अष्टोत्तरशतश्लोकात्मकं मुरलीधरस्तोत्रम्

अष्टोत्तरशतश्लोकात्मकं मुरलीधरस्तोत्रम्

श्रीगणेशाय नमः । अथ ध्यानम्- हृदयसुखदमेकं नित्यमानन्दकन्दं परमपदमनन्तं पूर्णबोधात्मरूपम् । अगुणसगुणमेवं श्यामलं दिव्यमूर्तिं कमलनयनकृष्णं ब्रह्मरूपं नमामि ॥ अथ स्तोत्रम्- जगद्वन्द्यं जगद्पूज्यं जगत्कारणकारणम् । जगदाधार श्रीकृष्णं तं वन्दे मुरलीधरम् ॥ १॥ सगुणं सुन्दरं श्यामं दर्शनीयं मनोहरम् । हृत्पद्माष्टदलावासं तं वन्दे मुरलीधरम् ॥ २॥ मुखं चन्द्रसमं यस्य ज्योतिःसूर्यसमं परम् । साक्षात् नारायणं कृष्णं तं वन्दे मुरलीघरम् ॥ ३॥ रक्तपद्मसमं नेत्रं रक्तपद्मसमं पदम् । नीलाम्बुजश्यामलाङ्गं तं वन्दे मुरलीधरम् ॥ ४॥ पद्मस्य मालया चैव शोभितं वनमालया । तुलसीमालयायुक्तं तं वन्दे मुरलीधरम् ॥ ५॥ मुद्रिकाकङ्कणं रम्यं रत्नैर्जटितकुण्डलम् । सुवर्णपादुका यस्य तं वन्दे मुरलीधरम् ॥ ६॥ मयूरपुङ्खसंयुक्तं नानारत्नैश्व निर्मितम् । मुकुटं कान्तिदं यस्य तं वन्दे मुरलीधरम् ॥ ७॥ करयोः कङ्कणं वेणुः शिवात्प्राप्तं सुदर्शनम् । कौस्तुभं हृदये यस्य तं वन्दे मुरलीधरम् ॥ ८॥ सुगन्धिद्रव्यसंयुक्तं श्रीखण्डाख्यं पवित्रकम् । ललाटे शोभितं यस्य तं वन्दे मुरलीधरम् ॥ ९॥ कस्तूरीतिलकं दिव्यं पीताम्बरधरं प्रभुम् । कृष्णं च परमानन्दं तं वन्दे मरलीघरम् ॥ १०॥ श्यामं नटवरं कृष्णं बाललीलाकरं प्रभुम् । पित्रोश्च सुखदं नित्यं तं वन्दे मुरलीघरम् ॥ ११॥ कदाचित् शकटस्याऽपि पादाभ्यां ताडनात्परम् । पातनं वितितं येन तं वन्दे मुरलीधरम् ॥ १२॥ पूतनायाः पयः पीत्वा प्राणं संशोष्य तत्क्षणात् । शान्तिर्वितरिता येन तं वन्दे मुरलीधरम् ॥ १३॥ कदाचित् मृत्तिकां भुक्त्वा नैव भुक्तं मयेति वै मातरं छलकर्तारं तं वन्दे मुरलीधरम् ॥ १४॥ दृश्यतां वदनं मातः कथयित्वैव मातरम् । विश्वस्य दर्शकं देवं तं वन्दे मुरलीधरम् ॥ १५॥ कदाचिदिति हे मातः! स्वाद्विष्टं दधिदीयताम् । दधियाचनकर्तारं तं वन्दे मरलीधरम् ॥ १६॥ कदाचिज्जातरोषः सन् दधिदुग्धस्य भाजनम् । भित्वा रोदनकर्तारं तं वन्दे मुरलीधरम् ॥ १७॥ कदाचित्घृतचौर्याथं गोपीगेहमुपागतम् । घृतदध्यादि भोक्तारं तं वन्दे मुरलीधरम् ॥ १८॥ मातुः परिश्रमं ज्ञात्वा स्वयं दाम्नैवबन्धनात् । दामोदर इति ख्यातं तं वन्दे मुरलीधरम् ॥ १९॥ यशोदा प्राङ्गणे नित्यं वंशीवादनपूर्वकम् । नर्तनं कृतवन्तं च तं वन्दे मुरलीधरम् ॥ २०॥ कदाचित् -नर्तनान्ते तु धूलिधूसरविग्रहम् । देवक्याः प्राङ्गणेऽटन्तं तं वन्दे मुरलीधरम् ॥ २१॥ गोपीनां बालकान् सर्वानाहूय नर्तनाय वै । दिव्यनर्तनकर्तारं तं वन्दे मुरलीधरम् ॥ २२॥ सवेणुं नर्तनं कृत्वा गोपीमानसमोहनम् । स्वयं मोहनरूपं च तं वन्दे मुरलीधरम् ॥ २३॥ मथुरायामभूद्जन्म लीला यस्य च गोकुले । वृन्दावनकिशोरञ्च तं वन्दे मुरलीधरम् ॥ २४॥ वृन्दावनविहाराय वृन्दावननिवासिनम् । वृन्दावनात्मरूपं च तं वन्दे मुरलीधरम् ॥ २५॥ सुरम्यं मधुरं स्वच्छं वंशीवादनपूर्वकम् । गोपीनां चित्तहर्तारं तं वन्दे मुरलीधरम् ॥ २६॥ राधया लालितं यस्य चरणाम्बुजमक्षयम् । गोपीभिर्वेष्टितं कृष्णं तं वन्दे मुरलीधरम् ॥ २७॥ गोपीमध्ये स्वयं कृष्णो गोपीकृष्णस्य चान्तरे । रासलीलाकरं कृष्णं तं वन्दे मुरलीधरम् ॥ २८॥ सर्वसौन्दर्यसम्पन्नं माधुर्याचित्तहारकम् । सर्वैश्वर्यसुसम्पन्नं तं वन्दे मुरलीधरम् ॥ २९॥ वसुदेवसुपुत्रं च लोकवन्द्यं जगत्प्रियम् । श्रीनाथं द्वारिकानाथं तं वन्दे मुरलीधरम् ॥ ३०॥ बलरामानुजं वन्द्यं पूजनीयं मनोहरम् । राधिकाऽऽराधितं कृष्णं तं वन्दे मुरलीधरम् ॥ ३१॥ जाम्बवत्याःपतिं कान्तं दिव्यं श्यामलकोमलम् । देवकीतनयं कृष्णं तं वन्दे मुरलीधरम् ॥ ३२॥ द्विभुजं रुक्मिणीनाथं प्रद्युम्नजनकं हरिम् । आधारं जगतामेकं तं वन्दे मुरलीधरम् ॥ ३३॥ मायामोहिनीरूपेण मोहनार्थाय शङ्करम् । प्रसिद्धमोहिनीरूपं तं वन्दे मुरलीधरम् ॥ ३४॥ मार्कण्डेयमुनिं मायादर्शनार्थं सुबालकम् । शयानं वटपत्रे च तं वन्दे मुरलीधरम् ॥ ३५॥ गोविन्दं गोपिकानाथं गोपालं गोसुरक्षकम् । गोवर्धनधरं देवं तं वन्दे मुरलीधरम् ॥ ३६॥ केशवं माधवाख्यातं रामनारायणात्मकम् । व्यापकं विष्णुरूपं च तं वदै मुरलीधरम् ॥ ३७॥ सर्वेन्द्रियाणां द्रष्टारं सर्वेशं गरुडध्वजम् । सर्वस्यात्मस्वरूपं च तं वन्दे मुरलीधरम् ॥ ३८॥ गुरुं सर्वत्र सर्वेषां प्राणिनां स्वामिनं तथा । पूज्यपादस्वरूपं च तं वन्दे मुरलीधरम् ॥ ३९॥ सुमङ्गलं पदं यस्य साधवश्चाधिकारिणः । पश्यन्ति भगवद्भक्ताः तं वन्दे मुरलीधरम् ॥ ४०॥ सुकोमलस्वरूपं यं ध्यायन्ति योगिनः सदा । गायन्ति सस्वरा वेदास्तं वन्दे मुरलीधरम् ॥ ४१॥ ब्रह्मा तथैव रुद्रश्व इन्द्राग्निवरुणाहियम् । जानन्ति द्वादशादित्यास्तं वन्दे मुरलीधरम् ॥ ४२॥ नारदात्रिभृगुब्रह्मवसिष्ठसनकादयः ध्यायन्ति यत्पदं नित्यं तं वन्दे मुरलीधरम् ॥ ४३॥ मार्कण्डेयस्तथागार्ग्यो वाल्मीकिः कपिलोमुनिः । स्मरन्ति यत्पदं नित्यं तं वन्दे मुरलीधरम् ॥ ४४॥ ऋषयो मनसाध्यात्वा पश्यन्ति चरणाम्बुजम् । यस्यार्चयन्ति वै देवास्तं वन्दे मुरलीधरम् ॥ ४५॥ व्यासश्च शुकदेवश्च ध्रुवः प्रह्लादः एव च । नमन्ति यत्पदं नित्यं तं वन्दे मुरलीधरम् ॥ ४६॥ षडैश्वर्य सुसम्पन्नं ज्ञानवैराग्यदं शिवम् । उत्तमं भक्तियुक्तं च तं वन्दे मुरलीधरम् ॥ ४७॥ परम्ब्रह्म स्वयं कृष्णं धर्मस्थापनकारणम् । नाना रूपधरं दिव्यं तं वन्दे मुरलीधरम् ॥ ४८॥ प्रलयाब्धिजलाद्वेदमुत्थाप्य स्थापनं कृतं मीनरूपधृतं येन तं वन्दे मुरलीधरम् ॥ ४२॥ देवकार्यस्य सिध्यर्थं मलयाचल धारकम् । कूर्मरूपधरं कृष्णं तं वन्दे मुरलीघरम् ॥ ५०॥ पातालात्पृथिवीं धृत्वा दंष्ट्राभ्यां स्थापनं कृतम् । येन वाराहरूपेण तं वन्दे मरलीघरम् ॥ ५१॥ न मानुषं न सिंहं च नृसिंहरूपधारकम् । प्रह्लादरक्षकं देवं तं वन्दे मुरलीधरम् ॥ ५२॥ त्रिलोकं व्याप्य पद्भ्यां वै बलिमानविमर्दनम् । वटुं वामनरूपं च तं वन्दे मुरलीधरम् ॥ ५३॥ जमदग्निसुपुत्रं च परशुरामनामकम् । तपस्विनं ज्ञानवन्तं तं वन्दे मुरलीधरम् ॥ ५४॥ राक्षसं रावणं हन्तुं रक्षितुं जानकीमपि । रामरूपधरं देवं तं वन्दे मुरलीघरम् ॥ ५५॥ रमन्ते योगिनो यस्मिन् रामाख्यं परमं प्रभुम् । मर्यादापुरूषं देवं तं वन्दे मुरलीधरम् ॥ ५६॥ संसारसाररूपं च सर्वेषां प्राणिनां प्रियम् । तारकं रामनाम्नैव तं वन्दे मुरलीधम् ॥ ५७॥ कंसं हन्तुं जगत्सर्वं रक्षणार्थं सनातनम् । स्वयं श्रीकृष्णरूपं च तं वन्दे मुरलीधरम् ॥ ५८॥ नास्तिकानां मतं हन्तुं कर्तुं धर्मस्यपालनम् । धृतबुद्धावतारं च तं वन्दे मुरलीधरम् ॥ ५९॥ म्लेच्छान् विनाश्य सत्यस्य स्थापनाय नृविग्रहम् । धृतकल्क्यवतारश्च तं वन्दे मुरलीधरम् ॥ ६०॥ ज्ञानिनामग्रगण्यं च त्रिमूर्तिरूपधारकम् । दत्तात्रेयस्वरूपं च तं वन्दे मुरलीधरम् ॥ ६१॥ ऋषभश्चैव हंसश्च शुकश्च कपिलादयः । यस्यावतारभूताव तं वन्दे मुरलीधरम् ॥ ६२॥ अष्टादशपुराणानि येन संरचितानि च । प्रसिद्धं व्यासनामानं तं वन्दे मुरलीधरम् ॥ ६३॥ यान्यन्यान्य च रूपाणि ख्यातानि जगतीतले । तानि यस्यैव सर्वाणि तं वन्दे मुरलीधरम् ॥ ६४॥ तेषां मध्येऽवताराणां साक्षात् विष्णोः स्वरूपकम् । कृष्णनाम्ना समाख्यातं तं वन्दे मुरलीधरम् ॥ ६५॥ अलौकिकमिदं रूपं कृष्णनाम्ना समीरितम् । कलाषोडशसम्पन्नं तं वन्दे मुरलीधरम् ॥ ६६॥ चिन्मात्रमेकं सृष्टयादौ परब्रह्म द्वितीयकम् । स्वेच्छयात्त त्रिरूपं वै तं वन्दे मुरलीधरम् ॥ ६७॥ महेशश्च हरिर्ब्रह्मा त्रयमेकात्मकेवलम् । सृष्टयर्थ त्रिगुणात्मानं तं वन्दे मुरलीधरम् ॥ ६८॥ उत्पत्तौ ब्रह्मरूपं च हरिरूपञ्च पालने । प्रलये शिवरूपं च तं वन्दे मुरलीधरम् ॥ ६९॥ सर्वेषां प्राणिनां प्राणमाधारं चैव केवलम् । जगतामात्मरूपं च तं वन्दे मुरलीधरम् ॥ ७०॥ अज्ञानां मानवदृशां दूरमप्राप्तिकारणम् । ज्ञानिनां हृदि संविष्टं तं वन्दे मुरलीधरम् ॥ ७१॥ अन्तर्वहिश्च सर्वत्राधश्चोर्ध्वञ्चैव सर्वतः । व्यापकं ह्यात्मरूपेण तं वन्दे मुरलीधरम् ॥ ७२॥ यस्मादाकाशवायूश्च अनलश्च जलं तथा । जायन्ते पृथिवी कृष्णात् तं वन्दे मुरलीधरम् ॥ ७३॥ चित्तञ्चाहङ्कृतिबुद्धिश्चेन्द्रियाणि मनस्तथा । यस्मात् कृष्णात् प्रजायन्ते तं वन्दे मुरलीधरम् ॥ ७४॥ सर्वे देवाश्च वेदाश्च शास्त्राणि विविधानि च । यस्मात्कृष्णात् प्रजायन्ते तं वन्दे मुरलीधरम् ॥ ७५॥ भुवनानि च सर्वाणि सप्तलोकाश्च सागराः । यस्याद्देवात् प्रजायन्ते तं वन्दे मुरलीधरम् ॥ ७६॥ स्थावरा जङ्गमाः सर्वे प्राणिनो भोगकारिणः । यस्माद्देवात् प्रजायन्ते तं वन्दे मुरलीधरम् ॥ ७७॥ एते सर्वे विलीयन्ते यस्मिन् त्रैकोक्यकारणे । सर्वेषामात्मनि कृष्णे तं वन्दे मुरलीधरम् ॥ ७८॥ अरूपं च स्वरूपं च नानारूपं च केवलम् । अशक्यं कथितुं देवं तं वन्दे मुरलीधरम् ॥ ७९॥ वेदान्तवेद्यं चिन्तमात्रं ब्रह्माख्यं परमम्पदम् । अद्वितीयस्वरूपं च तं वन्दे मुरलीधरम् ॥ ८०॥ श्रेष्ठाः ब्रह्मविदश्चैव ब्रह्मजानन्ति यत्पदम् । साक्षात्सर्वात्मरूपं च तं वन्दे मुरलीधरम् ॥ ८१॥ सर्वदास्मृतिवाक्यैश्च कथ्यते यत्परात्परम् । केवलं ब्रह्मचिद्रूपं तं वन्दे मुरलीधरम् ॥ ८२॥ आत्मप्रदीपरूपं च साक्षिरूपं सनातनम् । अनन्तशक्तिरूपं च तं वन्दे मुरलीधरम् ॥ ८३॥ मूलप्रकृतिरूपं च तथैव प्रकृतेः परम् । परब्रह्मस्वरूपञ्च तं वन्दे मुरलीधरम् ॥ ८४॥ कैवल्यनाथमव्यक्तमजं कुटस्थमव्ययम् । निर्वाणे परमानन्दं तं वन्दे मुरलीधरम् ॥ ८५॥ परात्परं परोक्षञ्च साक्षाद्ब्रह्म परं पदम् । चिन्मात्रं केवलानन्दं तं वन्दे मुरलीधरम् ॥ ८६॥ स्वयमानन्दरूपं च ज्योतिरूपं सनातनम् । निजमेकाक्षरं ब्रह्म तं वन्दे मुरलीधरम् ॥ ८७॥ आद्यन्तरहितं पूर्णं केवलं परमं पदम् । परानन्दं परकाष्ठं तं वन्दे मुरलीधरम् ॥ ८८॥ त्रिकालावाध्य सद्रूपं चिद्रूपं ज्ञान निर्मलम् । आनन्दं सुखरूपं च तं वन्दे मुरलीधरम् ॥ ८९॥ चिद्रूपं सुखमानन्दं सच्चिदानन्दलक्षणम् । एवं लक्षणसम्पन्नं तं वन्दे मुरलीधरम् ॥ ९०॥ अकारं विश्वरूपञ्च ह्युकारं तैजसात्मकम् । प्राज्ञं मकाररूपञ्च तं वन्दे मुरलीधरम् ॥ ९१॥ ओमित्यक्षरमानन्दमेकं चैवाद्वितीयकम् । सर्वेषां बीजरूपं वै तं वन्दे मुरलीधरम् ॥ ९२॥ सर्वात्मरूपमेकं च निजात्मानन्दमव्ययम् । हृद्याकाशस्थितं नित्यं तं वन्दे मुरलीधरम् ॥ ९३॥ जाग्रदादित्रयावस्थाव्यापकं भिन्नमेव च । केवलं साक्षिमात्रं च तं वन्दे मुरलीधरम् ॥ ९४॥ शब्दादिविषयाद्भिन्नमिन्द्रियातीतमद्वयम् । साक्षिरूपञ्चसर्वेषां तं वन्दे मुरलीधरम् ॥ ९५॥ भविष्याद्वर्तमानाच्च भूतकालाच्च यत् परम् । ताटस्थ्येन विद्यमानं तं वन्दे मुरलीधरम् ॥ ९६॥ सूक्ष्मादत्यन्तसूक्ष्मं च चिन्मयं मानसात्परम् । स्थूले महाविराटं च तं वन्दे मुरलीधरम् ॥ ९७॥ अजरामरमेकं च निष्क्रियं निर्गुणं तथा । निजबोधस्वरूपं च तं वन्दे मुरलीधरम् ॥ ९८॥ एक नित्यं च पूर्ण च ब्रह्मचिन्मात्रकेवलम् । सदाऽऽनन्दस्वरूपं च तं वन्दे मुरलीधरम् ॥ ९९॥ निष्कलङ्क निराख्यातं निर्मलं च निरञ्जनम् । निर्विकल्पस्वरूपं च तं वन्दे मुरलीधरम् ॥ १००॥ ऊर्ध्वं ह्यधोवहिश्चान्तरनन्तं चैव केवलम् । दूरान्तिकं च सर्वत्र तं वन्दे मुरलीधरम् ॥ १०१॥ सर्वदा निर्गुणं नित्यं सगुणं चापि कर्हिचित् । द्विभुजं सुन्दरं कृष्णं तं पन्दे मुरलीधरम् ॥ १०२॥ बुद्धेरन्तर्गुहामध्ये कमलेऽष्टदलात्मके । कोटिसूर्यसमाभासं तं वन्दे मुरलीधरम् ॥ १०३॥ भक्तानां निर्मले चित्ते वसन्तं ज्ञानदं शुभम् । मोक्षदं कृष्णनामानं तं वन्दे मुरलीधरम् ॥ १०४॥ यत्र गत्वापुनर्जन्म नैव प्राप्नोति मानवः । कैवल्यमुक्तिधामाख्यं तं वन्दे मुरलीधरम् ॥ १०५॥ निष्कामा भगवद्भक्ता गच्छन्ति ब्रह्मयत्पदम् । तद्पदं ब्रह्मधामाख्यं तं वन्दे मुरलीधरम् ॥ १०६॥ सकलाधारमात्मानं भर्तारं प्राणिनां सदा । गुह्याद्गुह्यतरं कृष्णं तं वन्दे मुरलीधरम् ॥ १०७॥ अत्यन्तानन्दरूपं च शोभनानां च शोभनम् । प्रसन्नवदनं कृष्णं तं वन्दे मुरलीघरम् ॥ १०८॥ अष्टोत्तर श्लोकशतं पवित्रं हरे प्रपन्नः मुरलीधरात्मकम् । बध्वाञ्जलिं कृष्ण परात्पराय सच्चित्स्वरूपाय समर्पयामि ॥ १०९॥ कृष्णस्य दिव्यं मुरलीधराख्य- मष्टोत्तरश्लोकशतात्मकं स्तवम् । पठन्ति बद्धाञ्जलियोजना ये मुकुन्दपादाम्बुजचिन्तने रताः ॥ ११०॥ श‍ृण्वन्ति श्रद्धासहितं दिने दिने गायन्ति वा भक्तजनस्य सन्निधौ । इच्छन्ति यद्यत् फलमाप्य तत्तद् गच्छन्ति वैकुण्ठपदं हरेः प्रियम् ॥ १११॥ अष्टोत्तरशतावृत्तिं पठन्ति विधिपूर्वकम् । ये ते सर्वविधां सिद्धिं प्राप्नुवन्ति न संशयः ॥ ११२॥ जन्माष्टम्यां हरिं नत्वा निराहारव्रती नरः । शतावृतिं पठित्वा च फलमीप्सितमाप्स्यति ॥ ११३॥ निष्कामभावसंयुक्तो पठन् जन्माष्टमी दिने । वैकुण्ठवासमाप्नोति नैवजन्म पुनर्भवेत् ॥ ११४॥ उत्तमे कार्तिके मासे मुरलीधर संज्ञकम् । स्तोत्रं पठन्ति ये तेषां प्रसन्नोभगवान् हरिः ॥ ११५॥ पठन्ति हरिबोधिन्यां शतावृत्तिं तु ये जनाः । इहैश्वर्यसुखं भुक्त्वा यान्त्यन्ते श्रीहरेः पदम् ॥ ११६॥ इति श्रीगायत्रीस्वरूप ब्रह्मचारिणा विरचित- मष्टोत्तरशतश्लोकात्मकं मुरलीधरस्तोत्रं सम्पूर्णम् ॥ Proofread by Vani V
% Text title            : Muralidhara Stotram
% File name             : muralIdharastotram.itx
% itxtitle              : muralIdharastotram (gAyatrIsvarUpa brahmachArIvirachitam)
% engtitle              : muralIdharastotram
% Category              : vishhnu, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : gAyatrisvarUpa brahmachari
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V
% Description/comments  : shrI bhagavat samarchA uttarArdhaH. Author/publisher comment mentions the cost of the book as bhagavadbhakti
% Indexextra            : (Scan)
% Latest update         : March 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org