सपर्या पर्यायः
श्रीशः श्रेयस्कामिभिरभ्यर्चनतोऽन्तर्निध्यानाद्यानिर्व्रियतामत्र जगत्याम् ।
सत्तामात्रानन्दचिदात्मानमनन्तं सोऽहं तं त्वामर्चयितुं न प्रभवामि ॥ १॥
स ध्येयो यः संसृतिभूमिर्व्यवधानादध्येयो नस्त्वं तु न साक्षाद परोक्षात् ।
ध्यायच्चानुध्यायसि चेतः स्वयमन्तस्तं ध्यायामि त्वामिति वन्ध्यात्र मनीषा ॥ २॥
सर्वानन्यस्त्वमबाह्यान्तरभावो बाह्यञ्चास्याभ्यन्तरमप्यस्य खिलात्मा ।
नित्यप्रत्यासन्नसतस्तस्य तवात्मन् नाहं जाने किंविधमावाहनकर्म ॥ ३॥
ओतं प्रोतं यत्र समस्तं जगदेतत् सर्वाधारे तिष्ठति सम्बाधविहीनम् ।
भूमंस्तस्य स्वे महिमन्येव सतस्ते को नामासावासनसङ्कल्पविडम्बा ॥ ४॥
अनादिभ्यो यस्य परस्य प्रतिपत्त्या संसाराध्वत्रय्यतिपन्नस्सुखमेति ।
आत्मंस्ते तस्यागतिगत्याद्यतिभूमेर्मिथ्या नाहं केन कथं स्वागतिकः स्याम् ॥ ५॥
इन्द्राद्याः स्युर्यस्य परस्यामरवर्या विद्यामात्रालेशवशेनापि सदर्घ्याः ।
तस्याद्यस्यापाणिपदादेः कथमर्घ्यं दद्यामद्यानर्धविभूतेरुदविन्दुम् ॥ ६॥
विश्वात्मैको यस्य तु पादो न विमेयः पादा श् चान्ये पण्डितरूपैरपि मृग्याः ।
तस्यारूपस्यापद मूर्धादिविभक्तेरापाद्यं किं केन कथं वा तव पाद्यम् ॥ ७॥
सन्ध्या नद्यो यस्य च वास्तेयमुदन्वान् मेघाः केशाः प्राकृतविश्वापघनस्य ।
तस्यापेतप्राकृतसम्बोधतनोस्ते कल्प्यं मन्ये नाचमनीयं कमनीयम् ॥ ८॥
अध्यात्मं यन्मध्वधिदैवञ्च विभक्तं तत्सम्पृच्यैकात्मकमाहोपनिषद्यम् ।
सत्वं सर्वास्वाद्यतमस्तन्मधुपर्कः सम्प्रीयेथाः किं मधुपर्केण कथं वा ॥ ९॥
यत्रैकस्थं सर्वपवित्राखिलतीर्थं निष्णाताः स्युर्यत्र विगच्छद्भवपङ्काः ।
यद्व्योम्नोऽपि व्योम परं ज्योतिरपारं तन्त्वामात्मन् केन विशुद्धं स्नप यामि ॥ १०॥
लोकालेख्यं वो हितशुक्लासितरूपैः स्यूतं सूक्ष्मैरम्बररूपं गुणभेदैः ।
सम्पर्याप्तं प्रावरितुं यन्न विभ्रमन् किं ते तस्या अम्बरमन्यत्कलयामि ॥ ११॥
अत्रैगुण्ये यन्न जगत्त्वय्युपवीते सूत्रे स्यूतं भूतमतो विश्लथमास्ते ।
तस्यासव्यादक्षिणसम्पूर्णतनोस्ते कल्प्यं सूत्रं किं त्रिगुणं स्यादुपवीतम् ॥ १२॥
यस्यैकांश[वेशवशादानखकेशात् भूतं भूतं रोचनमिन्धे रुचकाभम् ।
तस्यास्थूलानण्वपसिद्धावयवात्मन्निर्मेयन्ते किं मनसापि प्रतिकर्म ॥ १३॥
यस्यानुध्याविद्युवध्याततमिस्रा नालिप्यन्ते कर्मभिरच्छासितमिश्रैः ।
आकाशादेरप्यतिसूक्ष्मस्य विभो ते तस्यालेपस्यैव कुतः स्यादनुलेपः ॥ १४॥
आतिष्ठन्ते केऽप्ययनन्ते घनपुष्पं चूडापीडं केचिदपां पुष्पमुशन्ति ।
भूमञ्जाने पुष्करपुष्पं त्वयि सर्वं का का पुष्पैस्तेन मयार्चा तव कार्या ॥ १५॥
यस्य प्राणो गन्धवहश्छन्दतनोस्ते यस्त्वं गीतः सर्वसुगन्धः श्रुतिमौलौ ।
तस्यामोदप्रीतिकृते ते कथमात्मन धूपायेयं फल्गुतमैर्गुलगुलधूमैः ॥ १६॥
अक्षाण्यर्था बुद्धिमनोहङ्कृतयो वा सन्दीप्यन्ते सन्दितभावास्तव भासा ।
