सपर्या पर्यायः

सपर्या पर्यायः

श्रीशः श्रेयस्कामिभिरभ्यर्चनतोऽन्तर्निध्यानाद्यानिर्व्रियतामत्र जगत्याम् । सत्तामात्रानन्दचिदात्मानमनन्तं सोऽहं तं त्वामर्चयितुं न प्रभवामि ॥ १॥ स ध्येयो यः संसृतिभूमिर्व्यवधानादध्येयो नस्त्वं तु न साक्षाद परोक्षात् । ध्यायच्चानुध्यायसि चेतः स्वयमन्तस्तं ध्यायामि त्वामिति वन्ध्यात्र मनीषा ॥ २॥ सर्वानन्यस्त्वमबाह्यान्तरभावो बाह्यञ्चास्याभ्यन्तरमप्यस्य खिलात्मा । नित्यप्रत्यासन्नसतस्तस्य तवात्मन् नाहं जाने किंविधमावाहनकर्म ॥ ३॥ ओतं प्रोतं यत्र समस्तं जगदेतत् सर्वाधारे तिष्ठति सम्बाधविहीनम् । भूमंस्तस्य स्वे महिमन्येव सतस्ते को नामासावासनसङ्कल्पविडम्बा ॥ ४॥ अनादिभ्यो यस्य परस्य प्रतिपत्त्या संसाराध्वत्रय्यतिपन्नस्सुखमेति । आत्मंस्ते तस्यागतिगत्याद्यतिभूमेर्मिथ्या नाहं केन कथं स्वागतिकः स्याम् ॥ ५॥ इन्द्राद्याः स्युर्यस्य परस्यामरवर्या विद्यामात्रालेशवशेनापि सदर्घ्याः । तस्याद्यस्यापाणिपदादेः कथमर्घ्यं दद्यामद्यानर्धविभूतेरुदविन्दुम् ॥ ६॥ विश्वात्मैको यस्य तु पादो न विमेयः पादा श् चान्ये पण्डितरूपैरपि मृग्याः । तस्यारूपस्यापद मूर्धादिविभक्तेरापाद्यं किं केन कथं वा तव पाद्यम् ॥ ७॥ सन्ध्या नद्यो यस्य च वास्तेयमुदन्वान् मेघाः केशाः प्राकृतविश्वापघनस्य । तस्यापेतप्राकृतसम्बोधतनोस्ते कल्प्यं मन्ये नाचमनीयं कमनीयम् ॥ ८॥ अध्यात्मं यन्मध्वधिदैवञ्च विभक्तं तत्सम्पृच्यैकात्मकमाहोपनिषद्यम् । सत्वं सर्वास्वाद्यतमस्तन्मधुपर्कः सम्प्रीयेथाः किं मधुपर्केण कथं वा ॥ ९॥ यत्रैकस्थं सर्वपवित्राखिलतीर्थं निष्णाताः स्युर्यत्र विगच्छद्भवपङ्काः । यद्व्योम्नोऽपि व्योम परं ज्योतिरपारं तन्त्वामात्मन् केन विशुद्धं स्नप यामि ॥ १०॥ लोकालेख्यं वो हितशुक्लासितरूपैः स्यूतं सूक्ष्मैरम्बररूपं गुणभेदैः । सम्पर्याप्तं प्रावरितुं यन्न विभ्रमन् किं ते तस्या अम्बरमन्यत्कलयामि ॥ ११॥ अत्रैगुण्ये यन्न जगत्त्वय्युपवीते सूत्रे स्यूतं भूतमतो विश्लथमास्ते । तस्यासव्यादक्षिणसम्पूर्णतनोस्ते कल्प्यं सूत्रं किं त्रिगुणं स्यादुपवीतम् ॥ १२॥ यस्यैकांश[वेशवशादानखकेशात् भूतं भूतं रोचनमिन्धे रुचकाभम् । तस्यास्थूलानण्वपसिद्धावयवात्मन्निर्मेयन्ते किं मनसापि प्रतिकर्म ॥ १३॥ यस्यानुध्याविद्युवध्याततमिस्रा नालिप्यन्ते कर्मभिरच्छासितमिश्रैः । आकाशादेरप्यतिसूक्ष्मस्य विभो ते तस्यालेपस्यैव कुतः स्यादनुलेपः ॥ १४॥ आतिष्ठन्ते केऽप्ययनन्ते घनपुष्पं चूडापीडं केचिदपां पुष्पमुशन्ति । भूमञ्जाने पुष्करपुष्पं त्वयि सर्वं का का पुष्पैस्तेन मयार्चा तव कार्या ॥ १५॥ यस्य प्राणो गन्धवहश्छन्दतनोस्ते यस्त्वं गीतः सर्वसुगन्धः श्रुतिमौलौ । तस्यामोदप्रीतिकृते ते कथमात्मन धूपायेयं फल्गुतमैर्गुलगुलधूमैः ॥ १६॥ अक्षाण्यर्था बुद्धिमनोहङ्कृतयो वा सन्दीप्यन्ते सन्दितभावास्तव भासा । खद्योतात्प्रत्यस्तवदीपः खलु कल्प्यः तेजो वर्चो द्युम्नदतेजस्त्रितयस्य ॥ १७॥ मृत्युर्यस्याशेषभुजः स्यादुपदंशो यो वाऽश्नीयात् किञ्चन नाकिश्चनगम्यः । यं विज्ञायात्येति पिपासामशनायां नैवेद्यन्ते तस्य निवेद्यं किमिवात्मन् ॥ १८॥ पश्यत्यन्यद्यत्र न दृश्यं न श‍ृणोति श्राव्यं ज्ञेयं यत्र विजानाति न किञ्चित् । भूम्नस्तस्याशेषविशेषोपशमस्य छत्राद्यैर्वा कैरुपचार्यं तव केन ॥ १९॥ सर्वात्माऽसन् यस्स पुरस्तादथ पश्चात् ऊर्ध्वं चाधो दक्षिणतश्चोत्तरतश्च । तस्यापारानन्तमहिम्नः कथमात्मन् प्रादक्षिण्यक्रान्तिमहं ते करवाणि ॥ २०॥ नन्तभ्योऽन्योऽसावहमन्योऽस्मि च नन्ता नैवं भेदं वेद पशू यामतियातः । योऽहं स त्वं सत्यमहं स प्रतिबुद्धो बुद्ध्या दध्यान्तस्य नमस्यां तव को हम् ॥ २१॥ स्तोत्रं नाम स्याद्गुणिनो यो गुणवादः स्वश्चामेयानन्तगुणो वाप्यगुणो वा । प्राध्वं पारे वाङ्मनसाध्वं परमात्मन्नानन्देयास्त्वं स कया नु स्तुतिभङ्ग्या ॥ २२॥ यस्त्वं ब्रह्म क्षत्रमशेषा अपि लोका वेदा देवास्सर्वमिदं चासि विभूमन् । सोशम्भृतो मानसशोकानतितीर्णो न प्राप्तव्यं प्रार्थनया ते विमृशामि ॥ २३॥ देहं देहं देव इहात्मैव सपर्या सोऽहं तन्मे मोहकथात्यन्तिकशान्तिः । कैवल्यञ्चातुल्यपरानन्दमवाप्यं नान्यो देवो नापि सपर्या न फलं वा ॥ २४॥ कति कति तरवो मे नार्चनालूनपत्राः कति कति न सरस्यस्तर्पणोत्कीर्णतोयाः । कति कति न हरीशाद्यालयाः क्रान्तपूर्वा विदितपरमतत्वो नाधुना किञ्चिदीहे ॥ सपर्यापर्यायं पठत श‍ृणुत प्रत्यहमिमं विधूयायासं ये परमशिवमाराद्धुमनसः । सुखेनैवात्यन्तं सुखमिह च निर्वाणपरमं लभध्वं मोदध्वं जहित भवसङ्कोचमखिलम् ॥ श्रीरामभद्रयोगीन्द्रचरणाम्बुजरेणुना । कृतः सपर्या पर्यायः कृष्णानन्देन योगिना । इति कृष्णानन्दकृतिषु सपर्या पर्याय स्तवः सम्पूर्णः ॥ Notes: The text shows how material worship of personal God should culminate in mental worship of the impersonal and how the former becomes meaningless and farcical at a stage when the individual attains a higher plane of life, shedding imposed limitations on the unlimited infinite. In effect it is an amplification of the wellknown passage of Bṛhadaranyakōpanisad मन्त्र १४ [II.iv.14] यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरꣳ श‍ृणोति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति । यत्र वा अस्य सर्वमात्मैवाभूत् तत्केन कं जिघ्रेत् तत्केन कं पश्येत् तत्केन कꣳ श‍ृणुयात् तत्केन कमभिवदेत् तत्केन कं मन्वीत तत्केन कं विजानीयात् । येनेदꣳ सर्वं विजानाति तं केन विजानीयाद् विज्ञातारमरे केन विजानीयादिति ॥ १४॥ Proofread by Rajesh Thyagarajan
% Text title            : Saparya Paryayah
% File name             : saparyAparyAyaH.itx
% itxtitle              : saparyAparyAyaH (shrIkRiShNAnandasarasvatIvirachitam)
% engtitle              : saparyAparyAyaH
% Category              : upanishhat, upaniShat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Author                : Krishnananda Saraswati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Minor works of Shri Krishnananda Saraswati
% Indexextra            : (Scan)
% Latest update         : November 6, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org