कृष्णलालनाख्यव्रतनिरूपणम्
अथ कृष्णलालनाख्यं व्रतं वच्मि च ते रमे ।
विभूतयो भवन्त्येव कृष्णलालनसद्व्रतात् ॥ ३९॥
कार्तिके चैत्रके वैशाखके मार्गे च फाल्गुने ।
आषाढे शुक्लके दिनत्रयात्मकं व्रतं त्विदम् ॥ ४०॥
सुलघुभुग्दशम्यां तु रात्रौ शीलव्रती भवेत् ।
कृत्वा सायन्तनीं पूजां गृह्णीयान्नियमं व्रती ॥ ४१॥
एकादश्यां निराहारं करिष्येऽहं व्रतं त्विति ।
नमो नारायणायेति प्रातरुत्थाय चिन्तयेत् ॥ ४२॥
स्नात्वैकादशिकाप्रातर्मण्डपे पूजयेत् प्रभुम् ।
अनादिश्रीकृष्णनारायणं मां पुरुषोत्तमम् ॥ ४३॥
शुक्लपुष्पाक्षतवारिकुङ्कुमचन्दनादिभिः ।
नमो विभूतये पादौ नमोऽशोकाय जानुनी ॥ ४४॥
नमः कृष्णायेत्यूरू च विश्वमूर्ते नमः कटिम् ।
कन्दर्पाय नमो मेढ्रं फलं नारायणाय च ॥ ४५॥
दामोदरायेत्युदरं वासुदेवाय च स्तनौ ।
माधवायेत्युरो विष्णोः कण्ठमुत्कण्ठिने नमः ॥ ४६॥
श्रीधराय मुखं केशान् केशवायेति मस्तकम् ।
पृष्ठं शार्ङ्गधरायेति श्रवणौ श्रुतिवेदिने ॥ ४७॥
हरये शङ्खचक्रासिगदाजलजपाणये ।
शिरः सर्वात्मने तस्मै नम इत्यभिपूजनम् ॥ ४८॥
मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः ।
उदकुम्भे न्यसेत्तच्च दाने प्रपूज्य वै दिशेत् ॥ ४९॥
गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् ।
फलानि विविधान्येव दाने प्रपूज्य चार्पयेत् ॥ ५०॥
आरार्त्रिकं प्रकुर्याच्च विभूतिश्रीश्रीकृष्णयोः ।
नैवेद्यानि विचित्राणि प्रातर्मध्ये निशामुखे ॥ ५१॥
दत्वा प्रस्वापयेच्चापि गीतवादित्रकोत्सवैः ।
जागरणं व्रती कुर्यात् प्रातः स्नात्वा प्रपूज्येत् ॥ ५२॥
द्वादश्यां प्रार्थयेच्चापि पद्मं दद्याद्द्विजाय तु ।
उदकुम्भं सरत्नं च गां दद्याद्गुरवे तथा ॥ ५३॥
यथा न मुच्यसे कृष्ण सदा सर्वविभूतिभिः ।
तथा मामुद्धराशेषदुःखसंसारसागरात् ॥ ५४॥
शय्यां दद्याद्धनं दद्याद्ग्रामं क्षेत्रं गृहादिकम् ।
गुरुं सम्पूज्य विधिवद्भूषावस्त्राणि चार्पयेत् ॥ ५५॥
अधनः पूजयेत्पुष्पैर्भोजनान्नं दिशेद्व्रती ।
अनेन विधिना यस्तु कृष्णलालनसद्व्रतम् ॥ ५६॥
विभूतिसम्प्रदं कुर्यात्तस्यर्द्धयः पदे पदे ।
पापानि तस्य नश्यन्ति पितॄणां तारयेच्छतम् ॥ ५७॥
जन्मनां शतसाहस्रं न शोकफलभाग्भवेत् ।
न तु व्याधिर्भवेत्तस्य न दारिद्र्यं न बन्धनम् ॥ ५८॥
यावद्युगसहस्राणां शतमष्टोत्तरं भवेत् ।
तावत्स्वर्गे वसेच्चापि भूपतिः सः पुनर्भवेत् ॥ ५९॥
व्रतं कृत्वा हरेर्धाम प्रयात्येव न संशयः ।
सर्वान् कामानश्नुते च कृष्णेन हरिणा सह ॥ ६०॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१३९-अध्यायान्तर्गतं कृष्णलालनाख्यव्रतनिरूपणं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १३९/३९-६०॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 139/39-60..
Proofread by PSA Easwaran