खद्योतात्प्रत्यस्तवदीपः खलु कल्प्यः तेजो वर्चो द्युम्नदतेजस्त्रितयस्य ॥ १७॥
मृत्युर्यस्याशेषभुजः स्यादुपदंशो यो वाऽश्नीयात् किञ्चन नाकिश्चनगम्यः ।
यं विज्ञायात्येति पिपासामशनायां नैवेद्यन्ते तस्य निवेद्यं किमिवात्मन् ॥ १८॥
पश्यत्यन्यद्यत्र न दृश्यं न शृणोति श्राव्यं ज्ञेयं यत्र विजानाति न किञ्चित् ।
भूम्नस्तस्याशेषविशेषोपशमस्य छत्राद्यैर्वा कैरुपचार्यं तव केन ॥ १९॥
सर्वात्माऽसन् यस्स पुरस्तादथ पश्चात् ऊर्ध्वं चाधो दक्षिणतश्चोत्तरतश्च ।
तस्यापारानन्तमहिम्नः कथमात्मन् प्रादक्षिण्यक्रान्तिमहं ते करवाणि ॥ २०॥
नन्तभ्योऽन्योऽसावहमन्योऽस्मि च नन्ता नैवं भेदं वेद पशू यामतियातः ।
योऽहं स त्वं सत्यमहं स प्रतिबुद्धो बुद्ध्या दध्यान्तस्य नमस्यां तव को हम् ॥ २१॥
स्तोत्रं नाम स्याद्गुणिनो यो गुणवादः स्वश्चामेयानन्तगुणो वाप्यगुणो वा ।
प्राध्वं पारे वाङ्मनसाध्वं परमात्मन्नानन्देयास्त्वं स कया नु स्तुतिभङ्ग्या ॥ २२॥
यस्त्वं ब्रह्म क्षत्रमशेषा अपि लोका वेदा देवास्सर्वमिदं चासि विभूमन् ।
सोशम्भृतो मानसशोकानतितीर्णो न प्राप्तव्यं प्रार्थनया ते विमृशामि ॥ २३॥
देहं देहं देव इहात्मैव सपर्या सोऽहं तन्मे मोहकथात्यन्तिकशान्तिः ।
कैवल्यञ्चातुल्यपरानन्दमवाप्यं नान्यो देवो नापि सपर्या न फलं वा ॥ २४॥
कति कति तरवो मे नार्चनालूनपत्राः कति कति न सरस्यस्तर्पणोत्कीर्णतोयाः ।
कति कति न हरीशाद्यालयाः क्रान्तपूर्वा विदितपरमतत्वो नाधुना किञ्चिदीहे ॥
सपर्यापर्यायं पठत शृणुत प्रत्यहमिमं
विधूयायासं ये परमशिवमाराद्धुमनसः ।
सुखेनैवात्यन्तं सुखमिह च निर्वाणपरमं
लभध्वं मोदध्वं जहित भवसङ्कोचमखिलम् ॥
श्रीरामभद्रयोगीन्द्रचरणाम्बुजरेणुना ।
कृतः सपर्या पर्यायः कृष्णानन्देन योगिना ।
इति कृष्णानन्दकृतिषु सपर्या पर्याय स्तवः सम्पूर्णः ॥
Notes:
The text shows how material worship of personal God should culminate in mental worship of the impersonal and how the former becomes meaningless and farcical at a stage when the individual attains a higher plane of life, shedding imposed limitations on the unlimited infinite. In effect it is an amplification of the wellknown passage of Bṛhadaranyakōpanisad
मन्त्र १४ [II.iv.14]
यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं
पश्यति तदितर इतरꣳ शृणोति तदितर इतरमभिवदति तदितर
इतरं मनुते तदितर इतरं विजानाति । यत्र वा अस्य सर्वमात्मैवाभूत्
तत्केन कं जिघ्रेत् तत्केन कं पश्येत् तत्केन कꣳ शृणुयात् तत्केन
कमभिवदेत् तत्केन कं मन्वीत तत्केन कं विजानीयात् । येनेदꣳ
सर्वं विजानाति तं केन विजानीयाद् विज्ञातारमरे केन विजानीयादिति ॥ १४॥
Proofread by Rajesh Thyagarajan