अतिमानुषस्तवः

अतिमानुषस्तवः

पञ्चस्तव्यां २ अतिमानुषस्तवः श्रीरस्तु । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः ॥ श्रीवत्सचिह्नमिश्रेभ्यो नमौक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ अतिमानुषशीलवृत्तवेषैरतिवृत्तामरविक्रमप्रतापैः । अतिलङ्घितसर्वलोकसाम्यं वरये वैष्णववैभवावतारम् ॥ १॥ श्रेयः किरन्तु किरणाश्चरणारविन्द- निष्यन्दमानमकरन्दरसौघदेश्याः । तज्जाः श्रुतेर्मधुन उत्स इति प्रतीता- माङ्गल्यरङ्गनिलयस्य परस्य धाम्नः ॥ २॥ श्रीमत्पराङ्कुशमुनीन्द्रमनोनिवासा- त्तज्जानुरागरसमज्जनमञ्जसाऽऽप्य । अद्याप्यनारततदुत्थितरागयोगं श्रीरङ्गराजचरणाम्बुजमुन्नयामः ॥ ३॥ वज्रध्वजाङ्कुशसुधाकलशातपत्र- पङ्केरुहाङ्कपरिकर्मपरीतमन्तः । आपादपङ्कजविश‍ृङ्खलदीप्रमौले- श्श्रीरङ्गिणश्चरणयोर्युगमाश्रयामः ॥ ४॥ श्रीरङ्गराजचरणौ प्रणुमो ययोः ख- ल्वेकस्त्रिविक्रमविधौ वसुधामशेषाम् । व्यक्रंस्त साचलकुलामपि विप्रकीर्ण- स्थूलावलग्नसिकतामिव निर्णतोच्चम् ॥ ५॥ ज्ञानं बलं विपुलमीशनवीर्यशक्ति- तेजांसि च त्रियुगभूयमुपागतानि । पूर्णानि षट् च परिगृह्य भवंश्चतुर्धा भक्तं जनं त्वमनुजग्रहिथानुरागात् ॥ ६॥ एकान्तमङ्गलगुणास्पदमस्तहेयं नित्यं पदं तव यतस्तत एव देव! । आम्नायते तदिह विश्वविरूपरूपं तेनैव नन्विदमशब्दमरूपमाहुः ॥ ७॥ शब्दादिहेय इह गोचर इन्द्रियाणां तत्प्रत्यनीकविभवस्त्वमतीन्द्रियोऽसि । तेनैव ते न बत दर्शनमस्ति किञ्चि- द्वाचो धियश्च तत एव न गोचरोऽसि ॥ ८॥ एवं स्थिते त्वदुपसंश्रयणाभ्युपायो मानेन केनचिदलप्स्यत नोपलब्धुम् । नो चेदमर्त्यमनुजादिषु योनिषु त्व- मिच्छाविहारविधिना समवातरिष्यः ॥ ९॥ शीलः क एष तव हन्त दयैकसिन्धो! क्षुद्रे पृथग्जनपदे जगदण्डमध्ये । क्षोदीयसोऽपि हि जनस्य कृते कृती त्व- मत्रावतीर्य ननु लोचनगोचरोऽभूः ॥ १०॥ यं पातकात्सुमहतोऽप्युदधारयस्त्वं त्वत्पादवारिपरिपूतशिराश्च योऽभूत् । तं वन्दसे किल ततश्च वरं वृणीषे क्रीडाविधिर्बत! विलक्षणलक्षणस्ते ॥ ११॥ क्रीडाविधेः परिकरस्तव या तु माया सा मोहनी न कतमस्य तु हन्त! जन्तोः । है मर्त्यसिंहवपुषस्तव तेजसोंऽशे शम्भुर्भवन् हि शरभश्शलभो बभूव ॥ १२॥ यस्यात्मतां त्रिपुरभङ्गविधावधास्त्वं त्वच्छक्तितेजितशरो विजयी च योऽभूत् । दक्षक्रतौ तु किल तेन विनिर्जितस्त्वं युक्तो विधेयविषयेषु हि कामचारः ॥ १३॥ मुग्धश्शिशुर्वटदले शयितोऽतितन्वा तन्वा जगन्ति बिभृषे सविकासमेव । ऐशीमिमां तु तव शक्तिमतर्कितव्या- मव्याजतः प्रथयसे किमिहावतीर्णः ॥ १४॥ ब्रह्मेशमध्यगणना गणनाऽर्कपङ्क्तौ इन्द्रानुजत्वमदितेस्तनयत्वयोगात् । इक्ष्वाकुवंशयदुवंशजनिश्च हन्त श्लाघ्यान्यमून्यनुपमस्य परस्य धाम्नः ॥ १५॥ त्वन्निर्मिता जठरगा च तव त्रिलोकी किं भिक्षणादियमृते भवता दुरापा । मध्ये कदा तु न विचक्रमिषे जगच्चेत् त्वद्विक्रमैः कथमिव श्रुतिरञ्चिता स्यात् ॥ १६॥ पृच्छामि किञ्चन यदा किल राघवत्वे मायामृगस्य वशगो मनुजत्वमौग्ध्यात् । सीतावियोगविवशो न च तद्गतिज्ञः प्रादास्तदा परगतिं हि कथं स्वगाय ॥ १७॥ अक्षुण्णयोगपथमग्र्यहतं जटायुं तिर्यञ्चमेव बत! मोक्षपथे नियोक्तुम् । शक्नोषि वेत्सि च यदा स तदा कथं त्वं देवीमवाप्तुमनलं व्यथितो विचिन्वन् ॥ १८॥ सालान् हि सप्त सगिरीन्सरसातलान्या- नेकेषुमन्दजवतो निरपत्रयस्त्वम् । तेष्वेकविव्यथनखिन्नकपिप्रणुन्नं शाखामृगं मृमयसे स्म कथं सहायम् ॥ १९॥ दासस्सखा समभवत्तव यः कपीन्द्र- स्तद्विद्विषं कपिममर्षवशाज्जिघांसुः । त्वत्स्नेहविक्लबधियं तमिमं कपीन्द्रं विस्रम्भयन् सपदि सालगिरीनविध्यः ॥ २०॥ यद्वा मृगं मृगयुवन्मृगयापथेन च्छन्नो जघन्थ न तु शत्रुवधाभिमुख्यात् । तद्युक्तमेव तव राघव वंशजस्य तिर्यक्षु नैव हि विपक्षतयोपचारः ॥ २१॥ मानुष्यकं चरितमाचरितुं प्रवृत्तो देवातिगं चरितमङ्ग! किमङ्ग्यकार्षीः । यत्सागरे बत बबन्धिथ नाथ! सेतुं शैलैःप्लवङ्गमसमिङ्गितसंप्रणुन्नैः ॥ २२॥ यो विक्रमेण मनुजत्वविभूषणेन देवं वरं वरुणराजमज! व्यजेष्ठाः । कृत्वोपदां दशरथं विधिरुद्रमुख्यै- र्देवैस्स्तुतश्च स किलेन्द्रजिता जितोऽसि ॥ २३॥ अब्धिं न तेरिथ न जिग्यिथ राक्षसेन्द्रं नैवास्य जज्ञिथ यदा च बलाबलं त्वम् । निस्संशयस्सपदि तस्य पदेऽभ्यषिञ्च- स्तस्यानुजं कथमिदं हि विभीषणं च ॥ २४॥ त्वं दक्षिणस्य निवसन्नुदधेस्तटेऽपि दूरान्तरोत्तरपयोधिमहान्तरीपे । दैत्यान्निजैकशरपारणयून् किमेतां लङ्कां स्थितोऽत्र कुरुषे किल न स्म भस्म ॥ २५॥ एतत्कथं कथय यन्मथितस्त्वयाऽसौ हित्वा स्वभावनियमं प्रथितं त्रिलोक्याम् । अश्वाप्सरोविषसुधाविधुपारिजात- लक्ष्म्यात्मना परिणतो जलधिर्बभूव ॥ २६॥ यत्तादृशागसमरिं रघुवीर! वीक्ष्य विश्रम्यतामिति मुमोचिथ मुग्धमाजौ । कोऽयं गुणः कतरकोटिगतः कियान्वा कस्य स्तुतेः पदमहो बत! कस्य भूमिः ॥ २७॥ यल्लक्ष्मणस्त्वदनुजो रिपुशक्तिमुग्ध- श्शत्रोर्गुरुर्हनुमतस्तु लघुर्बभूव । एतेन वै सुविदितोऽभवदिन्द्रशत्रो- र्मायास्त्रबन्धननिबन्धनजो विमोहः ॥ २८॥ हा हन्त हन्त ! भवतश्चरणारविन्द- द्वन्द्वं कदा नु भविता विषयो ममाक्ष्णोः । योऽहं निरर्गलविनिर्गलदन्धकारै- र्वृक्षैस्तृणैश्च सुलभं समयं व्यतीतः ॥ २९॥ वंशं रघोरनुजिघृक्षुरिहावतीर्णो दिव्यैर्ववर्षिथ तथाऽत्र भवद्गुणौघैः । त्वत्सन्निधिप्रभवशैत्यजुषो यथा हि वृक्षाश्च तान्तिमलभन्त भवद्वियोगे ॥ ३०॥ ये धर्ममाचरितुमभ्यसितुं च योगं बोद्धुं च किञ्चन न जात्वधिकारभाजः । तेऽपि त्वदाचरितभूतलबन्धगन्धा- द्बन्धातिगाः परगतिं गमितास्तृणाद्याः ॥ ३१॥ तादृग्गुणो ननु बभूविथ राघवत्वे यस्तावकं चरितमन्वहमन्वभुङ्क्तः । सोऽत्रैव हन्त हनुमान् परमां विमुक्तिं बुद्ध्याऽवधूय चरितं तव सेवतेऽसौ ॥ ३२॥ यत्त्वं कृतागसमपि प्रणतिप्रसक्तं तं वायसं परमया दययाऽक्षमिष्ठाः । तेनैव मादृशजनस्य महागसोऽपि युक्तं समाश्वसनमित्युपधारयामि ॥ ३३॥ सा पूतना शकटमर्जुनयोश्च युग्मं बाल्योचिताऽन्यपरचेष्टितविस्फुलिङ्गे । यस्यालभन्त शलभत्वमहो निगूढ- स्स त्वं व्रजे ववृधिषे किल कंसभीत्या ॥ ३४॥ पश्यत्सु सूरिषु सदा परमं पदं ते देव्या श्रिया सह वसन्परया विभूत्या । योगेन योगनिरतैः परिमृग्यमाणः किं त्वं व्रजेषु नवनीतमहो ! व्यमुष्णाः ॥ ३५॥ यं दुर्ग्रहं सुमनसो मनसाऽपि नित्यं बन्धच्छिदं परममीशमुदाहरन्ति । दाम्ना निबद्ध इति शुश्रुम तं भवन्तं नालं बभूविथ बत ! श्लथनाय तस्य ॥ ३६॥ ऐशं हि शैशवमपि व्यतिवेलखेलं यत्पूतना शकटमर्जुनयोश्च युग्मम् । बाल्योचितान्यपरसाचिविचेष्टितेन हन्तालभन्त शलभायितमोजसस्ते ॥ ३७॥ सत्येव गव्यनिवहे निजधाम्नि भूम्ना पर्यन्तसद्मसु किमर्थमचूचुरस्त्वम् । मुष्णंश्च किं व्यजघटो घटशेषमग्रे गोपीजनस्य परिहासपदं किमासीः ? ॥ ३८॥ यन्नाम नाथ नवनीतमचूचुरस्त्वं तच्छादनाय यदि ते मतिराविरासीत् । किं मुग्ध ! दिग्धममुना करपल्लवं ते गात्रे प्रमृज्य निरगाः किल निर्विशङ्कः ॥ ३९॥ त्वामन्यगोपगृहगव्यमुषं यशोदा गुर्वी त्वदीयमवमानममृष्यमाणा । प्रेम्णाऽथ दामपरिणामजुषा बबन्ध तादृङ् न ते चरितमार्यजनास्सहन्ते ॥ ४०॥ मात्रा यदि त्वमसि दामनि सन्निबद्ध- स्तच्छ्राविणामुदितचाक्षुषनिर्झराणाम् । बध्नासि हन्त हृदयं भगवन्कुतस्त- त्सर्वो हि वश्यविषये विवृणोति वीर्यम् ॥ ४१॥ कान्तालकान्तममलं कमलायताक्ष- मुद्भ्रूविलासमुदितस्मितमुन्नसं च । वक्त्रं वहन् परम ! गोपगृहेषु किं त्वं गोपीमनांसि नवनीतमुताभ्यमोषीः ॥ ४२॥ सर्वं गुणाय गुणिनामिति सत्यमेत- द्यत्खल्विहेतरजने मलिनत्वहेतुः । यद्गोपवेषविनिषेवणमुत्तमं ते गोपालनं च गणयन्ति गुणं गुणेषु ॥ ४३॥ गोपालपोतकतया निभृतं धरित्रीं आवस्तुकाम इव सन्नपि बाल्यलौल्यात् । ऐन्द्रं निहन्य मखमद्रिमथो दधानः किं तस्थिषे सुरगणाय सवासवाय ॥ ४४॥ वेणुक्वणप्रणयिनि त्वयि लोकनाथ! वृन्दावनं चरणसञ्चरणैः पुनाने । भावास्तदा वनभुवः किल कीदृशस्ते त्वद्गीतसिक्तसिकतासु वसुन्धरासु ॥ ४५॥ धन्यैश्श्रुतं तदिह तावकरासकाले गीतेन येन् हि शिलास्सलिलाम्बभूवुः । पञ्चापि किञ्च परिवृत्तगुणानि भूता- न्युर्वीकृशानुमरुदम्बरशम्बराणि ॥ ४६॥ तेभ्यः कृती न किल कश्चिदिहास्ति ये वै रासोत्सवोत्सुकधियस्तव काननान्ते । वेणुस्वनस्रुतरसौघपरिप्लुतान्ते स्वे सृक्वणी रसनया लिलिहुर्भुजङ्गाः ॥ ४७॥ अम्भोदनीलमरविन्ददलायताक्षं पिञ्छावतंसमुररीकृतवेणुपाणिम् । त्वां गोपवेषपरिकर्मितकायकान्तिं धन्यास्तदा ददृशुरुन्मथितान्यभावाः ॥ ४८॥ गोवर्धनो गिरिवरो यमुना नदी सा वृन्दावनं च मधुरा च पुरी पुराणी । अद्यापि हन्त सुलभाः कृतिनां जनाना- मेते भवच्चरणचारजुषः प्रदेशाः ॥ ४९॥ वृन्दावने स्थिरचरात्मककीटदूर्वा- पर्यन्तजन्तुनिचये बत ! ये तदानीम् । नैवालभामहि जनिं हतकास्त एते पापाः पदं तव कदा पुनराश्रयामः ॥ ५०॥ हा जन्म तासु सिकतासु मया न लब्धं रासे त्वया विरहिताः किल गोपकन्याः । यास्तावकीनपदपङ्क्तिजुषोऽजुषन्त निक्षिप्य तत्र निजमङ्गमनङ्गतप्तम् ॥ ५१॥ आचिन्वतः कुसुममंङ्घ्रिसरोरुहं ते ये भेजिरे बत ! वनस्पतयो लता वा । अद्यापि तत्कुलभुवः कुलदैवतं मे वृन्दावनं मम धियं च सनाथयन्ति ॥ ५२॥ यत्त्वत्प्रियं तदिह पुण्यमपुण्यमन्य- न्नान्यत्तयोर्भवति लक्षणमत्र जातु । धूर्तायितं तव हि यत्किल रासगोष्ठ्यां तत्कीर्तनं परमपावनमामनन्ति ॥ ५३॥ या कंसमुख्यनृपकीटनिबर्हणोत्था सा निर्जितत्रिजगतस्तव नैव कीर्तिः । गोपालनादि यदिदं भवदीयकर्मे- त्यार्द्रीकरोति विदुषां हृदयं तदेतत् ॥ ५४॥ गोपालवेषपरिकर्म परावरेशं यन्नाम धाम परमं तमसः परस्तात् । तत्पिञ्छलाञ्छनसुदामकृतोपवीतं गोधूलिधूसरितकुन्तलमन्तरास्ताम् ॥ ५५॥ यद्वै जरासुतभयाद्विपलायथास्त्वं तच्चेन्मनुष्यचरितानुविधानजं ते । तर्हि त्रिलोकगुरुमीश्वरमीश्वराणां बाणाहवे किमिति शम्भुमजृम्भयस्त्वम् ॥ ५६॥ जातं कुतस्तदकृतज्ञविचेष्टितं ते पुत्रीयया किल वरं ववृषेवृषाङ्कात् । अक्षेषु सक्तमतिना च निरादरेण वाराणसी हरपुरी भवता विदग्धा ॥ ५७॥ सञ्जीवयन्नपि मृतं सुतमुत्तराया- स्सान्दीपनेश्चिरमृतं सुतमानयंश्च । धाम्नो निजाद्द्विजसुतान्पुनरानयन्वा स्वामेव तां तनुमहो ! कथमानयस्त्वम् ॥ ५८॥ अद्यापि नास्म्युपरतस्त्रिविधापचारा- त्पापः परे निपतितोऽस्मि तमस्यपारे । एतादृशोऽहमगतिर्भवतो दयायाः पात्रं त्वदीयचरणौ शरणं प्रपद्ये ॥ ५९॥ विस्रम्भणं त्वयि न यद्यपि मेऽस्ति नापि श्रद्धा यथोक्तवचनार्थगता तथाऽपि । वाचं त्विमां सकृदथाप्यसकृन्मयोक्तां सत्यां कुरुष्व दययैव दयैकसिन्धो ॥ ६०॥ पापीयसोऽपि शरणागतशब्दभाजो नोपेक्षणं मम तवोचितमीश्वरस्य । त्वज्ज्ञानशक्तिकरुणासु सतीषु नेह पापं पराक्रमितुमर्हति मामकीनम् ॥ ६१॥ इति पञ्चस्तव्यां अतिमानुषस्तवः समाप्तः । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Atimanushastavah
% File name             : atimAnuShastavaH.itx
% itxtitle              : atimAnuShastavaH ( (panchastavyAm 2)
% engtitle              : atimAnuShastavaH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Ramanuja Stotramala
% Indexextra            : (Scan)
% Latest update         : November 23, 2019, July 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org