भगवद्ध्यानसोपानम्
श्रीगणेशाय नमः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ।
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
अन्तर्ज्योतिः किमपि यमिनामञ्जनं योगदृष्टे-
श्चिन्तारत्नं सुलभमिह नः सिद्धिमोक्षानुरूपम् ।
दीनानाथव्यसनशमनं दैवतं दैवतानां
दिव्यं चक्षुः श्रुतिपरिषदां दृश्यते रङ्गमध्ये ॥ १॥
वेदातीतश्रुतिपरिमलं वेधसां मौलिसेव्यं
प्रादुर्भूतं कनकसरितः सैकते हंसजुष्टे ।
लक्ष्मीभूम्योः करसरसिजैलालितं रङ्गभर्तुः
पादाम्भोजं प्रतिफलति मे भावनादीर्घिकायाम् ॥ २॥
चित्राकारां कटकरुचिभिश्चारुवृत्तानुपूर्वां
काले दूत्यद्रुततरगतिं कान्तिलीलाकलाचीम् ।
जानुच्छायाद्विगुणसुभगां रङ्गभर्तुर्मदात्मा
जङ्घां दृष्ट्वा जननपदवीजाङ्घिकत्वं जहाति ॥ ३॥
कामारामस्थिरकदलिकास्तम्भसम्भावनीयं
क्षौमाश्लिष्टं किमपि कमलाभूमिनीलोपधानम् ।
न्यञ्चत्काञ्चीकिरणरुचिरं निर्विशत्यूरुयुग्मं
लावण्यौघद्वयमिव मतिर्मामिका रङ्गयूनः ॥ ४॥
सम्प्रीणाति प्रतिकलमसौ मानसं मे सुजाता
गम्भीरत्वात्क्कचन समये गूढनिक्षिप्तविश्वा ।
नालीकेन स्फुरितरजसा वेधसो निर्मिमाणा
रम्यावर्तद्युतिसहचरी रङ्गनाथस्य नाभिः ॥ ५॥
श्रीवत्सेन प्रथितविभवं श्रीपदन्यासधन्यं
मध्यं बाह्वोर्मणिवररुचा रञ्जितं रङ्गधाम्नः ।
सान्द्रच्छायं तरुणतुलसीचित्रया वैजयन्त्या
सन्तापं मे शमयति धियश्चद्रिकोदारहारम् ॥ ६॥
एकं लीलोपहितमितरं बाहुमाजानुलम्बं प्राप्ता
रङ्गे शयितुरखिलप्रार्थनापारिजातम् ।
दृप्ता सेयं दृढनियमिता रश्मिभिर्भूषणानां
चिन्ताहस्तिन्यनुभवति मे चित्रमालानयन्त्रम् ॥ ७॥
साभिप्रायस्मितविकसितं चारुबिम्बाधरोष्ठं
दुःखापायप्रणयिनि जने दूरदत्ताभिमुख्यम् ।
कान्तं वक्रं कनकतिलकालङ्कृतं रङ्गभर्तुः
स्वान्ते गाढं विलगति मम स्वागतोदारनेत्रम् ॥ ८॥
माल्यैरन्तःस्थिरपरिमलैर्वल्लभास्पर्शमान्यैः
कुप्यच्चोलीवचनकुटिलै कुन्तलैः श्लिष्टमूले ।
रत्नापीडद्युतिशबलिते रङ्गभर्तुः किरीटे
राजन्वत्यः स्थितिमधिगता वृत्तयश्चेतसो मे ॥ ९॥
पादाम्भोजं स्पृशति भजते रङ्गनाथस्य जङ्घा-
मूरुद्वन्द्वे विलगति शनैरूर्ध्वमभ्येति नाभिम् ।
वक्षस्यास्ते वलति भुजयोर्मामिकेयं मनीषा
वक्त्राभिख्यां पिबति वहते वासनां मौलिबन्धे ॥ १०॥
कान्तोदाररयैरिह भुजैः कङ्कणज्याकिणाङ्कै-
र्लक्ष्मीधाम्नः पृथुलपरिघैर्लक्षिता भीतिहेतिः ।
अग्रे किञ्चिद्भुजगशयनः स्वात्मनैवात्मनः सन्
मध्येरङ्गं मम च हृदये वर्तते सावरोधः ॥ ११॥
रङ्गास्थाने रसिकमहिते रञ्जिताशेषचित्ते
विद्वत्सेवाविमलमनसा बेङ्कटेशेन कॢप्तम् ।
अक्लेशेन प्रणिहितधियामारुरुक्षोरवस्थां
भक्तिं गाढां दिशतु भगवद्ध्यानसोपानमेतत् ॥ १२॥
इति श्रीमद्वेङ्कटेशार्यप्रणीतं भगवद्ध्यानसोपानं सम्पूर्णम् ॥
bhagavad dhyAna sopAnam. (678 to 689)
This is a stotra patterned upon a prabandham (Alwar’s work in Tamil). It is in praise of Lord ra~NganAtha of shrIra~Ngam.
Tiruppaanalwar was vouchsafed a vision of that great God, and he has sung about what he then saw, in ten verses. vedAnta deshika enjoys the same Tirumeni (Sacred Body) of the same Sleeping Beauty in the same manner, i. e., from the Feet to the Head; but the enjoyment here is mental dhyAnam or contemplation. sopAnam means steps--the several stages from the Feet to the Head--shlokas 679 to 686. shloka 687 recapitulates those eight a~Ngas (parts of the body) and incidentally gives a new meaning to aShTAngayogam. shloka 688 refers to the utsava mUrti--the Smiling Beauty standing in front of the mUla-virAt reclining on the AdisheSha (Serpent Couch). The last one of course is the phala-shR^iti.
In all the twelve shlokas of the stotra, there is reference to the mind, chinta, manIShA and so on. Is not dhyAnam a mental process? That the dhyAnam (contemplation) has been fruitful is indicated by shlokas 678 and 688. What was seen in Rangam in shloka (678) is said to reside in deshika’s heart (688).
Proofread by PSA Easwaran