत न चैनं हर्ष आविशेत् ॥ १९॥ अध्वा सूर्येण निर्दिष्टः कीटवद्विचरेन्महीम् । आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च ॥ २०॥ लोकसंग्रहयुक्तानि नैव कुर्यान्न कारयेत् । नासच्छात्रेषु सज्जेत नोपजीवेत जीविकाम् । अतिवादांस्त्यजेत्तर्कान्पक्षं कञ्चन नाश्रयेत् ॥ २१॥ न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद्बहून् । न व्याख्यामुपयुञ्जीत नारम्भानारभेत्क्वचित् ॥ २२॥ अव्यक्तलिङ्गोऽव्यक्तार्थो मुनिरुन्मत्तबालवत् । कविर्मूकवदात्मानं तद्दृष्ट्या दर्शयेन्नृणाम् ॥ २३॥ न कुर्यान्न वदेत्किञ्चिन्न ध्यायेत्साध्वसाधु वा । आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ २४॥ एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रियः । आत्मक्रीड आत्मरतिरात्मवान्समदर्शनः ॥ २५॥ बुधो बालकवत्क्रीडेत्कुशलो जडवच्चरेत् । वदेदुन्मत्तवद्विद्वान् गोचर्यां नैगमश्चरेत् ॥२६॥ क्षिप्रोऽवमानितोऽसद्भिः प्रलब्धोऽसूयितोऽपि वा । ताडितः संनिरुद्धो वा वृत्त्या वा परिहापितः ॥ २७॥ विष्ठितो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पितः । श्रेयस्कामः कृच्छ्रगत आत्मनात्मानमुद्धरेत् ॥ २८॥ संमाननं परां हानिं योगर्द्धेः कुरुते यतः । जनेनावमतो योगी योगसिद्धिं च विन्दति ॥ २९॥ तथा चरेत वै योगी सतां धर्ममदूषयन् । जना यथावमन्येरन्गच्छेयुर्नैव सङ्गतिम् ॥ ३०॥ जरायुजाण्डजादीनां वाङ्मनःकायकर्मभिः । युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत् ॥ ३१॥ कामक्रोधौ तथा दर्पलोभमोहादयश्च ये । तांस्तु दोषान्परित्यज्य परिव्राड् भयवर्जितः ॥ ३२॥ भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः । सम्यग्ज्ञानं च वैराग्यं धर्मोऽयं भिक्षुके मतः ॥ ३३॥ काषायवासाः सततं ध्यानयोगपरायणः । ग्रामान्ते वृक्षमूले वा वसेद्देवालयेऽपि वा ॥ ३४॥ भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत्क्वचित् । चित्तशुद्धिर्भवेद्यावत्तावन्नित्यं चरेत्सुधीः ॥ ३५॥ ततः प्रव्रज्य शुद्धात्मा संचरेद्यत्र कुत्रचित् । बहिरन्तश्च सर्वत्र सम्पश्यन्हि जनार्दनम् ॥ ३६॥ सर्वत्र विचरेन्मौनी वायुवद्वीतकल्मषः । समदुःखसुखः क्षान्तो हस्तप्राप्तं च भक्षयेत् ॥ ३७॥ निर्वैरेण समं पश्यन्द्विजगोश्वमृगादिषु । भावयन्मनसा विष्णुं परमात्मानमीश्वरम् ॥ ३८॥ चिन्मयं परमानन्दं ब्रह्मैवाहमिति स्मरन् । ज्ञात्वैवं मनोदण्डं धृत्वा आशानिवृत्तो भूत्वा आशाम्बरधरो भूत्वा सर्वदा मनोवाक्कायकर्मभिः सर्वसंसारमुत्सृज्य प्रपञ्चावाङ्मुखः स्वरूपानुसन्धानेन भ्रमरकीटन्यायेन मुक्तो भवतीत्युपनिषत् ॥ इति पञ्चमोपदेशः ॥ ५॥ अथ नारदः पितामहमुवाच । भगवन् तदभ्यासवशात् भ्रमकीटन्यायवत्तदभ्यासः कथमिति । तमाह पितामहः । सत्यवाग्ज्ञानवैराग्याभ्यां विशिष्टदेहावशिष्टो वसेत् । ज्ञानं शरीरं वैराग्यं जीवनं विद्धि शान्तिदान्ती नेत्रे मनोमुखं बुद्धिः कला पञ्चविंशतितत्त्वान्यवयव अवस्था पञ्चमहाभूतानि कर्म भक्तिज्ञानवैराग्यं शाखा जाग्रत्स्वप्नसुषुप्तितुरीयाश्चतुर्दशकरणानि पङ्कस्तम्भाकाराणीति । एवमपि नावमतिपङ्कं कर्णधार इव यन्तेव गजं स्वबुद्ध्या वशीकृत्य स्वव्यतिरिक्तं सर्वं कृतकं नश्वरमिति मत्वा विरक्तः पुरुषः सर्वदा ब्रह्माहमिति व्यवहरेन्नान्यत्किञ्चिद्वेदितव्यं स्वव्यतिरेकेण । जीवन्मुक्तो वसेत्कृतकृत्यो भवति । न नाहं ब्रह्मेति व्यवहरेत्किन्तु ब्रह्माहमस्मीत्यजस्रं जाग्रत्स्वप्नसुषुप्तिषु । तुरीयावस्थां प्राप्य तुरीयातीतत्वं व्रजेद्दिवा जाग्रन्नक्तं स्वप्नं सुषुप्तमर्धरात्रं गतमित्येकावस्थायां चतस्रोऽवस्थास्त्वेकैककरणाधीनानां चतुर्दशकरणानां व्यापारश्चक्षुरादीनाम् । चक्षुषो रूपग्रहणं श्रोत्रयोः शब्दग्रहणं जिह्वाया रसास्वादनं घ्राणस्य गन्धग्रहणं वचसो वाग्व्यापारः पाणेरादानं पादयोः संचारः पायोरुत्सर्ग उपस्थस्यानन्दग्रहणं त्वचः स्पर्शग्रहणम् । तदधीना च विषयग्रहणबुद्धिः बुद्ध्या बुद्ध्यति चित्तेन चेतयत्यहङ्कारेणाहङ्करोति । विसृज्य जीव एतान्देहाभिमानेन जीवो भवति । गृहाभिमानेन गृहस्थ इव शरीरे जीवः संचरति । प्राग्दले पुण्यावृत्तिराग्नेयां निद्रालस्यौ दक्षिणायां क्रौर्यबुद्धिर्नैरृत्यां पापबुद्धिः पश्चिमे क्रीडारतिर्वायव्यां गमने बुद्धिरुत्तरे शान्तिरीशान्ये ज्ञानं कर्णिकायां वैराग्यं केसरेष्वात्मचिन्ता इत्येवं वक्त्रं ज्ञात्वा जीवदवस्थां प्रथमं जाग्रद्द्वितीयं स्वप्नं तृतीयं सुषुप्तं चतुर्थं तुरीयं चतुर्भिर्विरहितं तुरीयातीतम् । विश्वतैजसप्राज्ञतटस्थभेदैरेक एव एको देवः साक्षी निर्गुणश्च तद्ब्रह्माहमिति व्याहरेत् । नो चेज्जाग्रदवस्थायां जाग्रदादिचतस्रोऽवस्थाः स्वप्ने स्वप्नादिचतस्रोऽवस्थाः सुषुप्ते सुषुप्त्यादिचतस्रोऽवस्थाः तुरीये तुरीयादिचतस्रोऽवस्थाः नत्वेवं तुरीयातीतस्य निर्गुणस्य । स्थूलसूक्ष्मकारणरूपैर्विश्वतैजसप्राज्ञेश्वरैः सर्वावस्थासु साक्षी त्वेक एवावतिष्ठते । उत तटस्थो द्रष्टा तटस्थो न द्रष्टा द्रष्टृत्वान्न द्रष्टैव कर्तृत्वभोक्तृत्व अहङ्कारादिभिः स्पृष्टो जीवः जीवेतरो न स्पृष्टः । जीवोऽपि न स्पृष्ट इति चेन्न । जीवाभिमानेन क्षेत्राभिमानः । शरीराभिमानेन जीवत्वम् । जीवत्वं घटाकाशमहाकाशव- द्व्यवधानेऽस्ति । व्यवधानवशादेव हंसः सोऽहमिति मन्त्रेणोच्छ्वासनिःश्वासव्यपदेशेनानुसन्धानं करोति । एवं विज्ञाय शरीराभिमानं त्यजेन्न शरीराभिमानी भवति । स एव ब्रह्मेत्युच्यते। त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः । पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत् ॥ १॥ शून्येष्वेवावकाशेषु गुहासु च वनेषु च । नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् ॥ २॥ आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च । महाजनेषु सिद्ध्यर्थी न गच्छेद्योगवित्क्वचित् ॥ ३॥ यथैनमवमन्यन्ते जनाः परिभवन्ति च । तथा युक्तश्चेद्योगी सतां वर्त्म न दूषयेत् ॥ ४॥ वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः । यस्यैते नियता दण्डाः स त्रिदण्डी महायतिः ॥ ५॥ विधूमे च प्रशान्ताग्नौ यस्तु माधुकरीं चरेत् । गृहे च विप्र्मुख्यानां यतिः सर्वोत्तमः स्मृतः ॥ ६॥ दण्डभिक्षां च यः कुर्यात्स्वधर्मे व्यसनं विना । यस्तिष्ठति न वैराग्यं याति नीचयतिर्हि सः ॥ ७॥ यस्मिन्गृहे विशेषेण लभेद्भिक्षां च वासनात् । तत्र नो याति यो भूयः स यतिर्नेतरः स्मृतः ॥ ८॥ यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम् । पारमार्थिक विज्ञानं सुखात्मानं स्वयंप्रभम् ॥ ९॥ परतत्त्वं विजानाति सोऽतिवर्णाश्रमी भवेत् । वर्णाश्रमादयो देहे मायया परिकल्पिताः ॥ १०॥ नात्मनो बोधरूपस्य मम ते सन्ति सर्वदा । इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ ११॥ यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्शनात् । स वर्णानाश्रमान्सर्वानतीत्य स्वात्मनि स्थितः ॥ १२॥ योऽतीत्य स्वाश्रमान्वर्णानात्मन्येव स्थितः पुमान् । सोऽतिवर्णाश्रमी प्रोक्तः सर्ववेदार्थवेदिभिः ॥ १३॥ तस्मादन्यगता वर्णा आश्रमा अपि नारद । आत्मन्यारोपिताः सर्वे भ्रान्त्या तेनात्मवेदिना ॥ १४॥ न विधिर्न निषेधश्च वर्ज्यावर्ज्य कल्पना । ब्रह्मविज्ञानिनामस्ति तथा नान्यच्च नारद ॥ १५॥ विरज्य सर्वभूतेभ्य आविरिञ्चिपदादपि । घृणां विपाठ्य सर्वस्मिन्पुत्रमित्रादिकेष्वपि ॥ १६॥ श्रद्धालुर्मुक्तिमार्गेषु वेदान्तज्ञानलिप्सया । उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत् ॥ १७॥ सेवाभिः परितोष्यैनं चिरकालं समाहितः । सदा वेदान्तवाक्यार्थं श्रुणुयात्सुसमाहितः ॥ १८॥ निर्ममो निरहङ्कारः सर्वसङ्गविवर्जितः । सदा शान्त्यादियुक्तः सन्नात्मन्वात्मानमीक्षते ॥ १९॥ संसारदोषदृष्ट्यैव विरक्तिर्जायते सदा । विरक्तस्य तु संसारात्संन्यासः स्यान्न संशयः ॥ २०॥ मुमुक्षुः परहंसाख्यः साक्षान्मोक्षैकसाधनम् । अभ्यसेद्ब्रह्मविज्ञानं वेदान्तश्रवणादिना ॥ २१॥ ब्रह्मविज्ञानलाभाय परहंस समाह्वयः । शान्तिदान्त्यादिभिः सर्वैः साधनैः सहितो भवेत् ॥ २२॥ वेदान्ताभ्यासनिरतः शान्तो दान्तो जितेन्द्रियः । निर्भयो निर्ममो नित्यो निर्द्वन्द्वो निष्परिग्रहः ॥ २३॥ जीर्णकौपीनवासाः स्यान्मुण्डी नग्नोऽथवा भवेत् । प्राज्ञो वेदान्तविद्योगी निर्ममो निरहङ्कृतिः ॥ २४॥ मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु । एको ज्ञानी प्रशान्तात्मा स सन्तरति नेतरः ॥ २५॥ गुरूणां च हिते युक्तस्तत्र संवत्सरं वसेत् । नियमेष्वप्रमात्तस्तु यमेषु च सदाभवेत् ॥ २६॥ प्राप्य चान्ते ततश्चैव ज्ञानयोगमनुत्तमम् । अविरोधेन धर्मस्य संचरेत्पृथिवीमिमाम् ॥ २७॥ ततः संवत्सरस्यान्ते ज्ञानयोगमनुत्तमम् । आश्रमत्रयमुत्सृज्य प्राप्तश्च परमाश्रमम् ॥ २८॥ अनुज्ञाप्य गुरूंश्चैव चरेद्धि पृथिवीमिमाम् । त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ॥ २९॥ द्वाविमौ न विरज्येते विपरीतेन कर्मणा । निरारम्भो गृहस्थश्च कार्यवांश्चैव भिक्षुकः ॥ ३०॥ माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा च माद्यति । तस्माद्दृष्टिविषं नारीं दूरतः परिवर्जयेत् ॥ ३१॥ संभाषणं सह स्त्रीभिरालापः प्रेक्षणं तथा । नृत्तं गानं सहासं च परिवादांश्च वर्जयेत् ॥ ३२॥ न स्नानं न जपः पूजा न होमो नैव साधनम् । नाग्निकार्यादिकार्यं च नैतस्यास्तीह नारद ॥ ३३॥ नार्चनं पितृकार्यं च तीर्थयात्रा व्रतानि च । धर्माधर्मादिकं नास्ति न विधिर्लौकिकी क्रिया ॥ ३४॥ सन्त्यजेत्सर्वकर्माणि लोकाचारं च सर्वशः । कृमीकीटपतङ्गाश्च तथा योगी वनस्पतीन् ॥ ३५॥ न नाशयेद्बुधो जीवन्परमार्थमतिर्यतिः । नित्यमन्तर्मुखः स्वच्छः प्रशान्तात्मा स्वपूर्णधीः ॥ ३६॥ अन्तःसङ्गपरित्यागी लोके विहर नारद । नाराजके जनपदे चरत्येकचरो मुनिः ॥ ३७॥ निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च । चलाचलनिकेतश्च यतिर्यादृच्छिको भवेदित्युपनिषत् ॥ इति षष्ठोपदेशः ॥ ६॥ अथ यतेर्नियमः कथमिति पृष्टं नारदं पितामहः पुरस्कृत्य विरक्तः सन्यो वर्षासु ध्रुवशीलोऽष्टौ मास्येकाकी चरन्नेकत्र निवसेद्भिक्षुर्भयात्सारङ्गवदेकत्र न तिष्ठेस्वगमननिरोधग्रहणं न कुर्याद्धस्ताभ्यां नद्युत्तरणं न कुर्यान्न वृक्षारोहणमपि न देवोत्सवदर्शनं कुर्यान्नैकत्राशी न बाह्यदेवार्चनं कुर्यात्स्वव्यतिरिक्तं सर्वं त्यक्त्वा मधुकरवृत्त्याहारमहारन्कृशो भूत्वा मेदोवृद्धिमकुर्वन्नाज्यं रुधिरमिव त्यजेदेकत्रान्नं पललमिव गन्धलेपनमशुद्धिलेपनमैव क्षारमन्त्यजमिव वस्त्रमुच्छिष्टपात्रमिवाभ्यङ्गं स्त्रीसङ्गमिव मित्राह्लादकं मूत्रमिव स्पृहां गोमांसमिव ज्ञातचरदेशं चण्डालवाटिकामिव स्त्रियमहिमिव सुवर्णं कालकूटमिव सभास्थलं स्मशानस्थलमिव राजधानीं कुम्भीपाकमिव शवपिण्डवदेकत्रान्नं न देहान्तरदर्शनं प्रपञ्चवृत्तिं परित्यज्य स्वदेशमुत्सृज्य ज्ञातचरदेशं विहाय विस्मृतपदार्थं पुनः प्राप्तहर्ष इव स्वमानन्दमनुस्मर- न्स्वशरीराभिमानदेशविस्मरणं मत्वा शवमिव हेयमुपगम्य कारागृहविनिर्मुक्तचोरवत्पुत्राप्तबन्धुभवस्थलं विहाय दूरतो वसेत् । अयत्नेन प्राप्तमाहरन्ब्रह्मप्रणवध्यानानुसन्धानपरो भूत्वा सर्वकर्मनिर्मुक्तः कामक्रोधलोभमोहमद- मात्सर्यादिकं दग्ध्वा त्रिगुणातीतः