हयग्रीवध्यानप्रकरणम्

हयग्रीवध्यानप्रकरणम्

सदा तव ध्येयतया हृदब्जे स्थितमच्युतम् । चिद्रूपभद्रावयवं चित्रभूषणभूषितम् ॥ १॥ सश्रीकं सपरीवारं सर्वज्ञं सर्वसाक्षिणम् । आवाह्य प्रतिमामध्ये ध्यायस्व नृतुरङ्गमम् ॥ २॥ करस्थमुद्राशङ्खाक्षपुस्तकं रम्यहस्तकम् । चन्द्राभं चन्द्रबिम्बस्थं चन्दनोक्षितवक्षसम् ॥ ३॥ चारुप्रसन्नवदनं चलत्कुन्तलसन्ततिम् । सुकर्णगण्डभ्रूयुग्मं सुनासोष्ठं शुचिस्मितम् ॥ ४॥ सुधारसार्द्रसर्वाङ्गं शोकमोचनलोचनम् । श्रीवत्सकौस्तुभधरं श्रितभक्तधुरन्धरम् ॥ ५॥ वनमालावैजयन्तीकन्धरं लोकसुन्दरम् । कृशमध्यं विशालोरःस्थलं पीनचतुर्भुजम् ॥ ६॥ दुष्टानिष्टदशिष्टेष्टपुष्टबाहुचतुष्टयम् । वृत्तदीर्घचतुर्हस्तैः श्रुत्यर्थचतुरर्थदम् ॥ ७॥ कराख्याम्भोजसम्भूतदलोपमशुभाङ्गुलम् । अश्वग्रीवं दृष्यपार्श्वं लक्ष्यकक्ष्यस्तनद्वयम् ॥ ८॥ मनोज्ञपृष्ठप्रभया तृणीकृतशशिद्युतिम् । तनूदरं निम्ननाभिं मनोहरवलित्रयम् ॥ ९॥ लसद्रोमलताभासा वशीकृतरमादृशम् । बृहत्कटितटद्वन्द्वमप्रतिद्वन्द्वमव्ययम् ॥ १०॥ वर्तुलोरुं वृत्तजानुजङ्घाङ्गुलिनखावलिम् । अतिरक्ताङ्घ्रियुगलतनुकोमलपल्लवम् ॥ ११॥ ध्वजवज्रपताकाब्जाङ्कुशरेखाभिरञ्जितम् । रक्तास्याब्जं रक्तपद्मसमश्रीमत्पदद्वयम् ॥ १२॥ चतुर्हस्तारुणतलं चतुर्वेदप्रवर्तकम् । चतूरूपश्रिया जुष्टं चतुर्वर्णाश्रमप्रियम् ॥ १३॥ चतुर्मूर्तिधरं चित्रं चतुर्युगनियामकम् । चतुर्विधानां मुक्तानां चतुर्विधसुखप्रदम् ॥ १४॥ चतुरास्यगुरुं धीरं चतुरं श्रीहयाननम् । करुणार्द्रकटाक्षाभ्यां कलिकल्मषखण्डनम् ॥ १५॥ खलौघदण्डनं शान्तं कमनीयतमं स्मर । चित्ररत्नोच्चमकुटं रत्नग्रैवेयरञ्जितम् ॥ १६॥ रत्नोद्यत्तिलकं रत्नकुण्डलद्वयमण्डितम् । सद्रत्नभुजकीर्तिभ्यां हृद्यांसद्वयमद्वयम् ॥ १७॥ रत्नहारसरैर्युक्तं रत्नयज्ञोपवीतिनम् । रत्नोज्ज्वलोत्तरीयं च रत्नमध्यविभूषितम् ॥ १८॥ रमणीयं रत्नकाञ्चया रत्नकिङ्किणिराजितम् । रत्नोद्यत्कटिसूत्रेण बद्धविद्युत्प्रभाम्बरम् ॥ १९॥ रत्नाङ्गुलीयकं रत्नकङ्कणाङ्गदभास्वरम् । विचित्ररत्नोल्लसितवीरतोचितभूषणम् ॥ २०॥ नवरत्नमयोत्तुङ्गरणत्कनकनूपुरम् । स्फुरद्रत्नचयोद्भासिक्वणत्पौरुटकिङ्किणिम् ॥ २१॥ रत्नमुद्राङ्गुलीयैश्च दीप्तपादद्वयाङ्गुलिम् । तुलसीकुन्दमन्दारकुसुमैश्च सदाऽर्चितम् ॥ २२॥ रत्नमण्टपमध्यस्थं रत्नपद्मोपरि स्थितम् । रत्नोल्लसत्फणश्रेण्या छत्रायितफणीश्वरम् ॥ २३॥ चित्ररत्नमयच्छत्रचामराद्यैश्च सत्कृतम् । सप्तावरणदेवैश्च सहितं ते हितं स्मर ॥ २४॥ चतुर्दिक्षु चतुर्द्वारगतैश्चण्डजयादिभिः । द्वाःस्थैश्चक्रगदाहस्तैर्जुष्टमिष्टकरं स्मर ॥ २५॥ मध्वहृत्पद्ममध्यस्थं हृद्यदं बुद्धिशुद्धिदम् । सद्यो विजयदं सिद्धसाध्याराध्यपदं स्मर ॥ २६॥ तत्त्वानां मातृकाणां च वर्णानां चैव देवताः । शास्त्रोक्तवर्त्मना विष्णोरङ्गेष्वर्पय सादरम् ॥ २७॥ पञ्चाङ्गं वा षडङ्गं वा न्यासं कृत्वा पुनर्हरेः । संस्मृत्य चरणौ मन्त्राञ्चप प्रणवपूर्वकान् ॥ २८॥ पञ्चामृतैः शुद्धजलैः कलशस्थोदकैरपि । मन्त्रपूतैः स्नापयित्वा सपीठावरणाम्बरम् ॥ २९॥ अर्घ्याद्यैरुपचारैश्च तोषयित्वा जनार्दनम् । तुलसीमञ्जरीभिश्च पुष्पैश्च विविधैरपि ॥ ३०॥ आराध्य धूपदीपौ च दत्वा स्तुत्वा पुनर्हरिम् । सरसैः फलपक्वैश्च भक्ष्यभोज्यरसायनैः ॥ ३१॥ ससितैर्घृतसिक्तैश्च पायसैर्विविधैरपि । दध्योदनेन चित्रान्नैस्तर्पयाऽवरणान्वितम् ॥ ३२॥ दयार्द्रहृदयं भक्तवत्सलं पुरुषोत्तमम् । पुनर्गण्डूषाचमनमुखवस्त्रादिकं दिश ॥ ३३॥ कर्पूरखण्डसहितं ताम्बूलं च निवेदय । पुनर्धूपेन दीपेन चित्रैरारार्तिकैरपि ॥ ३४॥ मन्त्रपुष्पैः स्तवैर्गीतैर्नृत्यवादित्रपूर्वकैः । अर्चयित्वा नमस्कृत्य कुरु चान्ते प्रदक्षिणम् ॥ ३५॥ श्रिया च धरया चैव स्वरूपावरणैरपि । अनन्तब्रह्मवाय्वीशवीशैः शक्रादिकैः सुरैः ॥ ३६॥ कृताञ्जलिपुटैर्नित्यं परिवारतया स्थितैः । पीठदेवैश्च सहितमेवं कालत्रयेऽर्चय ॥ ३७॥ भक्तियुक्तिस्फूर्तिशक्तिकीर्त्यनार्तिधृतिस्मृतीः । विरक्तिभक्तिमुक्तीश्च सुखव्यक्तीश्च याचय ॥ ३८॥ कर्तारं चैव धर्तारं प्रवक्तारं हयाननम् । ध्यातुं गातुं श्रमं जेतुं वादिराजोऽकृत स्तवम् ॥ ३९॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं हयग्रीवध्यानप्रकरणं समाप्तम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Lata Murali
% Text title            : Hayagriva Dhyanaprakaranam
% File name             : hayagrIvadhyAnaprakaraNam.itx
% itxtitle              : hayagrIvadhyAnaprakaraNam (vAdirAjavirachitam)
% engtitle              : hayagrIvadhyAnaprakaraNam
% Category              : vishhnu, vAdirAja, vishnu, dhyAnam
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Lata Murali, Revathy R.
% Indexextra            : (Scan)
% Latest update         : May 24, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org