धन्वन्तरिमन्त्रः
अथ श्रीधन्वन्तरिमन्त्रस्य अपान्तरतभा ऋषिः ।
त्रिष्टुप्छन्दः । धन्वन्तरिर्देवता । ॐ बीजम् ।
स्वाहा शक्तिः । सर्वरोगविनाशनार्थे विनियोगः ।
मन्त्रन्यासः -
ॐ नमो भगवते हृत् । धन्वन्तरये शिरः ।
अमृतकलशहस्ताय शिखा । सर्वामयविनाशनाय कवचम् ।
त्रिलोकनाथाय नेत्रम् । विष्णवे स्वाहा अस्त्रम् ॥
ध्यानम् -
शङ्खं चक्रं जलू(लौ)कां दधदमृतघटं चापि (चारु)दोर्भिश्चतुर्भिः
सूक्ष्मस्वच्छातिहृद्यां शुकपरिविलसन्मौलिमम्भोजनेत्रम् ।
(सूक्ष्मं स्वच्छन्दहृद्यं कुशपरिविलसन्मौलिमम्भोजनेत्रम् ।)
कालाम्भोदोज्ज्वलाङ्गं कटितटविलसच्चारूपीताम्बराढ्यम्
वन्दे धन्वन्तरिं तं निखिलगदवनप्रौढ(वात)दावाग्निलीलम् ॥ १॥
मन्त्रः -
ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय सर्वामयविनाशनाय त्रिलोकनाथाय विष्णवे स्वाहा ।
इत्येकचत्वारिंशदक्षरो मन्त्रः ॥
Notes:
The Dhyānam ध्यानम् has been found to have variations (given in parenthesis) amongst the referenced source texts and has also been found to vary with respect to versions available in popular usage.
In the available publications, the word Jalūkām जलूकां has been used, while in popular usage, the word Jalaukam जलौकां is found. Both words are synonymous in application.
The Mantra मन्त्र found in referenced publications has been specified as having 41 syllables. It is shorter than the prevalent variations found in popular usage.
Encoded and proofread by Ruma Dewan