षडूर्मिरहितः षड्भावविकारशून्यः । सत्यवाक्छुचिरद्रोही ग्राम एकरात्रं पत्तने पञ्चरात्रं क्षेत्रे पञ्चरात्रं तीर्थे पञ्चरात्रमनिकेतः स्थिरमतिर्नानृतवादी गिरिकन्दरेषु वसेदेक एव द्वौ वा चरेत् ग्रामं त्रिभिर्नगरं चतुर्भि- र्ग्राममित्येकश्चरेत् । भिक्षुश्चतुर्दशकरणानां न तत्रावकाशं दद्यादविच्छिन्नज्ञानाद्वैराग्यसम्पत्ति- मनुभूय मत्तो न कश्चिन्नान्यो व्यतिरिक्त इत्यात्मन्यालोच्य सर्वतः स्वरूपमेव पश्यञ्जीवन्मुक्तिमवाप्य प्रारब्ध- प्रतिभासनाशपर्यन्तं चतुर्विधं स्वरूपं ज्ञात्वा देहपतनपर्यन्तं स्वरूपानुसन्धानेन वसेत् । त्रिषवणस्नानं कुटीचकस्य बहूदकस्य द्विवारं हंसस्यैकवारं परमहंसस्य मानसस्नानं तुरीयातीतस्य भस्मस्नानमवधूतस्य वायव्यस्नानं ऊर्ध्वपुण्ड्रं कुटीचकस्य त्रिपुण्ड्रं बहूदकस्य ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं हंसस्य भस्मोद्धूलनं परमहंसस्य तुरीयातीतस्य तिलकपुण्ड्रमवधूतस्य न किञ्चित् । तुरीयातीतावधूतयोः ऋतुक्षौरं कुटीचकस्य ऋतुद्वयक्षौरं बहूदकस्य न क्षौरं हंसस्य परमहंसस्य च न क्षौरम् । अस्तिचेदयनक्षौरम् । तुरीयातीतावधूतयोः न क्षौरम् । कुटीचकस्यैकान्नं माधुकरं बहूदकस्य हंसपरमहंसयोः करपात्रं तुरीयातीतस्य गोमुखं अवधूतस्याजगरवृत्तिः । शाटिद्वयं कुटीचकस्य बहूदकस्यैकशाटी हंसस्य खण्डं दिगंबरं परमहंसस्य एककौपीनं वा तुरीयातीतावधूतयो- र्जातरूपधरत्वं हंसपरमहंसयोरजिनं न त्वन्येषाम् । कुटीचकबहूदकयोर्देवार्चनं हंसपरमहंसयो- र्मानसार्चनं तुरीयातीतावधूतयोः सोहंभावना । कुटीचकबहूदकयोर्मन्त्रजपाधिकारो हंसपरमहंसयो- र्ध्यानाधिकारस्तुरीयातीतावधूतयोर्न त्वन्याधिकार- स्तुरीयातीतावधूतयोर्महावाक्योपदेशाधिकारः परमहंसस्यापि । कुटीचकबहूदकहंसानां नान्यस्योपदेशाधिकारः। कुटीचकबहूदकयोर्मानुषप्रणवः हंसपरमहंसयोरान्तरप्रणवः तुरीयातीतावधूतयोर्ब्रह्मप्रणवः । कुटीचकबहूदकयोः श्रवणं हंसपरमहंसयोर्मननं तुरीयातीतावधूतयोर्निदिध्यासः । सर्वेषामात्मनुसन्धानं विधिरित्येव मुमुक्षुः सर्वदा संसारतारकं तारकमनुस्मर- ञ्जीवन्मुक्तो वसेदधिकारविशेषेण कैवल्यप्राप्त्युपाय- मन्विष्येद्यतिरित्युपनिषत् ॥ इति सप्तमोपदेशः ॥ ७॥ अथ हैनं भगवन्तं परमेष्ठिनं नारदः पप्रच्छ संसारतारकं प्रसन्नो ब्रूहीति । तथेति परमेष्ठी वक्तुमुचक्रमे ओमिति ब्रह्मेति व्यष्टिसमष्टिप्रकारेण । का व्यष्टिः का समष्टिः संहारप्रणवः सृष्टिप्रणव- श्चान्तर्बहिश्चोभयात्मकत्वात्त्रिविधो ब्रह्मप्रणवः । अन्तःप्रणवो व्यावहारिकप्रणवः । बाह्यप्रणव आर्षप्रणवः । उभयात्मको विराट्प्रणवः । संहारप्रणवो ब्रह्मप्रणव अर्धमात्राप्रणवः । ओमितिब्रह्म । ओमित्येकाक्षर- मन्तःप्रणवं विद्धि । सचाष्टधा भिद्यते । अकारोकारमकारार्धमात्रानादबिन्दुकलाशक्तिश्चेति । तत्र चत्वार अकारश्चायुतावयवान्वित उकारः सहस्रावयवान्वितो मकारः शतावयवोपेतोऽर्धमात्रा- प्रणवोऽनन्तावयवाकारः । सगुणो विराट्प्रणवः संहारो निर्गुणप्रणव उभयात्मकोत्पत्तिप्रणवो यथाप्लुतो विराट्प्लुतः प्लुतसंहारो विराट्प्रणवः षोडशमात्रात्मकः षट्त्रिंशत्तत्त्वातीतः । षोडशमात्रात्मकत्वं कथमित्युच्यते । अकारः प्रथमोकारो द्वितीया मकार- स्तृतीयार्धमात्रा चतुर्थी नादः पञ्चमी बिन्दुः षष्ठी कला सप्तमी कलातीताष्टमी शान्तिर्नवमी शान्त्यतीता दशमी उन्मन्येकादशी मनोन्मनी द्वादशी पुरी त्रयोदशी मध्यमा चतुर्दशी पश्यन्ती पञ्चदशी परा । षोडशी पुनश्चतुःषष्टिमात्रा प्रकृति- पुरुषद्वैविध्यमासाद्याष्टाविंशत्युत्तरभेदमात्रा- स्वरूपमासाद्य सगुणनिर्गुणत्वमुपेत्यैकोऽपि ब्रह्मप्रणवः सर्वाधारः परंज्योतिरेष सर्वेश्वरो विभुः । सर्वदेवमयः सर्वप्रपञ्चाधारगर्भितः ॥ १॥ सर्वाक्षरमयः कालः सर्वागममयः शिवः । सर्वश्रुत्युत्तमो मृग्यः सकलोपनिषन्मयः ॥ २॥ भूतं भव्यं भविष्यद्यत्त्रिकालोदितमव्ययम् । तदप्योङ्कारमेवायं विद्धि मोक्षप्रदायकम् ॥ ३॥ तमेवात्मानमित्येतद्ब्रह्मशब्देन वर्णितम् । तदेकममृतमजरमनुभूय तथोमिति ॥ ४॥ सशरीरं समारोप्य तन्मयत्वं तथोमिति । त्रिशरीरं तमात्मानं परंब्रह्म विनिश्चिनु ॥ ५॥ परंब्रह्मानुसन्दध्याद्विश्वादीनां क्रमः क्रमात् । स्थूलत्वात्स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक् परम् ॥ ६॥ ऐकत्वानन्दभोगाच्च सोऽयमात्मा चतुर्विधः । चतुष्पाज्जागरितः स्थूलः स्थूलप्रज्ञो हि विश्वभुक् ॥ ७॥ एकोनविंशतिमुखः साष्टाङ्गः सर्वगः प्रभु । स्थूलभुक् चतुरात्माथ विश्वो वैश्वानरः पुमान् ॥ ८॥ विश्वजित्प्रथमः पादः स्वप्नस्थानगतः प्रभुः । सूक्ष्मप्रज्ञः स्वतोऽष्टाङ्ग एको नान्यः परंतप ॥ ९॥ सूक्ष्मभुक् चतुरात्माथ तैजसो भूतराडयम् । हिरण्यगर्भः स्थूलोऽन्तर्द्वितीयः पाद उच्यते ॥ १०॥ कामं कामयते यावद्यत्र सुप्तो न कञ्चन । स्वप्नं पश्यति नैवात्र तत्सुषुप्तमपि स्फुटम् ॥ ११॥ एकीभूतः सुषुप्तस्थः प्रज्ञानघनवान्सुखी । नित्यानन्दमयोऽप्यात्मा सर्वजीवान्तरस्थितः ॥ १२॥ तथाप्यानन्दभुक् चेतोमुखः सर्वगतोऽव्ययः । चतुरात्मेश्वरः प्राज्ञस्तृतीयः पादसंज्ञितः ॥ १३॥ एष सर्वेश्वरश्चैष सर्वज्ञः सूक्ष्मभावनः । एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ ॥ १४॥ भूतानां त्रयमप्येतत्सर्वोपरमबाधकम् । तत्सुषुप्तं हि यत्स्वप्नं मायामात्रं प्रकीर्तितम् ॥ १५॥ चतुर्थश्चतुरात्मापि सच्चिदेकरसो ह्ययम् । तुरीयावसितत्त्वाच्च एकैकत्वनुसारतः ॥ १६॥ ज्ञातानुज्ञात्रननुज्ञातृविकल्पज्ञानसाधनम् । विकल्पत्रयमत्रापि सुषुप्तं स्वप्नमान्तरम् ॥ १७॥ मायामात्रं विदित्वैवं सच्चिदेकरसो ह्ययम् । विभक्तो ह्ययमादेशो न स्थूलप्रज्ञमन्वहम् ॥ १८॥ न सूक्ष्मप्रज्ञमत्यन्तं न प्रज्ञं न क्वचिन्मुने । नैवाप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञमान्तरम् ॥ १९॥ नाप्रज्ञमपि न प्रज्ञाघनं चादृष्टमेव च । तदलक्षणमग्राह्यं यद्व्यवहार्यमचिन्त्य- मव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवं शान्तमद्वैतं चतुर्थं मन्यन्ते स ब्रह्म प्रणवः स विज्ञेयो नापरस्तुरीयः सर्वत्र भानुवन्मुमुक्षूणामाधारः स्वयंज्योतिर्ब्रह्माकाशः सर्वदा विराजते परंब्रह्मत्वादित्युपनिषत् ॥ इति अष्टमोपदेशः ॥ ८॥ अथ ब्रह्मस्वरूपं कथमिति नारदः पप्रच्छ । तं होवाच पितामहः किं ब्रह्मस्वरूपमिति । अन्योसावन्योहमस्मीति ये विदुस्ते पशवो न स्वभाव- पशवस्तमेवं ज्ञात्वा विद्वान्मृत्युमुखात्प्रमुच्यते नान्यः पन्था विद्यतेऽयनाय । कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां नत्वात्मभावा- दात्मा ह्यनीशः सुखदुःखहेतोः ॥ १॥ ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम् । यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥ २॥ तमेकस्मिंस्त्रिवृतं षोडशान्तं शतार्धारं विंशप्रतित्यराभिः । अष्टकैः षड्भिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ ३॥ पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् । पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चशद्भेदां पञ्चपर्वामधीमः ॥ ४॥ सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे । पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥ ५॥ उद्गीथमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं स्वप्रतिष्ठाक्षरं च । अत्रान्तरं वेदविदो विदित्वा लीनाः परे ब्रह्मणि तत्परायणाः ॥ ६॥ संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः । अनीशश्चात्मा बध्यते भोक्तृभावा- ज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ७॥ ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोगार्थयुक्ता । अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ॥ ८॥ क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । तस्याभिध्यानाद्योजनात्तत्त्वभावा- द्भूयश्चान्ते विश्वमायानिवृत्तिः ॥ ९॥ ज्ञात्वा देवं मुच्यते सर्वपाशैः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः । तस्याभिध्यानात्तृतयं देहभेदे विश्वैश्वर्यं केवल आत्मकामः ॥ १०॥ एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ ११॥ आत्मविद्या तपोमूलं तद्ब्रह्मोपनिषत्परम् । य एवं विदित्वा स्वरूपमेवानुचिन्तयं- स्तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ १२॥ तस्माविराड्भूतं भव्यं भविष्यद्भवत्यनश्वरस्वरूपम् । अणोरणीयान्महतो महीया- नात्मास्य जन्तोर्निहितो गुहायाम् । तमक्रतुं पश्यति वीतशोको धातुःप्रसादान्महिमानमीशम् ॥ १३॥ अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स श्रुणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ १४॥ अशरीरं शरीरेष्वनवस्थेश्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ १५॥ सर्वस्य धातारमचिन्त्यशक्तिं सर्वागमान्तार्थविशेषवेद्यम् । परात्परं परमं वेदितव्यं सर्वावसाने सकृद्वेदितव्यम् ॥ १६॥ कविं पुराणं पुरुषोत्तमोत्तमं सर्वेश्वरं सर्वदेवैरुपास्यम् । अनादि मध्यान्तमनन्तमव्ययं शिवाच्युताम्भोरुहगर्भभूधरम् ॥ १७॥ स्वेनावृतं सर्वमिदं प्रपञ्चं पञ्चात्मकं पञ्चसु वर्तमानम् । पञ्चीकृतानन्तभवप्रपञ्चं पञ्चीकृतस्वावयवैरसंवृतम् । परात्परं यन्महतो महान्तं स्वरूपतेजोमयशाश्वतं शिवम् ॥ १७॥ नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ १८॥ नान्तःप्रज्ञं न बहिःप्रज्ञं न स्थूलं नास्थूलं न ज्ञानं नाज्ञानं नोभयतःप्रज्ञमग्राह्य- मव्यवहार्यं स्वान्तःस्थितः स्वयमेवेति य एवं वेद स मुक्तो भवति स मुक्तो भवतीत्याह भगवान्पितामहः । स्वस्वरूपज्ञः परिव्राट् परिव्राडेकाकी चरति भयत्रस्तसारङ्गवत्तिष्ठति । गमनविरोधं न करोति । स्वशरीरव्यतिरिक्तं सर्वं त्यक्त्वा ष्ट्पदवृत्त्या स्थित्वा स्वरूपानुसन्धानं कुर्वन्सर्वमनन्यबुद्ध्या स्वस्मिन्नेव मुक्तो भवति । स परिव्राट् सर्वक्रियाकारकनिवर्तको गुरुशिष्यशास्त्रादिविनिर्मुक्तः सर्वसंसारं विसृज्य चामोहितः परिव्राट् कथं निर्धनिकः सुखी धनवा- ञ्ज्ञानाज्ञानोभयातीतः सुखदुःखातीतः स्वयंज्योतिप्रकाशः सर्ववेद्यः सर्वज्ञः सर्वसिद्धिदः सर्वेश्वरः सोऽहमिति । तद्विष्णोः परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः । सूर्यो न तत्र भाति न शशाङ्कोऽपि न स पुनरावर्तते न स पुनरावर्तते तत्कैवल्यमित्युपनिषत् ॥ इति नवमोपदेशः ॥ ९॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ इति नारदपरिव्राजकोपनिषत्समाप्ता ॥ Encoded by Sunder Hattangadi (sunderh@hotmail.com)
% Text title            : Narada-Parivrajaka Upanishad
% File name             : naradparivra.itx
% itxtitle              : nAradaparivrAjakopaniShat
% engtitle              : Narad-Parivrajaka Upanishad
% Category              : upanishhat, svara
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Texttype              : svara
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by          : Sunder Hattangadi (sunderh at hotmail.com)
% Description-comments  : 43 / 108; Atharva Veda - Sanyasa upanishad
% Latest update         : Feb. 27, 2000
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP